| |
|

This overlay will guide you through the buttons:

विद्या विनय-हेतुरिन्द्रिय-जयः काम-क्रोध-लोभ-मान-मद-हर्ष-त्यागात्कार्यः ॥ ०१.६.०१ ॥
विद्या विनय-हेतुः इन्द्रिय-जयः काम-क्रोध-लोभ-मान-मद-हर्ष-त्यागात् कार्यः ॥ ०१।६।०१ ॥
vidyā vinaya-hetuḥ indriya-jayaḥ kāma-krodha-lobha-māna-mada-harṣa-tyāgāt kāryaḥ .. 01.6.01 ..
कर्ण-त्वग्-अक्षि-जिह्वा-घ्राण-इन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेष्वविप्रतिपत्तिरिन्द्रिय-जयः। शास्त्र-अनुष्ठानं वा ॥ ०१.६.०२ ॥
कर्ण-त्वच्-अक्षि-जिह्वा-घ्राण-इन्द्रियाणाम् शब्द-स्पर्श-रूप-रस-गन्धेषु अविप्रतिपत्तिः इन्द्रिय-जयः। शास्त्र-अनुष्ठानम् वा ॥ ०१।६।०२ ॥
karṇa-tvac-akṣi-jihvā-ghrāṇa-indriyāṇām śabda-sparśa-rūpa-rasa-gandheṣu avipratipattiḥ indriya-jayaḥ. śāstra-anuṣṭhānam vā .. 01.6.02 ..
कृत्स्नं हि शास्त्रं इदं इन्द्रिय-जयः ॥ ०१.६.०३ ॥
कृत्स्नम् हि शास्त्रम् इदम् इन्द्रिय-जयः ॥ ०१।६।०३ ॥
kṛtsnam hi śāstram idam indriya-jayaḥ .. 01.6.03 ..
तद्विरुद्ध-वृत्तिरवश्य-इन्द्रियश्चातुरन्तो अपि राजा सद्यो विनश्यति ॥ ०१.६.०४ ॥
तद्-विरुद्ध-वृत्तिः अवश्य-इन्द्रियः च आतुर-अन्तः अपि राजा सद्यस् विनश्यति ॥ ०१।६।०४ ॥
tad-viruddha-vṛttiḥ avaśya-indriyaḥ ca ātura-antaḥ api rājā sadyas vinaśyati .. 01.6.04 ..
यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मण-कन्यां अभिमन्यमानः सबन्धु-राष्ट्रो विननाश। करालश्च वैदेहः ॥ ०१.६.०५ ॥
यथा दाण्डक्यः नाम भोजः कामात् ब्राह्मण-कन्याम् अभिमन्यमानः स बन्धु-राष्ट्रः विननाश। करालः च वैदेहः ॥ ०१।६।०५ ॥
yathā dāṇḍakyaḥ nāma bhojaḥ kāmāt brāhmaṇa-kanyām abhimanyamānaḥ sa bandhu-rāṣṭraḥ vinanāśa. karālaḥ ca vaidehaḥ .. 01.6.05 ..
कोपाज्जनमेजयो ब्राह्मणेषु विक्रान्तः। ताल-जङ्घश्च भृगुषु ॥ ०१.६.०६ ॥
कोपात् जनमेजयः ब्राह्मणेषु विक्रान्तः। ताल-जङ्घः च भृगुषु ॥ ०१।६।०६ ॥
kopāt janamejayaḥ brāhmaṇeṣu vikrāntaḥ. tāla-jaṅghaḥ ca bhṛguṣu .. 01.6.06 ..
लोभादैलश्चातुर्वर्ण्यं अत्याहारयमाणः। सौवीरश्चाजबिन्दुः ॥ ०१.६.०७ ॥
लोभात् ऐलः चातुर्वर्ण्यम् अत्याहारयमाणः। सौवीरः च अजबिन्दुः ॥ ०१।६।०७ ॥
lobhāt ailaḥ cāturvarṇyam atyāhārayamāṇaḥ. sauvīraḥ ca ajabinduḥ .. 01.6.07 ..
मानाद्रावणः पर-दारानप्रयच्छन्। दुर्योधनो राज्यादंशं च ॥ ०१.६.०८ ॥
मान-आद्रावणः पर-दारान् अप्रयच्छन्। दुर्योधनः राज्यादंशम् च ॥ ०१।६।०८ ॥
māna-ādrāvaṇaḥ para-dārān aprayacchan. duryodhanaḥ rājyādaṃśam ca .. 01.6.08 ..
मदाद्दम्भोद्भवो भूत-अवमानी। हैहयश्चार्जुनः ॥ ०१.६.०९ ॥
मदात् दम्भ-उद्भवः भूत-अवमानी। हैहयः च अर्जुनः ॥ ०१।६।०९ ॥
madāt dambha-udbhavaḥ bhūta-avamānī. haihayaḥ ca arjunaḥ .. 01.6.09 ..
हर्षाद्वातापिरगस्त्यं अत्यासादयन्। वृष्णि-संघश्च द्वैपायनं इति ॥ ०१.६.१० ॥
हर्षात् वातापिः अगस्त्यम् अत्यासादयन्। वृष्णि-संघः च द्वैपायनम् इति ॥ ०१।६।१० ॥
harṣāt vātāpiḥ agastyam atyāsādayan. vṛṣṇi-saṃghaḥ ca dvaipāyanam iti .. 01.6.10 ..
एते चान्ये च बहवः शत्रु-षड्-वर्गं आश्रिताः ॥ ०१.६.११अ ब ॥
एते च अन्ये च बहवः शत्रु-षष्-वर्गम् आश्रिताः ॥ ०१।६।११अ ब ॥
ete ca anye ca bahavaḥ śatru-ṣaṣ-vargam āśritāḥ .. 01.6.11a ba ..
सबन्धु-राष्ट्रा राजानो विनेशुरजित-इन्द्रियाः ॥ ०१.६.११च्द् ॥
सबन्धु-राष्ट्राः राजानः विनेशुः अजित-इन्द्रियाः ॥ ०१।६।११च् ॥
sabandhu-rāṣṭrāḥ rājānaḥ vineśuḥ ajita-indriyāḥ .. 01.6.11c ..
शत्रु-षड्-वर्गं उत्सृज्य जामदग्न्यो जित-इन्द्रियः ॥ ०१.६.१२अ ब ॥
शत्रु-षष्-वर्गम् उत्सृज्य जामदग्न्यः जित-इन्द्रियः ॥ ०१।६।१२अ ब ॥
śatru-ṣaṣ-vargam utsṛjya jāmadagnyaḥ jita-indriyaḥ .. 01.6.12a ba ..
अम्बरीषश्च नाभागो बुभुजाते चिरं महीं ॥ ०१.६.१२च्द् ॥
अम्बरीषः च नाभागः बुभुजाते चिरम् महीम् ॥ ०१।६।१२च् ॥
ambarīṣaḥ ca nābhāgaḥ bubhujāte ciram mahīm .. 01.6.12c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In