| |
|

This overlay will guide you through the buttons:

ते ह्यस्य विश्वास्या भवन्ति इति ॥ ०१.८.०२ ॥
te hyasya viśvāsyā bhavanti iti .. 01.8.02 ..
नैति विशाल-अक्षः ॥ ०१.८.०३ ॥
naiti viśāla-akṣaḥ .. 01.8.03 ..
सह-क्रीडितत्वात्परिभवन्त्येनं ॥ ०१.८.०४ ॥ ये ह्यस्य गुह्य-सधर्माणस्तानमात्यान्कुर्वीत। समान-शील-व्यसनत्वात् ॥ ०१.८.०५ ॥ ते ह्यस्य मर्मज्ञ-भयान्नापराध्यन्ति इति ॥ ०१.८.०६ ॥
saha-krīḍitatvātparibhavantyenaṃ .. 01.8.04 .. ye hyasya guhya-sadharmāṇastānamātyānkurvīta. samāna-śīla-vyasanatvāt .. 01.8.05 .. te hyasya marmajña-bhayānnāparādhyanti iti .. 01.8.06 ..
साधारणएष दोषः इति पाराशराः ॥ ०१.८.०७ ॥
sādhāraṇaeṣa doṣaḥ iti pārāśarāḥ .. 01.8.07 ..
तेषां अपि मर्मज्ञ-भयात्कृत-अकृतान्यनुवर्तेत ॥ ०१.८.०८ ॥ यावद्भ्यो गुह्यं आचष्टे जनेभ्यः पुरुष-अधिपः ॥ ०१.८.०९अ ब ॥ अवशः कर्मणा तेन वश्यो भवति तावतां ॥ ०१.८.०९च्द् ॥ यएनं आपत्सु प्राण-आबाध-युक्तास्वनुगृह्णीयुस्तानमात्यान्कुर्वीत। दृष्ट-अनुरागत्वात् इति ॥ ०१.८.१० ॥
teṣāṃ api marmajña-bhayātkṛta-akṛtānyanuvarteta .. 01.8.08 .. yāvadbhyo guhyaṃ ācaṣṭe janebhyaḥ puruṣa-adhipaḥ .. 01.8.09a ba .. avaśaḥ karmaṇā tena vaśyo bhavati tāvatāṃ .. 01.8.09cd .. yaenaṃ āpatsu prāṇa-ābādha-yuktāsvanugṛhṇīyustānamātyānkurvīta. dṛṣṭa-anurāgatvāt iti .. 01.8.10 ..
नैति पिशुनः ॥ ०१.८.११ ॥
naiti piśunaḥ .. 01.8.11 ..
भक्तिरेषा न बुद्धि-गुणः ॥ ०१.८.१२ ॥ संख्यात-अर्थेषु कर्मसु नियुक्ता ये यथा-आदिष्टं अर्थं सविशेषं वा कुर्युस्तानमात्यान्कुर्वीत। दृष्ट-गुणत्वात् इति ॥ ०१.८.१३ ॥
bhaktireṣā na buddhi-guṇaḥ .. 01.8.12 .. saṃkhyāta-artheṣu karmasu niyuktā ye yathā-ādiṣṭaṃ arthaṃ saviśeṣaṃ vā kuryustānamātyānkurvīta. dṛṣṭa-guṇatvāt iti .. 01.8.13 ..
नैति कौणपदन्तः ॥ ०१.८.१४ ॥
naiti kauṇapadantaḥ .. 01.8.14 ..
अन्यैरमात्य-गुणैरयुक्ता ह्येते ॥ ०१.८.१५ ॥ पितृ-पैतामहानमात्यान्कुर्वीत। दृष्ट-अवदानत्वात् ॥ ०१.८.१६ ॥ ते ह्येनं अपचरन्तं अपि न त्यजन्ति। सगन्धत्वात् ॥ ०१.८.१७ ॥ अमानुषेष्वपि चएतद्दृश्यते ॥ ०१.८.१८ ॥ गावो ह्यसगन्धं गो-गणं अतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति ॥ ०१.८.१९ ॥
anyairamātya-guṇairayuktā hyete .. 01.8.15 .. pitṛ-paitāmahānamātyānkurvīta. dṛṣṭa-avadānatvāt .. 01.8.16 .. te hyenaṃ apacarantaṃ api na tyajanti. sagandhatvāt .. 01.8.17 .. amānuṣeṣvapi caetaddṛśyate .. 01.8.18 .. gāvo hyasagandhaṃ go-gaṇaṃ atikramya sagandheṣvevāvatiṣṭhante iti .. 01.8.19 ..
नैति वातव्याधिः ॥ ०१.८.२० ॥
naiti vātavyādhiḥ .. 01.8.20 ..
ते ह्यस्य सर्वं अवगृह्य स्वामिवत्प्रचरन्ति ॥ ०१.८.२१ ॥ तस्मान्नीतिविदो नवानमात्यान्कुर्वीत ॥ ०१.८.२२ ॥ नवास्तु यम-स्थाने दण्ड-धरं मन्यमाना नापराध्यन्ति इति ॥ ०१.८.२३ ॥
te hyasya sarvaṃ avagṛhya svāmivatpracaranti .. 01.8.21 .. tasmānnītivido navānamātyānkurvīta .. 01.8.22 .. navāstu yama-sthāne daṇḍa-dharaṃ manyamānā nāparādhyanti iti .. 01.8.23 ..
नैति बाहु-दन्ती पुत्रः ॥ ०१.८.२४ ॥
naiti bāhu-dantī putraḥ .. 01.8.24 ..
शास्त्रविददृष्ट-कर्मा कर्मसु विषादं गच्छेत् ॥ ०१.८.२५ ॥ तस्मादभिजन-प्रज्ञा-शौच-शौर्य-अनुराग-युक्तानमात्यान्कुर्वीत। गुण-प्राधान्यात् इति ॥ ०१.८.२६ ॥
śāstravidadṛṣṭa-karmā karmasu viṣādaṃ gacchet .. 01.8.25 .. tasmādabhijana-prajñā-śauca-śaurya-anurāga-yuktānamātyānkurvīta. guṇa-prādhānyāt iti .. 01.8.26 ..
सर्वं उपपन्नं इति कौटिल्यः ॥ ०१.८.२७ ॥
sarvaṃ upapannaṃ iti kauṭilyaḥ .. 01.8.27 ..
कार्य-सामर्थ्याद्द्हि पुरुष-सामर्थ्यं कल्प्यते ॥ ०१.८.२८ ॥
kārya-sāmarthyādd_hi puruṣa-sāmarthyaṃ kalpyate .. 01.8.28 ..
सामर्थ्यश्च विभज्यामात्य-विभवं देश-कालौ च कर्म च ॥ ०१.८.२९अ ब ॥
sāmarthyaśca vibhajyāmātya-vibhavaṃ deśa-kālau ca karma ca .. 01.8.29a ba ..
अमात्याः सर्व एवएते कार्याः स्युर्न तु मन्त्रिणः ॥ ०१.८.२९च्द् ॥
amātyāḥ sarva evaete kāryāḥ syurna tu mantriṇaḥ .. 01.8.29cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In