यदि वा पश्येत्"सन्धौ स्थितो महा-फलैः स्व-कर्मभिः पर-कर्माण्युपहनिष्यामि । महा-फलानि वा स्व-कर्माण्युपभोक्ष्ये । पर-कर्माणि वा । संधि-विश्वासेन वा योग-उपनिषत्-प्रणिधिभिः पर-कर्माण्युपहनिष्यामि । सुखं वा स-अनुग्रह-परिहार-सौकर्यं फल-लाभ-भूयस्त्वेन स्व-कर्मणां पर-कर्म-योग-आवहं जनं आस्रावयिष्यामि ॥ ०७.१.३२अ ॥
PADACHEDA
यदि वा पश्येत्"सन्धौ स्थितः महा-फलैः स्व-कर्मभिः पर-कर्माणि उपहनिष्यामि । महा-फलानि वा स्व-कर्माणि उपभोक्ष्ये । पर-कर्माणि वा । संधि-विश्वासेन वा योग-उपनिषद्-प्रणिधिभिः पर-कर्माणि उपहनिष्यामि । सुखम् वा स अनुग्रह-परिहार-सौकर्यम् फल-लाभ-भूयस्त्वेन स्व-कर्मणाम् पर-कर्म-योग-आवहम् जनम् आस्रावयिष्यामि ॥ ०७।१।३२अ ॥
यदि वा पश्येत्"आयुधीय-प्रायः श्रेणी-प्रायो वा मे जन-पदः शैल-वन-नदी-दुर्ग-एक-द्वार-आरक्षो वा शक्ष्यति पर-अभियोगं प्रतिहन्तुम् । विषय-अन्ते दुर्गं अविषह्यं अपाश्रितो वा शक्ष्यामि पर-कर्माण्युपहन्तुं ॥ ०७.१.३३अ ॥
PADACHEDA
यदि वा पश्येत्"आयुधीय-प्रायः श्रेणी-प्रायः वा मे जन-पदः शैल-वन-नदी-दुर्ग-एक-द्वार-आरक्षः वा शक्ष्यति पर-अभियोगम् प्रतिहन्तुम् । विषय-अन्ते दुर्गम् अविषह्यम् अपाश्रितः वा शक्ष्यामि पर-कर्माणि उपहन्तुम् ॥ ०७।१।३३अ ॥
यदि वा मन्येत "न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्म-उपघाती वा । व्यसनं अस्य । श्व-वराहयोरिव कलहे वा । स्व-कर्म-अनुष्ठान-परो वा वर्धिष्ये" इत्यासनेन वृद्धिं आतिष्ठेत् ॥ ०७.१.३४ ॥
PADACHEDA
यदि वा मन्येत "न मे शक्तः परः कर्माणि उपहन्तुम् न अहम् तस्य कर्म-उपघाती वा । व्यसनम् अस्य । श्व-वराहयोः इव कलहे वा । स्व-कर्म-अनुष्ठान-परः वा वर्धिष्ये" इति आसनेन वृद्धिम् आतिष्ठेत् ॥ ०७।१।३४ ॥
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.