| |
|

This overlay will guide you through the buttons:

षाड्गुण्यस्य प्रकृति-मण्डलं योनिः ॥ ०७.१.०१ ॥
षाड्गुण्यस्य प्रकृति-मण्डलम् योनिः ॥ ०७।१।०१ ॥
ṣāḍguṇyasya prakṛti-maṇḍalam yoniḥ .. 07.1.01 ..
संधि-विग्रह-आसन-यान-संश्रय-द्वैधी-भावाः षाड्गुण्यम् इत्याचार्याः ॥ ०७.१.०२ ॥
संधि-विग्रह-आसन-यान-संश्रय-द्वैधी-भावाः षाड्गुण्यम् इति आचार्याः ॥ ०७।१।०२ ॥
saṃdhi-vigraha-āsana-yāna-saṃśraya-dvaidhī-bhāvāḥ ṣāḍguṇyam iti ācāryāḥ .. 07.1.02 ..
द्वैगुण्यम् इति वात-व्याधिः ॥ ०७.१.०३ ॥
द्वैगुण्यम् इति वात-व्याधिः ॥ ०७।१।०३ ॥
dvaiguṇyam iti vāta-vyādhiḥ .. 07.1.03 ..
संधि-विग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते इति ॥ ०७.१.०४ ॥
संधि-विग्रहाभ्याम् हि षाड्गुण्यम् सम्पद्यते इति ॥ ०७।१।०४ ॥
saṃdhi-vigrahābhyām hi ṣāḍguṇyam sampadyate iti .. 07.1.04 ..
षाड्गुण्यं एवएतदवस्था-भेदादिति कौटिल्यः ॥ ०७.१.०५ ॥
षाड्गुण्यम् एव एतद्-अवस्था-भेदात् इति कौटिल्यः ॥ ०७।१।०५ ॥
ṣāḍguṇyam eva etad-avasthā-bhedāt iti kauṭilyaḥ .. 07.1.05 ..
तत्र पण-बन्धः संधिः ॥ ०७.१.०६ ॥
तत्र पण-बन्धः संधिः ॥ ०७।१।०६ ॥
tatra paṇa-bandhaḥ saṃdhiḥ .. 07.1.06 ..
अपकारो विग्रहः ॥ ०७.१.०७ ॥
अपकारः विग्रहः ॥ ०७।१।०७ ॥
apakāraḥ vigrahaḥ .. 07.1.07 ..
उपेक्षणं आसनं ॥ ०७.१.०८ ॥
उपेक्षणम् आसनम् ॥ ०७।१।०८ ॥
upekṣaṇam āsanam .. 07.1.08 ..
अभ्युच्चयो यानं ॥ ०७.१.०९ ॥
अभ्युच्चयः यानम् ॥ ०७।१।०९ ॥
abhyuccayaḥ yānam .. 07.1.09 ..
पर-अर्पणं संश्रयः ॥ ०७.१.१० ॥
पर-अर्पणम् संश्रयः ॥ ०७।१।१० ॥
para-arpaṇam saṃśrayaḥ .. 07.1.10 ..
संधि-विग्रह-उपादानं द्वैधी-भावः ॥ ०७.१.११ ॥
संधि-विग्रह-उपादानम् द्वैधी-भावः ॥ ०७।१।११ ॥
saṃdhi-vigraha-upādānam dvaidhī-bhāvaḥ .. 07.1.11 ..
इति षड्-गुणाः ॥ ०७.१.१२ ॥
इति षष् गुणाः ॥ ०७।१।१२ ॥
iti ṣaṣ guṇāḥ .. 07.1.12 ..
परस्माद्द्हीयमानः संदधीत ॥ ०७.१.१३ ॥
परस्मात् हीयमानः संदधीत ॥ ०७।१।१३ ॥
parasmāt hīyamānaḥ saṃdadhīta .. 07.1.13 ..
अभ्युच्चीयमानो विगृह्णीयात् ॥ ०७.१.१४ ॥
अभ्युच्चीयमानः विगृह्णीयात् ॥ ०७।१।१४ ॥
abhyuccīyamānaḥ vigṛhṇīyāt .. 07.1.14 ..
न मां परो नाहं परं उपहन्तुं शक्तः इत्यासीत ॥ ०७.१.१५ ॥
न माम् परः न अहम् परम् उपहन्तुम् शक्तः इति आसीत ॥ ०७।१।१५ ॥
na mām paraḥ na aham param upahantum śaktaḥ iti āsīta .. 07.1.15 ..
गुण-अतिशय-युक्तो यायात् ॥ ०७.१.१६ ॥
गुण-अतिशय-युक्तः यायात् ॥ ०७।१।१६ ॥
guṇa-atiśaya-yuktaḥ yāyāt .. 07.1.16 ..
शक्ति-हीनः संश्रयेत ॥ ०७.१.१७ ॥
शक्ति-हीनः संश्रयेत ॥ ०७।१।१७ ॥
śakti-hīnaḥ saṃśrayeta .. 07.1.17 ..
सहाय-साध्ये कार्ये द्वैधीभावं गच्छेत् ॥ ०७.१.१८ ॥
सहाय-साध्ये कार्ये द्वैधीभावम् गच्छेत् ॥ ०७।१।१८ ॥
sahāya-sādhye kārye dvaidhībhāvam gacchet .. 07.1.18 ..
इति गुण-अवस्थापनं ॥ ०७.१.१९ ॥
इति गुण-अवस्थापनम् ॥ ०७।१।१९ ॥
iti guṇa-avasthāpanam .. 07.1.19 ..
तेषां यस्मिन्वा गुणे स्थितः पश्येत्"इह-स्थः शक्ष्यामि दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्माण्यात्मनः प्रवर्तयितुम् । परस्य चएतानि कर्माण्युपहन्तुम्" इति तं आतिष्ठेत् ॥ ०७.१.२० ॥
तेषाम् यस्मिन् वा गुणे स्थितः पश्येत्"इह-स्थः शक्ष्यामि दुर्ग-सेतु-कर्म-वणिज्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्माणि आत्मनः प्रवर्तयितुम् । परस्य च एतानि कर्माणि उपहन्तुम्" इति तम् आतिष्ठेत् ॥ ०७।१।२० ॥
teṣām yasmin vā guṇe sthitaḥ paśyet"iha-sthaḥ śakṣyāmi durga-setu-karma-vaṇij-patha-śūnya-niveśa-khani-dravya-hasti-vana-karmāṇi ātmanaḥ pravartayitum . parasya ca etāni karmāṇi upahantum" iti tam ātiṣṭhet .. 07.1.20 ..
सा वृद्धिः ॥ ०७.१.२१ ॥
सा वृद्धिः ॥ ०७।१।२१ ॥
sā vṛddhiḥ .. 07.1.21 ..
आशुतरा मे वृद्धिर्भूयस्तरा वृद्ध्य्-उदयतरा वा भविष्यति । विपरीता परस्य इति ज्ञात्वा पर-वृद्धिं उपेक्षेत ॥ ०७.१.२२ ॥
आशुतरा मे वृद्धिः भूयस्तरा वृद्धि-उदयतरा वा भविष्यति । विपरीता परस्य इति ज्ञात्वा पर-वृद्धिम् उपेक्षेत ॥ ०७।१।२२ ॥
āśutarā me vṛddhiḥ bhūyastarā vṛddhi-udayatarā vā bhaviṣyati . viparītā parasya iti jñātvā para-vṛddhim upekṣeta .. 07.1.22 ..
तुल्य-काल-फल-उदयायां वा वृद्धौ संधिं उपेयात् ॥ ०७.१.२३ ॥
तुल्य-काल-फल-उदयायाम् वा वृद्धौ संधिम् उपेयात् ॥ ०७।१।२३ ॥
tulya-kāla-phala-udayāyām vā vṛddhau saṃdhim upeyāt .. 07.1.23 ..
यस्मिन्वा गुणे स्थितः स्व-कर्मणां उपघातं पश्येन्नैतरस्य तस्मिन्न तिष्ठेत् ॥ ०७.१.२४ ॥
यस्मिन् वा गुणे स्थितः स्व-कर्मणाम् उपघातम् पश्येत् न एतरस्य तस्मिन् न तिष्ठेत् ॥ ०७।१।२४ ॥
yasmin vā guṇe sthitaḥ sva-karmaṇām upaghātam paśyet na etarasya tasmin na tiṣṭhet .. 07.1.24 ..
एष क्षयः ॥ ०७.१.२५ ॥
एष क्षयः ॥ ०७।१।२५ ॥
eṣa kṣayaḥ .. 07.1.25 ..
चिरतरेणाल्पतरं वृद्ध्य्-उदयतरं वा क्षेष्ये । विपरीतं परः इति ज्ञात्वा क्षयं उपेक्षेत ॥ ०७.१.२६ ॥
चिरतरेण अल्पतरम् वृद्धि-उदयतरम् वा क्षेष्ये । विपरीतम् परः इति ज्ञात्वा क्षयम् उपेक्षेत ॥ ०७।१।२६ ॥
ciratareṇa alpataram vṛddhi-udayataram vā kṣeṣye . viparītam paraḥ iti jñātvā kṣayam upekṣeta .. 07.1.26 ..
तुल्य-काल-फल-उदये वा क्षये संधिं उपेयात् ॥ ०७.१.२७ ॥
तुल्य-काल-फल-उदये वा क्षये संधिम् उपेयात् ॥ ०७।१।२७ ॥
tulya-kāla-phala-udaye vā kṣaye saṃdhim upeyāt .. 07.1.27 ..
यस्मिन्वा गुणे स्थितः स्व-कर्म-वृद्धिं क्षयं वा नाभिपश्येदेतत्-स्थानं ॥ ०७.१.२८ ॥
यस्मिन् वा गुणे स्थितः स्व-कर्म-वृद्धिम् क्षयम् वा न अभिपश्येत् एतत् स्थानम् ॥ ०७।१।२८ ॥
yasmin vā guṇe sthitaḥ sva-karma-vṛddhim kṣayam vā na abhipaśyet etat sthānam .. 07.1.28 ..
ह्रस्वतरं वृद्ध्य्-उदयतरं वा स्थास्यामि । विपरीतं परः इति ज्ञात्वा स्थानं उपेक्षेत ॥ ०७.१.२९ ॥
ह्रस्वतरम् वृद्धि-उदयतरम् वा स्थास्यामि । विपरीतम् परः इति ज्ञात्वा स्थानम् उपेक्षेत ॥ ०७।१।२९ ॥
hrasvataram vṛddhi-udayataram vā sthāsyāmi . viparītam paraḥ iti jñātvā sthānam upekṣeta .. 07.1.29 ..
तुल्य-काल-फल-उदये वा स्थाने संधिं उपेयाद् इत्याचार्याः ॥ ०७.१.३० ॥
तुल्य-काल-फल-उदये वा स्थाने संधिम् उपेयात् इति आचार्याः ॥ ०७।१।३० ॥
tulya-kāla-phala-udaye vā sthāne saṃdhim upeyāt iti ācāryāḥ .. 07.1.30 ..
नएतद्विभाषितं इति कौटिल्यः ॥ ०७.१.३१ ॥
न एतत् विभाषितम् इति कौटिल्यः ॥ ०७।१।३१ ॥
na etat vibhāṣitam iti kauṭilyaḥ .. 07.1.31 ..
यदि वा पश्येत्"सन्धौ स्थितो महा-फलैः स्व-कर्मभिः पर-कर्माण्युपहनिष्यामि । महा-फलानि वा स्व-कर्माण्युपभोक्ष्ये । पर-कर्माणि वा । संधि-विश्वासेन वा योग-उपनिषत्-प्रणिधिभिः पर-कर्माण्युपहनिष्यामि । सुखं वा स-अनुग्रह-परिहार-सौकर्यं फल-लाभ-भूयस्त्वेन स्व-कर्मणां पर-कर्म-योग-आवहं जनं आस्रावयिष्यामि ॥ ०७.१.३२अ ॥
यदि वा पश्येत्"सन्धौ स्थितः महा-फलैः स्व-कर्मभिः पर-कर्माणि उपहनिष्यामि । महा-फलानि वा स्व-कर्माणि उपभोक्ष्ये । पर-कर्माणि वा । संधि-विश्वासेन वा योग-उपनिषद्-प्रणिधिभिः पर-कर्माणि उपहनिष्यामि । सुखम् वा स अनुग्रह-परिहार-सौकर्यम् फल-लाभ-भूयस्त्वेन स्व-कर्मणाम् पर-कर्म-योग-आवहम् जनम् आस्रावयिष्यामि ॥ ०७।१।३२अ ॥
yadi vā paśyet"sandhau sthitaḥ mahā-phalaiḥ sva-karmabhiḥ para-karmāṇi upahaniṣyāmi . mahā-phalāni vā sva-karmāṇi upabhokṣye . para-karmāṇi vā . saṃdhi-viśvāsena vā yoga-upaniṣad-praṇidhibhiḥ para-karmāṇi upahaniṣyāmi . sukham vā sa anugraha-parihāra-saukaryam phala-lābha-bhūyastvena sva-karmaṇām para-karma-yoga-āvaham janam āsrāvayiṣyāmi .. 07.1.32a ..
बलिनाअतिमात्रेण वा संहितः परः स्व-कर्म-उपघातं प्राप्स्यति । येन वा विगृहीतो मया-संधत्ते तेनास्य विग्रहं दीर्घं करिष्यामि । मया वा संहितस्य मद्-द्वेषिणो जन-पदं पीडयिष्यति ॥ ०७.१.३२ब ॥
बलिना अतिमात्रेण वा संहितः परः स्व-कर्म-उपघातम् प्राप्स्यति । येन वा विगृहीतः मया संधत्ते तेन अस्य विग्रहम् दीर्घम् करिष्यामि । मया वा संहितस्य मद्-द्वेषिणः जन-पदम् पीडयिष्यति ॥ ०७।१।३२ब ॥
balinā atimātreṇa vā saṃhitaḥ paraḥ sva-karma-upaghātam prāpsyati . yena vā vigṛhītaḥ mayā saṃdhatte tena asya vigraham dīrgham kariṣyāmi . mayā vā saṃhitasya mad-dveṣiṇaḥ jana-padam pīḍayiṣyati .. 07.1.32ba ..
पर-उपहतो वाअस्य जन-पदो मां आगमिष्यति । ततः कर्मसु वृद्धिं प्राप्स्यामि । विपन्न-कर्म-आरम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत ॥ ०७.१.३२क ॥
पर-उपहतः वाअस्य जन-पदः माम् आगमिष्यति । ततस् कर्मसु वृद्धिम् प्राप्स्यामि । विपन्न-कर्म-आरम्भः वा विषम-स्थः परः कर्मसु न मे विक्रमेत ॥ ०७।१।३२क ॥
para-upahataḥ vāasya jana-padaḥ mām āgamiṣyati . tatas karmasu vṛddhim prāpsyāmi . vipanna-karma-ārambhaḥ vā viṣama-sthaḥ paraḥ karmasu na me vikrameta .. 07.1.32ka ..
परतः प्रवृत्त-कर्म-आरम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि । शत्रु-प्रतिबद्धं वा शत्रुणा संधिं कृत्वा मण्डलं भेत्स्यामि ॥ ०७.१.३२ड ॥
परतस् प्रवृत्त-कर्म-आरम्भः वा ताभ्याम् संहितः कर्मसु वृद्धिम् प्राप्स्यामि । शत्रु-प्रतिबद्धम् वा शत्रुणा संधिम् कृत्वा मण्डलम् भेत्स्यामि ॥ ०७।१।३२ड ॥
paratas pravṛtta-karma-ārambhaḥ vā tābhyām saṃhitaḥ karmasu vṛddhim prāpsyāmi . śatru-pratibaddham vā śatruṇā saṃdhim kṛtvā maṇḍalam bhetsyāmi .. 07.1.32ḍa ..
भिन्नं अवाप्स्यामि । दण्ड-अनुग्रहेण वा शत्रुं उपगृह्य मण्डल-लिप्सायां विद्वेषं ग्राहयिष्यामि । विद्विष्टं तेनएव घातयिष्यामि" इति संधिना वृद्धिं आतिष्ठेत् ॥ ०७.१.३२ए ॥
भिन्नम् अवाप्स्यामि । दण्ड-अनुग्रहेण वा शत्रुम् उपगृह्य मण्डल-लिप्सायाम् विद्वेषम् ग्राहयिष्यामि । विद्विष्टम् तेन एव घातयिष्यामि" इति संधिना वृद्धिम् आतिष्ठेत् ॥ ०७।१।३२ए ॥
bhinnam avāpsyāmi . daṇḍa-anugraheṇa vā śatrum upagṛhya maṇḍala-lipsāyām vidveṣam grāhayiṣyāmi . vidviṣṭam tena eva ghātayiṣyāmi" iti saṃdhinā vṛddhim ātiṣṭhet .. 07.1.32e ..
यदि वा पश्येत्"आयुधीय-प्रायः श्रेणी-प्रायो वा मे जन-पदः शैल-वन-नदी-दुर्ग-एक-द्वार-आरक्षो वा शक्ष्यति पर-अभियोगं प्रतिहन्तुम् । विषय-अन्ते दुर्गं अविषह्यं अपाश्रितो वा शक्ष्यामि पर-कर्माण्युपहन्तुं ॥ ०७.१.३३अ ॥
यदि वा पश्येत्"आयुधीय-प्रायः श्रेणी-प्रायः वा मे जन-पदः शैल-वन-नदी-दुर्ग-एक-द्वार-आरक्षः वा शक्ष्यति पर-अभियोगम् प्रतिहन्तुम् । विषय-अन्ते दुर्गम् अविषह्यम् अपाश्रितः वा शक्ष्यामि पर-कर्माणि उपहन्तुम् ॥ ०७।१।३३अ ॥
yadi vā paśyet"āyudhīya-prāyaḥ śreṇī-prāyaḥ vā me jana-padaḥ śaila-vana-nadī-durga-eka-dvāra-ārakṣaḥ vā śakṣyati para-abhiyogam pratihantum . viṣaya-ante durgam aviṣahyam apāśritaḥ vā śakṣyāmi para-karmāṇi upahantum .. 07.1.33a ..
व्यसन-पीड-उपहत-उत्साहो वा परः सम्प्राप्त-कर्म-उपघात-कालः । विगृहीतस्यान्यतो वा शक्ष्यामि जन-पदं अपवाहयितुम्" इति विग्रहे स्थितो वृद्धिं आतिष्ठेत् ॥ ०७.१.३३ब ॥
व्यसन-पीड-उपहत-उत्साहः वा परः सम्प्राप्त-कर्म-उपघात-कालः । विगृहीतस्य अन्यतस् वा शक्ष्यामि जन-पदम् अपवाहयितुम्" इति विग्रहे स्थितः वृद्धिम् आतिष्ठेत् ॥ ०७।१।३३ब ॥
vyasana-pīḍa-upahata-utsāhaḥ vā paraḥ samprāpta-karma-upaghāta-kālaḥ . vigṛhītasya anyatas vā śakṣyāmi jana-padam apavāhayitum" iti vigrahe sthitaḥ vṛddhim ātiṣṭhet .. 07.1.33ba ..
यदि वा मन्येत "न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्म-उपघाती वा । व्यसनं अस्य । श्व-वराहयोरिव कलहे वा । स्व-कर्म-अनुष्ठान-परो वा वर्धिष्ये" इत्यासनेन वृद्धिं आतिष्ठेत् ॥ ०७.१.३४ ॥
यदि वा मन्येत "न मे शक्तः परः कर्माणि उपहन्तुम् न अहम् तस्य कर्म-उपघाती वा । व्यसनम् अस्य । श्व-वराहयोः इव कलहे वा । स्व-कर्म-अनुष्ठान-परः वा वर्धिष्ये" इति आसनेन वृद्धिम् आतिष्ठेत् ॥ ०७।१।३४ ॥
yadi vā manyeta "na me śaktaḥ paraḥ karmāṇi upahantum na aham tasya karma-upaghātī vā . vyasanam asya . śva-varāhayoḥ iva kalahe vā . sva-karma-anuṣṭhāna-paraḥ vā vardhiṣye" iti āsanena vṛddhim ātiṣṭhet .. 07.1.34 ..
यदि वा मन्येत "यान-साध्यः कर्म-उपघातः शत्रोः । प्रतिविहित-स्व-कर्म-आरक्षश्चास्मि" इति यानेन वृद्धिं आतिष्ठेत् ॥ ०७.१.३५ ॥
यदि वा मन्येत "यान-साध्यः कर्म-उपघातः शत्रोः । प्रतिविहित-स्व-कर्म-आरक्षः च अस्मि" इति यानेन वृद्धिम् आतिष्ठेत् ॥ ०७।१।३५ ॥
yadi vā manyeta "yāna-sādhyaḥ karma-upaghātaḥ śatroḥ . prativihita-sva-karma-ārakṣaḥ ca asmi" iti yānena vṛddhim ātiṣṭhet .. 07.1.35 ..
यदि वा मन्येत "नास्मि शक्तः पर-कर्माण्युपहन्तुम् । स्व-कर्म-उपघातं वा त्रातुम्" इति । बलवन्तं आश्रितः स्व-कर्म-अनुष्ठानेन क्षयात्स्थानं स्थानाद्वृद्धिं चऽकाङ्क्षेत ॥ ०७.१.३६ ॥
यदि वा मन्येत "न अस्मि शक्तः पर-कर्माणि उपहन्तुम् । स्व-कर्म-उपघातम् वा त्रातुम्" इति । बलवन्तम् आश्रितः स्व-कर्म-अनुष्ठानेन क्षयात् स्थानम् स्थानात् वृद्धिम् च आकाङ्क्षेत ॥ ०७।१।३६ ॥
yadi vā manyeta "na asmi śaktaḥ para-karmāṇi upahantum . sva-karma-upaghātam vā trātum" iti . balavantam āśritaḥ sva-karma-anuṣṭhānena kṣayāt sthānam sthānāt vṛddhim ca ākāṅkṣeta .. 07.1.36 ..
यदि वा मन्येत "संधिनाएकतः स्व-कर्माणि प्रवर्तयिष्यामि । विग्रहेणएकतः पर-कर्माण्युपहनिष्यामि" इति द्वैधी-भावेन वृद्धिं आतिष्ठेत् ॥ ०७.१.३७ ॥
यदि वा मन्येत "संधिना एकतस् स्व-कर्माणि प्रवर्तयिष्यामि । विग्रहेण एकतस् पर-कर्माणि उपहनिष्यामि" इति द्वैधी-भावेन वृद्धिम् आतिष्ठेत् ॥ ०७।१।३७ ॥
yadi vā manyeta "saṃdhinā ekatas sva-karmāṇi pravartayiṣyāmi . vigraheṇa ekatas para-karmāṇi upahaniṣyāmi" iti dvaidhī-bhāvena vṛddhim ātiṣṭhet .. 07.1.37 ..
एवं षड्भिर्गुणैरेतैः स्थितः प्रकृति-मण्डले । ॥ ०७.१.३८अ ब ॥
एवम् षड्भिः गुणैः एतैः स्थितः प्रकृति-मण्डले । ॥ ०७।१।३८अ ब ॥
evam ṣaḍbhiḥ guṇaiḥ etaiḥ sthitaḥ prakṛti-maṇḍale . .. 07.1.38a ba ..
पर्येषेत क्षयात्स्थानं स्थानाद्वृद्धिं च कर्मसु ॥ ०७.१.३८च्द् ॥
पर्येषेत क्षयात् स्थानम् स्थानात् वृद्धिम् च कर्मसु ॥ ०७।१।३८च् ॥
paryeṣeta kṣayāt sthānam sthānāt vṛddhim ca karmasu .. 07.1.38c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In