| |
|

This overlay will guide you through the buttons:

त्वं चाहं च भूमिं लभावहे इति भूमि-संधिः ॥ ०७.१०.०१ ॥
त्वम् च अहम् च भूमिम् लभावहे इति भूमि-संधिः ॥ ०७।१०।०१ ॥
tvam ca aham ca bhūmim labhāvahe iti bhūmi-saṃdhiḥ .. 07.10.01 ..
तयोर्यः प्रत्युपस्थित-अर्थः सम्पन्नां भूमिं अवाप्नोति सोअतिसंधत्ते ॥ ०७.१०.०२ ॥
तयोः यः प्रत्युपस्थित-अर्थः सम्पन्नाम् भूमिम् अवाप्नोति सः अतिसंधत्ते ॥ ०७।१०।०२ ॥
tayoḥ yaḥ pratyupasthita-arthaḥ sampannām bhūmim avāpnoti saḥ atisaṃdhatte .. 07.10.02 ..
तुल्ये सम्पन्न-अलाभे यो बलवन्तं आक्रम्य भूमिं अवाप्नोति सोअतिसंधत्ते ॥ ०७.१०.०३ ॥
तुल्ये सम्पन्न-अलाभे यः बलवन्तम् आक्रम्य भूमिम् अवाप्नोति सः अतिसंधत्ते ॥ ०७।१०।०३ ॥
tulye sampanna-alābhe yaḥ balavantam ākramya bhūmim avāpnoti saḥ atisaṃdhatte .. 07.10.03 ..
भूमि-लाभं शत्रु-कर्शनं प्रतापं च हि प्राप्नोति ॥ ०७.१०.०४ ॥
भूमि-लाभम् शत्रु-कर्शनम् प्रतापम् च हि प्राप्नोति ॥ ०७।१०।०४ ॥
bhūmi-lābham śatru-karśanam pratāpam ca hi prāpnoti .. 07.10.04 ..
दुर्बलाद्-भूमि-लाभे सत्यं सौकर्यं भवति ॥ ०७.१०.०५ ॥
दुर्बलात् भूमि-लाभे सत्यम् सौकर्यम् भवति ॥ ०७।१०।०५ ॥
durbalāt bhūmi-lābhe satyam saukaryam bhavati .. 07.10.05 ..
दुर्बल एव च भूमि-लाभः । तत्-सामन्तश्च मित्रं अमित्र-भावं गच्छति ॥ ०७.१०.०६ ॥
दुर्बलः एव च भूमि-लाभः । तद्-सामन्तः च मित्रम् अमित्र-भावम् गच्छति ॥ ०७।१०।०६ ॥
durbalaḥ eva ca bhūmi-lābhaḥ . tad-sāmantaḥ ca mitram amitra-bhāvam gacchati .. 07.10.06 ..
तुल्ये बलीयस्त्वे यः स्थित-शत्रुं उत्पाट्य भूमिं अवाप्नोति सोअतिसंधत्ते ॥ ०७.१०.०७ ॥
तुल्ये बलीयः-त्वे यः स्थित-शत्रुम् उत्पाट्य भूमिम् अवाप्नोति सः अतिसंधत्ते ॥ ०७।१०।०७ ॥
tulye balīyaḥ-tve yaḥ sthita-śatrum utpāṭya bhūmim avāpnoti saḥ atisaṃdhatte .. 07.10.07 ..
दुर्ग-अवाप्तिर्हि स्व-भूमि-रक्षणं अमित्र-अटवी-प्रतिषेधं च करोति ॥ ०७.१०.०८ ॥
दुर्ग-अवाप्तिः हि स्व-भूमि-रक्षणम् अमित्र-अटवी-प्रतिषेधम् च करोति ॥ ०७।१०।०८ ॥
durga-avāptiḥ hi sva-bhūmi-rakṣaṇam amitra-aṭavī-pratiṣedham ca karoti .. 07.10.08 ..
चल-अमित्राद्-भूमि-लाभे शक्य-सामन्ततो विशेषः ॥ ०७.१०.०९ ॥
चल-अमित्रात् भूमि-लाभे शक्य-सामन्ततः विशेषः ॥ ०७।१०।०९ ॥
cala-amitrāt bhūmi-lābhe śakya-sāmantataḥ viśeṣaḥ .. 07.10.09 ..
दुर्बल-सामन्ता हि क्षिप्र-आप्यायन-योग-क्षेमा भवति ॥ ०७.१०.१० ॥
दुर्बल-सामन्ता हि क्षिप्र-आप्यायन-योग-क्षेमा भवति ॥ ०७।१०।१० ॥
durbala-sāmantā hi kṣipra-āpyāyana-yoga-kṣemā bhavati .. 07.10.10 ..
विपरीता बलवत्सामन्ता कोश-दण्ड-अवच्छेदनी च भूमिर्भवति ॥ ०७.१०.११ ॥
विपरीता बलवत्-सामन्ता कोश-दण्ड-अवच्छेदनी च भूमिः भवति ॥ ०७।१०।११ ॥
viparītā balavat-sāmantā kośa-daṇḍa-avacchedanī ca bhūmiḥ bhavati .. 07.10.11 ..
सम्पन्ना नित्य-अमित्रा मन्द-गुणा वा भूमिरनित्य-अमित्राइति "सम्पन्ना नित्य-अमित्रा श्रेयसी भूमिः सम्पन्ना हि कोश-दण्डौ सम्पादयति । तौ चामित्र-प्रतिघातकौ इत्याचार्याः ॥ ०७.१०.१२ ॥
सम्पन्ना नित्य-अमित्रा मन्द-गुणा वा भूमिः अनित्य-अमित्रा इति "सम्पन्ना नित्य-अमित्रा श्रेयसी भूमिः सम्पन्ना हि कोश-दण्डौ सम्पादयति । तौ च अमित्र-प्रतिघातकौ इति आचार्याः ॥ ०७।१०।१२ ॥
sampannā nitya-amitrā manda-guṇā vā bhūmiḥ anitya-amitrā iti "sampannā nitya-amitrā śreyasī bhūmiḥ sampannā hi kośa-daṇḍau sampādayati . tau ca amitra-pratighātakau iti ācāryāḥ .. 07.10.12 ..
नैति कौटिल्यः ॥ ०७.१०.१३ ॥
न एति कौटिल्यः ॥ ०७।१०।१३ ॥
na eti kauṭilyaḥ .. 07.10.13 ..
नित्य-अमित्र-अलाभे भूयान्शत्रु-लाभो भवति ॥ ०७.१०.१४ ॥
नित्य-अमित्र-अलाभे भूयान् शत्रु-लाभः भवति ॥ ०७।१०।१४ ॥
nitya-amitra-alābhe bhūyān śatru-lābhaḥ bhavati .. 07.10.14 ..
नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति । अनित्यस्तु शत्रुरुपकारादनपकाराद्वा शाम्यति ॥ ०७.१०.१५ ॥
नित्यः च शत्रुः उपकृते च अपकृते च शत्रुः एव भवति । अनित्यः तु शत्रुः उपकारात् अनपकारात् वा शाम्यति ॥ ०७।१०।१५ ॥
nityaḥ ca śatruḥ upakṛte ca apakṛte ca śatruḥ eva bhavati . anityaḥ tu śatruḥ upakārāt anapakārāt vā śāmyati .. 07.10.15 ..
यस्या हि भूमेर्बहु-दुर्गाश्चोर-गणैर्म्लेच्छ-अटवीभिर्वा नित्य-अविरहिताः प्रत्यन्ताः सा नित्य-अमित्रा । विपर्यये त्वनित्य-अमित्रा ॥ ०७.१०.१६ ॥
यस्याः हि भूमेः बहु-दुर्गाः चोर-गणैः म्लेच्छ-अटवीभिः वा नित्य-अविरहिताः प्रत्यन्ताः सा नित्य-अमित्रा । विपर्यये तु अनित्य-अमित्रा ॥ ०७।१०।१६ ॥
yasyāḥ hi bhūmeḥ bahu-durgāḥ cora-gaṇaiḥ mleccha-aṭavībhiḥ vā nitya-avirahitāḥ pratyantāḥ sā nitya-amitrā . viparyaye tu anitya-amitrā .. 07.10.16 ..
अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी ॥ ०७.१०.१७ ॥
अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिः इति अल्पा प्रत्यासन्ना श्रेयसी ॥ ०७।१०।१७ ॥
alpā pratyāsannā mahatī vyavahitā vā bhūmiḥ iti alpā pratyāsannā śreyasī .. 07.10.17 ..
सुखा हि प्राप्तुं पालयितुं अभिसारयितुं च भवति ॥ ०७.१०.१८ ॥
सुखा हि प्राप्तुम् पालयितुम् अभिसारयितुम् च भवति ॥ ०७।१०।१८ ॥
sukhā hi prāptum pālayitum abhisārayitum ca bhavati .. 07.10.18 ..
विपरीता व्यवहिता ॥ ०७.१०.१९ ॥
विपरीता व्यवहिता ॥ ०७।१०।१९ ॥
viparītā vyavahitā .. 07.10.19 ..
व्यवहितयोरपि दण्ड-धारणाआत्म-धारणा वा भूमिरिति आत्म-धारणा श्रेयसी ॥ ०७.१०.२० ॥
व्यवहितयोः अपि दण्ड-धारणा-आत्म-धारणा वा भूमिः इति आत्म-धारणा श्रेयसी ॥ ०७।१०।२० ॥
vyavahitayoḥ api daṇḍa-dhāraṇā-ātma-dhāraṇā vā bhūmiḥ iti ātma-dhāraṇā śreyasī .. 07.10.20 ..
सा हि स्व-समुत्थाभ्यां कोश-दण्डाभ्यां धार्यते ॥ ०७.१०.२१ ॥
सा हि स्व-समुत्थाभ्याम् कोश-दण्डाभ्याम् धार्यते ॥ ०७।१०।२१ ॥
sā hi sva-samutthābhyām kośa-daṇḍābhyām dhāryate .. 07.10.21 ..
विपरीता दण्ड-धारणा दण्ड-स्थानं ॥ ०७.१०.२२ ॥
विपरीता दण्ड-धारणा दण्ड-स्थानम् ॥ ०७।१०।२२ ॥
viparītā daṇḍa-dhāraṇā daṇḍa-sthānam .. 07.10.22 ..
बालिशात्प्राज्ञाद्वा भूमि-लाभ इति बालिशाद्-भूमि-लाभः श्रेयान् ॥ ०७.१०.२३ ॥
बालिशात् प्राज्ञात् वा भूमि-लाभः इति बालिशात् भूमि-लाभः श्रेयान् ॥ ०७।१०।२३ ॥
bāliśāt prājñāt vā bhūmi-lābhaḥ iti bāliśāt bhūmi-lābhaḥ śreyān .. 07.10.23 ..
सुप्राप्याअनुपाल्या हि भवति । अप्रत्यादेया च ॥ ०७.१०.२४ ॥
सु प्राप्या अनुपाल्या हि भवति । अ प्रत्यादेया च ॥ ०७।१०।२४ ॥
su prāpyā anupālyā hi bhavati . a pratyādeyā ca .. 07.10.24 ..
विपरीता प्राज्ञादनुरक्ता ॥ ०७.१०.२५ ॥
विपरीता प्राज्ञात् अनुरक्ता ॥ ०७।१०।२५ ॥
viparītā prājñāt anuraktā .. 07.10.25 ..
पीडनीय-उच्छेदनीययोरुच्छेदनीयाद्भूमि-लाभः श्रेयान् ॥ ०७.१०.२६ ॥
पीडनीय-उच्छेदनीययोः उच्छेदनीयात् भूमि-लाभः श्रेयान् ॥ ०७।१०।२६ ॥
pīḍanīya-ucchedanīyayoḥ ucchedanīyāt bhūmi-lābhaḥ śreyān .. 07.10.26 ..
उच्छेदनीयो ह्यनपाश्रयो दुर्बल-अपाश्रयो वाअभियुक्तः कोश-दण्डावादायापसर्तु-कामः प्रकृतिभिस्त्यज्यते । न पीडनीयो दुर्ग-मित्र-प्रतिष्टब्धः ॥ ०७.१०.२७ ॥
उच्छेदनीयः हि अनपाश्रयः दुर्बल-अपाश्रयः वा अभियुक्तः कोश-दण्डौ आदाय अपसर्तु-कामः प्रकृतिभिः त्यज्यते । न पीडनीयः दुर्ग-मित्र-प्रतिष्टब्धः ॥ ०७।१०।२७ ॥
ucchedanīyaḥ hi anapāśrayaḥ durbala-apāśrayaḥ vā abhiyuktaḥ kośa-daṇḍau ādāya apasartu-kāmaḥ prakṛtibhiḥ tyajyate . na pīḍanīyaḥ durga-mitra-pratiṣṭabdhaḥ .. 07.10.27 ..
दुर्ग-प्रतिष्टब्धयोरपि स्थल-नदी-दुर्गीयाभ्यां स्थल-दुर्गीयाद्भूमि-लाभः श्रेयान् ॥ ०७.१०.२८ ॥
दुर्ग-प्रतिष्टब्धयोः अपि स्थल-नदी-दुर्गीयाभ्याम् स्थल-दुर्गीयात् भूमि-लाभः श्रेयान् ॥ ०७।१०।२८ ॥
durga-pratiṣṭabdhayoḥ api sthala-nadī-durgīyābhyām sthala-durgīyāt bhūmi-lābhaḥ śreyān .. 07.10.28 ..
स्थालेयं हि सुरोध-अवमर्द-अवस्कन्दं अनिह्श्रावि-शत्रु च ॥ ०७.१०.२९ ॥
स्थालेयम् हि सु रोध-अवमर्द-अवस्कन्दम् अ निह्श्रावि-शत्रु च ॥ ०७।१०।२९ ॥
sthāleyam hi su rodha-avamarda-avaskandam a nihśrāvi-śatru ca .. 07.10.29 ..
नदी-दुर्गं तु द्वि-गुण-क्लेश-करम् । उदकं च पातव्यं वृत्ति-करं चामित्रस्य ॥ ०७.१०.३० ॥
नदी-दुर्गम् तु द्वि-गुण-क्लेश-करम् । उदकम् च पातव्यम् वृत्ति-करम् च अमित्रस्य ॥ ०७।१०।३० ॥
nadī-durgam tu dvi-guṇa-kleśa-karam . udakam ca pātavyam vṛtti-karam ca amitrasya .. 07.10.30 ..
नदी-पर्वत-दुर्गीयाभ्यां नदी-दुर्गीयाद्ब्भूमि-लाभः श्रेयान् ॥ ०७.१०.३१ ॥
नदी-पर्वत-दुर्गीयाभ्याम् नदी-दुर्गीयात् भूमि-लाभः श्रेयान् ॥ ०७।१०।३१ ॥
nadī-parvata-durgīyābhyām nadī-durgīyāt bhūmi-lābhaḥ śreyān .. 07.10.31 ..
नदी-दुर्गं हि हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौभिः साध्यं अनित्य-गाम्भीर्यं अवस्राव्युदकं च ॥ ०७.१०.३२ ॥
नदी-दुर्गम् हि हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौभिः साध्यम् अनित्य-गाम्भीर्यम् अवस्रावि उदकम् च ॥ ०७।१०।३२ ॥
nadī-durgam hi hasti-stambha-saṃkrama-setu-bandha-naubhiḥ sādhyam anitya-gāmbhīryam avasrāvi udakam ca .. 07.10.32 ..
पार्वतं तु स्व्-आरक्षं दुरुपरोधि कृच्छ्र-आरोहणम् । भग्ने चएकस्मिन्न सर्व-वधः । शिला-वृक्ष-प्रमोक्षश्च महा-अपकारिणां ॥ ०७.१०.३३ ॥
पार्वतम् तु सु आरक्षम् दुरुपरोधि कृच्छ्र-आरोहणम् । भग्ने च एकस्मिन् न सर्व-वधः । शिला-वृक्ष-प्रमोक्षः च महा-अपकारिणाम् ॥ ०७।१०।३३ ॥
pārvatam tu su ārakṣam duruparodhi kṛcchra-ārohaṇam . bhagne ca ekasmin na sarva-vadhaḥ . śilā-vṛkṣa-pramokṣaḥ ca mahā-apakāriṇām .. 07.10.33 ..
निम्न-स्थल-योधिभ्यो निम्न-योधिभ्यो भूमि-लाभः श्रेयान् ॥ ०७.१०.३४ ॥
निम्न-स्थल-योधिभ्यः निम्न-योधिभ्यः भूमि-लाभः श्रेयान् ॥ ०७।१०।३४ ॥
nimna-sthala-yodhibhyaḥ nimna-yodhibhyaḥ bhūmi-lābhaḥ śreyān .. 07.10.34 ..
निम्न-योधिनो ह्युपरुद्ध-देश-कालाः । स्थल-योधिनस्तु सर्व-देश-काल-योधिनः ॥ ०७.१०.३५ ॥
निम्न-योधिनः हि उपरुद्ध-देश-कालाः । स्थल-योधिनः तु सर्व-देश-काल-योधिनः ॥ ०७।१०।३५ ॥
nimna-yodhinaḥ hi uparuddha-deśa-kālāḥ . sthala-yodhinaḥ tu sarva-deśa-kāla-yodhinaḥ .. 07.10.35 ..
खनक-आकाश-योधिभ्यः खनकेभ्यो भूमि-लाभः श्रेयान् ॥ ०७.१०.३६ ॥
खनक-आकाश-योधिभ्यः खनकेभ्यः भूमि-लाभः श्रेयान् ॥ ०७।१०।३६ ॥
khanaka-ākāśa-yodhibhyaḥ khanakebhyaḥ bhūmi-lābhaḥ śreyān .. 07.10.36 ..
खनका हि खातेन शस्त्रेण चौभयथा युध्यन्ते । शस्त्रेणएवऽकाश-योधिनः ॥ ०७.१०.३७ ॥
खनकाः हि खातेन शस्त्रेण च उभयथा युध्यन्ते । शस्त्रेण एव अकाश-योधिनः ॥ ०७।१०।३७ ॥
khanakāḥ hi khātena śastreṇa ca ubhayathā yudhyante . śastreṇa eva akāśa-yodhinaḥ .. 07.10.37 ..
एवं-विध्येभ्यः पृथिवीं लभमानोअर्थ-शास्त्रवित् । ॥ ०७.१०.३८अ ब ॥
एवंविध्येभ्यः पृथिवीम् लभमानः अर्थ-शास्त्र-विद् । ॥ ०७।१०।३८अ ब ॥
evaṃvidhyebhyaḥ pṛthivīm labhamānaḥ artha-śāstra-vid . .. 07.10.38a ba ..
संहितेभ्यः परेभ्यश्च विशेषं अधिगच्छति ॥ ०७.१०.३८च्द् ॥
संहितेभ्यः परेभ्यः च विशेषम् अधिगच्छति ॥ ०७।१०।३८च् ॥
saṃhitebhyaḥ parebhyaḥ ca viśeṣam adhigacchati .. 07.10.38c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In