| |
|

This overlay will guide you through the buttons:

त्वं चाहं च शून्यं निवेशयावहे इत्यनवसित-संधिः ॥ ०७.११.०१ ॥
त्वम् च अहम् च शून्यम् निवेशयावहे इति अनवसित-संधिः ॥ ०७।११।०१ ॥
tvam ca aham ca śūnyam niveśayāvahe iti anavasita-saṃdhiḥ .. 07.11.01 ..
तयोर्यः प्रत्युपस्थित-अर्थो यथा-उक्त-गुणां भूमिं निवेशयति सोअतिसंधत्ते ॥ ०७.११.०२ ॥
तयोः यः प्रत्युपस्थित-अर्थः यथा उक्त-गुणाम् भूमिम् निवेशयति सः अतिसंधत्ते ॥ ०७।११।०२ ॥
tayoḥ yaḥ pratyupasthita-arthaḥ yathā ukta-guṇām bhūmim niveśayati saḥ atisaṃdhatte .. 07.11.02 ..
तत्रापि स्थलं औदकं वाइति महतः स्थलादल्पं औदकं श्रेयः । सातत्यादवस्थितत्वाच्च फलानां ॥ ०७.११.०३ ॥
तत्र अपि स्थलम् औदकम् वा इति महतः स्थलात् अल्पम् औदकम् श्रेयः । सातत्यात् अवस्थित-त्वात् च फलानाम् ॥ ०७।११।०३ ॥
tatra api sthalam audakam vā iti mahataḥ sthalāt alpam audakam śreyaḥ . sātatyāt avasthita-tvāt ca phalānām .. 07.11.03 ..
स्थलयोरपि प्रभूत-पूर्व-अपर-सस्यं अल्प-वर्ष-पाकं असक्त-आरम्भं श्रेयः ॥ ०७.११.०४ ॥
स्थलयोः अपि प्रभूत-पूर्व-अपर-सस्यम् अल्प-वर्ष-पाकम् असक्त-आरम्भम् श्रेयः ॥ ०७।११।०४ ॥
sthalayoḥ api prabhūta-pūrva-apara-sasyam alpa-varṣa-pākam asakta-ārambham śreyaḥ .. 07.11.04 ..
औदकयोरपि धान्य-वापं अधान्य-वापात्श्रेयः ॥ ०७.११.०५ ॥
औदकयोः अपि धान्य-वापम् अ धान्य-वापात् श्रेयः ॥ ०७।११।०५ ॥
audakayoḥ api dhānya-vāpam a dhānya-vāpāt śreyaḥ .. 07.11.05 ..
तयोरल्प-बहुत्वे धान्य-कान्तादल्पान्महदधान्य-कान्तं श्रेयः ॥ ०७.११.०६ ॥
तयोः अल्प-बहुत्वे धान्य-कान्तात् अल्पात् महत् अ धान्य-कान्तम् श्रेयः ॥ ०७।११।०६ ॥
tayoḥ alpa-bahutve dhānya-kāntāt alpāt mahat a dhānya-kāntam śreyaḥ .. 07.11.06 ..
महत्यवकाशे हि स्थाल्याश्चानूप्याश्चओषधयो भवन्ति ॥ ०७.११.०७ ॥
महति अवकाशे हि स्थाल्याः च आनूप्याः च ओषधयः भवन्ति ॥ ०७।११।०७ ॥
mahati avakāśe hi sthālyāḥ ca ānūpyāḥ ca oṣadhayaḥ bhavanti .. 07.11.07 ..
दुर्ग-आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ॥ ०७.११.०८ ॥
दुर्ग-आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ॥ ०७।११।०८ ॥
durga-ādīni ca karmāṇi prabhūtyena kriyante .. 07.11.08 ..
कृत्रिमा हि भूमि-गुणाः ॥ ०७.११.०९ ॥
कृत्रिमाः हि भूमि-गुणाः ॥ ०७।११।०९ ॥
kṛtrimāḥ hi bhūmi-guṇāḥ .. 07.11.09 ..
खनि-धान्य-भोगयोः खनि-भोगः कोश-करः । धान्य-भोगः कोश-कोष्ठ-अगार-करः ॥ ०७.११.१० ॥
खनि-धान्य-भोगयोः खनि-भोगः कोश-करः । धान्य-भोगः कोश-कोष्ठ-अगार-करः ॥ ०७।११।१० ॥
khani-dhānya-bhogayoḥ khani-bhogaḥ kośa-karaḥ . dhānya-bhogaḥ kośa-koṣṭha-agāra-karaḥ .. 07.11.10 ..
धान्य-मूला हि दुर्ग-आदीनां कर्मणां आरम्भाः ॥ ०७.११.११ ॥
धान्य-मूलाः हि दुर्ग-आदीनाम् कर्मणाम् आरम्भाः ॥ ०७।११।११ ॥
dhānya-mūlāḥ hi durga-ādīnām karmaṇām ārambhāḥ .. 07.11.11 ..
महा-विषय-विक्रयो वा खनि-भोगः श्रेयान् ॥ ०७.११.१२ ॥
महा-विषय-विक्रयः वा खनि-भोगः श्रेयान् ॥ ०७।११।१२ ॥
mahā-viṣaya-vikrayaḥ vā khani-bhogaḥ śreyān .. 07.11.12 ..
द्रव्य-हस्ति-वन-भोगयोर्द्रव्य-वन-भोगः सर्व-कर्मणां योनिः प्रभूत-निधान-क्षमश्च । विपरीतो हस्ति-वन-भोगः इत्याचार्याः ॥ ०७.११.१३ ॥
द्रव्य-हस्ति-वन-भोगयोः द्रव्य-वन-भोगः सर्व-कर्मणाम् योनिः प्रभूत-निधान-क्षमः च । विपरीतः हस्ति-वन-भोगः इति आचार्याः ॥ ०७।११।१३ ॥
dravya-hasti-vana-bhogayoḥ dravya-vana-bhogaḥ sarva-karmaṇām yoniḥ prabhūta-nidhāna-kṣamaḥ ca . viparītaḥ hasti-vana-bhogaḥ iti ācāryāḥ .. 07.11.13 ..
नैति कौटिल्यः ॥ ०७.११.१४ ॥
न एति कौटिल्यः ॥ ०७।११।१४ ॥
na eti kauṭilyaḥ .. 07.11.14 ..
शक्यं द्रव्य-वनं अनेकं अनेकस्यां भूमौ वापयितुम् । न हस्ति-वनं ॥ ०७.११.१५ ॥
शक्यम् द्रव्य-वनम् अनेकम् अनेकस्याम् भूमौ वापयितुम् । न हस्ति-वनम् ॥ ०७।११।१५ ॥
śakyam dravya-vanam anekam anekasyām bhūmau vāpayitum . na hasti-vanam .. 07.11.15 ..
हस्ति-प्रधानो हि पर-अनीक-वध इति ॥ ०७.११.१६ ॥
हस्ति-प्रधानः हि पर-अनीक-वधः इति ॥ ०७।११।१६ ॥
hasti-pradhānaḥ hi para-anīka-vadhaḥ iti .. 07.11.16 ..
वारि-स्थल-पथ-भोगयोरनित्यो वारि-पथ-भोगः । नित्यः स्थल-पथ-भोगः ॥ ०७.११.१७ ॥
वारि-स्थल-पथ-भोगयोः अनित्यः वारि-पथ-भोगः । नित्यः स्थल-पथ-भोगः ॥ ०७।११।१७ ॥
vāri-sthala-patha-bhogayoḥ anityaḥ vāri-patha-bhogaḥ . nityaḥ sthala-patha-bhogaḥ .. 07.11.17 ..
भिन्न-मनुष्या श्रेणी-मनुष्या वा भूमिरिति भिन्न-मनुष्या श्रेयसी ॥ ०७.११.१८ ॥
भिन्न-मनुष्या श्रेणी-मनुष्या वा भूमिः इति भिन्न-मनुष्या श्रेयसी ॥ ०७।११।१८ ॥
bhinna-manuṣyā śreṇī-manuṣyā vā bhūmiḥ iti bhinna-manuṣyā śreyasī .. 07.11.18 ..
भिन्न-मनुष्या भोग्या भवति । अनुपजाप्या चान्येषाम् । अनापत्-सहा तु ॥ ०७.११.१९ ॥
भिन्न-मनुष्या भोग्या भवति । अन् उपजाप्या च अन्येषाम् । अनापद्-सहा तु ॥ ०७।११।१९ ॥
bhinna-manuṣyā bhogyā bhavati . an upajāpyā ca anyeṣām . anāpad-sahā tu .. 07.11.19 ..
विपरीता श्रेणी-मनुष्या । कोपे महा-दोषा ॥ ०७.११.२० ॥
विपरीता श्रेणी मनुष्या । कोपे महा-दोषा ॥ ०७।११।२० ॥
viparītā śreṇī manuṣyā . kope mahā-doṣā .. 07.11.20 ..
तस्यां चातुर्वर्ण्य-निवेशे सर्व-भोग-सहत्वादवर-वर्ण-प्राया श्रेयसी । बाहुल्याद्ध्रुवत्वाच्च कृष्याः कर्षकवती । कृष्याश्चान्येषां चऽरम्भाणां प्रयोजकत्वात्गो-रक्षकवती । पण्य-निचय-ऋण-अनुग्रहादाढ्य-वणिग्वती ॥ ०७.११.२१ ॥
तस्याम् चातुर्वर्ण्य-निवेशे सर्व-भोग-सह-त्वात् अवर-वर्ण-प्राया श्रेयसी । बाहुल्यात् ध्रुव-त्वात् च कृष्याः कर्षकवती । कृष्याः च अन्येषाम् च आरम्भाणाम् प्रयोजक-त्वात् गो-रक्षकवती । पण्य-निचय-ऋण-अनुग्रहाद-आढ्य-वणिग्वती ॥ ०७।११।२१ ॥
tasyām cāturvarṇya-niveśe sarva-bhoga-saha-tvāt avara-varṇa-prāyā śreyasī . bāhulyāt dhruva-tvāt ca kṛṣyāḥ karṣakavatī . kṛṣyāḥ ca anyeṣām ca ārambhāṇām prayojaka-tvāt go-rakṣakavatī . paṇya-nicaya-ṛṇa-anugrahāda-āḍhya-vaṇigvatī .. 07.11.21 ..
भूमि-गुणानां अपाश्रयः श्रेयान् ॥ ०७.११.२२ ॥
भूमि-गुणानाम् अपाश्रयः श्रेयान् ॥ ०७।११।२२ ॥
bhūmi-guṇānām apāśrayaḥ śreyān .. 07.11.22 ..
दुर्ग-अपाश्रया पुरुष-अपाश्रया वा भूमिरिति पुरुष-अपाश्रया श्रेयसी ॥ ०७.११.२३ ॥
दुर्ग-अपाश्रया पुरुष-अपाश्रया वा भूमिः इति पुरुष-अपाश्रया श्रेयसी ॥ ०७।११।२३ ॥
durga-apāśrayā puruṣa-apāśrayā vā bhūmiḥ iti puruṣa-apāśrayā śreyasī .. 07.11.23 ..
पुरुषवद्धि राज्यं ॥ ०७.११.२४ ॥
पुरुषवत् हि राज्यम् ॥ ०७।११।२४ ॥
puruṣavat hi rājyam .. 07.11.24 ..
अपुरुषा गौर्वन्ध्येव किं दुहीत ॥ ०७.११.२५ ॥
अपुरुषा गौः वन्ध्या इव किम् दुहीत ॥ ०७।११।२५ ॥
apuruṣā gauḥ vandhyā iva kim duhīta .. 07.11.25 ..
महा-क्षय-व्यय-निवेशां तु भूमिं अवाप्तु-कामः पूर्वं एव क्रेतारं पणेत दुर्बलं अराज-बीजिनं निरुत्साहं अपक्षं अन्याय-वृत्तिं व्यसनिनं दैव-प्रमाणं यत्-किंचन-कारिणं वा ॥ ०७.११.२६ ॥
महा-क्षय-व्यय-निवेशाम् तु भूमिम् अवाप्तु-कामः पूर्वम् एव क्रेतारम् पणेत दुर्बलम् अ राज-बीजिनम् निरुत्साहम् अपक्षम् अन्याय-वृत्तिम् व्यसनिनम् दैव-प्रमाणम् यत् किंचन-कारिणम् वा ॥ ०७।११।२६ ॥
mahā-kṣaya-vyaya-niveśām tu bhūmim avāptu-kāmaḥ pūrvam eva kretāram paṇeta durbalam a rāja-bījinam nirutsāham apakṣam anyāya-vṛttim vyasaninam daiva-pramāṇam yat kiṃcana-kāriṇam vā .. 07.11.26 ..
महा-क्षय-व्यय-निवेशायां हि भूमौ दुर्बलो राज-बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय-व्ययेनावसीदति ॥ ०७.११.२७ ॥
महा-क्षय-व्यय-निवेशायाम् हि भूमौ दुर्बलः राज-बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय-व्ययेन अवसीदति ॥ ०७।११।२७ ॥
mahā-kṣaya-vyaya-niveśāyām hi bhūmau durbalaḥ rāja-bījī niviṣṭaḥ sagandhābhiḥ prakṛtibhiḥ saha kṣaya-vyayena avasīdati .. 07.11.27 ..
बलवानराज-बीजी क्षय-व्यय-भयादसगन्धाभिः प्रकृतिभिस्त्यज्यते ॥ ०७.११.२८ ॥
बलवान् अराज-बीजी क्षय-व्यय-भयात् असगन्धाभिः प्रकृतिभिः त्यज्यते ॥ ०७।११।२८ ॥
balavān arāja-bījī kṣaya-vyaya-bhayāt asagandhābhiḥ prakṛtibhiḥ tyajyate .. 07.11.28 ..
निरुत्साहस्तु दण्डवानपि दण्डस्याप्रणेता सदण्डः क्षय-व्ययेनावभज्यते ॥ ०७.११.२९ ॥
निरुत्साहः तु दण्डवान् अपि दण्डस्य अप्रणेता स दण्डः क्षय-व्ययेन अवभज्यते ॥ ०७।११।२९ ॥
nirutsāhaḥ tu daṇḍavān api daṇḍasya apraṇetā sa daṇḍaḥ kṣaya-vyayena avabhajyate .. 07.11.29 ..
कोशवानप्यपक्षः क्षय-व्यय-अनुग्रह-हीनत्वान्न कुतश्चित्प्राप्नोति ॥ ०७.११.३० ॥
कोशवान् अपि अपक्षः क्षय-व्यय-अनुग्रह-हीन-त्वात् न कुतश्चिद् प्राप्नोति ॥ ०७।११।३० ॥
kośavān api apakṣaḥ kṣaya-vyaya-anugraha-hīna-tvāt na kutaścid prāpnoti .. 07.11.30 ..
अन्याय-वृत्तिर्निविष्टं अप्युत्थापयेत् ॥ ०७.११.३१ ॥
अन्याय-वृत्तिः निविष्टम् अपि उत्थापयेत् ॥ ०७।११।३१ ॥
anyāya-vṛttiḥ niviṣṭam api utthāpayet .. 07.11.31 ..
स कथं अनिविष्टं निवेशयेत् ॥ ०७.११.३२ ॥
स कथम् अ निविष्टम् निवेशयेत् ॥ ०७।११।३२ ॥
sa katham a niviṣṭam niveśayet .. 07.11.32 ..
तेन व्यसनी व्याख्यातः ॥ ०७.११.३३ ॥
तेन व्यसनी व्याख्यातः ॥ ०७।११।३३ ॥
tena vyasanī vyākhyātaḥ .. 07.11.33 ..
दैव-प्रमाणो मानुष-हीनो निरारम्भो विपन्न-कर्म-आरम्भो वाअवसीदति ॥ ०७.११.३४ ॥
दैव-प्रमाणः मानुष-हीनः निरारम्भः विपन्न-कर्म-आरम्भः वा अअवसीदति ॥ ०७।११।३४ ॥
daiva-pramāṇaḥ mānuṣa-hīnaḥ nirārambhaḥ vipanna-karma-ārambhaḥ vā aavasīdati .. 07.11.34 ..
यत्-किंचन-कारी न किंचिदासादयति ॥ ०७.११.३५ ॥
यत् किंचन-कारी न किंचिद् आसादयति ॥ ०७।११।३५ ॥
yat kiṃcana-kārī na kiṃcid āsādayati .. 07.11.35 ..
स चएषां पापिष्ठतमो भवति ॥ ०७.११.३६ ॥
स च एषाम् पापिष्ठतमः भवति ॥ ०७।११।३६ ॥
sa ca eṣām pāpiṣṭhatamaḥ bhavati .. 07.11.36 ..
यत्-किंचिद्-आरभमाणो हि विजिगीषोः कदाचिच्छिद्रं आसादयेद् इत्याचार्याः ॥ ०७.११.३७ ॥
यत् किंचिद् आरभमाणः हि विजिगीषोः कदाचिद् छिद्रम् आसादयेत् इति आचार्याः ॥ ०७।११।३७ ॥
yat kiṃcid ārabhamāṇaḥ hi vijigīṣoḥ kadācid chidram āsādayet iti ācāryāḥ .. 07.11.37 ..
यथा छिद्रं तथा विनाशं अप्यासादयेदिति कौटिल्यः ॥ ०७.११.३८ ॥
यथा छिद्रम् तथा विनाशम् अपि आसादयेत् इति कौटिल्यः ॥ ०७।११।३८ ॥
yathā chidram tathā vināśam api āsādayet iti kauṭilyaḥ .. 07.11.38 ..
तेषां अलाभे यथा पार्ष्णि-ग्राह-उपग्रहे वक्ष्यामस्तथा भूमिं अवस्थापयेत् ॥ ०७.११.३९ ॥
तेषाम् अलाभे यथा पार्ष्णि-ग्राह-उपग्रहे वक्ष्यामः तथा भूमिम् अवस्थापयेत् ॥ ०७।११।३९ ॥
teṣām alābhe yathā pārṣṇi-grāha-upagrahe vakṣyāmaḥ tathā bhūmim avasthāpayet .. 07.11.39 ..
इत्यभिहित-संधिः ॥ ०७.११.४० ॥
इति अभिहित-संधिः ॥ ०७।११।४० ॥
iti abhihita-saṃdhiḥ .. 07.11.40 ..
गुणवतीं आदेयां वा भूमिं बलवता क्रयेण याचितः संधिं अवस्थाप्य दद्यात् ॥ ०७.११.४१ ॥
गुणवतीम् आदेयाम् वा भूमिम् बलवता क्रयेण याचितः संधिम् अवस्थाप्य दद्यात् ॥ ०७।११।४१ ॥
guṇavatīm ādeyām vā bhūmim balavatā krayeṇa yācitaḥ saṃdhim avasthāpya dadyāt .. 07.11.41 ..
इत्यनिभृत-संधिः ॥ ०७.११.४२ ॥
इति अनिभृत-संधिः ॥ ०७।११।४२ ॥
iti anibhṛta-saṃdhiḥ .. 07.11.42 ..
समेन वा याचितः कारणं अवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिर्वश्या वा । अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमि-विक्रयाद्वा मित्र-हिरण्य-लाभः कार्य-सामर्थ्य-करो मे भविष्यति" इति ॥ ०७.११.४३ ॥
समेन वा याचितः कारणम् अवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिः वश्या वा । अनया प्रतिबद्धः परः मे वश्यः भविष्यति भूमि-विक्रयात् वा मित्र-हिरण्य-लाभः कार्य-सामर्थ्य-करः मे भविष्यति" इति ॥ ०७।११।४३ ॥
samena vā yācitaḥ kāraṇam avekṣya dadyāt"pratyādeyā me bhūmiḥ vaśyā vā . anayā pratibaddhaḥ paraḥ me vaśyaḥ bhaviṣyati bhūmi-vikrayāt vā mitra-hiraṇya-lābhaḥ kārya-sāmarthya-karaḥ me bhaviṣyati" iti .. 07.11.43 ..
तेन हीनः क्रेता व्याख्यातः ॥ ०७.११.४४ ॥
तेन हीनः क्रेता व्याख्यातः ॥ ०७।११।४४ ॥
tena hīnaḥ kretā vyākhyātaḥ .. 07.11.44 ..
एवं मित्रं हिरण्यं च सजनां अजनां च गां । ॥ ०७.११.४५अ ब ॥
एवम् मित्रम् हिरण्यम् च सजनाम् अजनाम् च गाम् । ॥ ०७।११।४५अ ब ॥
evam mitram hiraṇyam ca sajanām ajanām ca gām . .. 07.11.45a ba ..
लभमानोअतिसंधत्ते शास्त्रवित्सामवायिकान् ॥ ०७.११.४५च्द् ॥
लभमानः अतिसंधत्ते शास्त्र-विद् सामवायिकान् ॥ ०७।११।४५च् ॥
labhamānaḥ atisaṃdhatte śāstra-vid sāmavāyikān .. 07.11.45c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In