| |
|

This overlay will guide you through the buttons:

त्वं चाहं च दुर्गं कारयावहे इति कर्म-संधिः ॥ ०७.१२.०१ ॥
त्वम् च अहम् च दुर्गम् कारयावहे इति कर्म-संधिः ॥ ०७।१२।०१ ॥
tvam ca aham ca durgam kārayāvahe iti karma-saṃdhiḥ .. 07.12.01 ..
तयोर्यो दैव-कृतं अविषह्यं अल्प-व्यय-आरम्भं दुर्गं कारयति सोअतिसंधत्ते ॥ ०७.१२.०२ ॥
तयोः यः दैव-कृतम् अविषह्यम् अल्प-व्यय-आरम्भम् दुर्गम् कारयति सः अतिसंधत्ते ॥ ०७।१२।०२ ॥
tayoḥ yaḥ daiva-kṛtam aviṣahyam alpa-vyaya-ārambham durgam kārayati saḥ atisaṃdhatte .. 07.12.02 ..
तत्रापि स्थल-नदी-पर्वत-दुर्गाणां उत्तर-उत्तरं श्रेयः ॥ ०७.१२.०३ ॥
तत्र अपि स्थल-नदी-पर्वत-दुर्गाणाम् उत्तर-उत्तरम् श्रेयः ॥ ०७।१२।०३ ॥
tatra api sthala-nadī-parvata-durgāṇām uttara-uttaram śreyaḥ .. 07.12.03 ..
सेतु-बन्धयोरप्याहार्य-उदकात्सह-उदकः श्रेयान् ॥ ०७.१२.०४ ॥
सेतु-बन्धयोः अपि आहार्य-उदकात् सह उदकः श्रेयान् ॥ ०७।१२।०४ ॥
setu-bandhayoḥ api āhārya-udakāt saha udakaḥ śreyān .. 07.12.04 ..
सह-उदकयोरपि प्रभूत-वाप-स्थानः श्रेयान् ॥ ०७.१२.०५ ॥
सह उदकयोः अपि प्रभूत-वाप-स्थानः श्रेयान् ॥ ०७।१२।०५ ॥
saha udakayoḥ api prabhūta-vāpa-sthānaḥ śreyān .. 07.12.05 ..
द्रव्य-वनयोरपि यो महत्-सारवद्-द्रव्य-अटवीकं विषय-अन्ते नदी-मातृकं द्रव्य-वनं छेदयति सोअतिसंधत्ते ॥ ०७.१२.०६ ॥
द्रव्य-वनयोः अपि यः महत्-सारवत्-द्रव्य-अटवीकम् विषय-अन्ते नदी-मातृकम् द्रव्य-वनम् छेदयति सः अतिसंधत्ते ॥ ०७।१२।०६ ॥
dravya-vanayoḥ api yaḥ mahat-sāravat-dravya-aṭavīkam viṣaya-ante nadī-mātṛkam dravya-vanam chedayati saḥ atisaṃdhatte .. 07.12.06 ..
नदी-मातृकं हि स्व्-आजीवं अपाश्रयश्चऽपदि भवति ॥ ०७.१२.०७ ॥
नदी-मातृकम् हि सु आजीवम् अपाश्रयः च अपदि भवति ॥ ०७।१२।०७ ॥
nadī-mātṛkam hi su ājīvam apāśrayaḥ ca apadi bhavati .. 07.12.07 ..
हस्ति-वनयोरपि यो बहु-शूर-मृगं दुर्बल-प्रतिवेशं-अनन्त-अवक्लेशि विषय-अन्ते हस्ति-वनं बध्नाति सोअतिसंधत्ते ॥ ०७.१२.०८ ॥
हस्ति-वनयोः अपि यः बहु-शूर-मृगम् दुर्बल-प्रतिवेशम् अनन्त-अवक्लेशि विषय-अन्ते हस्ति-वनम् बध्नाति सः अतिसंधत्ते ॥ ०७।१२।०८ ॥
hasti-vanayoḥ api yaḥ bahu-śūra-mṛgam durbala-prativeśam ananta-avakleśi viṣaya-ante hasti-vanam badhnāti saḥ atisaṃdhatte .. 07.12.08 ..
तत्रापि "बहु-कुण्ठ-अल्प-शूरयोः अल्प-शूरं श्रेयः । शूरेषु हि युद्धम् । अल्पाः शूरा बहूनशूरान्भञ्जन्ति । ते भग्नाः स्व-सैन्य-अवघातिनो भवन्ति" इत्याचार्याः ॥ ०७.१२.०९ ॥
तत्र अपि "बहु-कुण्ठ-अल्प-शूरयोः अल्प-शूरम् श्रेयः । शूरेषु हि युद्धम् । अल्पाः शूराः बहून् अशूरान् भञ्जन्ति । ते भग्नाः स्व-सैन्य-अवघातिनः भवन्ति" इति आचार्याः ॥ ०७।१२।०९ ॥
tatra api "bahu-kuṇṭha-alpa-śūrayoḥ alpa-śūram śreyaḥ . śūreṣu hi yuddham . alpāḥ śūrāḥ bahūn aśūrān bhañjanti . te bhagnāḥ sva-sainya-avaghātinaḥ bhavanti" iti ācāryāḥ .. 07.12.09 ..
नैति कौटिल्यः ॥ ०७.१२.१० ॥
न एति कौटिल्यः ॥ ०७।१२।१० ॥
na eti kauṭilyaḥ .. 07.12.10 ..
कुण्ठा बहवः श्रेयांसः । स्कन्ध-विनियोगादनेकं कर्म कुर्वाणाः स्वेषां अपाश्रयो युद्धे । परेषां दुर्धर्षा विभीषणाश्च ॥ ०७.१२.११ ॥
कुण्ठाः बहवः श्रेयांसः । स्कन्ध-विनियोगात् अनेकम् कर्म कुर्वाणाः स्वेषाम् अपाश्रयः युद्धे । परेषाम् दुर्धर्षाः विभीषणाः च ॥ ०७।१२।११ ॥
kuṇṭhāḥ bahavaḥ śreyāṃsaḥ . skandha-viniyogāt anekam karma kurvāṇāḥ sveṣām apāśrayaḥ yuddhe . pareṣām durdharṣāḥ vibhīṣaṇāḥ ca .. 07.12.11 ..
बहुषु हि कुण्ठेषु विनय-कर्मणा शक्यं शौर्यं आधातुम् । न त्वेवाल्पेषु शूरेषु बहुत्वं इति ॥ ०७.१२.१२ ॥
बहुषु हि कुण्ठेषु विनय-कर्मणा शक्यम् शौर्यम् आधातुम् । न तु एव अल्पेषु शूरेषु बहु-त्वम् इति ॥ ०७।१२।१२ ॥
bahuṣu hi kuṇṭheṣu vinaya-karmaṇā śakyam śauryam ādhātum . na tu eva alpeṣu śūreṣu bahu-tvam iti .. 07.12.12 ..
खन्योरपि यः प्रभूत-सारां अदुर्ग-मार्गां अल्प-व्यय-आरम्भां खनिं खानयति । सोअतिसंधत्ते ॥ ०७.१२.१३ ॥
खन्योः अपि यः प्रभूत-साराम् अदुर्ग-मार्गाम् अल्प-व्यय-आरम्भाम् खनिम् खानयति । सः अतिसंधत्ते ॥ ०७।१२।१३ ॥
khanyoḥ api yaḥ prabhūta-sārām adurga-mārgām alpa-vyaya-ārambhām khanim khānayati . saḥ atisaṃdhatte .. 07.12.13 ..
तत्रापि महा-सारं अल्पं अल्प-सारं वा प्रभूतं इति "महा-सारं अल्पं श्रेयः । वज्र-मणि-मुक्ता-प्रवाल-हेम-रूप्य-धातुर्हि प्रभूतं अल्प-सारं अत्यर्घेण ग्रसते" इत्याचार्याः ॥ ०७.१२.१४ ॥
तत्र अपि महा-सारम् अल्पम् अल्प-सारम् वा प्रभूतम् इति "महा-सारम् अल्पम् श्रेयः । वज्र-मणि-मुक्ता-प्रवाल-हेम-रूप्य-धातुः हि प्रभूतम् अल्प-सारम् अत्यर्घेण ग्रसते" इति आचार्याः ॥ ०७।१२।१४ ॥
tatra api mahā-sāram alpam alpa-sāram vā prabhūtam iti "mahā-sāram alpam śreyaḥ . vajra-maṇi-muktā-pravāla-hema-rūpya-dhātuḥ hi prabhūtam alpa-sāram atyargheṇa grasate" iti ācāryāḥ .. 07.12.14 ..
नैति कौटिल्यः ॥ ०७.१२.१५ ॥
न एति कौटिल्यः ॥ ०७।१२।१५ ॥
na eti kauṭilyaḥ .. 07.12.15 ..
चिरादल्पो महा-सारस्य क्रेता विद्यते । प्रभूतः सातत्यादल्प-सारस्य ॥ ०७.१२.१६ ॥
चिरात् अल्पः महा-सारस्य क्रेता विद्यते । प्रभूतः सातत्यात् अल्प-सारस्य ॥ ०७।१२।१६ ॥
cirāt alpaḥ mahā-sārasya kretā vidyate . prabhūtaḥ sātatyāt alpa-sārasya .. 07.12.16 ..
एतेन वणिक्-पथो व्याख्यातः ॥ ०७.१२.१७ ॥
एतेन वणिज्-पथः व्याख्यातः ॥ ०७।१२।१७ ॥
etena vaṇij-pathaḥ vyākhyātaḥ .. 07.12.17 ..
तत्रापि "वारि-स्थल-पथयोर्वारि-पथः श्रेयान् । अल्प-व्यय-व्यायामः प्रभूत-पण्य-उदयश्च" इत्याचार्याः ॥ ०७.१२.१८ ॥
तत्र अपि "वारि-स्थल-पथयोः वारि-पथः श्रेयान् । अल्प-व्यय-व्यायामः प्रभूत-पण्य-उदयः च" इति आचार्याः ॥ ०७।१२।१८ ॥
tatra api "vāri-sthala-pathayoḥ vāri-pathaḥ śreyān . alpa-vyaya-vyāyāmaḥ prabhūta-paṇya-udayaḥ ca" iti ācāryāḥ .. 07.12.18 ..
नैति कौटिल्यः ॥ ०७.१२.१९ ॥
न एति कौटिल्यः ॥ ०७।१२।१९ ॥
na eti kauṭilyaḥ .. 07.12.19 ..
सम्रुद्ध-गतिरसार्वकालिकः प्रकृष्ट-भय-योनिर्निष्प्रतीकारश्च वारि-पथः । विपरीतः स्थल-पथः ॥ ०७.१२.२० ॥
सम्रुद्ध-गतिः असार्वकालिकः प्रकृष्ट-भय-योनिः निष्प्रतीकारः च वारि-पथः । विपरीतः स्थल-पथः ॥ ०७।१२।२० ॥
samruddha-gatiḥ asārvakālikaḥ prakṛṣṭa-bhaya-yoniḥ niṣpratīkāraḥ ca vāri-pathaḥ . viparītaḥ sthala-pathaḥ .. 07.12.20 ..
वारि-पथे तु कूल-सम्यान-पथयोः कूल-पथः पण्य-पत्तन-बाहुल्यात्श्रेयान् । नदी-पथो वा । सातत्याद्विषह्य-आबाधत्वाच्च ॥ ०७.१२.२१ ॥
वारि-पथे तु कूल-सम्यान-पथयोः कूल-पथः पण्य-पत्तन-बाहुल्यात् श्रेयान् । नदी-पथः वा । सातत्यात् विषह्य-आबाध-त्वात् च ॥ ०७।१२।२१ ॥
vāri-pathe tu kūla-samyāna-pathayoḥ kūla-pathaḥ paṇya-pattana-bāhulyāt śreyān . nadī-pathaḥ vā . sātatyāt viṣahya-ābādha-tvāt ca .. 07.12.21 ..
स्थल-पथेअपि "हैमवतो दक्षिणा-पथात्श्रेयान् । हस्त्य्-अश्व-गन्ध-दन्त-अजिन-रूप्य-सुवर्ण-पण्याः सारवत्तराः" इत्याचार्याः" ॥ ०७.१२.२२ ॥
स्थल-पथे अपि "हैमवतः दक्षिणा-पथात् श्रेयान् । हस्ति-अश्व-गन्ध-दन्त-अजिन-रूप्य-सुवर्ण-पण्याः सारवत्तराः" इति आचार्याः" ॥ ०७।१२।२२ ॥
sthala-pathe api "haimavataḥ dakṣiṇā-pathāt śreyān . hasti-aśva-gandha-danta-ajina-rūpya-suvarṇa-paṇyāḥ sāravattarāḥ" iti ācāryāḥ" .. 07.12.22 ..
नैति कौटिल्यः ॥ ०७.१२.२३ ॥
न एति कौटिल्यः ॥ ०७।१२।२३ ॥
na eti kauṭilyaḥ .. 07.12.23 ..
कम्बल-अजिन-अश्व-पण्य-वर्जाः शङ्ख-वज्र-मणि-मुक्ता-सुवर्ण-पण्याश्च प्रभूततरा दक्षिणा-पथे ॥ ०७.१२.२४ ॥
कम्बल-अजिन-अश्व-पण्य-वर्जाः शङ्ख-वज्र-मणि-मुक्ता-सुवर्ण-पण्याः च प्रभूततराः दक्षिणा-पथे ॥ ०७।१२।२४ ॥
kambala-ajina-aśva-paṇya-varjāḥ śaṅkha-vajra-maṇi-muktā-suvarṇa-paṇyāḥ ca prabhūtatarāḥ dakṣiṇā-pathe .. 07.12.24 ..
दक्षिणा-पथेअपि बहु-खनिः सार-पण्यः प्रसिद्ध-गतिरल्प-व्यय-व्यायामो वा वणिक्-पथः श्रेयान् । प्रभूत-विषयो वा फल्गु-पुण्यः ॥ ०७.१२.२५ ॥
दक्षिणा-पथे अपि बहु-खनिः सार-पण्यः प्रसिद्ध-गतिः अल्प-व्यय-व्यायामः वा वणिज्-पथः श्रेयान् । प्रभूत-विषयः वा फल्गु-पुण्यः ॥ ०७।१२।२५ ॥
dakṣiṇā-pathe api bahu-khaniḥ sāra-paṇyaḥ prasiddha-gatiḥ alpa-vyaya-vyāyāmaḥ vā vaṇij-pathaḥ śreyān . prabhūta-viṣayaḥ vā phalgu-puṇyaḥ .. 07.12.25 ..
तेन पूर्वः पश्चिमश्च वणिक्-पथो व्याख्यातः ॥ ०७.१२.२६ ॥
तेन पूर्वः पश्चिमः च वणिज्-पथः व्याख्यातः ॥ ०७।१२।२६ ॥
tena pūrvaḥ paścimaḥ ca vaṇij-pathaḥ vyākhyātaḥ .. 07.12.26 ..
तत्रापि चक्र-पाद-पथयोश्चक्र-पथो विपुल-आरम्भत्वात्श्रेयान् । देश-काल-सम्भावनो वा खर-उष्ट्र-पथः ॥ ०७.१२.२७ ॥
तत्र अपि चक्र-पाद-पथयोः चक्र-पथः विपुल-आरम्भ-त्वात् श्रेयान् । देश-काल-सम्भावनः वा खर-उष्ट्र-पथः ॥ ०७।१२।२७ ॥
tatra api cakra-pāda-pathayoḥ cakra-pathaḥ vipula-ārambha-tvāt śreyān . deśa-kāla-sambhāvanaḥ vā khara-uṣṭra-pathaḥ .. 07.12.27 ..
आभ्यां अंस-पथो व्याख्यातः ॥ ०७.१२.२८ ॥
आभ्याम् अंस-पथः व्याख्यातः ॥ ०७।१२।२८ ॥
ābhyām aṃsa-pathaḥ vyākhyātaḥ .. 07.12.28 ..
पर-कर्म-उदयो नेतुः क्षयो वृद्धिर्विपर्यये ॥ ०७.१२.२९ ॥
पर-कर्म-उदयः नेतुः क्षयः वृद्धिः विपर्यये ॥ ०७।१२।२९ ॥
para-karma-udayaḥ netuḥ kṣayaḥ vṛddhiḥ viparyaye .. 07.12.29 ..
तुल्ये कर्म-पथे स्थानं ज्ञेयं स्वं विजिगीषुणा ॥ ०७.१२.३० ॥
तुल्ये कर्म-पथे स्थानम् ज्ञेयम् स्वम् विजिगीषुणा ॥ ०७।१२।३० ॥
tulye karma-pathe sthānam jñeyam svam vijigīṣuṇā .. 07.12.30 ..
अल्प-आगम-अतिव्ययता क्षयो वृद्धिर्विपर्यये ॥ ०७.१२.३१ ॥
अल्प-आगम-अति व्यय-ता क्षयः वृद्धिः विपर्यये ॥ ०७।१२।३१ ॥
alpa-āgama-ati vyaya-tā kṣayaḥ vṛddhiḥ viparyaye .. 07.12.31 ..
समाय-व्ययता स्थानं कर्मसु ज्ञेयं आत्मनः ॥ ०७.१२.३२ ॥
समाय-व्यय-ता-स्थानम् कर्मसु ज्ञेयम् आत्मनः ॥ ०७।१२।३२ ॥
samāya-vyaya-tā-sthānam karmasu jñeyam ātmanaḥ .. 07.12.32 ..
तस्मादल्प-व्यय-आरम्भं दुर्ग-आदिषु महा-उदयं ॥ ०७.१२.३३ ॥
तस्मात् अल्प-व्यय-आरम्भम् दुर्ग-आदिषु महा-उदयम् ॥ ०७।१२।३३ ॥
tasmāt alpa-vyaya-ārambham durga-ādiṣu mahā-udayam .. 07.12.33 ..
कर्म लब्ध्वा विशिष्टः स्यादित्युक्ताः कर्म-संधयः ॥ ०७.१२.३४ ॥
कर्म लब्ध्वा विशिष्टः स्यात् इति उक्ताः कर्म-संधयः ॥ ०७।१२।३४ ॥
karma labdhvā viśiṣṭaḥ syāt iti uktāḥ karma-saṃdhayaḥ .. 07.12.34 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In