| |
|

This overlay will guide you through the buttons:

संहत्यारि-विजिगीष्वोरमित्रयोः पर-अभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्ति-सम्पन्नस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.०१ ॥
संहत्य अरि-विजिगीष्वोः अमित्रयोः पर-अभियोगिनोः पार्ष्णिम् गृह्णतोः यः शक्ति-सम्पन्नस्य पार्ष्णिम् गृह्णाति सः अतिसंधत्ते ॥ ०७।१३।०१ ॥
saṃhatya ari-vijigīṣvoḥ amitrayoḥ para-abhiyoginoḥ pārṣṇim gṛhṇatoḥ yaḥ śakti-sampannasya pārṣṇim gṛhṇāti saḥ atisaṃdhatte .. 07.13.01 ..
शक्ति-सम्पन्नो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । न हीन-शक्तिरलब्ध-लाभः ॥ ०७.१३.०२ ॥
शक्ति-सम्पन्नः हि अमित्रम् उच्छिद्य पार्ष्णि-ग्राहम् उच्छिन्द्यात् । न हीन-शक्तिः अलब्ध-लाभः ॥ ०७।१३।०२ ॥
śakti-sampannaḥ hi amitram ucchidya pārṣṇi-grāham ucchindyāt . na hīna-śaktiḥ alabdha-lābhaḥ .. 07.13.02 ..
शक्ति-साम्ये यो विपुल-आरम्भस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.०३ ॥
शक्ति-साम्ये यः विपुल-आरम्भस्य पार्ष्णिम् गृह्णाति सः अतिसंधत्ते ॥ ०७।१३।०३ ॥
śakti-sāmye yaḥ vipula-ārambhasya pārṣṇim gṛhṇāti saḥ atisaṃdhatte .. 07.13.03 ..
विपुल-आरम्भो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । नाल्प-आरम्भः सक्त-चक्रः ॥ ०७.१३.०४ ॥
विपुल-आरम्भः हि अमित्रम् उच्छिद्य पार्ष्णि-ग्राहम् उच्छिन्द्यात् । न अल्प-आरम्भः सक्त-चक्रः ॥ ०७।१३।०४ ॥
vipula-ārambhaḥ hi amitram ucchidya pārṣṇi-grāham ucchindyāt . na alpa-ārambhaḥ sakta-cakraḥ .. 07.13.04 ..
आरम्भ-साम्ये यः सर्व-संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.०५ ॥
आरम्भ-साम्ये यः सर्व-संदोहेन प्रयातस्य पार्ष्णिम् गृह्णाति सः अतिसंधत्ते ॥ ०७।१३।०५ ॥
ārambha-sāmye yaḥ sarva-saṃdohena prayātasya pārṣṇim gṛhṇāti saḥ atisaṃdhatte .. 07.13.05 ..
शून्य-मूलो ह्यस्य सुकरो भवति । नैक-देश-बल-प्रयातः कृत-पार्ष्णि-प्रतिविधानः ॥ ०७.१३.०६ ॥
शून्य-मूलः हि अस्य सुकरः भवति । न एक-देश-बल-प्रयातः कृत-पार्ष्णि-प्रतिविधानः ॥ ०७।१३।०६ ॥
śūnya-mūlaḥ hi asya sukaraḥ bhavati . na eka-deśa-bala-prayātaḥ kṛta-pārṣṇi-pratividhānaḥ .. 07.13.06 ..
बल-उपादान-साम्ये यश्चल-अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.०७ ॥
बल-उपादान-साम्ये यः चल-अमित्रम् प्रयातस्य पार्ष्णिम् गृह्णाति सः अतिसंधत्ते ॥ ०७।१३।०७ ॥
bala-upādāna-sāmye yaḥ cala-amitram prayātasya pārṣṇim gṛhṇāti saḥ atisaṃdhatte .. 07.13.07 ..
चल-अमित्रं प्रयातो हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् । न स्थित-अमित्रं प्रयातः ॥ ०७.१३.०८ ॥
चल-अमित्रम् प्रयातः हि सुखेन अवाप्त-सिद्धिः पार्ष्णि-ग्राहम् उच्छिन्द्यात् । न स्थित-अमित्रम् प्रयातः ॥ ०७।१३।०८ ॥
cala-amitram prayātaḥ hi sukhena avāpta-siddhiḥ pārṣṇi-grāham ucchindyāt . na sthita-amitram prayātaḥ .. 07.13.08 ..
असौ हि दुर्ग-प्रतिहतः पार्ष्णि-ग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते ॥ ०७.१३.०९ ॥
असौ हि दुर्ग-प्रतिहतः पार्ष्णि-ग्राहे च प्रतिनिवृत्तः स्थितेन अमित्रेण अवगृह्यते ॥ ०७।१३।०९ ॥
asau hi durga-pratihataḥ pārṣṇi-grāhe ca pratinivṛttaḥ sthitena amitreṇa avagṛhyate .. 07.13.09 ..
तेन पूर्वे व्याख्याताः ॥ ०७.१३.१० ॥
तेन पूर्वे व्याख्याताः ॥ ०७।१३।१० ॥
tena pūrve vyākhyātāḥ .. 07.13.10 ..
शत्रु-साम्ये यो धार्मिक-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.११ ॥
शत्रु-साम्ये यः धार्मिक-अभियोगिनः पार्ष्णिम् गृह्णाति सः अतिसंधत्ते ॥ ०७।१३।११ ॥
śatru-sāmye yaḥ dhārmika-abhiyoginaḥ pārṣṇim gṛhṇāti saḥ atisaṃdhatte .. 07.13.11 ..
धार्मिक-अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति । अधार्मिक-अभियोगी सम्प्रियः ॥ ०७.१३.१२ ॥
धार्मिक-अभियोगी हि स्वेषाम् परेषाम् च द्वेष्यः भवति । अधार्मिक-अभियोगी सम्प्रियः ॥ ०७।१३।१२ ॥
dhārmika-abhiyogī hi sveṣām pareṣām ca dveṣyaḥ bhavati . adhārmika-abhiyogī sampriyaḥ .. 07.13.12 ..
तेन मूल-हर-तादात्विक-कदर्य-अभियोगिनां पार्ष्णि-ग्रहणं व्याख्यातं ॥ ०७.१३.१३ ॥
तेन मूल-हर-तादात्विक-कदर्य-अभियोगिनाम् पार्ष्णि-ग्रहणम् व्याख्यातम् ॥ ०७।१३।१३ ॥
tena mūla-hara-tādātvika-kadarya-abhiyoginām pārṣṇi-grahaṇam vyākhyātam .. 07.13.13 ..
मित्र-अभियोगिनोः पार्ष्णि-ग्रहणे त एव हेतवः ॥ ०७.१३.१४ ॥
मित्र-अभियोगिनोः पार्ष्णि-ग्रहणे ते एव हेतवः ॥ ०७।१३।१४ ॥
mitra-abhiyoginoḥ pārṣṇi-grahaṇe te eva hetavaḥ .. 07.13.14 ..
मित्रं अमित्रं चाभियुञ्जानयोर्यो मित्र-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.१५ ॥
मित्रम् अमित्रम् च अभियुञ्जानयोः यः मित्र-अभियोगिनः पार्ष्णिम् गृह्णाति सः अतिसंधत्ते ॥ ०७।१३।१५ ॥
mitram amitram ca abhiyuñjānayoḥ yaḥ mitra-abhiyoginaḥ pārṣṇim gṛhṇāti saḥ atisaṃdhatte .. 07.13.15 ..
मित्र-अभियोगी हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् ॥ ०७.१३.१६ ॥
मित्र-अभियोगी हि सुखेन अवाप्त-सिद्धिः पार्ष्णि-ग्राहम् उच्छिन्द्यात् ॥ ०७।१३।१६ ॥
mitra-abhiyogī hi sukhena avāpta-siddhiḥ pārṣṇi-grāham ucchindyāt .. 07.13.16 ..
सुकरो हि मित्रेण संधिर्नामित्रेण ॥ ०७.१३.१७ ॥
सुकरः हि मित्रेण संधिः न अमित्रेण ॥ ०७।१३।१७ ॥
sukaraḥ hi mitreṇa saṃdhiḥ na amitreṇa .. 07.13.17 ..
मित्रं अमित्रं चौद्धरतोर्योअमित्र-उद्धारिणः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७.१३.१८ ॥
मित्रम् अमित्रम् च औद्धरतोः यः अमित्र उद्धारिणः पार्ष्णिम् गृह्णाति सः अतिसंधत्ते ॥ ०७।१३।१८ ॥
mitram amitram ca auddharatoḥ yaḥ amitra uddhāriṇaḥ pārṣṇim gṛhṇāti saḥ atisaṃdhatte .. 07.13.18 ..
वृद्ध-मित्रो ह्यमित्र-उद्धारी पार्ष्णि-ग्राहं उच्छिन्द्यात् । नैतरः स्व-पक्ष-उपघाती ॥ ०७.१३.१९ ॥
वृद्ध-मित्रः हि अमित्र-उद्धारी पार्ष्णि-ग्राहम् उच्छिन्द्यात् । न एतरः स्व-पक्ष-उपघाती ॥ ०७।१३।१९ ॥
vṛddha-mitraḥ hi amitra-uddhārī pārṣṇi-grāham ucchindyāt . na etaraḥ sva-pakṣa-upaghātī .. 07.13.19 ..
तयोरलब्ध-लाभ-अपगमने यस्य-अमित्रो महतो लाभाद्वियुक्तः क्षय-व्यय-अधिको वा स पार्ष्णि-ग्राहोअतिसंधत्ते ॥ ०७.१३.२० ॥
तयोः अलब्ध-लाभ-अपगमने यस्य अमित्रः महतः लाभात् वियुक्तः क्षय-व्यय-अधिकः वा स पार्ष्णि-ग्राहः अतिसंधत्ते ॥ ०७।१३।२० ॥
tayoḥ alabdha-lābha-apagamane yasya amitraḥ mahataḥ lābhāt viyuktaḥ kṣaya-vyaya-adhikaḥ vā sa pārṣṇi-grāhaḥ atisaṃdhatte .. 07.13.20 ..
लब्ध-लाभ-अपगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णि-ग्राहोअतिसंधत्ते । यस्य वा यातव्यः शत्रोर्विग्रह-अपकार-समर्थः स्यात् ॥ ०७.१३.२१ ॥
लब्ध-लाभ-अपगमने यस्य अमित्रः लाभेन शक्त्या हीनः स पार्ष्णि-ग्राहः अतिसंधत्ते । यस्य वा यातव्यः शत्रोः विग्रह-अपकार-समर्थः स्यात् ॥ ०७।१३।२१ ॥
labdha-lābha-apagamane yasya amitraḥ lābhena śaktyā hīnaḥ sa pārṣṇi-grāhaḥ atisaṃdhatte . yasya vā yātavyaḥ śatroḥ vigraha-apakāra-samarthaḥ syāt .. 07.13.21 ..
पार्ष्णि-ग्राहयोरपि यः शक्य-आरम्भ-बल-उपादान-अधिकः स्थित-शत्रुः पार्श्व-स्थायी वा सोअतिसंधत्ते ॥ ०७.१३.२२ ॥
पार्ष्णि-ग्राहयोः अपि यः शक्य-आरम्भ-बल-उपादान-अधिकः स्थित-शत्रुः पार्श्व-स्थायी वा सः अतिसंधत्ते ॥ ०७।१३।२२ ॥
pārṣṇi-grāhayoḥ api yaḥ śakya-ārambha-bala-upādāna-adhikaḥ sthita-śatruḥ pārśva-sthāyī vā saḥ atisaṃdhatte .. 07.13.22 ..
पार्श्व-स्थायी हि यातव्य-अभिसारो मूल-आबाधकश्च भवति । मूल-आबाधक एव पश्चात्-स्थायी ॥ ०७.१३.२३ ॥
पार्श्व-स्थायी हि यातव्य-अभिसारः मूल-आबाधकः च भवति । मूल-आबाधकः एव पश्चात् स्थायी ॥ ०७।१३।२३ ॥
pārśva-sthāyī hi yātavya-abhisāraḥ mūla-ābādhakaḥ ca bhavati . mūla-ābādhakaḥ eva paścāt sthāyī .. 07.13.23 ..
पार्ष्णि-ग्राहास्त्रयो ज्ञेयाः शत्रोश्चेष्टा-निरोधकाः । ॥ ०७.१३.२४अ ब ॥
पार्ष्णि-ग्राहाः त्रयः ज्ञेयाः शत्रोः चेष्टा-निरोधकाः । ॥ ०७।१३।२४अ ब ॥
pārṣṇi-grāhāḥ trayaḥ jñeyāḥ śatroḥ ceṣṭā-nirodhakāḥ . .. 07.13.24a ba ..
सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ॥ ०७.१३.२४च्द् ॥
सामन्तः पृष्ठतस् वर्गः प्रतिवेशौ च पार्श्वयोः ॥ ०७।१३।२४च् ॥
sāmantaḥ pṛṣṭhatas vargaḥ prativeśau ca pārśvayoḥ .. 07.13.24c ..
अरेर्नेतुश्च मध्यस्थो दुर्बलोअन्तर्धिरुच्यते । ॥ ०७.१३.२५अ ब ॥
अरेः नेतुः च मध्यस्थः दुर्बलः अन्तर्धिः उच्यते । ॥ ०७।१३।२५अ ब ॥
areḥ netuḥ ca madhyasthaḥ durbalaḥ antardhiḥ ucyate . .. 07.13.25a ba ..
प्रतिघातो बलवतो दुर्ग-अटव्य्-अपसारवान् ॥ ०७.१३.२५च्द् ॥
प्रतिघातः बलवतः दुर्ग-अटवी-अपसारवान् ॥ ०७।१३।२५च् ॥
pratighātaḥ balavataḥ durga-aṭavī-apasāravān .. 07.13.25c ..
मध्यमं त्वरि-विजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्ध-लाभ-अपगमने यो मध्यमं मित्राद्वियोजयत्यमित्रं च मित्रं आप्नोति सोअतिसंधत्ते ॥ ०७.१३.२६ ॥
मध्यमम् तु अरि-विजिगीष्वोः लिप्समानयोः मध्यमस्य पार्ष्णिम् गृह्णतोः लब्ध-लाभ-अपगमने यः मध्यमम् मित्रात् वियोजयति अमित्रम् च मित्रम् आप्नोति सः अतिसंधत्ते ॥ ०७।१३।२६ ॥
madhyamam tu ari-vijigīṣvoḥ lipsamānayoḥ madhyamasya pārṣṇim gṛhṇatoḥ labdha-lābha-apagamane yaḥ madhyamam mitrāt viyojayati amitram ca mitram āpnoti saḥ atisaṃdhatte .. 07.13.26 ..
संधेयश्च शत्रुरुपकुर्वाणो । न मित्रं मित्र-भावादुत्क्रान्तं ॥ ०७.१३.२७ ॥
संधेयः च शत्रुः उपकुर्वाणः । न मित्रम् मित्र-भावात् उत्क्रान्तम् ॥ ०७।१३।२७ ॥
saṃdheyaḥ ca śatruḥ upakurvāṇaḥ . na mitram mitra-bhāvāt utkrāntam .. 07.13.27 ..
तेनौदासीन-लिप्सा व्याख्याता ॥ ०७.१३.२८ ॥
तेन औदासीन-लिप्सा व्याख्याता ॥ ०७।१३।२८ ॥
tena audāsīna-lipsā vyākhyātā .. 07.13.28 ..
पार्ष्णि-ग्रहण-अभियानयोस्तु मन्त्र-युद्धादभ्युच्चयः ॥ ०७.१३.२९ ॥
पार्ष्णि-ग्रहण-अभियानयोः तु मन्त्र-युद्धात् अभ्युच्चयः ॥ ०७।१३।२९ ॥
pārṣṇi-grahaṇa-abhiyānayoḥ tu mantra-yuddhāt abhyuccayaḥ .. 07.13.29 ..
व्यायाम-युद्धे हि क्षय-व्ययाभ्यां उभयोरवृद्धिः ॥ कश्०७.१३.३० ॥
व्यायाम-युद्धे हि क्षय-व्ययाभ्याम् उभयोः अवृद्धिः ॥ ।१३।३० ॥
vyāyāma-yuddhe hi kṣaya-vyayābhyām ubhayoḥ avṛddhiḥ .. .13.30 ..
जित्वाअपि हि क्षिण-दण्ड-कोशः पराजितो भवति इत्याचार्याः ॥ ०७.१३.३१ ॥
जित्वा अपि हि क्षिण-दण्ड-कोशः पराजितः भवति इति आचार्याः ॥ ०७।१३।३१ ॥
jitvā api hi kṣiṇa-daṇḍa-kośaḥ parājitaḥ bhavati iti ācāryāḥ .. 07.13.31 ..
नैति कौटिल्यः ॥ ०७.१३.३२ ॥
न एति कौटिल्यः ॥ ०७।१३।३२ ॥
na eti kauṭilyaḥ .. 07.13.32 ..
सुमहताअपि क्षय-व्ययेन शत्रु-विनाशोअभ्युपगन्तव्यः ॥ ०७.१३.३३ ॥
सु महता अपि क्षय-व्ययेन शत्रु-विनाशः अभ्युपगन्तव्यः ॥ ०७।१३।३३ ॥
su mahatā api kṣaya-vyayena śatru-vināśaḥ abhyupagantavyaḥ .. 07.13.33 ..
तुल्ये क्षय-व्यये यः पुरस्ताद्दूष्य-बलं घातयित्वा निह्शल्यः पश्चाद्वश्य-बलो युध्येत सोअतिसंधत्ते ॥ ०७.१३.३४ ॥
तुल्ये क्षय-व्यये यः पुरस्तात् दूष्य-बलम् घातयित्वा निह्शल्यः पश्चात् वश्य-बलः युध्येत सः अतिसंधत्ते ॥ ०७।१३।३४ ॥
tulye kṣaya-vyaye yaḥ purastāt dūṣya-balam ghātayitvā nihśalyaḥ paścāt vaśya-balaḥ yudhyeta saḥ atisaṃdhatte .. 07.13.34 ..
द्वयोरपि पुरस्ताद्दूष्य-बल-घातिनोर्यो बहुलतरं शक्तिमत्तरं अत्यन्त-दूष्यं च घातयेत्सोअतिसंधत्ते ॥ ०७.१३.३५ ॥
द्वयोः अपि पुरस्तात् दूष्य-बल-घातिनोः यः बहुलतरम् शक्तिमत्तरम् अत्यन्त-दूष्यम् च घातयेत् सः अतिसंधत्ते ॥ ०७।१३।३५ ॥
dvayoḥ api purastāt dūṣya-bala-ghātinoḥ yaḥ bahulataram śaktimattaram atyanta-dūṣyam ca ghātayet saḥ atisaṃdhatte .. 07.13.35 ..
तेनामित्र-अटवी-बल-घातो व्याख्यातः ॥ ०७.१३.३६ ॥
तेन अमित्र-अटवी-बल-घातः व्याख्यातः ॥ ०७।१३।३६ ॥
tena amitra-aṭavī-bala-ghātaḥ vyākhyātaḥ .. 07.13.36 ..
पार्ष्णि-ग्राहोअभियोक्ता वा यातव्यो वा यदा भवेत् । ॥ ०७.१३.३७अ ब ॥
पार्ष्णि-ग्राहः अभियोक्ता वा यातव्यः वा यदा भवेत् । ॥ ०७।१३।३७अ ब ॥
pārṣṇi-grāhaḥ abhiyoktā vā yātavyaḥ vā yadā bhavet . .. 07.13.37a ba ..
विजिगीषुस्तदा तत्र नेत्रं एतत्समाचरेत् ॥ ०७.१३.३७च्द् ॥
विजिगीषुः तदा तत्र नेत्रम् एतत् समाचरेत् ॥ ०७।१३।३७च् ॥
vijigīṣuḥ tadā tatra netram etat samācaret .. 07.13.37c ..
पार्ष्णि-ग्राहो भवेन्नेता शत्रोर्मित्र-अभियोगिनः । ॥ ०७.१३.३८अ ब ॥
पार्ष्णि-ग्राहः भवेत् नेता शत्रोः मित्र-अभियोगिनः । ॥ ०७।१३।३८अ ब ॥
pārṣṇi-grāhaḥ bhavet netā śatroḥ mitra-abhiyoginaḥ . .. 07.13.38a ba ..
विग्राह्य पूर्वं आक्रन्दं पार्ष्णि-ग्राह-अभिसारिणा ॥ ०७.१३.३८च्द् ॥
विग्राह्य पूर्वम् आक्रन्दम् पार्ष्णि-ग्राह-अभिसारिणा ॥ ०७।१३।३८च् ॥
vigrāhya pūrvam ākrandam pārṣṇi-grāha-abhisāriṇā .. 07.13.38c ..
आक्रन्देनाभियुञ्जानः पार्ष्णि-ग्राहं निवारयेत् । ॥ ०७.१३.३९अ ब ॥
आक्रन्देन अभियुञ्जानः पार्ष्णि-ग्राहम् निवारयेत् । ॥ ०७।१३।३९अ ब ॥
ākrandena abhiyuñjānaḥ pārṣṇi-grāham nivārayet . .. 07.13.39a ba ..
तथाआक्रन्द-अभिसारेण पार्ष्णि-ग्राह-अभिसारिणं ॥ ०७.१३.३९च्द् ॥
तथा आक्रन्द-अभिसारेण पार्ष्णि-ग्राह-अभिसारिणम् ॥ ०७।१३।३९च् ॥
tathā ākranda-abhisāreṇa pārṣṇi-grāha-abhisāriṇam .. 07.13.39c ..
अरि-मित्रेण मित्रं च पुरस्तादवघट्टयेत् । ॥ ०७.१३.४०अ ब ॥
अरि-मित्रेण मित्रम् च पुरस्तात् अवघट्टयेत् । ॥ ०७।१३।४०अ ब ॥
ari-mitreṇa mitram ca purastāt avaghaṭṭayet . .. 07.13.40a ba ..
मित्र-मित्रं अरेश्चापि मित्र-मित्रेण वारयेत् ॥ ०७.१३.४०च्द् ॥
मित्र-मित्रम् अरेः च अपि मित्र-मित्रेण वारयेत् ॥ ०७।१३।४०च् ॥
mitra-mitram areḥ ca api mitra-mitreṇa vārayet .. 07.13.40c ..
मित्रेण ग्राहयेत्पार्ष्णिं अभियुक्तोअभियोगिनः । ॥ ०७.१३.४१अ ब ॥
मित्रेण ग्राहयेत् पार्ष्णिम् अभियुक्तः अभियोगिनः । ॥ ०७।१३।४१अ ब ॥
mitreṇa grāhayet pārṣṇim abhiyuktaḥ abhiyoginaḥ . .. 07.13.41a ba ..
मित्र-मित्रेण चऽक्रन्दं पार्ष्णि-ग्राहान्निवारयेत् ॥ ०७.१३.४१च्द् ॥
मित्र-मित्रेण च अक्रन्दम् पार्ष्णि-ग्राहान् निवारयेत् ॥ ०७।१३।४१च् ॥
mitra-mitreṇa ca akrandam pārṣṇi-grāhān nivārayet .. 07.13.41c ..
एवं मण्डलं आत्म-अर्थं विजिगीषुर्निवेशयेत् । ॥ ०७.१३.४२अ ब ॥
एवम् मण्डलम् आत्म-अर्थम् विजिगीषुः निवेशयेत् । ॥ ०७।१३।४२अ ब ॥
evam maṇḍalam ātma-artham vijigīṣuḥ niveśayet . .. 07.13.42a ba ..
पृष्ठतश्च पुरस्ताच्च मित्र-प्रकृति-सम्पदा ॥ ०७.१३.४२च्द् ॥
पृष्ठतस् च पुरस्तात् च मित्र-प्रकृति-सम्पदा ॥ ०७।१३।४२च् ॥
pṛṣṭhatas ca purastāt ca mitra-prakṛti-sampadā .. 07.13.42c ..
कृत्स्ने च मण्डले नित्यं दूतान्गूढांश्च वासयेत् । ॥ ०७.१३.४३अ ब ॥
कृत्स्ने च मण्डले नित्यम् दूतान् गूढान् च वासयेत् । ॥ ०७।१३।४३अ ब ॥
kṛtsne ca maṇḍale nityam dūtān gūḍhān ca vāsayet . .. 07.13.43a ba ..
मित्र-भूतः सपत्नानां हत्वा हत्वा च संवृतः ॥ ०७.१३.४३च्द् ॥
मित्र-भूतः सपत्नानाम् हत्वा हत्वा च संवृतः ॥ ०७।१३।४३च् ॥
mitra-bhūtaḥ sapatnānām hatvā hatvā ca saṃvṛtaḥ .. 07.13.43c ..
असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः । ॥ ०७.१३.४४अ ब ॥
असंवृतस्य कार्याणि प्राप्तानि अपि विशेषतः । ॥ ०७।१३।४४अ ब ॥
asaṃvṛtasya kāryāṇi prāptāni api viśeṣataḥ . .. 07.13.44a ba ..
निह्संशयं विपद्यन्ते भिन्न-प्लव इवौदधौ ॥ ०७.१३.४४च्द् ॥
निह्संशयम् विपद्यन्ते भिन्न-प्लवे इव ओदधौ ॥ ०७।१३।४४च् ॥
nihsaṃśayam vipadyante bhinna-plave iva odadhau .. 07.13.44c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In