| |
|

This overlay will guide you through the buttons:

सामवायिकैरेवं अभियुक्तो विजिगीषुर्यस्तेषां प्रधानस्तं ब्रूयात्"त्वया मे संधिः । इदं हिरण्यम् । अहं च मित्रम् । द्वि-गुणा ते वृद्धिः । नार्हस्यात्म-क्षयेण मित्र-मुखानमित्रान्वर्धयितुम् । एते हि वृद्धास्त्वां एव परिभविष्यन्ति" इति ॥ ०७.१४.०१ ॥
सामवायिकैः एवम् अभियुक्तः विजिगीषुः यः तेषाम् प्रधानः तम् ब्रूयात्"त्वया मे संधिः । इदम् हिरण्यम् । अहम् च मित्रम् । द्वि-गुणा ते वृद्धिः । न अर्हसि आत्म-क्षयेण मित्र-मुखान् अमित्रान् वर्धयितुम् । एते हि वृद्धाः त्वाम् एव परिभविष्यन्ति" इति ॥ ०७।१४।०१ ॥
sāmavāyikaiḥ evam abhiyuktaḥ vijigīṣuḥ yaḥ teṣām pradhānaḥ tam brūyāt"tvayā me saṃdhiḥ . idam hiraṇyam . aham ca mitram . dvi-guṇā te vṛddhiḥ . na arhasi ātma-kṣayeṇa mitra-mukhān amitrān vardhayitum . ete hi vṛddhāḥ tvām eva paribhaviṣyanti" iti .. 07.14.01 ..
भेदं वा ब्रूयात्"अनपकारो यथाअहं एतैः सम्भूयाभियुक्तस्तथा त्वां अप्येते संहित-बलाः स्वस्था व्यसने वाअभियोक्ष्यन्ते । बलं हि चित्तं विकरोति । तदेषां विघातय" इति ॥ ०७.१४.०२ ॥
भेदम् वा ब्रूयात्"अनपकारः यथा अहम् एतैः सम्भूय अभियुक्तः तथा त्वाम् अपि एते संहित-बलाः स्वस्थाः व्यसने वा अभियोक्ष्यन्ते । बलम् हि चित्तम् विकरोति । तत् एषाम् विघातय" इति ॥ ०७।१४।०२ ॥
bhedam vā brūyāt"anapakāraḥ yathā aham etaiḥ sambhūya abhiyuktaḥ tathā tvām api ete saṃhita-balāḥ svasthāḥ vyasane vā abhiyokṣyante . balam hi cittam vikaroti . tat eṣām vighātaya" iti .. 07.14.02 ..
भिन्नेषु प्रधानं उपगृह्य हीनेषु विक्रमयेत् । हीनाननुग्राह्य वा प्रधाने । यथा वा श्रेयोअभिमन्येत तथा ॥ ०७.१४.०३ ॥
भिन्नेषु प्रधानम् उपगृह्य हीनेषु विक्रमयेत् । हीन-अन् अनुग्राह्य वा प्रधाने । यथा वा श्रेयः अभिमन्येत तथा ॥ ०७।१४।०३ ॥
bhinneṣu pradhānam upagṛhya hīneṣu vikramayet . hīna-an anugrāhya vā pradhāne . yathā vā śreyaḥ abhimanyeta tathā .. 07.14.03 ..
वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ॥ ०७.१४.०४ ॥
वैरम् वा परैः ग्राहयित्वा विसंवादयेत् ॥ ०७।१४।०४ ॥
vairam vā paraiḥ grāhayitvā visaṃvādayet .. 07.14.04 ..
फल-भूयस्त्वेन वा प्रधानं उपजाप्य संधिं कारयेत् ॥ ०७.१४.०५ ॥
फल-भूयः-त्वेन वा प्रधानम् उपजाप्य संधिम् कारयेत् ॥ ०७।१४।०५ ॥
phala-bhūyaḥ-tvena vā pradhānam upajāpya saṃdhim kārayet .. 07.14.05 ..
अथौभय-वेतनाः फल-भूयस्त्वं दर्शयन्तः सामवायिकान्"अतिसंहिताः स्थ" इत्युद्द्दूषयेयुः ॥ ०७.१४.०६ ॥
अथ औभय-वेतनाः फल-भूयः-त्वम् दर्शयन्तः सामवायिकान्"अतिसंहिताः स्थ" इति उद्दूषयेयुः ॥ ०७।१४।०६ ॥
atha aubhaya-vetanāḥ phala-bhūyaḥ-tvam darśayantaḥ sāmavāyikān"atisaṃhitāḥ stha" iti uddūṣayeyuḥ .. 07.14.06 ..
दुष्टेषु संधिं दूषयेत् ॥ ०७.१४.०७ ॥
दुष्टेषु संधिम् दूषयेत् ॥ ०७।१४।०७ ॥
duṣṭeṣu saṃdhim dūṣayet .. 07.14.07 ..
अथौभय-वेतना भूयो भेदं एषां कुर्युः "एवं तद्यदस्माभिर्दर्शितम्" इति ॥ ०७.१४.०८ ॥
अथ औभय-वेतनाः भूयः भेदम् एषाम् कुर्युः "एवम् तत् यत् अस्माभिः दर्शितम्" इति ॥ ०७।१४।०८ ॥
atha aubhaya-vetanāḥ bhūyaḥ bhedam eṣām kuryuḥ "evam tat yat asmābhiḥ darśitam" iti .. 07.14.08 ..
भिन्नेष्वन्यतम-उपग्रहेण चेष्टेत ॥ ०७.१४.०९ ॥
भिन्नेषु अन्यतमः उपग्रहेण चेष्टेत ॥ ०७।१४।०९ ॥
bhinneṣu anyatamaḥ upagraheṇa ceṣṭeta .. 07.14.09 ..
प्रधान-अभावे सामवायिकानां उत्साहयितारं स्थिर-कर्माणं अनुरक्त-प्रकृक्तिं लोभाद्भयाद्वा संघातं उपागतं विजिगीषोर्भीतं राज्य-प्रतिसम्बद्धं मित्रं चल-अमित्रं वा पूर्वानुत्तर-अभावे साधयेत् उत्साहयितारं आत्म-निसर्गेण । स्थिर-कर्माणं सान्त्व-प्रणिपातेन । अनुरक्त-प्रकृतिं कन्या-दान-यापनाभ्याम् । लुब्धं अंश-द्वैगुण्येन । भीतं एभ्यः कोश-दण्ड-अनुग्रहेण । स्वतो भीतं विश्वास्य प्रतिभू-प्रदानेन । राज्य-प्रतिसम्बद्धं एकी-भाव-उपगमनेन । मित्रं उभयतः प्रिय-हिताभ्याम् । उपकार-त्यागेन वा । चल-अमित्रं अवधृतं अनपकार-उपकाराभ्याम् ॥ ०७.१४.१० ॥
प्रधान-अभावे सामवायिकानाम् उत्साहयितारम् स्थिर-कर्माणम् अनुरक्त-प्रकृक्तिम् लोभात् भयात् वा संघातम् उपागतम् विजिगीषोः भीतम् राज्य-प्रतिसम्बद्धम् मित्रम् चल-अमित्रम् वा पूर्व-अनुत्तर-अभावे साधयेत् उत्साहयितारम् आत्म-निसर्गेण । स्थिर-कर्माणम् सान्त्व-प्रणिपातेन । अनुरक्त-प्रकृतिम् कन्या-दान-यापनाभ्याम् । लुब्धम् अंश-द्वैगुण्येन । भीतम् एभ्यः कोश-दण्ड-अनुग्रहेण । स्वतस् भीतम् विश्वास्य प्रतिभू-प्रदानेन । राज्य-प्रतिसम्बद्धम् एकीभाव-उपगमनेन । मित्रम् उभयतस् प्रिय-हिताभ्याम् । उपकार-त्यागेन वा । चल-अमित्रम् अवधृतम् अनपकार-उपकाराभ्याम् ॥ ०७।१४।१० ॥
pradhāna-abhāve sāmavāyikānām utsāhayitāram sthira-karmāṇam anurakta-prakṛktim lobhāt bhayāt vā saṃghātam upāgatam vijigīṣoḥ bhītam rājya-pratisambaddham mitram cala-amitram vā pūrva-anuttara-abhāve sādhayet utsāhayitāram ātma-nisargeṇa . sthira-karmāṇam sāntva-praṇipātena . anurakta-prakṛtim kanyā-dāna-yāpanābhyām . lubdham aṃśa-dvaiguṇyena . bhītam ebhyaḥ kośa-daṇḍa-anugraheṇa . svatas bhītam viśvāsya pratibhū-pradānena . rājya-pratisambaddham ekībhāva-upagamanena . mitram ubhayatas priya-hitābhyām . upakāra-tyāgena vā . cala-amitram avadhṛtam anapakāra-upakārābhyām .. 07.14.10 ..
यो वा यथाअयोगं भजेत तं तथा साधयेत् । साम-दान-भेद-दण्डैर्वा यथाआपत्सु व्याख्यास्यामः ॥ ०७.१४.११ ॥
यः वा यथा अयोगम् भजेत तम् तथा साधयेत् । साम-दान-भेद-दण्डैः वा यथा आपत्सु व्याख्यास्यामः ॥ ०७।१४।११ ॥
yaḥ vā yathā ayogam bhajeta tam tathā sādhayet . sāma-dāna-bheda-daṇḍaiḥ vā yathā āpatsu vyākhyāsyāmaḥ .. 07.14.11 ..
व्यसन-उपघात-त्वरितो वा कोश-दण्डाभ्यां देशे काले कार्ये वाअवधृतं संधिं उपेयात् ॥ ०७.१४.१२ ॥
व्यसन-उपघात-त्वरितः वा कोश-दण्डाभ्याम् देशे काले कार्ये वा अवधृतम् संधिम् उपेयात् ॥ ०७।१४।१२ ॥
vyasana-upaghāta-tvaritaḥ vā kośa-daṇḍābhyām deśe kāle kārye vā avadhṛtam saṃdhim upeyāt .. 07.14.12 ..
कृत-संधिर्हीनं आत्मानं प्रतिकुर्वीत ॥ ०७.१४.१३ ॥
कृत-संधिः हीनम् आत्मानम् प्रतिकुर्वीत ॥ ०७।१४।१३ ॥
kṛta-saṃdhiḥ hīnam ātmānam pratikurvīta .. 07.14.13 ..
पक्षे हीनो बन्धु-मित्र-पक्षं कुर्वीत । दुर्गं अविषह्यं वा ॥ ०७.१४.१४ ॥
पक्षे हीनः बन्धु-मित्र-पक्षम् कुर्वीत । दुर्गम् अविषह्यम् वा ॥ ०७।१४।१४ ॥
pakṣe hīnaḥ bandhu-mitra-pakṣam kurvīta . durgam aviṣahyam vā .. 07.14.14 ..
दुर्ग-मित्र-प्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति ॥ ०७.१४.१५ ॥
दुर्ग-मित्र-प्रतिष्टब्धः हि स्वेषाम् परेषाम् च पूज्यः भवति ॥ ०७।१४।१५ ॥
durga-mitra-pratiṣṭabdhaḥ hi sveṣām pareṣām ca pūjyaḥ bhavati .. 07.14.15 ..
मन्त्र-शक्ति-हीनः प्राज्ञ-पुरुष-उपचयं विद्या-वृद्ध-सम्योगं वा कुर्वीत ॥ ०७.१४.१६ ॥
मन्त्र-शक्ति-हीनः प्राज्ञ-पुरुष-उपचयम् विद्या-वृद्ध-सम्योगम् वा कुर्वीत ॥ ०७।१४।१६ ॥
mantra-śakti-hīnaḥ prājña-puruṣa-upacayam vidyā-vṛddha-samyogam vā kurvīta .. 07.14.16 ..
तथा हि सद्यः श्रेयः प्राप्नोति ॥ ०७.१४.१७ ॥
तथा हि सद्यस् श्रेयः प्राप्नोति ॥ ०७।१४।१७ ॥
tathā hi sadyas śreyaḥ prāpnoti .. 07.14.17 ..
प्रभाव-हीनः प्रकृति-योग-क्षेम-सिद्धौ यतेत ॥ ०७.१४.१८ ॥
प्रभाव-हीनः प्रकृति-योग-क्षेम-सिद्धौ यतेत ॥ ०७।१४।१८ ॥
prabhāva-hīnaḥ prakṛti-yoga-kṣema-siddhau yateta .. 07.14.18 ..
जन-पदः सर्व-कर्मणां योनिः । ततः प्रभावः ॥ ०७.१४.१९ ॥
जन-पदः सर्व-कर्मणाम् योनिः । ततस् प्रभावः ॥ ०७।१४।१९ ॥
jana-padaḥ sarva-karmaṇām yoniḥ . tatas prabhāvaḥ .. 07.14.19 ..
तस्य स्थानं आत्मनश्चऽपदि दुर्गं ॥ ०७.१४.२० ॥
तस्य स्थानम् दुर्गम् ॥ ०७।१४।२० ॥
tasya sthānam durgam .. 07.14.20 ..
सेतु-बन्धः सस्यानां योनिः ॥ ०७.१४.२१ ॥
सेतु-बन्धः सस्यानाम् योनिः ॥ ०७।१४।२१ ॥
setu-bandhaḥ sasyānām yoniḥ .. 07.14.21 ..
नित्य-अनुषक्तो हि वर्ष-गुण-लाभः सेतु-वापेषु ॥ ०७.१४.२२ ॥
नित्य-अनुषक्तः हि वर्ष-गुण-लाभः सेतु-वापेषु ॥ ०७।१४।२२ ॥
nitya-anuṣaktaḥ hi varṣa-guṇa-lābhaḥ setu-vāpeṣu .. 07.14.22 ..
वणिक्-पथः पर-अतिसंधानस्य योनिः ॥ ०७.१४.२३ ॥
वणिज्-पथः पर-अतिसंधानस्य योनिः ॥ ०७।१४।२३ ॥
vaṇij-pathaḥ para-atisaṃdhānasya yoniḥ .. 07.14.23 ..
वणिक्-पथेन हि दण्ड-गूढ-पुरुष-अतिनयनं शस्त्र-आवरण-यान-वाहन-क्रयश्च क्रियते । प्रवेशो निर्णयनं च ॥ ०७.१४.२४ ॥
वणिज्-पथेन हि दण्ड-गूढ-पुरुष-अतिनयनम् शस्त्र-आवरण-यान-वाहन-क्रयः च क्रियते । प्रवेशः निर्णयनम् च ॥ ०७।१४।२४ ॥
vaṇij-pathena hi daṇḍa-gūḍha-puruṣa-atinayanam śastra-āvaraṇa-yāna-vāhana-krayaḥ ca kriyate . praveśaḥ nirṇayanam ca .. 07.14.24 ..
खनिः संग्राम-उपकरणानां योनिः । द्रव्य-वनं दुर्ग-कर्मणां यान-रथयोश्च । हस्ति-वनं हस्तिनाम् । गव-अश्व-खर-उष्ट्राणां च व्रजः ॥ ०७.१४.२५ ॥
खनिः संग्राम-उपकरणानाम् योनिः । द्रव्य-वनम् दुर्ग-कर्मणाम् यान-रथयोः च । हस्ति-वनम् हस्तिनाम् । गव-अश्व-खर-उष्ट्राणाम् च व्रजः ॥ ०७।१४।२५ ॥
khaniḥ saṃgrāma-upakaraṇānām yoniḥ . dravya-vanam durga-karmaṇām yāna-rathayoḥ ca . hasti-vanam hastinām . gava-aśva-khara-uṣṭrāṇām ca vrajaḥ .. 07.14.25 ..
तेषां अलाभे बन्धु-मित्र-कुलेभ्यः समार्जनं ॥ ०७.१४.२६ ॥
तेषाम् अलाभे बन्धु-मित्र-कुलेभ्यः समार्जनम् ॥ ०७।१४।२६ ॥
teṣām alābhe bandhu-mitra-kulebhyaḥ samārjanam .. 07.14.26 ..
उत्साह-हीनः श्रेणी-प्रवीर-पुरुषाणां चोर-गण-आटविक-म्लेच्छ-जातीनां पर-अपकारिणां गूढ-पुरुषाणां च यथा-लाब्भं उपचयं कुर्वीत ॥ ०७.१४.२७ ॥
उत्साह-हीनः श्रेणी-प्रवीर-पुरुषाणाम् चोर-गण-आटविक-म्लेच्छ-जातीनाम् पर-अपकारिणाम् गूढ-पुरुषाणाम् च यथा लाब्भम् उपचयम् कुर्वीत ॥ ०७।१४।२७ ॥
utsāha-hīnaḥ śreṇī-pravīra-puruṣāṇām cora-gaṇa-āṭavika-mleccha-jātīnām para-apakāriṇām gūḍha-puruṣāṇām ca yathā lābbham upacayam kurvīta .. 07.14.27 ..
पर-मिश्र-अप्रतीकारं आबलीयसं वा परेषु प्रयुञ्जीत ॥ ०७.१४.२८ ॥
पर-मिश्र-अप्रतीकारम् आ बलीयसम् वा परेषु प्रयुञ्जीत ॥ ०७।१४।२८ ॥
para-miśra-apratīkāram ā balīyasam vā pareṣu prayuñjīta .. 07.14.28 ..
एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च । ॥ ०७.१४.२९अ ब ॥
एवम् पक्षेण मन्त्रेण द्रव्येण च बलेन च । ॥ ०७।१४।२९अ ब ॥
evam pakṣeṇa mantreṇa dravyeṇa ca balena ca . .. 07.14.29a ba ..
सम्पन्नः प्रतिनिर्गच्छेत्पर-अवग्रहं आत्मनः ॥ ०७.१४.२९च्द् ॥
सम्पन्नः प्रतिनिर्गच्छेत् पर-अवग्रहम् आत्मनः ॥ ०७।१४।२९च् ॥
sampannaḥ pratinirgacchet para-avagraham ātmanaḥ .. 07.14.29c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In