| |
|

This overlay will guide you through the buttons:

दुर्बलो राजा बलवताअभियुक्तस्तद्-विशिष्ट-बलं आश्रयेत यं इतरो मन्त्र-शक्त्या नातिसंदध्यात् ॥ ०७.१५.०१ ॥
दुर्बलः राजा बलवता अभियुक्तः तद्-विशिष्ट-बलम् आश्रयेत यम् इतरः मन्त्र-शक्त्या न अतिसंदध्यात् ॥ ०७।१५।०१ ॥
durbalaḥ rājā balavatā abhiyuktaḥ tad-viśiṣṭa-balam āśrayeta yam itaraḥ mantra-śaktyā na atisaṃdadhyāt .. 07.15.01 ..
तुल्य-मन्त्र-शक्तीनां आयत्त-सम्पदो वृद्ध-सम्योगाद्वा विशेषः ॥ ०७.१५.०२ ॥
तुल्य-मन्त्र-शक्तीनाम् आयत्त-सम्पदः वृद्ध-सम्योगात् वा विशेषः ॥ ०७।१५।०२ ॥
tulya-mantra-śaktīnām āyatta-sampadaḥ vṛddha-samyogāt vā viśeṣaḥ .. 07.15.02 ..
विशिष्ट-बल-अभावे सम-बलैस्तुल्य-बल-संघैर्वा बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-शक्तिभ्यां अतिसंदध्यात् ॥ ०७.१५.०३ ॥
विशिष्ट-बल-अभावे सम-बलैः तुल्य-बल-संघैः वा बलवतः सम्भूय तिष्ठेत् यान् न मन्त्र-प्रभाव-शक्तिभ्याम् अतिसंदध्यात् ॥ ०७।१५।०३ ॥
viśiṣṭa-bala-abhāve sama-balaiḥ tulya-bala-saṃghaiḥ vā balavataḥ sambhūya tiṣṭhet yān na mantra-prabhāva-śaktibhyām atisaṃdadhyāt .. 07.15.03 ..
तुल्य-मन्त्र-प्रभाव-शक्तीनां विपुल-आरम्भतो विशेषः ॥ ०७.१५.०४ ॥
तुल्य-मन्त्र-प्रभाव-शक्तीनाम् विपुल-आरम्भतः विशेषः ॥ ०७।१५।०४ ॥
tulya-mantra-prabhāva-śaktīnām vipula-ārambhataḥ viśeṣaḥ .. 07.15.04 ..
सम-बल-अभावे हीन-बलैः शुचिभिरुत्साहिभिः प्रत्यनीक-भूतैर्बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-उत्साह-शक्तिभिरतिसंदध्यात् ॥ ०७.१५.०५ ॥
सम-बल-अभावे हीन-बलैः शुचिभिः उत्साहिभिः प्रत्यनीक-भूतैः बलवतः सम्भूय तिष्ठेत् यान् न मन्त्र-प्रभाव-उत्साह-शक्तिभिः अतिसंदध्यात् ॥ ०७।१५।०५ ॥
sama-bala-abhāve hīna-balaiḥ śucibhiḥ utsāhibhiḥ pratyanīka-bhūtaiḥ balavataḥ sambhūya tiṣṭhet yān na mantra-prabhāva-utsāha-śaktibhiḥ atisaṃdadhyāt .. 07.15.05 ..
तुल्य-उत्साह-शक्तीनां स्व-युद्ध-भूमि-लाभाद्विशेषः ॥ ०७.१५.०६ ॥
तुल्य-उत्साह-शक्तीनाम् स्व-युद्ध-भूमि-लाभात् विशेषः ॥ ०७।१५।०६ ॥
tulya-utsāha-śaktīnām sva-yuddha-bhūmi-lābhāt viśeṣaḥ .. 07.15.06 ..
तुल्य-भूमीनां स्व-युद्ध-काल-लाभाद्विशेषः ॥ ०७.१५.०७ ॥
तुल्य-भूमीनाम् स्व-युद्ध-काल-लाभात् विशेषः ॥ ०७।१५।०७ ॥
tulya-bhūmīnām sva-yuddha-kāla-lābhāt viśeṣaḥ .. 07.15.07 ..
तुल्य-देश-कालानां युग्य-शस्त्र-आवरणतो विशेषः ॥ ०७.१५.०८ ॥
तुल्य-देश-कालानाम् युग्य-शस्त्र-आवरणतः विशेषः ॥ ०७।१५।०८ ॥
tulya-deśa-kālānām yugya-śastra-āvaraṇataḥ viśeṣaḥ .. 07.15.08 ..
सहाय-अभावे दुर्गं आश्रयेत यत्रामित्रः प्रभूत-सैन्योअपि भक्त-यवस-इन्धन-उदक-उपरोधं न कुर्यात्स्वयं च क्षय-व्ययाभ्यां युज्येत ॥ ०७.१५.०९ ॥
सहाय-अभावे दुर्गम् आश्रयेत यत्र अमित्रः प्रभूत-सैन्यः अपि भक्त-यवस-इन्धन-उदक-उपरोधम् न कुर्यात् स्वयम् च क्षय-व्ययाभ्याम् युज्येत ॥ ०७।१५।०९ ॥
sahāya-abhāve durgam āśrayeta yatra amitraḥ prabhūta-sainyaḥ api bhakta-yavasa-indhana-udaka-uparodham na kuryāt svayam ca kṣaya-vyayābhyām yujyeta .. 07.15.09 ..
तुल्य-दुर्गाणां निचय-अपसारतो विशेषः ॥ ०७.१५.१० ॥
तुल्य-दुर्गाणाम् निचय-अपसारतः विशेषः ॥ ०७।१५।१० ॥
tulya-durgāṇām nicaya-apasārataḥ viśeṣaḥ .. 07.15.10 ..
निचय-अपसार-सम्पन्नं हि मनुष्य-दुर्गं इच्छेदिति कौटिल्यः ०७.१५.१२अ ।तदेभिः कार्णैराश्रयेत "पार्ष्णि-ग्राहं आसारं मध्यमं उदासीनं वा प्रतिपादयिष्यामि । सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनास्य राज्यं हारयिष्यामि घातयिष्यामि वा ॥ ०७.१५.११ ॥
निचय-अपसार-सम्पन्नम् हि मनुष्य-दुर्गम् इच्छेत् इति कौटिल्यः।१५।१२अ ।तत् एभिः कार्णैः आश्रयेत "पार्ष्णि-ग्राहम् आसारम् मध्यमम् उदासीनम् वा प्रतिपादयिष्यामि । सामन्त-आटविक-तद्-कुलीन-अपरुद्धानाम् अन्यतमेन अस्य राज्यम् हारयिष्यामि घातयिष्यामि वा ॥ ०७।१५।११ ॥
nicaya-apasāra-sampannam hi manuṣya-durgam icchet iti kauṭilyaḥ.15.12a .tat ebhiḥ kārṇaiḥ āśrayeta "pārṣṇi-grāham āsāram madhyamam udāsīnam vā pratipādayiṣyāmi . sāmanta-āṭavika-tad-kulīna-aparuddhānām anyatamena asya rājyam hārayiṣyāmi ghātayiṣyāmi vā .. 07.15.11 ..
कृत्य-पक्ष-उपग्रहेण वाअस्य दुर्गे राष्ट्रे स्कन्ध-आवारे वा कोपं समुत्थापयिष्यामि । शस्त्र-अग्नि-रस-प्रणिधानैरौपनिषदिकैर्वा यथा-इष्टं आसन्नं हनिष्यामि ॥ ०७.१५.१२ब ॥
कृत्य-पक्ष-उपग्रहेण वा अस्य दुर्गे राष्ट्रे स्कन्ध-आवारे वा कोपम् समुत्थापयिष्यामि । शस्त्र-अग्नि-रस-प्रणिधानैः औपनिषदिकैः वा यथा इष्टम् आसन्नम् हनिष्यामि ॥ ०७।१५।१२ब ॥
kṛtya-pakṣa-upagraheṇa vā asya durge rāṣṭre skandha-āvāre vā kopam samutthāpayiṣyāmi . śastra-agni-rasa-praṇidhānaiḥ aupaniṣadikaiḥ vā yathā iṣṭam āsannam haniṣyāmi .. 07.15.12ba ..
स्वयं-अधिष्ठितेन वा योग-प्रणिधानेन क्षय-व्ययं एनं उपनेष्यामि । क्षय-व्यय-प्रवास-उपतप्ते वाअस्य मित्र-वर्गे सैन्ये वा क्रमेणौपजापं प्राप्स्यामि ॥ ०७.१५.१२क ॥
स्वयम् अधिष्ठितेन वा योग-प्रणिधानेन क्षय-व्ययम् एनम् उपनेष्यामि । क्षय-व्यय-प्रवास-उपतप्ते वा अस्य मित्र-वर्गे सैन्ये वा क्रमेण औपजापम् प्राप्स्यामि ॥ ०७।१५।१२क ॥
svayam adhiṣṭhitena vā yoga-praṇidhānena kṣaya-vyayam enam upaneṣyāmi . kṣaya-vyaya-pravāsa-upatapte vā asya mitra-varge sainye vā krameṇa aupajāpam prāpsyāmi .. 07.15.12ka ..
वीवध-आसार-प्रसार-वधेन वाअस्य स्कन्ध-आवार-अवग्रहं करिष्यामि । दण्ड-उपनयेन वाअस्य रन्ध्रं उत्थाप्य सर्व-संदोहेन प्रहरिष्यामि । प्रतिहत-उत्साहेन वा यथा-इष्टं संधिं अवाप्स्यामि । मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति ॥ ०७.१५.१२ड ॥
वीवध-आसार-प्रसार-वधेन वा अस्य स्कन्ध-आवार-अवग्रहम् करिष्यामि । दण्ड-उपनयेन वा अस्य रन्ध्रम् उत्थाप्य सर्व-संदोहेन प्रहरिष्यामि । प्रतिहत-उत्साहेन वा यथा इष्टम् संधिम् अवाप्स्यामि । मयि प्रतिबद्धस्य वा सर्वतस् कोपाः समुत्थास्यन्ति ॥ ०७।१५।१२ड ॥
vīvadha-āsāra-prasāra-vadhena vā asya skandha-āvāra-avagraham kariṣyāmi . daṇḍa-upanayena vā asya randhram utthāpya sarva-saṃdohena prahariṣyāmi . pratihata-utsāhena vā yathā iṣṭam saṃdhim avāpsyāmi . mayi pratibaddhasya vā sarvatas kopāḥ samutthāsyanti .. 07.15.12ḍa ..
निरासारं वाअस्य मूलं मित्र-अटवी-दण्डैरुद्धातयिष्यामि । महतो वा देशस्य योग-क्षेमं इहस्थः पालयिष्यामि । स्व-विक्षिप्तं मित्र-विक्षिप्तं वा मे सैन्यं इहस्थस्यएकस्थं अविषह्यं भविष्यति । निम्न-खात-रात्रि-युद्ध-विशारदं वा मे सैन्यं पथ्य-आबाध-मुक्तं आसन्ने कर्म करिष्यति ॥ ०७.१५.१२ए ॥
निरासारम् वा अस्य मूलम् मित्र-अटवी-दण्डैः उद्धातयिष्यामि । महतः वा देशस्य योग-क्षेमम् इहस्थः पालयिष्यामि । स्व-विक्षिप्तम् मित्र-विक्षिप्तम् वा मे सैन्यम् इहस्थस्य एकस्थम् अविषह्यम् भविष्यति । निम्न-खात-रात्रि-युद्ध-विशारदम् वा मे सैन्यम् पथ्य-आबाध-मुक्तम् आसन्ने कर्म करिष्यति ॥ ०७।१५।१२ए ॥
nirāsāram vā asya mūlam mitra-aṭavī-daṇḍaiḥ uddhātayiṣyāmi . mahataḥ vā deśasya yoga-kṣemam ihasthaḥ pālayiṣyāmi . sva-vikṣiptam mitra-vikṣiptam vā me sainyam ihasthasya ekastham aviṣahyam bhaviṣyati . nimna-khāta-rātri-yuddha-viśāradam vā me sainyam pathya-ābādha-muktam āsanne karma kariṣyati .. 07.15.12e ..
विरुद्ध-देश-कालं इह-आगतो वा स्वयं एव क्षय-व्ययाभ्यां न भविष्यति । महा-क्षय-व्यय-अभिगम्योअयं देशो दुर्ग-अटव्य्-अपसार-बाहुल्यात् ॥ ०७.१५.१२फ़् ॥
विरुद्ध-देश-कालम् इह आगतः वा स्वयम् एव क्षय-व्ययाभ्याम् न भविष्यति । महा-क्षय-व्यय-अभिगम्यः अयम् देशः दुर्ग-अटवी-अपसार-बाहुल्यात् ॥ ०७।१५।१२ ॥
viruddha-deśa-kālam iha āgataḥ vā svayam eva kṣaya-vyayābhyām na bhaviṣyati . mahā-kṣaya-vyaya-abhigamyaḥ ayam deśaḥ durga-aṭavī-apasāra-bāhulyāt .. 07.15.12 ..
परेषां व्याधि-प्रायः सैन्य-व्यायामानां अलब्ध-भौमश्च । तं आपद्-गतः प्रवेक्ष्यति । प्रविष्टो वा न निर्गमिष्यति" इति ॥ ०७.१५.१२ग् ॥
परेषाम् व्याधि-प्रायः सैन्य-व्यायामानाम् अलब्ध-भौमः च । तम् आपद्-गतः प्रवेक्ष्यति । प्रविष्टः वा न निर्गमिष्यति" इति ॥ ०७।१५।१२ग् ॥
pareṣām vyādhi-prāyaḥ sainya-vyāyāmānām alabdha-bhaumaḥ ca . tam āpad-gataḥ pravekṣyati . praviṣṭaḥ vā na nirgamiṣyati" iti .. 07.15.12g ..
कारण-अभावे बल-समुच्छ्रये वा परस्य दुर्गं उन्मुच्यापगच्छेत् ॥ ०७.१५.१३ ॥
कारण-अभावे बल-समुच्छ्रये वा परस्य दुर्गम् उन्मुच्य अपगच्छेत् ॥ ०७।१५।१३ ॥
kāraṇa-abhāve bala-samucchraye vā parasya durgam unmucya apagacchet .. 07.15.13 ..
अग्नि-पतङ्गवदमित्रे वा प्रविशेत् ॥ ०७.१५.१४ ॥
अग्नि-पतङ्ग-वत् अमित्रे वा प्रविशेत् ॥ ०७।१५।१४ ॥
agni-pataṅga-vat amitre vā praviśet .. 07.15.14 ..
अन्यतर-सिद्धिर्हि त्यक्त-आत्मनो भवति इत्याचार्याः ॥ ०७.१५.१५ ॥
अन्यतर-सिद्धिः हि त्यक्त-आत्मनः भवति इति आचार्याः ॥ ०७।१५।१५ ॥
anyatara-siddhiḥ hi tyakta-ātmanaḥ bhavati iti ācāryāḥ .. 07.15.15 ..
नैति कौटिल्यः ॥ ०७.१५.१६ ॥
न एति कौटिल्यः ॥ ०७।१५।१६ ॥
na eti kauṭilyaḥ .. 07.15.16 ..
संधेयतां आत्मनः परस्य चौपलभ्य संदधीत ॥ ०७.१५.१७ ॥
संधेय-ताम् आत्मनः परस्य च औपलभ्य संदधीत ॥ ०७।१५।१७ ॥
saṃdheya-tām ātmanaḥ parasya ca aupalabhya saṃdadhīta .. 07.15.17 ..
विपर्यये विक्रमेण संधिं अपसारं वा लिप्सेत ॥ ०७.१५.१८ ॥
विपर्यये विक्रमेण संधिम् अपसारम् वा लिप्सेत ॥ ०७।१५।१८ ॥
viparyaye vikrameṇa saṃdhim apasāram vā lipseta .. 07.15.18 ..
संधेयस्य वा दूतं प्रेषयेत् ॥ ०७.१५.१९ ॥
संधेयस्य वा दूतम् प्रेषयेत् ॥ ०७।१५।१९ ॥
saṃdheyasya vā dūtam preṣayet .. 07.15.19 ..
तेन वा प्रेषितं अर्थ-मानाभ्यां सत्कृत्य ब्रूयात्"इदं राज्ञः पण्य-अगारम् । इदं देवी-कुमाराणाम् । देवी-कुमार-वचनात् । इदं राज्यं अहं च त्वद्-अर्पणः" इति ॥ ०७.१५.२० ॥
तेन वा प्रेषितम् अर्थ-मानाभ्याम् सत्कृत्य ब्रूयात्"इदम् राज्ञः पण्य-अगारम् । इदम् देवी-कुमाराणाम् । देवी-कुमार-वचनात् । इदम् राज्यम् अहम् च त्वद्-अर्पणः" इति ॥ ०७।१५।२० ॥
tena vā preṣitam artha-mānābhyām satkṛtya brūyāt"idam rājñaḥ paṇya-agāram . idam devī-kumārāṇām . devī-kumāra-vacanāt . idam rājyam aham ca tvad-arpaṇaḥ" iti .. 07.15.20 ..
लब्ध-संश्रयः समय-आचारिकवद्भर्तरि वर्तेत ॥ ०७.१५.२१ ॥
लब्ध-संश्रयः समय-आचारिक-वत् भर्तरि वर्तेत ॥ ०७।१५।२१ ॥
labdha-saṃśrayaḥ samaya-ācārika-vat bhartari varteta .. 07.15.21 ..
दुर्ग-आदीनि च कर्माणि आवाह-विवाह-पुत्र-अभिषेक-अश्व-पण्य-हस्ति-ग्रहण-सत्त्र-यात्रा-विहार-गमनानि चानुज्ञातः कुर्वीत ॥ ०७.१५.२२ ॥
दुर्ग-आदीनि च कर्माणि आवाह-विवाह-पुत्र-अभिषेक-अश्व-पण्य-हस्ति-ग्रहण-सत्त्र-यात्रा-विहार-गमनानि च अनुज्ञातः कुर्वीत ॥ ०७।१५।२२ ॥
durga-ādīni ca karmāṇi āvāha-vivāha-putra-abhiṣeka-aśva-paṇya-hasti-grahaṇa-sattra-yātrā-vihāra-gamanāni ca anujñātaḥ kurvīta .. 07.15.22 ..
स्व-भूम्य्-अवस्थित-प्रकृति-संधिं उपघातं अपसृतेषु वा सर्वं अनुज्ञातः कुर्वीत ॥ ०७.१५.२३ ॥
स्व-भूमि-अवस्थित-प्रकृति-संधिम् उपघातम् अपसृतेषु वा सर्वम् अनुज्ञातः कुर्वीत ॥ ०७।१५।२३ ॥
sva-bhūmi-avasthita-prakṛti-saṃdhim upaghātam apasṛteṣu vā sarvam anujñātaḥ kurvīta .. 07.15.23 ..
दुष्ट-पौर-जानपदो वा न्याय-वृत्तिरन्यां भूमिं याचेत ॥ ०७.१५.२४ ॥
दुष्ट-पौर-जानपदः वा न्याय-वृत्तिः अन्याम् भूमिम् याचेत ॥ ०७।१५।२४ ॥
duṣṭa-paura-jānapadaḥ vā nyāya-vṛttiḥ anyām bhūmim yāceta .. 07.15.24 ..
दुष्यवदुपांशु-दण्डेन वा प्रतिकुर्वीत ॥ ०७.१५.२५ ॥
दुष्यवत्-उपांशु दण्डेन वा प्रतिकुर्वीत ॥ ०७।१५।२५ ॥
duṣyavat-upāṃśu daṇḍena vā pratikurvīta .. 07.15.25 ..
उचितां वा मित्राद्भूमिं दीयमानां न प्रतिगृह्णीयात् ॥ ०७.१५.२६ ॥
उचिताम् वा मित्रात् भूमिम् दीयमानाम् न प्रतिगृह्णीयात् ॥ ०७।१५।२६ ॥
ucitām vā mitrāt bhūmim dīyamānām na pratigṛhṇīyāt .. 07.15.26 ..
मन्त्रि-पुरोहित-सेना-पति-युव-राजानां अन्यतमं अदृश्यमाने भर्तरि पश्येत् । यथा-शक्ति चौपकुर्यात् ॥ ०७.१५.२७ ॥
मन्त्रि-पुरोहित-सेना-पति-युव-राजानाम् अन्यतमम् अदृश्यमाने भर्तरि पश्येत् । यथा शक्ति च उपकुर्यात् ॥ ०७।१५।२७ ॥
mantri-purohita-senā-pati-yuva-rājānām anyatamam adṛśyamāne bhartari paśyet . yathā śakti ca upakuryāt .. 07.15.27 ..
दैवत-स्वस्ति-वाचनेषु तत्-परा आशिषो वाचयेत् ॥ ०७.१५.२८ ॥
दैवत-स्वस्ति-वाचनेषु तद्-पराः आशिषः वाचयेत् ॥ ०७।१५।२८ ॥
daivata-svasti-vācaneṣu tad-parāḥ āśiṣaḥ vācayet .. 07.15.28 ..
सर्वत्रऽत्म-निसर्गं गुणं ब्रूयात् ॥ ०७.१५.२९ ॥
सर्वत्र आत्म-निसर्गम् गुणम् ब्रूयात् ॥ ०७।१५।२९ ॥
sarvatra ātma-nisargam guṇam brūyāt .. 07.15.29 ..
सम्युक्त-बलवत्-सेवी विरुद्धः शङ्कित-आदिभिः । ॥ ०७.१५.३०अ ब ॥
सम्युक्त-बलवत्-सेवी विरुद्धः शङ्कित-आदिभिः । ॥ ०७।१५।३०अ ब ॥
samyukta-balavat-sevī viruddhaḥ śaṅkita-ādibhiḥ . .. 07.15.30a ba ..
वर्तेत दण्ड-उपनतो भर्तर्येवं अवस्थितः ॥ ०७.१५.३०च्द् ॥
वर्तेत दण्ड-उपनतः भर्तरि एवम् अवस्थितः ॥ ०७।१५।३०च् ॥
varteta daṇḍa-upanataḥ bhartari evam avasthitaḥ .. 07.15.30c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In