| |
|

This overlay will guide you through the buttons:

अनुज्ञात-संधि-पण-उद्वेग-करं बलवान्विजिगीषमाणो यतः स्व-भूमिः स्व-ऋतु-वृत्तिश्च स्व-सैन्यानाम् । अदुर्ग-अपसारः शत्रुर्-अपार्ष्णिरनासारश्च । ततो यायात् ॥ ०७.१६.०१ ॥
अनुज्ञात-संधि-पण-उद्वेग-करम् बलवान् विजिगीषमाणः यतस् स्व-भूमिः स्व-ऋतु-वृत्तिः च स्व-सैन्यानाम् । अ दुर्ग-अपसारः शत्रुः अ पार्ष्णिः अन् आसारः च । ततस् यायात् ॥ ०७।१६।०१ ॥
anujñāta-saṃdhi-paṇa-udvega-karam balavān vijigīṣamāṇaḥ yatas sva-bhūmiḥ sva-ṛtu-vṛttiḥ ca sva-sainyānām . a durga-apasāraḥ śatruḥ a pārṣṇiḥ an āsāraḥ ca . tatas yāyāt .. 07.16.01 ..
विपर्यये कृत-प्रतीकारो यायात् ॥ ०७.१६.०२ ॥
विपर्यये कृत-प्रतीकारः यायात् ॥ ०७।१६।०२ ॥
viparyaye kṛta-pratīkāraḥ yāyāt .. 07.16.02 ..
साम-दानाभ्यां दुर्बलानुपनमयेत् । भेद-दण्डाभ्यां बलवतः ॥ ०७.१६.०३ ॥
साम-दानाभ्याम् दुर्बलान् उपनमयेत् । भेद-दण्डाभ्याम् बलवतः ॥ ०७।१६।०३ ॥
sāma-dānābhyām durbalān upanamayet . bheda-daṇḍābhyām balavataḥ .. 07.16.03 ..
नियोग-विकल्प-समुच्चयैश्चौपायानां अनन्तर-एक-अन्तराः प्रकृतीः साधयेत् ॥ ०७.१६.०४ ॥
नियोग-विकल्प-समुच्चयैः च औपायानाम् अनन्तर-एक-अन्तराः प्रकृतीः साधयेत् ॥ ०७।१६।०४ ॥
niyoga-vikalpa-samuccayaiḥ ca aupāyānām anantara-eka-antarāḥ prakṛtīḥ sādhayet .. 07.16.04 ..
ग्राम-अरण्य-उपजीवि-व्रज-वणिक्-पथ-अनुपालनं उज्झित-अपसृत-अपकारिणां चार्पणं इति सान्त्वं आचरेत् ॥ ०७.१६.०५ ॥
ग्राम-अरण्य-उपजीवि-व्रज-वणिज्-पथ-अनुपालनम् उज्झित-अपसृत-अपकारिणाम् च अर्पणम् इति सान्त्वम् आचरेत् ॥ ०७।१६।०५ ॥
grāma-araṇya-upajīvi-vraja-vaṇij-patha-anupālanam ujjhita-apasṛta-apakāriṇām ca arpaṇam iti sāntvam ācaret .. 07.16.05 ..
भूमि-द्रव्य-कन्या-दानं अभयस्य चैति दानं आचरेत् ॥ ०७.१६.०६ ॥
भूमि-द्रव्य-कन्या-दानम् अभयस्य च एति दानम् आचरेत् ॥ ०७।१६।०६ ॥
bhūmi-dravya-kanyā-dānam abhayasya ca eti dānam ācaret .. 07.16.06 ..
सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतम-उपग्रहेण कोश-दण्ड-भूमि-दाय-याचनं इति भेदं आचरेत् ॥ ०७.१६.०७ ॥
सामन्त-आटविक-तद्-कुलीन-अपरुद्धानाम् अन्यतम-उपग्रहेण कोश-दण्ड-भूमि-दाय-याचनम् इति भेदम् आचरेत् ॥ ०७।१६।०७ ॥
sāmanta-āṭavika-tad-kulīna-aparuddhānām anyatama-upagraheṇa kośa-daṇḍa-bhūmi-dāya-yācanam iti bhedam ācaret .. 07.16.07 ..
प्रकाश-कूट-तूष्णीं-युद्ध-दुर्ग-लम्भ-उपायैरमित्र-प्रग्रहणं इति दण्डं आचरेत् ॥ ०७.१६.०८ ॥
प्रकाश-कूट-तूष्णीम् युद्ध-दुर्ग-लम्भ-उपायैः अमित्र-प्रग्रहणम् इति दण्डम् आचरेत् ॥ ०७।१६।०८ ॥
prakāśa-kūṭa-tūṣṇīm yuddha-durga-lambha-upāyaiḥ amitra-pragrahaṇam iti daṇḍam ācaret .. 07.16.08 ..
एवं उत्साहवतो दण्ड-उपकारिणः स्थापयेत् । स्व-प्रभाववतः कोश-उपकारिणः । प्रज्ञावतो भूम्य्-उपकारिणः ॥ ०७.१६.०९ ॥
एवम् उत्साहवतः दण्ड-उपकारिणः स्थापयेत् । स्व-प्रभाववतः कोश-उपकारिणः । प्रज्ञावतः भूमि-उपकारिणः ॥ ०७।१६।०९ ॥
evam utsāhavataḥ daṇḍa-upakāriṇaḥ sthāpayet . sva-prabhāvavataḥ kośa-upakāriṇaḥ . prajñāvataḥ bhūmi-upakāriṇaḥ .. 07.16.09 ..
तेषां पण्य-पत्तन-ग्राम-खनि-संजातेन रत्न-सार-फल्गु-कुप्येन द्रव्य-हस्ति-वन-व्रज-समुत्थेन यान-वाहनेन वा यद्बहुश उपकरोति तच्चित्र-भोगं ॥ ०७.१६.१० ॥
तेषाम् पण्य-पत्तन-ग्राम-खनि-संजातेन रत्न-सार-फल्गु-कुप्येन द्रव्य-हस्ति-वन-व्रज-समुत्थेन यान-वाहनेन वा यत् बहुशस् उपकरोति तत् चित्र-भोगम् ॥ ०७।१६।१० ॥
teṣām paṇya-pattana-grāma-khani-saṃjātena ratna-sāra-phalgu-kupyena dravya-hasti-vana-vraja-samutthena yāna-vāhanena vā yat bahuśas upakaroti tat citra-bhogam .. 07.16.10 ..
यद्दण्डेन कोशेन वा महदुपकरोति तन्महा-भोगं ॥ ०७.१६.११ ॥
यत् दण्डेन कोशेन वा महत् उपकरोति तत् महा-भोगम् ॥ ०७।१६।११ ॥
yat daṇḍena kośena vā mahat upakaroti tat mahā-bhogam .. 07.16.11 ..
यद्दण्ड-कोश-भूमीभिरुपकरोति तत्सर्व-भोगं ॥ ०७.१६.१२ ॥
यत् दण्ड-कोश-भूमीभिः उपकरोति तद्-सर्व-भोगम् ॥ ०७।१६।१२ ॥
yat daṇḍa-kośa-bhūmībhiḥ upakaroti tad-sarva-bhogam .. 07.16.12 ..
यदमित्रं एकतः प्रतिकरोति तदेकतो-भोगि ॥ ०७.१६.१३ ॥
यत् अमित्रम् एकतस् प्रतिकरोति तत् एकतस् भोगि ॥ ०७।१६।१३ ॥
yat amitram ekatas pratikaroti tat ekatas bhogi .. 07.16.13 ..
यदमित्रं आसारं चौभयतः प्रतिकरोति तदुभयतो-भोगि ॥ ०७.१६.१४ ॥
यत् अमित्रम् आसारम् च उभयतस् प्रतिकरोति तत् उभयतोभोगि ॥ ०७।१६।१४ ॥
yat amitram āsāram ca ubhayatas pratikaroti tat ubhayatobhogi .. 07.16.14 ..
यदमित्र-आसार-प्रतिवेश-आटविकान्सर्वतः प्रतिकरोति तत्सर्वतो-भोगि ॥ ०७.१६.१५ ॥
यत् अमित्र-आसार-प्रतिवेश-आटविकान् सर्वतस् प्रतिकरोति तत् सर्वतोभोगि ॥ ०७।१६।१५ ॥
yat amitra-āsāra-prativeśa-āṭavikān sarvatas pratikaroti tat sarvatobhogi .. 07.16.15 ..
पार्ष्णि-ग्राहश्चऽटविकः शत्रु-मुख्यः शत्रुर्वा भूमि-दान-साध्यः कश्चिदासाद्येत । निर्गुणया भूम्याएनं उपग्राहयेत् । अप्रतिसम्बद्धया दुर्गस्थम् । निरुपजीव्ययाआटविकं ॥ ०७.१६.१६अ ॥
पार्ष्णि-ग्राहः च अटविकः शत्रु-मुख्यः शत्रुः वा भूमि-दान-साध्यः कश्चिद् आसाद्येत । निर्गुणया भूम्या एनम् उपग्राहयेत् । अप्रतिसम्बद्धया दुर्ग-स्थम् । निरुपजीव्यया आआटविकम् ॥ ०७।१६।१६अ ॥
pārṣṇi-grāhaḥ ca aṭavikaḥ śatru-mukhyaḥ śatruḥ vā bhūmi-dāna-sādhyaḥ kaścid āsādyeta . nirguṇayā bhūmyā enam upagrāhayet . apratisambaddhayā durga-stham . nirupajīvyayā āāṭavikam .. 07.16.16a ..
प्रत्यादेयया तत्-कुलीनं शत्रोः । अपच्छिन्नया शत्रोरपरुद्धं नित्य-अमित्रया श्रेणी-बलम् । बलवत्-सामन्तया संहत-बलम् । उभाभ्यां युद्धे प्रतिलोमम् । ॥ ०७.१६.१६ब ॥
प्रत्यादेयया तत् कुलीनम् शत्रोः । अपच्छिन्नया शत्रोः अपरुद्धम् नित्य-अमित्रया श्रेणी-बलम् । बलवत्-सामन्तया संहत-बलम् । उभाभ्याम् युद्धे प्रतिलोमम् । ॥ ०७।१६।१६ब ॥
pratyādeyayā tat kulīnam śatroḥ . apacchinnayā śatroḥ aparuddham nitya-amitrayā śreṇī-balam . balavat-sāmantayā saṃhata-balam . ubhābhyām yuddhe pratilomam . .. 07.16.16ba ..
अलब्ध-व्यायामयाउत्साहिनम् । शूययाअरि-पक्षीयम् । कर्शितयाअपवाहितम् । महा-क्षय-व्यय-निवेशया गत-प्रत्यागतम् । अनपाश्रयया प्रत्यपसृतम् । परेणानधिवास्यया स्वयं एव भर्तारं उपग्राहयेत् ॥ ०७.१६.१६क ॥
अलब्ध-व्यायामया औत्साहिनम् । शूययाअरि-पक्षीयम् । कर्शितया अ अपवाहितम् । महा-क्षय-व्यय-निवेशया गत-प्रत्यागतम् । अनपाश्रयया प्रत्यपसृतम् । परेण अनधिवास्यया स्वयम् एव भर्तारम् उपग्राहयेत् ॥ ०७।१६।१६क ॥
alabdha-vyāyāmayā autsāhinam . śūyayāari-pakṣīyam . karśitayā a apavāhitam . mahā-kṣaya-vyaya-niveśayā gata-pratyāgatam . anapāśrayayā pratyapasṛtam . pareṇa anadhivāsyayā svayam eva bhartāram upagrāhayet .. 07.16.16ka ..
तेषां महा-उपकारं निर्विकारं चानुवर्तयेत् ॥ ०७.१६.१७ ॥
तेषाम् महा-उपकारम् निर्विकारम् च अनुवर्तयेत् ॥ ०७।१६।१७ ॥
teṣām mahā-upakāram nirvikāram ca anuvartayet .. 07.16.17 ..
प्रतिलोमं उपांशुना साधयेत् ॥ ०७.१६.१८ ॥
प्रतिलोमम् उपांशुना साधयेत् ॥ ०७।१६।१८ ॥
pratilomam upāṃśunā sādhayet .. 07.16.18 ..
उपकारिणं उपकार-शक्त्या तोषयेत् ॥ ०७.१६.१९ ॥
उपकारिणम् उपकार-शक्त्या तोषयेत् ॥ ०७।१६।१९ ॥
upakāriṇam upakāra-śaktyā toṣayet .. 07.16.19 ..
प्रयासतश्चार्थ-मानौ कुर्याद् । व्यसनेषु चानुग्रहं ॥ ०७.१६.२० ॥
प्रयासतः च अर्थ-मानौ कुर्यात् । व्यसनेषु च अनुग्रहम् ॥ ०७।१६।२० ॥
prayāsataḥ ca artha-mānau kuryāt . vyasaneṣu ca anugraham .. 07.16.20 ..
स्वयं-आगतानां यथा-इष्ट-दर्शनं प्रतिविधानं च कुर्यात् ॥ ०७.१६.२१ ॥
स्वयम् आगतानाम् यथा इष्ट-दर्शनम् प्रतिविधानम् च कुर्यात् ॥ ०७।१६।२१ ॥
svayam āgatānām yathā iṣṭa-darśanam pratividhānam ca kuryāt .. 07.16.21 ..
परिभव-उपघात-कुत्स-अतिवादांश्चएषु न प्रयुञ्जीत ॥ ०७.१६.२२ ॥
परिभव-उपघात-कुत्स-अतिवादान् च एषु न प्रयुञ्जीत ॥ ०७।१६।२२ ॥
paribhava-upaghāta-kutsa-ativādān ca eṣu na prayuñjīta .. 07.16.22 ..
दत्त्वा चाभयं पिताइवानुगृह्णीयात् ॥ ०७.१६.२३ ॥
दत्त्वा च अभयम् पिता इव अनुगृह्णीयात् ॥ ०७।१६।२३ ॥
dattvā ca abhayam pitā iva anugṛhṇīyāt .. 07.16.23 ..
यश्चास्यापकुर्यात्तद्दोषं अभिविख्याप्य प्रकाशं एनं घातयेत् ॥ ०७.१६.२४ ॥
यः च अस्य अपकुर्यात् तद्-दोषम् अभिविख्याप्य प्रकाशम् एनम् घातयेत् ॥ ०७।१६।२४ ॥
yaḥ ca asya apakuryāt tad-doṣam abhivikhyāpya prakāśam enam ghātayet .. 07.16.24 ..
पर-उद्वेग-कारणाद्वा दाण्डकर्मिकवच्चेष्टेत ॥ ०७.१६.२५ ॥
पर-उद्वेग-कारणात् वा दाण्डकर्मिक-वत् चेष्टेत ॥ ०७।१६।२५ ॥
para-udvega-kāraṇāt vā dāṇḍakarmika-vat ceṣṭeta .. 07.16.25 ..
न च हतस्य भूमि-द्रव्य-पुत्र-दारानभिमन्येत ॥ ०७.१६.२६ ॥
न च हतस्य भूमि-द्रव्य-पुत्र-दारान् अभिमन्येत ॥ ०७।१६।२६ ॥
na ca hatasya bhūmi-dravya-putra-dārān abhimanyeta .. 07.16.26 ..
कुल्यानप्यस्य स्वेषु पात्रेषु स्थापयेत् ॥ ०७.१६.२७ ॥
कुल्यान् अप्यस्य स्वेषु पात्रेषु स्थापयेत् ॥ ०७।१६।२७ ॥
kulyān apyasya sveṣu pātreṣu sthāpayet .. 07.16.27 ..
कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् ॥ ०७.१६.२८ ॥
कर्मणि मृतस्य पुत्रम् राज्ये स्थापयेत् ॥ ०७।१६।२८ ॥
karmaṇi mṛtasya putram rājye sthāpayet .. 07.16.28 ..
एवं अस्य दण्ड-उपनताः पुत्र-पौत्राननुवर्तन्ते ॥ ०७.१६.२९ ॥
एवम् अस्य दण्ड-उपनताः पुत्र-पौत्रान् अनुवर्तन्ते ॥ ०७।१६।२९ ॥
evam asya daṇḍa-upanatāḥ putra-pautrān anuvartante .. 07.16.29 ..
यस्तुउपनतान्हत्वा बद्ध्वा वा भूमि-द्रव्य-पुत्र-दारानभिमन्येत तस्यौद्विग्नं मण्डलं अभावायौत्तिष्ठते ॥ ०७.१६.३० ॥
यः तु उपनतान् हत्वा बद्ध्वा वा भूमि-द्रव्य-पुत्र-दारान् अभिमन्येत तस्य औद्विग्नम् मण्डलम् अभावाय उत्तिष्ठते ॥ ०७।१६।३० ॥
yaḥ tu upanatān hatvā baddhvā vā bhūmi-dravya-putra-dārān abhimanyeta tasya audvignam maṇḍalam abhāvāya uttiṣṭhate .. 07.16.30 ..
ये चास्यामात्याः स्व-भूमिष्वायत्तास्ते चास्यौद्विग्ना मण्डलं आश्रयन्ते ॥ ०७.१६.३१ ॥
ये च अस्य अमात्याः स्व-भूमिषु आयत्ताः ते च अस्य औद्विग्नाः मण्डलम् आश्रयन्ते ॥ ०७।१६।३१ ॥
ye ca asya amātyāḥ sva-bhūmiṣu āyattāḥ te ca asya audvignāḥ maṇḍalam āśrayante .. 07.16.31 ..
स्वयं वा राज्यं प्राणान्वाअस्याभिमन्यन्ते ॥ ०७.१६.३२ ॥
स्वयम् वा राज्यम् प्राणान् वा अस्य अभिमन्यन्ते ॥ ०७।१६।३२ ॥
svayam vā rājyam prāṇān vā asya abhimanyante .. 07.16.32 ..
स्व-भूमिषु च राजानस्तस्मात्साम्नाअनुपालिताः । ॥ ०७.१६.३३अ ब ॥
स्व-भूमिषु च राजानः तस्मात् साम्ना अअनुपालिताः । ॥ ०७।१६।३३अ ब ॥
sva-bhūmiṣu ca rājānaḥ tasmāt sāmnā aanupālitāḥ . .. 07.16.33a ba ..
भवन्त्यनुगुणा राज्ञः पुत्र-पौत्र-अनुवर्तिनः ॥ ०७.१६.३३च्द् ॥
भवन्ति अनुगुणाः राज्ञः पुत्र-पौत्र-अनुवर्तिनः ॥ ०७।१६।३३च् ॥
bhavanti anuguṇāḥ rājñaḥ putra-pautra-anuvartinaḥ .. 07.16.33c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In