| |
|

This overlay will guide you through the buttons:

शमः संधिः समाधिरित्येकोअर्थः ॥ ०७.१७.०१ ॥
शमः संधिः समाधिः इति एकः अर्थः ॥ ०७।१७।०१ ॥
śamaḥ saṃdhiḥ samādhiḥ iti ekaḥ arthaḥ .. 07.17.01 ..
राज्ञां विश्वास-उपगमः शमः संधिः समाधिरिति ॥ ०७.१७.०२ ॥
राज्ञाम् विश्वासः उपगमः शमः संधिः समाधिः इति ॥ ०७।१७।०२ ॥
rājñām viśvāsaḥ upagamaḥ śamaḥ saṃdhiḥ samādhiḥ iti .. 07.17.02 ..
सत्यं शपथो वा चलः संधिः । प्रतिभूः प्रतिग्रहो वा स्थावरः इत्याचार्याः ॥ ०७.१७.०३ ॥
सत्यम् शपथः वा चलः संधिः । प्रतिभूः प्रतिग्रहः वा स्थावरः इति आचार्याः ॥ ०७।१७।०३ ॥
satyam śapathaḥ vā calaḥ saṃdhiḥ . pratibhūḥ pratigrahaḥ vā sthāvaraḥ iti ācāryāḥ .. 07.17.03 ..
नैति कौटिल्यः ॥ ०७.१७.०४ ॥
न एति कौटिल्यः ॥ ०७।१७।०४ ॥
na eti kauṭilyaḥ .. 07.17.04 ..
सत्यं शपथो वा परत्रैह च स्थावरः संधिः । इह-अर्थ एव प्रतिभूः प्रतिग्रहो वा बल-अपेक्षः ॥ ०७.१७.०५ ॥
सत्यम् शपथः वा परत्र एह च स्थावरः संधिः । इह अर्थः एव प्रतिभूः प्रतिग्रहः वा बल-अपेक्षः ॥ ०७।१७।०५ ॥
satyam śapathaḥ vā paratra eha ca sthāvaraḥ saṃdhiḥ . iha arthaḥ eva pratibhūḥ pratigrahaḥ vā bala-apekṣaḥ .. 07.17.05 ..
संहिताः स्मः इति सत्य-संधाः पूर्वे राजानः सत्येन संदधिरे ॥ ०७.१७.०६ ॥
संहिताः स्मः इति सत्य-संधाः पूर्वे राजानः सत्येन संदधिरे ॥ ०७।१७।०६ ॥
saṃhitāḥ smaḥ iti satya-saṃdhāḥ pūrve rājānaḥ satyena saṃdadhire .. 07.17.06 ..
तस्यातिक्रमे शपथेन अग्न्य्-उदक-सीता-प्राकार-लोष्ट-हस्ति-स्कन्ध-अश्व-पृष्ट-रथ-उपस्थ-शस्त्र-रत्न-बीज-गन्ध-रस-सुवर्ण-हिरण्यान्यालेभिरे "हन्युरेतानि त्यजेयुश्चएनं यः शपथं अतिक्रामेत्" इति ॥ ०७.१७.०७ ॥
तस्य अतिक्रमे शपथेन अग्नि-उदक-सीता-प्राकार-लोष्ट-हस्ति-स्कन्ध-अश्व-पृष्ट-रथ-उपस्थ-शस्त्र-रत्न-बीज-गन्ध-रस-सुवर्ण-हिरण्यानि आलेभिरे "हन्युः एतानि त्यजेयुः च एनम् यः शपथम् अतिक्रामेत्" इति ॥ ०७।१७।०७ ॥
tasya atikrame śapathena agni-udaka-sītā-prākāra-loṣṭa-hasti-skandha-aśva-pṛṣṭa-ratha-upastha-śastra-ratna-bīja-gandha-rasa-suvarṇa-hiraṇyāni ālebhire "hanyuḥ etāni tyajeyuḥ ca enam yaḥ śapatham atikrāmet" iti .. 07.17.07 ..
शपथ-अतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्य-बन्धः प्रतिभूः ॥ ०७.१७.०८ ॥
शपथ-अतिक्रमे महताम् तपस्विनाम् मुख्यानाम् वा प्रातिभाव्य-बन्धः प्रतिभूः ॥ ०७।१७।०८ ॥
śapatha-atikrame mahatām tapasvinām mukhyānām vā prātibhāvya-bandhaḥ pratibhūḥ .. 07.17.08 ..
तस्मिन्यः पर-अवग्रह-समर्थान्प्रतिभुवो गृह्णाति । सोअतिसंधत्ते ॥ ०७.१७.०९ ॥
तस्मिन् यः पर-अवग्रह-समर्थान् प्रतिभुवः गृह्णाति । सः अतिसंधत्ते ॥ ०७।१७।०९ ॥
tasmin yaḥ para-avagraha-samarthān pratibhuvaḥ gṛhṇāti . saḥ atisaṃdhatte .. 07.17.09 ..
विपरीतोअतिसंधीयते ॥ ०७.१७.१० ॥
विपरीतः अतिसंधीयते ॥ ०७।१७।१० ॥
viparītaḥ atisaṃdhīyate .. 07.17.10 ..
बन्धु-मुख्य-प्रग्रहः प्रतिग्रहः ॥ ०७.१७.११ ॥
बन्धु-मुख्य-प्रग्रहः प्रतिग्रहः ॥ ०७।१७।११ ॥
bandhu-mukhya-pragrahaḥ pratigrahaḥ .. 07.17.11 ..
तस्मिन्यो दूष्य-अमात्यं दूष्य-अपत्यं वा ददाति । सोअतिसंधत्ते ॥ ०७.१७.१२ ॥
तस्मिन् यः दूष्य-अमात्यम् दूष्य-अपत्यम् वा ददाति । सः अतिसंधत्ते ॥ ०७।१७।१२ ॥
tasmin yaḥ dūṣya-amātyam dūṣya-apatyam vā dadāti . saḥ atisaṃdhatte .. 07.17.12 ..
विपरीतोअतिसंधीयते ॥ ०७.१७.१३ ॥
विपरीतः अतिसंधीयते ॥ ०७।१७।१३ ॥
viparītaḥ atisaṃdhīyate .. 07.17.13 ..
प्रतिग्रह-ग्रहण-विश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति ॥ ०७.१७.१४ ॥
प्रतिग्रह-ग्रहण-विश्वस्तस्य हि परः छिद्रेषु निरपेक्षः प्रहरति ॥ ०७।१७।१४ ॥
pratigraha-grahaṇa-viśvastasya hi paraḥ chidreṣu nirapekṣaḥ praharati .. 07.17.14 ..
अपत्य-समाधौ तु कन्या-पुत्र-दाने ददत्तु कन्यां अतिसंधत्ते ॥ ०७.१७.१५ ॥
अपत्य-समाधौ तु कन्या-पुत्र-दाने ददत् तु कन्याम् अतिसंधत्ते ॥ ०७।१७।१५ ॥
apatya-samādhau tu kanyā-putra-dāne dadat tu kanyām atisaṃdhatte .. 07.17.15 ..
कन्या ह्यदायादा परेषां एवार्थायऽक्लेश्या(?) च ॥ ०७.१७.१६ ॥
कन्या हि अ दायादा परेषाम् एव अर्थाय अ क्लेश्या(?) च ॥ ०७।१७।१६ ॥
kanyā hi a dāyādā pareṣām eva arthāya a kleśyā(?) ca .. 07.17.16 ..
विपरीतः पुत्रः ॥ ०७.१७.१७ ॥
विपरीतः पुत्रः ॥ ०७।१७।१७ ॥
viparītaḥ putraḥ .. 07.17.17 ..
पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृत-अस्त्रं एक-पुत्रं वा ददाति सोअतिसंधीयते ॥ ०७.१७.१८ ॥
पुत्रयोः अपि यः जात्यम् प्राज्ञम् शूरम् कृत-अस्त्रम् एक-पुत्रम् वा ददाति सः अतिसंधीयते ॥ ०७।१७।१८ ॥
putrayoḥ api yaḥ jātyam prājñam śūram kṛta-astram eka-putram vā dadāti saḥ atisaṃdhīyate .. 07.17.18 ..
विपरीतोअतिसंधत्ते ॥ ०७.१७.१९ ॥
विपरीतः अतिसंधत्ते ॥ ०७।१७।१९ ॥
viparītaḥ atisaṃdhatte .. 07.17.19 ..
जात्यादजात्यो हि लुप्त-दायाद-संतानत्वादाधातुं श्रेयान् । प्राज्ञादप्राज्ञो मन्त्र-शक्ति-लोपात् । शूरादशूर उत्साह-शक्ति-लोपात् । कृत-अस्त्रादकृत-अस्त्रः प्रहर्तव्य-सम्पल्-लोपात् । एक-पुत्रादनेक-पुत्रो निरपेक्षत्वात् ॥ ०७.१७.२० ॥
जात्यात् अजात्यः हि लुप्त-दायाद-संतान-त्वात् आधातुम् श्रेयान् । प्राज्ञात् अप्राज्ञः मन्त्र-शक्ति-लोपात् । शूरात् अशूरः उत्साह-शक्ति-लोपात् । कृत-अस्त्रात् अकृत-अस्त्रः प्रहर्तव्य-सम्पद्-लोपात् । एक-पुत्रात् अनेक-पुत्रः निरपेक्ष-त्वात् ॥ ०७।१७।२० ॥
jātyāt ajātyaḥ hi lupta-dāyāda-saṃtāna-tvāt ādhātum śreyān . prājñāt aprājñaḥ mantra-śakti-lopāt . śūrāt aśūraḥ utsāha-śakti-lopāt . kṛta-astrāt akṛta-astraḥ prahartavya-sampad-lopāt . eka-putrāt aneka-putraḥ nirapekṣa-tvāt .. 07.17.20 ..
जात्य-प्राज्ञयोर्जात्यं अप्राज्ञं ऐश्वर्य-प्रकृतिरनुवर्तते । प्राज्ञं अजात्यं मन्त्र-अधिकारः ॥ ०७.१७.२१ ॥
जात्य-प्राज्ञयोः जात्यम् अप्राज्ञम् ऐश्वर्य-प्रकृतिः अनुवर्तते । प्राज्ञम् अजात्यम् मन्त्र-अधिकारः ॥ ०७।१७।२१ ॥
jātya-prājñayoḥ jātyam aprājñam aiśvarya-prakṛtiḥ anuvartate . prājñam ajātyam mantra-adhikāraḥ .. 07.17.21 ..
मन्त्र-अधिकारेअपि वृद्ध-सम्योगाज्जात्यः प्राज्ञं अतिसंधत्ते ॥ ०७.१७.२२ ॥
मन्त्र-अधिकारे अपि वृद्ध-सम्योगात् जात्यः प्राज्ञम् अतिसंधत्ते ॥ ०७।१७।२२ ॥
mantra-adhikāre api vṛddha-samyogāt jātyaḥ prājñam atisaṃdhatte .. 07.17.22 ..
प्राज्ञ-शूरयोः प्राज्ञं अशूरं मति-कर्मणां योगोअनुवर्तते । शूरं अप्राज्ञं विक्रम-अधिकारः ॥ ०७.१७.२३ ॥
प्राज्ञ-शूरयोः प्राज्ञम् अ शूरम् मति-कर्मणाम् योगः अनुवर्तते । शूरम् अप्राज्ञम् विक्रम-अधिकारः ॥ ०७।१७।२३ ॥
prājña-śūrayoḥ prājñam a śūram mati-karmaṇām yogaḥ anuvartate . śūram aprājñam vikrama-adhikāraḥ .. 07.17.23 ..
विक्रम-अधिकारेअपि हस्तिनं इव लुब्धकः प्राज्ञः शूरं अतिसंधत्तेश् ॥ ०७.१७.२४ ॥
विक्रम-अधिकारे अपि हस्तिनम् इव लुब्धकः प्राज्ञः शूरम् अतिसंधत्तेश् ॥ ०७।१७।२४ ॥
vikrama-adhikāre api hastinam iva lubdhakaḥ prājñaḥ śūram atisaṃdhatteś .. 07.17.24 ..
शूर-कृत-अस्त्रयोः शूरं अकृत-अस्त्रं विक्रम-व्यवसायोअनुवर्तते । कृत-अस्त्रं अशूरं लक्ष्य-लम्भ-अधिकारः ॥ ०७.१७.२५ ॥
शूर-कृत-अस्त्रयोः शूरम् अ कृत-अस्त्रम् विक्रम-व्यवसायः अनुवर्तते । कृत-अस्त्रम् अ शूरम् लक्ष्य-लम्भ-अधिकारः ॥ ०७।१७।२५ ॥
śūra-kṛta-astrayoḥ śūram a kṛta-astram vikrama-vyavasāyaḥ anuvartate . kṛta-astram a śūram lakṣya-lambha-adhikāraḥ .. 07.17.25 ..
लक्ष्य-लम्भ-अधिकारेअपि स्थैर्य-प्रतिपत्त्य्-असम्मोषैः शूरः कृत-अस्त्रं अतिसंधत्ते ॥ ०७.१७.२६ ॥
लक्ष्य-लम्भ-अधिकारे अपि स्थैर्य-प्रतिपत्ति-असम्मोषैः शूरः कृत-अस्त्रम् अतिसंधत्ते ॥ ०७।१७।२६ ॥
lakṣya-lambha-adhikāre api sthairya-pratipatti-asammoṣaiḥ śūraḥ kṛta-astram atisaṃdhatte .. 07.17.26 ..
बह्व्-एक-पुत्रयोर्बहु-पुत्र एकं दत्त्वा शेष-प्रतिष्टब्धः संधिं अतिक्रामति । नैतरः ॥ ०७.१७.२७ ॥
बहु-एक-पुत्रयोः बहु-पुत्रः एकम् दत्त्वा शेष-प्रतिष्टब्धः संधिम् अतिक्रामति । न एतरः ॥ ०७।१७।२७ ॥
bahu-eka-putrayoḥ bahu-putraḥ ekam dattvā śeṣa-pratiṣṭabdhaḥ saṃdhim atikrāmati . na etaraḥ .. 07.17.27 ..
पुत्र-सर्व-स्व-दाने संधिश्चेत्पुत्र-फलतो विशेषः ॥ ०७.१७.२८ ॥
पुत्र-सर्व-स्व-दाने संधिः चेद् पुत्र-फलतः विशेषः ॥ ०७।१७।२८ ॥
putra-sarva-sva-dāne saṃdhiḥ ced putra-phalataḥ viśeṣaḥ .. 07.17.28 ..
सम-फलयोः शक्त-प्रजननतो विशेषः ॥ ०७.१७.२९ ॥
सम-फलयोः शक्त-प्रजननतः विशेषः ॥ ०७।१७।२९ ॥
sama-phalayoḥ śakta-prajananataḥ viśeṣaḥ .. 07.17.29 ..
शक्त-प्रजननयोरप्युपस्थित-प्रजननतो विशेषः ॥ ०७.१७.३० ॥
शक्त-प्रजननयोः अपि उपस्थित-प्रजननतः विशेषः ॥ ०७।१७।३० ॥
śakta-prajananayoḥ api upasthita-prajananataḥ viśeṣaḥ .. 07.17.30 ..
शक्तिमत्येक-पुत्रे तु लुप्त-पुत्र-उत्पत्तिरात्मानं आदध्यात् । न चएक-पुत्रं इति ॥ ०७.१७.३१ ॥
शक्तिमति एक-पुत्रे तु लुप्त-पुत्र-उत्पत्तिः आत्मानम् आदध्यात् । न च एक-पुत्रम् इति ॥ ०७।१७।३१ ॥
śaktimati eka-putre tu lupta-putra-utpattiḥ ātmānam ādadhyāt . na ca eka-putram iti .. 07.17.31 ..
अभ्युच्चीयमानः समाधि-मोक्षं कारयेत् ॥ ०७.१७.३२ ॥
अभ्युच्चीयमानः समाधि-मोक्षम् कारयेत् ॥ ०७।१७।३२ ॥
abhyuccīyamānaḥ samādhi-mokṣam kārayet .. 07.17.32 ..
कुमार-आसन्नाः सत्त्रिणः कारु-शिल्पि-व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारं अपहरेयुः ॥ ०७.१७.३३ ॥
कुमार-आसन्नाः सत्त्रिणः कारु-शिल्पि-व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रौ उपखानयित्वा कुमारम् अपहरेयुः ॥ ०७।१७।३३ ॥
kumāra-āsannāḥ sattriṇaḥ kāru-śilpi-vyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrau upakhānayitvā kumāram apahareyuḥ .. 07.17.33 ..
नटनर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिका वा पूर्व-प्रणिहिताः परं उपतिष्ठेरन् ॥ ०७.१७.३४ ॥
नट-नर्तक-गायन-वादक-वाच्-जीवन-कुशीलव-प्लवक-सौभिकाः वा पूर्व-प्रणिहिताः परम् उपतिष्ठेरन् ॥ ०७।१७।३४ ॥
naṭa-nartaka-gāyana-vādaka-vāc-jīvana-kuśīlava-plavaka-saubhikāḥ vā pūrva-praṇihitāḥ param upatiṣṭheran .. 07.17.34 ..
ते कुमारं परं-परयाउपतिष्ठेरन् ॥ ०७.१७.३५ ॥
ते कुमारम् परम् परया उपतिष्ठेरन् ॥ ०७।१७।३५ ॥
te kumāram param parayā upatiṣṭheran .. 07.17.35 ..
तेषां अनियत-काल-प्रवेश-स्थान-निर्गमनानि स्थापयेत् ॥ ०७.१७.३६ ॥
तेषाम् अनियत-काल-प्रवेश-स्थान-निर्गमनानि स्थापयेत् ॥ ०७।१७।३६ ॥
teṣām aniyata-kāla-praveśa-sthāna-nirgamanāni sthāpayet .. 07.17.36 ..
ततस्तद्-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥ ०७.१७.३७ ॥
ततस् तद्-व्यञ्जनः वा रात्रौ प्रतिष्ठेत ॥ ०७।१७।३७ ॥
tatas tad-vyañjanaḥ vā rātrau pratiṣṭheta .. 07.17.37 ..
तेन रूप-आजीवा भार्या-व्यञ्जनाश्च व्याख्याताः ॥ ०७.१७.३८ ॥
तेन रूप-आजीवाः भार्या-व्यञ्जनाः च व्याख्याताः ॥ ०७।१७।३८ ॥
tena rūpa-ājīvāḥ bhāryā-vyañjanāḥ ca vyākhyātāḥ .. 07.17.38 ..
तेषां वा तूर्य-भाण्ड-फेलां गृहीत्वा निर्गच्छेत् ॥ ०७.१७.३९ ॥
तेषाम् वा तूर्य-भाण्ड-फेलाम् गृहीत्वा निर्गच्छेत् ॥ ०७।१७।३९ ॥
teṣām vā tūrya-bhāṇḍa-phelām gṛhītvā nirgacchet .. 07.17.39 ..
सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारकैर्वा द्रव्य-वस्त्र-भाण्ड-फेला-शयन-आसन-सम्भोगैर्निर्ह्रियेत ॥ ०७.१७.४० ॥
सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारकैः वा द्रव्य-वस्त्र-भाण्ड-फेला-शयन-आसन-सम्भोगैः निर्ह्रियेत ॥ ०७।१७।४० ॥
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādhaka-udaka-paricārakaiḥ vā dravya-vastra-bhāṇḍa-phelā-śayana-āsana-sambhogaiḥ nirhriyeta .. 07.17.40 ..
परिचारकच्-छद्मना वा किंचिदरूप-वेलायां आदाय निर्गच्छेत् । सुरुङ्गा-मुखेन वा निशा-उपहारेण ॥ ०७.१७.४१ ॥
परिचारक-छद्मना वा किंचिद् अरूप-वेलायाम् आदाय निर्गच्छेत् । सुरुङ्गा-मुखेन वा निशा-उपहारेण ॥ ०७।१७।४१ ॥
paricāraka-chadmanā vā kiṃcid arūpa-velāyām ādāya nirgacchet . suruṅgā-mukhena vā niśā-upahāreṇa .. 07.17.41 ..
तोय-आशये वा वारुणं योगं आतिष्ठेत् ॥ ०७.१७.४२ ॥
तोय-आशये वा वारुणम् योगम् आतिष्ठेत् ॥ ०७।१७।४२ ॥
toya-āśaye vā vāruṇam yogam ātiṣṭhet .. 07.17.42 ..
वैदेहक-व्यञ्जना वा पक्व-अन्न-फल-व्यवहारेणऽरक्षिषु रसं उपचारयेयुः ॥ ०७.१७.४३ ॥
वैदेहक-व्यञ्जनाः वा पक्व-अन्न-फल-व्यवहारेण अरक्षिषु रसम् उपचारयेयुः ॥ ०७।१७।४३ ॥
vaidehaka-vyañjanāḥ vā pakva-anna-phala-vyavahāreṇa arakṣiṣu rasam upacārayeyuḥ .. 07.17.43 ..
दैवत-उपहार-श्राद्ध-प्रहवण-निमित्तं आरक्षिषु मदन-योग-युक्तं अन्न-पानं रसं वा प्रयुज्यापगच्छेत् । आरक्षक-प्रोत्साहनेन वा ॥ ०७.१७.४४ ॥
दैवत-उपहार-श्राद्ध-प्रहवण-निमित्तम् आरक्षिषु मदन-योग-युक्तम् अन्न-पानम् रसम् वा प्रयुज्य अपगच्छेत् । आरक्षक-प्रोत्साहनेन वा ॥ ०७।१७।४४ ॥
daivata-upahāra-śrāddha-prahavaṇa-nimittam ārakṣiṣu madana-yoga-yuktam anna-pānam rasam vā prayujya apagacchet . ārakṣaka-protsāhanena vā .. 07.17.44 ..
नागरक-कुशीलव-चिकित्सक-आपूपिक-व्यञ्जना वा रात्रौ समृद्ध-गृहाण्यादीपयेयुः आरक्षिणां वा ॥ ०७.१७.४५ ॥
नागरक-कुशीलव-चिकित्सक-आपूपिक-व्यञ्जनाः वा रात्रौ समृद्ध-गृहाणि आदीपयेयुः आरक्षिणाम् वा ॥ ०७।१७।४५ ॥
nāgaraka-kuśīlava-cikitsaka-āpūpika-vyañjanāḥ vā rātrau samṛddha-gṛhāṇi ādīpayeyuḥ ārakṣiṇām vā .. 07.17.45 ..
वैदेहक-व्यञ्जना वा पण्य-संस्थां आदीपयेयुः ॥ ०७.१७.४६ ॥
वैदेहक-व्यञ्जनाः वा पण्य-संस्थाम् आदीपयेयुः ॥ ०७।१७।४६ ॥
vaidehaka-vyañjanāḥ vā paṇya-saṃsthām ādīpayeyuḥ .. 07.17.46 ..
अन्यद्वा शरीरं निक्षिप्य स्व-गृहं आदीपयेदनुपात-भयात् ॥ ०७.१७.४७ ॥
अन्यत् वा शरीरम् निक्षिप्य स्व-गृहम् आदीपयेत् अनुपात-भयात् ॥ ०७।१७।४७ ॥
anyat vā śarīram nikṣipya sva-gṛham ādīpayet anupāta-bhayāt .. 07.17.47 ..
ततः संधिच्-छेद-खात-सुरुङ्गाभिरपगच्छेत् ॥ ०७.१७.४८ ॥
ततस् संधित्-छेद-खात-सुरुङ्गाभिः अपगच्छेत् ॥ ०७।१७।४८ ॥
tatas saṃdhit-cheda-khāta-suruṅgābhiḥ apagacchet .. 07.17.48 ..
काच-कुम्भ-भाण्ड-भार-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥ ०७.१७.४९ ॥
काच-कुम्भ-भाण्ड-भार-व्यञ्जनः वा रात्रौ प्रतिष्ठेत ॥ ०७।१७।४९ ॥
kāca-kumbha-bhāṇḍa-bhāra-vyañjanaḥ vā rātrau pratiṣṭheta .. 07.17.49 ..
मुण्ड-जटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्-व्यञ्जनः प्रतिष्ठेत । विरूप-व्याधि-करण-अरण्य-चरच्-छद्मनां अन्यतमेन वा ॥ ०७.१७.५० ॥
मुण्ड-जटिलानाम् प्रवासनानि अनुप्रविष्टः वा रात्रौ तद्-व्यञ्जनः प्रतिष्ठेत । विरूप-व्याधि-करण-अरण्य-चरत्-छद्मनाम् अन्यतमेन वा ॥ ०७।१७।५० ॥
muṇḍa-jaṭilānām pravāsanāni anupraviṣṭaḥ vā rātrau tad-vyañjanaḥ pratiṣṭheta . virūpa-vyādhi-karaṇa-araṇya-carat-chadmanām anyatamena vā .. 07.17.50 ..
प्रेत-व्यञ्जनो वा गूढैर्निर्ह्रियेत ॥ ०७.१७.५१ ॥
प्रेत-व्यञ्जनः वा गूढैः निर्ह्रियेत ॥ ०७।१७।५१ ॥
preta-vyañjanaḥ vā gūḍhaiḥ nirhriyeta .. 07.17.51 ..
प्रेतं वा स्त्री-वेषेणानुगच्छेत् ॥ ०७.१७.५२ ॥
प्रेतम् वा स्त्री-वेषेण अनुगच्छेत् ॥ ०७।१७।५२ ॥
pretam vā strī-veṣeṇa anugacchet .. 07.17.52 ..
वन-चर-व्यञ्जनाश्चएनं अन्यतो यान्तं अन्यतोअपदिशेयुः ॥ ०७.१७.५३ ॥
वन-चर-व्यञ्जनाः च एनम् अन्यतस् यान्तम् अन्यतस् अपदिशेयुः ॥ ०७।१७।५३ ॥
vana-cara-vyañjanāḥ ca enam anyatas yāntam anyatas apadiśeyuḥ .. 07.17.53 ..
ततोअन्यतो गच्छेत् ॥ ०७.१७.५४ ॥
ततस् अन्यतस् गच्छेत् ॥ ०७।१७।५४ ॥
tatas anyatas gacchet .. 07.17.54 ..
चक्र-चराणां वा शकट-वाटैरपगच्छेत् ॥ ०७.१७.५५ ॥
चक्र-चराणाम् वा शकट-वाटैः अपगच्छेत् ॥ ०७।१७।५५ ॥
cakra-carāṇām vā śakaṭa-vāṭaiḥ apagacchet .. 07.17.55 ..
आसन्ने चानुपाते सत्त्रं वा गृह्णीयात् ॥ ०७.१७.५६ ॥
आसन्ने च अनुपाते सत्त्रम् वा गृह्णीयात् ॥ ०७।१७।५६ ॥
āsanne ca anupāte sattram vā gṛhṇīyāt .. 07.17.56 ..
सत्त्र-अभावे हिरण्यं रस-विद्धं वा भक्ष्य-जातं उभयतः-पन्थानं उत्सृजेत् ॥ ०७.१७.५७ ॥
सत्त्र-अभावे हिरण्यम् रस-विद्धम् वा भक्ष्य-जातम् उभयतस् पन्थानम् उत्सृजेत् ॥ ०७।१७।५७ ॥
sattra-abhāve hiraṇyam rasa-viddham vā bhakṣya-jātam ubhayatas panthānam utsṛjet .. 07.17.57 ..
ततोअन्यतोअपगच्छेत् ॥ ०७.१७.५८ ॥
ततस् अन्यतस् अपगच्छेत् ॥ ०७।१७।५८ ॥
tatas anyatas apagacchet .. 07.17.58 ..
गृहीतो वा साम-आदिभिरनुपातं अतिसंदध्यात् । रस-विद्धेन वा पथ्य्-अदनेन ॥ ०७.१७.५९ ॥
गृहीतः वा साम-आदिभिः अनुपातम् अतिसंदध्यात् । रस-विद्धेन वा पथि अदनेन ॥ ०७।१७।५९ ॥
gṛhītaḥ vā sāma-ādibhiḥ anupātam atisaṃdadhyāt . rasa-viddhena vā pathi adanena .. 07.17.59 ..
वारुण-योग-अग्नि-दाहेषु वा शरीरं अन्यदाधाय शत्रुं अभियुञ्जीत "पुत्रो मे त्वया हतः" इति ॥ ०७.१७.६० ॥
वारुण-योग-अग्नि-दाहेषु वा शरीरम् अन्यत् आधाय शत्रुम् अभियुञ्जीत "पुत्रः मे त्वया हतः" इति ॥ ०७।१७।६० ॥
vāruṇa-yoga-agni-dāheṣu vā śarīram anyat ādhāya śatrum abhiyuñjīta "putraḥ me tvayā hataḥ" iti .. 07.17.60 ..
उपात्तच्-छन्न-शस्त्रो वा रात्रौ विक्रम्य रक्षिषु ॥ ०७.१७.६१अ ॥
उपात्त-छन्न-शस्त्रः वा रात्रौ विक्रम्य रक्षिषु ॥ ०७।१७।६१अ ॥
upātta-channa-śastraḥ vā rātrau vikramya rakṣiṣu .. 07.17.61a ..
शीघ्र-पातैरपसरेद्गूढ-प्रणिहितैः सह ॥ ०७.१७.६१ब ॥
शीघ्र-पातैः अपसरेत् गूढ-प्रणिहितैः सह ॥ ०७।१७।६१ब ॥
śīghra-pātaiḥ apasaret gūḍha-praṇihitaiḥ saha .. 07.17.61ba ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In