| |
|

This overlay will guide you through the buttons:

मध्यमस्यऽत्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ॥ ०७.१८.०१ ॥
तृतीया पञ्चमी च प्रकृती प्रकृतयः ॥ ०७।१८।०१ ॥
tṛtīyā pañcamī ca prakṛtī prakṛtayaḥ .. 07.18.01 ..
द्वितीया चतुर्थी षष्ठी च विकृतयः ॥ ०७.१८.०२ ॥
द्वितीया चतुर्थी षष्ठी च विकृतयः ॥ ०७।१८।०२ ॥
dvitīyā caturthī ṣaṣṭhī ca vikṛtayaḥ .. 07.18.02 ..
तच्चेदुभयं मध्यमोअनुगृह्णीयात् । विजिगीषुर्मध्यम-अनुलोमः स्यात् ॥ ०७.१८.०३ ॥
तत् चेद् उभयम् मध्यमः अनुगृह्णीयात् । विजिगीषुः मध्यम-अनुलोमः स्यात् ॥ ०७।१८।०३ ॥
tat ced ubhayam madhyamaḥ anugṛhṇīyāt . vijigīṣuḥ madhyama-anulomaḥ syāt .. 07.18.03 ..
न चेदनुगृह्णीयात् । प्रकृत्य्-अनुलोमः स्यात् ॥ ०७.१८.०४ ॥
न चेद् अनुगृह्णीयात् । प्रकृति-अनुलोमः स्यात् ॥ ०७।१८।०४ ॥
na ced anugṛhṇīyāt . prakṛti-anulomaḥ syāt .. 07.18.04 ..
मद्यमश्चेद्विजिगीषोर्मित्रं मित्र-भावि लिप्सेत । मित्रस्यऽत्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत ॥ ०७.१८.०५ ॥
मद्यमः चेद् विजिगीषोः मित्रम् मित्र-भावि लिप्सेत । मित्रस्य आत्मनः च मित्राणि उत्थाप्य मध्यमात् च मित्राणि भेदयित्वा मित्रम् त्रायेत ॥ ०७।१८।०५ ॥
madyamaḥ ced vijigīṣoḥ mitram mitra-bhāvi lipseta . mitrasya ātmanaḥ ca mitrāṇi utthāpya madhyamāt ca mitrāṇi bhedayitvā mitram trāyeta .. 07.18.05 ..
मण्डलं वा प्रोत्साहयेत्"अतिप्रवृद्धोअयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः । सम्भूयास्य यात्रां विहनाम" इति ॥ ०७.१८.०६ ॥
मण्डलम् वा प्रोत्साहयेत्"अतिप्रवृद्धः अयम् मध्यमः सर्वेषाम् नः विनाशाय अभ्युत्थितः । सम्भूय अस्य यात्राम् विहनाम" इति ॥ ०७।१८।०६ ॥
maṇḍalam vā protsāhayet"atipravṛddhaḥ ayam madhyamaḥ sarveṣām naḥ vināśāya abhyutthitaḥ . sambhūya asya yātrām vihanāma" iti .. 07.18.06 ..
तच्चेन्मण्डलं अनुगृह्णीयात् । मध्यम-अवग्रहेणऽत्मानं उपबृंहयेत् ॥ ०७.१८.०७ ॥
तत् चेद् मण्डलम् अनुगृह्णीयात् । मध्यम-अवग्रहेण आत्मानम् उपबृंहयेत् ॥ ०७।१८।०७ ॥
tat ced maṇḍalam anugṛhṇīyāt . madhyama-avagraheṇa ātmānam upabṛṃhayet .. 07.18.07 ..
न चेदनुगृह्णीयात् । कोश-दण्डाभ्यां मित्रं अनुगृह्य ये मध्यम-द्वेषिणो राजानः परस्पर-अनुगृहीता वा बहवस्तिष्ठेयुः । एक-सिद्धौ वा बहवः सिध्येयुः । परस्पराद्वा शङ्किता नौत्तिष्ठेरन् । तेषां प्रधानं एकं आसन्नं वा साम-दानाभ्यां लभेत ॥ ०७.१८.०८ ॥
न चेद् अनुगृह्णीयात् । कोश-दण्डाभ्याम् मित्रम् अनुगृह्य ये मध्यम-द्वेषिणः राजानः परस्पर-अनुगृहीताः वा बहवः तिष्ठेयुः । एक-सिद्धौ वा बहवः सिध्येयुः । परस्परात् वा शङ्किताः न उत्तिष्ठेरन् । तेषाम् प्रधानम् एकम् आसन्नम् वा साम-दानाभ्याम् लभेत ॥ ०७।१८।०८ ॥
na ced anugṛhṇīyāt . kośa-daṇḍābhyām mitram anugṛhya ye madhyama-dveṣiṇaḥ rājānaḥ paraspara-anugṛhītāḥ vā bahavaḥ tiṣṭheyuḥ . eka-siddhau vā bahavaḥ sidhyeyuḥ . parasparāt vā śaṅkitāḥ na uttiṣṭheran . teṣām pradhānam ekam āsannam vā sāma-dānābhyām labheta .. 07.18.08 ..
द्वि-गुणो द्वितीयं त्रि-गुनस्तृतीयं ॥ ०७.१८.०९ ॥
द्वि-गुणः द्वितीयम् त्रि-गुनः तृतीयम् ॥ ०७।१८।०९ ॥
dvi-guṇaḥ dvitīyam tri-gunaḥ tṛtīyam .. 07.18.09 ..
एवं अभ्युच्चितो मध्यमं अवगृह्णीयात् ॥ ०७.१८.१० ॥
एवम् अभ्युच्चितः मध्यमम् अवगृह्णीयात् ॥ ०७।१८।१० ॥
evam abhyuccitaḥ madhyamam avagṛhṇīyāt .. 07.18.10 ..
देश-काल-अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात् । दूष्येषु वा कर्म-संधिं ॥ ०७.१८.११ ॥
देश-काल-अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यम् कुर्यात् । दूष्येषु वा कर्म-संधिम् ॥ ०७।१८।११ ॥
deśa-kāla-atipattau vā saṃdhāya madhyamena mitrasya sācivyam kuryāt . dūṣyeṣu vā karma-saṃdhim .. 07.18.11 ..
कर्शनीयं वाअस्य मित्रं मध्यमो लिप्सेत । प्रतिस्तम्भयेदेनं "अहं त्वा त्रायेय" इति आ कर्शनात् ॥ ०७.१८.१२ ॥
कर्शनीयम् वा अस्य मित्रम् मध्यमः लिप्सेत । प्रतिस्तम्भयेत् एनम् "अहम् त्वा त्रायेय" इति आ कर्शनात् ॥ ०७।१८।१२ ॥
karśanīyam vā asya mitram madhyamaḥ lipseta . pratistambhayet enam "aham tvā trāyeya" iti ā karśanāt .. 07.18.12 ..
कर्शितं एनं त्रायेत ॥ ०७.१८.१३ ॥
कर्शितम् एनम् त्रायेत ॥ ०७।१८।१३ ॥
karśitam enam trāyeta .. 07.18.13 ..
उच्छेदनीयं वाअस्य मित्रं मध्यमो लिप्सेत । कर्शितं एनं त्रायेत मध्यम-वृद्धि-भयात् ॥ ०७.१८.१४ ॥
उच्छेदनीयम् वा अस्य मित्रम् मध्यमः लिप्सेत । कर्शितम् एनम् त्रायेत मध्यम-वृद्धि-भयात् ॥ ०७।१८।१४ ॥
ucchedanīyam vā asya mitram madhyamaḥ lipseta . karśitam enam trāyeta madhyama-vṛddhi-bhayāt .. 07.18.14 ..
उच्छिन्नं वा भूम्य्-अनुग्रहेण हस्ते कुर्यादन्यत्रापसार-भयात् ॥ ०७.१८.१५ ॥
उच्छिन्नम् वा भूमि-अनुग्रहेण हस्ते कुर्यात् अन्यत्र अपसार-भयात् ॥ ०७।१८।१५ ॥
ucchinnam vā bhūmi-anugraheṇa haste kuryāt anyatra apasāra-bhayāt .. 07.18.15 ..
कर्शनीय-उच्छेदनीययोश्चेन्मित्राणि मध्यमस्य साचिव्य-कराणि स्युः । पुरुष-अन्तरेण संधीयेत ॥ ०७.१८.१६ ॥
कर्शनीय-उच्छेदनीययोः चेद् मित्राणि मध्यमस्य साचिव्य-कराणि स्युः । पुरुष-अन्तरेण संधीयेत ॥ ०७।१८।१६ ॥
karśanīya-ucchedanīyayoḥ ced mitrāṇi madhyamasya sācivya-karāṇi syuḥ . puruṣa-antareṇa saṃdhīyeta .. 07.18.16 ..
विजिगीषोर्वा तयोर्मित्राण्यवग्रह-समर्थानि स्युः । संधिं उपेयात् ॥ ०७.१८.१७ ॥
विजिगीषोः वा तयोः मित्राणि अवग्रह-समर्थानि स्युः । संधिम् उपेयात् ॥ ०७।१८।१७ ॥
vijigīṣoḥ vā tayoḥ mitrāṇi avagraha-samarthāni syuḥ . saṃdhim upeyāt .. 07.18.17 ..
अमित्रं वाअस्य मध्यमो लिप्सेत । संधिं उपेयात् ॥ ०७.१८.१८ ॥
अमित्रम् वा अस्य मध्यमः लिप्सेत । संधिम् उपेयात् ॥ ०७।१८।१८ ॥
amitram vā asya madhyamaḥ lipseta . saṃdhim upeyāt .. 07.18.18 ..
एवं स्व-अर्थश्च कृतो भवति मध्यमस्य प्रियं च ॥ ०७.१८.१९ ॥
एवम् स्व-अर्थः च कृतः भवति मध्यमस्य प्रियम् च ॥ ०७।१८।१९ ॥
evam sva-arthaḥ ca kṛtaḥ bhavati madhyamasya priyam ca .. 07.18.19 ..
मध्यमश्चेत्स्व-मित्रं मित्र-भावि लिप्सेत । पुरुष-अन्तरेण संदध्यात् ॥ ०७.१८.२० ॥
मध्यमः चेद् स्व-मित्रम् मित्र-भावि लिप्सेत । पुरुष-अन्तरेण संदध्यात् ॥ ०७।१८।२० ॥
madhyamaḥ ced sva-mitram mitra-bhāvi lipseta . puruṣa-antareṇa saṃdadhyāt .. 07.18.20 ..
स-अपेक्षं वा "नार्हसि मित्रं उच्छेत्तुम्" इति वारयेत् ॥ ०७.१८.२१ ॥
स अपेक्षम् वा "न अर्हसि मित्रम् उच्छेत्तुम्" इति वारयेत् ॥ ०७।१८।२१ ॥
sa apekṣam vā "na arhasi mitram ucchettum" iti vārayet .. 07.18.21 ..
उपेक्षेत वा "मण्डलं अस्य कुप्यतु स्व-पक्ष-वधात्" इति ॥ ०७.१८.२२ ॥
उपेक्षेत वा "मण्डलम् अस्य कुप्यतु स्व-पक्ष-वधात्" इति ॥ ०७।१८।२२ ॥
upekṣeta vā "maṇḍalam asya kupyatu sva-pakṣa-vadhāt" iti .. 07.18.22 ..
अमित्रं आत्मनो वा मध्यमो लिप्सेत । कोश-दण्डाभ्यां एनं अदृश्यमानोअनुगृह्णीयात् ॥ ०७.१८.२३ ॥
अमित्रम् आत्मनः वा मध्यमः लिप्सेत । कोश-दण्डाभ्याम् एनम् अ दृश्यमानः अनुगृह्णीयात् ॥ ०७।१८।२३ ॥
amitram ātmanaḥ vā madhyamaḥ lipseta . kośa-daṇḍābhyām enam a dṛśyamānaḥ anugṛhṇīyāt .. 07.18.23 ..
उदासीनं वा मध्यमो लिप्सेत । अस्मै साहाय्यं दद्याद्"उदासीनाद्भिद्यताम्" इति ॥ ०७.१८.२४ ॥
उदासीनम् वा मध्यमः लिप्सेत । अस्मै साहाय्यम् दद्यात्"उदासीनात् भिद्यताम्" इति ॥ ०७।१८।२४ ॥
udāsīnam vā madhyamaḥ lipseta . asmai sāhāyyam dadyāt"udāsīnāt bhidyatām" iti .. 07.18.24 ..
मध्यम-उदासीनयोर्यो मण्डलस्याभिप्रेतस्तं आश्रयेत ॥ ०७.१८.२५ ॥
मध्यम-उदासीनयोः यः मण्डलस्य अभिप्रेतः तम् आश्रयेत ॥ ०७।१८।२५ ॥
madhyama-udāsīnayoḥ yaḥ maṇḍalasya abhipretaḥ tam āśrayeta .. 07.18.25 ..
मध्यम-चरितेनौदासीन-चरितं व्याख्यातं ॥ ०७.१८.२६ ॥
मध्यम-चरितेन औदासीन-चरितम् व्याख्यातम् ॥ ०७।१८।२६ ॥
madhyama-caritena audāsīna-caritam vyākhyātam .. 07.18.26 ..
उदासीनश्चेन्मध्यमं लिप्सेत । यतः शत्रुं अतिसंदध्यान्मित्रस्यौपकारं कुर्यादुदासीनं वा दण्ड-उपकारिणं लभेत ततः परिणमेत ॥ ०७.१८.२७ ॥
उदासीनः चेद् मध्यमम् लिप्सेत । यतस् शत्रुम् अतिसंदध्यात् मित्रस्य औपकारम् कुर्यात् उदासीनम् वा दण्ड-उपकारिणम् लभेत ततस् परिणमेत ॥ ०७।१८।२७ ॥
udāsīnaḥ ced madhyamam lipseta . yatas śatrum atisaṃdadhyāt mitrasya aupakāram kuryāt udāsīnam vā daṇḍa-upakāriṇam labheta tatas pariṇameta .. 07.18.27 ..
एवं उपबृह्यऽत्मानं अरि-प्रकृतिं कर्शयेन्मित्र-प्रकृतिं चौपगृह्णीयात् ॥ ०७.१८.२८ ॥
एवम् उपबृह्य आत्मानम् अरि-प्रकृतिम् कर्शयेत् मित्र-प्रकृतिम् च उपगृह्णीयात् ॥ ०७।१८।२८ ॥
evam upabṛhya ātmānam ari-prakṛtim karśayet mitra-prakṛtim ca upagṛhṇīyāt .. 07.18.28 ..
सत्यप्यमित्र-भावे तस्यानात्मवान्नित्य-अपकारी शत्रुः शत्रु-संहितः पार्ष्णि-ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरि-भाविनः । एक-अर्थ-अभिप्रयातः पृथग्-अर्थ-अभिप्रयातः सम्भूय-यात्रिकः संहित-प्रयाणिकः स्व-अर्थ-अभिप्रयातः सामुत्थायिकः कोश-दण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधी-भाविक इति मित्र-भाविनः । ॥ ०७.१८.२९अ ॥
सति अपि अमित्र-भावे तस्य अनात्मवान् नित्य-अपकारी शत्रुः शत्रु-संहितः पार्ष्णि-ग्राहः वा व्यसनी यातव्यः व्यसने वा नेतुः अभियोक्ता इति अरि-भाविनः । एक-अर्थ-अभिप्रयातः पृथक् अर्थ-अभिप्रयातः सम्भूय यात्रिकः संहित-प्रयाणिकः स्व-अर्थ-अभिप्रयातः सामुत्थायिकः कोश-दण्डयोः अन्यतरस्य क्रेता विक्रेता वा द्वैधीभाविकः इति मित्र-भाविनः । ॥ ०७।१८।२९अ ॥
sati api amitra-bhāve tasya anātmavān nitya-apakārī śatruḥ śatru-saṃhitaḥ pārṣṇi-grāhaḥ vā vyasanī yātavyaḥ vyasane vā netuḥ abhiyoktā iti ari-bhāvinaḥ . eka-artha-abhiprayātaḥ pṛthak artha-abhiprayātaḥ sambhūya yātrikaḥ saṃhita-prayāṇikaḥ sva-artha-abhiprayātaḥ sāmutthāyikaḥ kośa-daṇḍayoḥ anyatarasya kretā vikretā vā dvaidhībhāvikaḥ iti mitra-bhāvinaḥ . .. 07.18.29a ..
सामन्तो बलवतः प्रतिघातोअन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णि-ग्राहो वा स्वयं उपनतः प्रताप-उपनतो वा दण्ड-उपनत इति भृत्य-भाविनः सामन्ताः ॥ ०७.१८.२९ब ॥
सामन्तः बलवतः प्रतिघातः अन्तर्धिः प्रतिवेशः वा बलवतः पार्ष्णि-ग्राहः वा स्वयम् उपनतः प्रताप-उपनतः वा दण्ड-उपनतः इति भृत्य-भाविनः सामन्ताः ॥ ०७।१८।२९ब ॥
sāmantaḥ balavataḥ pratighātaḥ antardhiḥ prativeśaḥ vā balavataḥ pārṣṇi-grāhaḥ vā svayam upanataḥ pratāpa-upanataḥ vā daṇḍa-upanataḥ iti bhṛtya-bhāvinaḥ sāmantāḥ .. 07.18.29ba ..
तैर्भूम्य्-एक-अन्तरा व्याख्याताः ॥ ०७.१८.३० ॥
तैः भूमि-एक-अन्तराः व्याख्याताः ॥ ०७।१८।३० ॥
taiḥ bhūmi-eka-antarāḥ vyākhyātāḥ .. 07.18.30 ..
तेषां शत्रु-विरोधे यन्मित्रं एक-अर्थतां व्रजेत् । ॥ ०७.१८.३१अ ब ॥
तेषाम् शत्रु-विरोधे यत् मित्रम् एक-अर्थ-ताम् व्रजेत् । ॥ ०७।१८।३१अ ब ॥
teṣām śatru-virodhe yat mitram eka-artha-tām vrajet . .. 07.18.31a ba ..
शक्त्या तद्-अनुगृह्णीयाद्विषहेत यया परं ॥ ०७.१८.३१च्द् ॥
शक्त्या तत् अनुगृह्णीयात् विषहेत यया परम् ॥ ०७।१८।३१च् ॥
śaktyā tat anugṛhṇīyāt viṣaheta yayā param .. 07.18.31c ..
प्रसाध्य शत्रुं यन्मित्रं वृद्धं गच्छेदवश्यतां । ॥ ०७.१८.३२अ ब ॥
प्रसाध्य शत्रुम् यत् मित्रम् वृद्धम् गच्छेत् अवश्य-ताम् । ॥ ०७।१८।३२अ ब ॥
prasādhya śatrum yat mitram vṛddham gacchet avaśya-tām . .. 07.18.32a ba ..
सामन्त-एक-अन्तराभ्यां तत्-प्रकृतिभ्यां विरोधयेत् ॥ ०७.१८.३२च्द् ॥
सामन्त-एक-अन्तराभ्याम् तद्-प्रकृतिभ्याम् विरोधयेत् ॥ ०७।१८।३२च् ॥
sāmanta-eka-antarābhyām tad-prakṛtibhyām virodhayet .. 07.18.32c ..
तत्-कुलीन-अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् । ॥ ०७.१८.३३अ ब ॥
तद्-कुलीन-अपरुद्धाभ्याम् भूमिम् वा तस्य हारयेत् । ॥ ०७।१८।३३अ ब ॥
tad-kulīna-aparuddhābhyām bhūmim vā tasya hārayet . .. 07.18.33a ba ..
यथा वाअनुग्रह-अपेक्षं वश्यं तिष्ठेत्तथा चरेत् ॥ ०७.१८.३३च्द् ॥
यथा वा अनुग्रह-अपेक्षम् वश्यम् तिष्ठेत् तथा चरेत् ॥ ०७।१८।३३च् ॥
yathā vā anugraha-apekṣam vaśyam tiṣṭhet tathā caret .. 07.18.33c ..
नौपकुर्यादमित्रं वा गच्छेद्यदतिकर्शितं । ॥ ०७.१८.३४अ ब ॥
न औपकुर्यात् अमित्रम् वा गच्छेत् यत् अति कर्शितम् । ॥ ०७।१८।३४अ ब ॥
na aupakuryāt amitram vā gacchet yat ati karśitam . .. 07.18.34a ba ..
तदहीनं अवृद्धं च स्थापयेन्मित्रं अर्थवित् ॥ ०७.१८.३४च्द् ॥
तत् अहीनम् अ वृद्धम् च स्थापयेत् मित्रम् अर्थ-विद् ॥ ०७।१८।३४च् ॥
tat ahīnam a vṛddham ca sthāpayet mitram artha-vid .. 07.18.34c ..
अर्थ-युक्त्या चलं मित्रं संधिं यदुपगच्छति । ॥ ०७.१८.३५अ ब ॥
अर्थ-युक्त्या चलम् मित्रम् संधिम् यत् उपगच्छति । ॥ ०७।१८।३५अ ब ॥
artha-yuktyā calam mitram saṃdhim yat upagacchati . .. 07.18.35a ba ..
तस्यापगमने हेतुं विहन्यान्न चलेद्यथा ॥ ०७.१८.३५च्द् ॥
तस्य अपगमने हेतुम् विहन्यात् न चलेत् यथा ॥ ०७।१८।३५च् ॥
tasya apagamane hetum vihanyāt na calet yathā .. 07.18.35c ..
अरि-साधारणं यद्वा तिष्ठेत्तदरितः शठं । ॥ ०७.१८.३६अ ब ॥
अरि-साधारणम् यत् वा तिष्ठेत् तत् अरितः शठम् । ॥ ०७।१८।३६अ ब ॥
ari-sādhāraṇam yat vā tiṣṭhet tat aritaḥ śaṭham . .. 07.18.36a ba ..
भेदयेद्भिन्नं उच्छिन्द्यात्ततः शत्रुं अनन्तरं ॥ ०७.१८.३६च्द् ॥
भेदयेत् भिन्नम् उच्छिन्द्यात् ततस् शत्रुम् अनन्तरम् ॥ ०७।१८।३६च् ॥
bhedayet bhinnam ucchindyāt tatas śatrum anantaram .. 07.18.36c ..
उदासीनं च यत्तिष्ठेत्सामन्तैस्तद्विरोधयेत् । ॥ ०७.१८.३७अ ब ॥
उदासीनम् च यत् तिष्ठेत् सामन्तैः तत् विरोधयेत् । ॥ ०७।१८।३७अ ब ॥
udāsīnam ca yat tiṣṭhet sāmantaiḥ tat virodhayet . .. 07.18.37a ba ..
ततो विग्रह-संतप्तं उपकारे निवेशयेत् ॥ ०७.१८.३७च्द् ॥
ततस् विग्रह-संतप्तम् उपकारे निवेशयेत् ॥ ०७।१८।३७च् ॥
tatas vigraha-saṃtaptam upakāre niveśayet .. 07.18.37c ..
अमित्रं विजिगीषुं च यत्संचरति दुर्बलं । ॥ ०७.१८.३८अ ब ॥
अमित्रम् विजिगीषुम् च यत् संचरति दुर्बलम् । ॥ ०७।१८।३८अ ब ॥
amitram vijigīṣum ca yat saṃcarati durbalam . .. 07.18.38a ba ..
तद्बलेनानुगृह्णीयाद्यथा स्यान्न परान्-मुखं ॥ ०७.१८.३८च्द् ॥
तद्-बलेन अनुगृह्णीयात् यथा स्यात् न परात् मुखम् ॥ ०७।१८।३८च् ॥
tad-balena anugṛhṇīyāt yathā syāt na parāt mukham .. 07.18.38c ..
अपनीय ततोअन्यस्यां भूमौ वा सम्निवेशयेत् । ॥ ०७.१८.३९अ ब ॥
अपनीय ततोअन्यस्याम् भूमौ वा सम्निवेशयेत् । ॥ ०७।१८।३९अ ब ॥
apanīya tatoanyasyām bhūmau vā samniveśayet . .. 07.18.39a ba ..
निवेश्य पूर्वं तत्रान्यद्दण्ड-अनुग्रह-हेतुना ॥ ०७.१८.३९च्द् ॥
निवेश्य पूर्वम् तत्र अन्यत्-दण्ड-अनुग्रह-हेतुना ॥ ०७।१८।३९च् ॥
niveśya pūrvam tatra anyat-daṇḍa-anugraha-hetunā .. 07.18.39c ..
अपकुर्यात्समर्थं वा नौपकुर्याद्यदापदि । ॥ ०७.१८.४०अ ब ॥
अपकुर्यात् समर्थम् वा न उपकुर्यात् यत् आपदि । ॥ ०७।१८।४०अ ब ॥
apakuryāt samartham vā na upakuryāt yat āpadi . .. 07.18.40a ba ..
उच्छिन्द्यादेव तन्-मित्रं विश्वस्याङ्कं उपस्थितं ॥ ०७.१८.४०च्द् ॥
उच्छिन्द्यात् एव तत् मित्रम् विश्वस्य अङ्कम् उपस्थितम् ॥ ०७।१८।४०च् ॥
ucchindyāt eva tat mitram viśvasya aṅkam upasthitam .. 07.18.40c ..
मित्र-व्यसनतो वाअरिरुत्तिष्ठेद्योअनवग्रहः । ॥ ०७.१८.४१अ ब ॥
मित्र-व्यसनतः वा अरिः उत्तिष्ठेत् योअन-वग्रहः । ॥ ०७।१८।४१अ ब ॥
mitra-vyasanataḥ vā ariḥ uttiṣṭhet yoana-vagrahaḥ . .. 07.18.41a ba ..
मित्रेणएव भवेत्साध्यश्छादित-व्यसनेन सः ॥ ०७.१८.४१च्द् ॥
मित्रेण एव भवेत् साध्यः छादित-व्यसनेन सः ॥ ०७।१८।४१च् ॥
mitreṇa eva bhavet sādhyaḥ chādita-vyasanena saḥ .. 07.18.41c ..
अमित्र-व्यसनान्मित्रं उत्थितं यद्विरज्यति । ॥ ०७.१८.४१अ ब ॥
अमित्र-व्यसनात् मित्रम् उत्थितम् यत् विरज्यति । ॥ ०७।१८।४१अ ब ॥
amitra-vyasanāt mitram utthitam yat virajyati . .. 07.18.41a ba ..
अरि-व्यसन-सिद्ध्या तत्-शत्रुणाएव प्रसिध्यति ॥ ०७.१८.४१च्द् ॥
अरि-व्यसन-सिद्ध्या तद्-शत्रुणा एव प्रसिध्यति ॥ ०७।१८।४१च् ॥
ari-vyasana-siddhyā tad-śatruṇā eva prasidhyati .. 07.18.41c ..
वृद्धिं क्षयं च स्थानं च कर्शन-उच्छेदनं तथा ॥ ०७.१८.४२अ ब ॥
वृद्धिम् क्षयम् च स्थानम् च कर्शन-उच्छेदनम् तथा ॥ ०७।१८।४२अ ब ॥
vṛddhim kṣayam ca sthānam ca karśana-ucchedanam tathā .. 07.18.42a ba ..
सर्व-उपायान्समादध्यादेतान्यश्चार्थ-शास्त्रवित् । ॥ ०७.१८.४२च्द् ॥
सर्व-उपायान् समादध्यात् एतान् यः च अर्थ-शास्त्र-विद् । ॥ ०७।१८।४२च् ॥
sarva-upāyān samādadhyāt etān yaḥ ca artha-śāstra-vid . .. 07.18.42c ..
एवं अन्योन्य-संचारं षाड्गुण्यं योअनुपश्यति ॥ ०७.१८.४३अ ब ॥
एवम् अन्योन्य-संचारम् षाड्गुण्यम् यः अनुपश्यति ॥ ०७।१८।४३अ ब ॥
evam anyonya-saṃcāram ṣāḍguṇyam yaḥ anupaśyati .. 07.18.43a ba ..
स बुद्धि-निगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ॥ ०७.१८.४३च्द् ॥
स बुद्धि-निगलैः बद्धैः इष्टम् क्रीडति पार्थिवैः ॥ ०७।१८।४३च् ॥
sa buddhi-nigalaiḥ baddhaiḥ iṣṭam krīḍati pārthivaiḥ .. 07.18.43c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In