| |
|

This overlay will guide you through the buttons:

मध्यमस्यऽत्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ॥ ०७.१८.०१ ॥
madhyamasya'tmā tṛtīyā pañcamī ca prakṛtī prakṛtayaḥ .. 07.18.01 ..
द्वितीया चतुर्थी षष्ठी च विकृतयः ॥ ०७.१८.०२ ॥
dvitīyā caturthī ṣaṣṭhī ca vikṛtayaḥ .. 07.18.02 ..
तच्चेदुभयं मध्यमोअनुगृह्णीयात् । विजिगीषुर्मध्यम-अनुलोमः स्यात् ॥ ०७.१८.०३ ॥
taccedubhayaṃ madhyamoanugṛhṇīyāt . vijigīṣurmadhyama-anulomaḥ syāt .. 07.18.03 ..
न चेदनुगृह्णीयात् । प्रकृत्य्-अनुलोमः स्यात् ॥ ०७.१८.०४ ॥
na cedanugṛhṇīyāt . prakṛty-anulomaḥ syāt .. 07.18.04 ..
मद्यमश्चेद्विजिगीषोर्मित्रं मित्र-भावि लिप्सेत । मित्रस्यऽत्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत ॥ ०७.१८.०५ ॥
madyamaścedvijigīṣormitraṃ mitra-bhāvi lipseta . mitrasya'tmanaśca mitrāṇyutthāpya madhyamācca mitrāṇi bhedayitvā mitraṃ trāyeta .. 07.18.05 ..
मण्डलं वा प्रोत्साहयेत्"अतिप्रवृद्धोअयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः । सम्भूयास्य यात्रां विहनाम" इति ॥ ०७.१८.०६ ॥
maṇḍalaṃ vā protsāhayet"atipravṛddhoayaṃ madhyamaḥ sarveṣāṃ no vināśāyābhyutthitaḥ . sambhūyāsya yātrāṃ vihanāma" iti .. 07.18.06 ..
तच्चेन्मण्डलं अनुगृह्णीयात् । मध्यम-अवग्रहेणऽत्मानं उपबृंहयेत् ॥ ०७.१८.०७ ॥
taccenmaṇḍalaṃ anugṛhṇīyāt . madhyama-avagraheṇa'tmānaṃ upabṛṃhayet .. 07.18.07 ..
न चेदनुगृह्णीयात् । कोश-दण्डाभ्यां मित्रं अनुगृह्य ये मध्यम-द्वेषिणो राजानः परस्पर-अनुगृहीता वा बहवस्तिष्ठेयुः । एक-सिद्धौ वा बहवः सिध्येयुः । परस्पराद्वा शङ्किता नौत्तिष्ठेरन् । तेषां प्रधानं एकं आसन्नं वा साम-दानाभ्यां लभेत ॥ ०७.१८.०८ ॥
na cedanugṛhṇīyāt . kośa-daṇḍābhyāṃ mitraṃ anugṛhya ye madhyama-dveṣiṇo rājānaḥ paraspara-anugṛhītā vā bahavastiṣṭheyuḥ . eka-siddhau vā bahavaḥ sidhyeyuḥ . parasparādvā śaṅkitā nauttiṣṭheran . teṣāṃ pradhānaṃ ekaṃ āsannaṃ vā sāma-dānābhyāṃ labheta .. 07.18.08 ..
द्वि-गुणो द्वितीयं त्रि-गुनस्तृतीयं ॥ ०७.१८.०९ ॥
dvi-guṇo dvitīyaṃ tri-gunastṛtīyaṃ .. 07.18.09 ..
एवं अभ्युच्चितो मध्यमं अवगृह्णीयात् ॥ ०७.१८.१० ॥
evaṃ abhyuccito madhyamaṃ avagṛhṇīyāt .. 07.18.10 ..
देश-काल-अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात् । दूष्येषु वा कर्म-संधिं ॥ ०७.१८.११ ॥
deśa-kāla-atipattau vā saṃdhāya madhyamena mitrasya sācivyaṃ kuryāt . dūṣyeṣu vā karma-saṃdhiṃ .. 07.18.11 ..
कर्शनीयं वाअस्य मित्रं मध्यमो लिप्सेत । प्रतिस्तम्भयेदेनं "अहं त्वा त्रायेय" इति आ कर्शनात् ॥ ०७.१८.१२ ॥
karśanīyaṃ vāasya mitraṃ madhyamo lipseta . pratistambhayedenaṃ "ahaṃ tvā trāyeya" iti ā karśanāt .. 07.18.12 ..
कर्शितं एनं त्रायेत ॥ ०७.१८.१३ ॥
karśitaṃ enaṃ trāyeta .. 07.18.13 ..
उच्छेदनीयं वाअस्य मित्रं मध्यमो लिप्सेत । कर्शितं एनं त्रायेत मध्यम-वृद्धि-भयात् ॥ ०७.१८.१४ ॥
ucchedanīyaṃ vāasya mitraṃ madhyamo lipseta . karśitaṃ enaṃ trāyeta madhyama-vṛddhi-bhayāt .. 07.18.14 ..
उच्छिन्नं वा भूम्य्-अनुग्रहेण हस्ते कुर्यादन्यत्रापसार-भयात् ॥ ०७.१८.१५ ॥
ucchinnaṃ vā bhūmy-anugraheṇa haste kuryādanyatrāpasāra-bhayāt .. 07.18.15 ..
कर्शनीय-उच्छेदनीययोश्चेन्मित्राणि मध्यमस्य साचिव्य-कराणि स्युः । पुरुष-अन्तरेण संधीयेत ॥ ०७.१८.१६ ॥
karśanīya-ucchedanīyayoścenmitrāṇi madhyamasya sācivya-karāṇi syuḥ . puruṣa-antareṇa saṃdhīyeta .. 07.18.16 ..
विजिगीषोर्वा तयोर्मित्राण्यवग्रह-समर्थानि स्युः । संधिं उपेयात् ॥ ०७.१८.१७ ॥
vijigīṣorvā tayormitrāṇyavagraha-samarthāni syuḥ . saṃdhiṃ upeyāt .. 07.18.17 ..
अमित्रं वाअस्य मध्यमो लिप्सेत । संधिं उपेयात् ॥ ०७.१८.१८ ॥
amitraṃ vāasya madhyamo lipseta . saṃdhiṃ upeyāt .. 07.18.18 ..
एवं स्व-अर्थश्च कृतो भवति मध्यमस्य प्रियं च ॥ ०७.१८.१९ ॥
evaṃ sva-arthaśca kṛto bhavati madhyamasya priyaṃ ca .. 07.18.19 ..
मध्यमश्चेत्स्व-मित्रं मित्र-भावि लिप्सेत । पुरुष-अन्तरेण संदध्यात् ॥ ०७.१८.२० ॥
madhyamaścetsva-mitraṃ mitra-bhāvi lipseta . puruṣa-antareṇa saṃdadhyāt .. 07.18.20 ..
स-अपेक्षं वा "नार्हसि मित्रं उच्छेत्तुम्" इति वारयेत् ॥ ०७.१८.२१ ॥
sa-apekṣaṃ vā "nārhasi mitraṃ ucchettum" iti vārayet .. 07.18.21 ..
उपेक्षेत वा "मण्डलं अस्य कुप्यतु स्व-पक्ष-वधात्" इति ॥ ०७.१८.२२ ॥
upekṣeta vā "maṇḍalaṃ asya kupyatu sva-pakṣa-vadhāt" iti .. 07.18.22 ..
अमित्रं आत्मनो वा मध्यमो लिप्सेत । कोश-दण्डाभ्यां एनं अदृश्यमानोअनुगृह्णीयात् ॥ ०७.१८.२३ ॥
amitraṃ ātmano vā madhyamo lipseta . kośa-daṇḍābhyāṃ enaṃ adṛśyamānoanugṛhṇīyāt .. 07.18.23 ..
उदासीनं वा मध्यमो लिप्सेत । अस्मै साहाय्यं दद्याद्"उदासीनाद्भिद्यताम्" इति ॥ ०७.१८.२४ ॥
udāsīnaṃ vā madhyamo lipseta . asmai sāhāyyaṃ dadyād"udāsīnādbhidyatām" iti .. 07.18.24 ..
मध्यम-उदासीनयोर्यो मण्डलस्याभिप्रेतस्तं आश्रयेत ॥ ०७.१८.२५ ॥
madhyama-udāsīnayoryo maṇḍalasyābhipretastaṃ āśrayeta .. 07.18.25 ..
मध्यम-चरितेनौदासीन-चरितं व्याख्यातं ॥ ०७.१८.२६ ॥
madhyama-caritenaudāsīna-caritaṃ vyākhyātaṃ .. 07.18.26 ..
उदासीनश्चेन्मध्यमं लिप्सेत । यतः शत्रुं अतिसंदध्यान्मित्रस्यौपकारं कुर्यादुदासीनं वा दण्ड-उपकारिणं लभेत ततः परिणमेत ॥ ०७.१८.२७ ॥
udāsīnaścenmadhyamaṃ lipseta . yataḥ śatruṃ atisaṃdadhyānmitrasyaupakāraṃ kuryādudāsīnaṃ vā daṇḍa-upakāriṇaṃ labheta tataḥ pariṇameta .. 07.18.27 ..
एवं उपबृह्यऽत्मानं अरि-प्रकृतिं कर्शयेन्मित्र-प्रकृतिं चौपगृह्णीयात् ॥ ०७.१८.२८ ॥
evaṃ upabṛhya'tmānaṃ ari-prakṛtiṃ karśayenmitra-prakṛtiṃ caupagṛhṇīyāt .. 07.18.28 ..
सत्यप्यमित्र-भावे तस्यानात्मवान्नित्य-अपकारी शत्रुः शत्रु-संहितः पार्ष्णि-ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरि-भाविनः । एक-अर्थ-अभिप्रयातः पृथग्-अर्थ-अभिप्रयातः सम्भूय-यात्रिकः संहित-प्रयाणिकः स्व-अर्थ-अभिप्रयातः सामुत्थायिकः कोश-दण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधी-भाविक इति मित्र-भाविनः । ॥ ०७.१८.२९अ ॥
satyapyamitra-bhāve tasyānātmavānnitya-apakārī śatruḥ śatru-saṃhitaḥ pārṣṇi-grāho vā vyasanī yātavyo vyasane vā neturabhiyoktā ityari-bhāvinaḥ . eka-artha-abhiprayātaḥ pṛthag-artha-abhiprayātaḥ sambhūya-yātrikaḥ saṃhita-prayāṇikaḥ sva-artha-abhiprayātaḥ sāmutthāyikaḥ kośa-daṇḍayoranyatarasya kretā vikretā vā dvaidhī-bhāvika iti mitra-bhāvinaḥ . .. 07.18.29a ..
सामन्तो बलवतः प्रतिघातोअन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णि-ग्राहो वा स्वयं उपनतः प्रताप-उपनतो वा दण्ड-उपनत इति भृत्य-भाविनः सामन्ताः ॥ ०७.१८.२९ब ॥
sāmanto balavataḥ pratighātoantardhiḥ prativeśo vā balavataḥ pārṣṇi-grāho vā svayaṃ upanataḥ pratāpa-upanato vā daṇḍa-upanata iti bhṛtya-bhāvinaḥ sāmantāḥ .. 07.18.29ba ..
तैर्भूम्य्-एक-अन्तरा व्याख्याताः ॥ ०७.१८.३० ॥
tairbhūmy-eka-antarā vyākhyātāḥ .. 07.18.30 ..
तेषां शत्रु-विरोधे यन्मित्रं एक-अर्थतां व्रजेत् । ॥ ०७.१८.३१अ ब ॥
teṣāṃ śatru-virodhe yanmitraṃ eka-arthatāṃ vrajet . .. 07.18.31a ba ..
शक्त्या तद्-अनुगृह्णीयाद्विषहेत यया परं ॥ ०७.१८.३१च्द् ॥
śaktyā tad-anugṛhṇīyādviṣaheta yayā paraṃ .. 07.18.31cd ..
प्रसाध्य शत्रुं यन्मित्रं वृद्धं गच्छेदवश्यतां । ॥ ०७.१८.३२अ ब ॥
prasādhya śatruṃ yanmitraṃ vṛddhaṃ gacchedavaśyatāṃ . .. 07.18.32a ba ..
सामन्त-एक-अन्तराभ्यां तत्-प्रकृतिभ्यां विरोधयेत् ॥ ०७.१८.३२च्द् ॥
sāmanta-eka-antarābhyāṃ tat-prakṛtibhyāṃ virodhayet .. 07.18.32cd ..
तत्-कुलीन-अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् । ॥ ०७.१८.३३अ ब ॥
tat-kulīna-aparuddhābhyāṃ bhūmiṃ vā tasya hārayet . .. 07.18.33a ba ..
यथा वाअनुग्रह-अपेक्षं वश्यं तिष्ठेत्तथा चरेत् ॥ ०७.१८.३३च्द् ॥
yathā vāanugraha-apekṣaṃ vaśyaṃ tiṣṭhettathā caret .. 07.18.33cd ..
नौपकुर्यादमित्रं वा गच्छेद्यदतिकर्शितं । ॥ ०७.१८.३४अ ब ॥
naupakuryādamitraṃ vā gacchedyadatikarśitaṃ . .. 07.18.34a ba ..
तदहीनं अवृद्धं च स्थापयेन्मित्रं अर्थवित् ॥ ०७.१८.३४च्द् ॥
tadahīnaṃ avṛddhaṃ ca sthāpayenmitraṃ arthavit .. 07.18.34cd ..
अर्थ-युक्त्या चलं मित्रं संधिं यदुपगच्छति । ॥ ०७.१८.३५अ ब ॥
artha-yuktyā calaṃ mitraṃ saṃdhiṃ yadupagacchati . .. 07.18.35a ba ..
तस्यापगमने हेतुं विहन्यान्न चलेद्यथा ॥ ०७.१८.३५च्द् ॥
tasyāpagamane hetuṃ vihanyānna caledyathā .. 07.18.35cd ..
अरि-साधारणं यद्वा तिष्ठेत्तदरितः शठं । ॥ ०७.१८.३६अ ब ॥
ari-sādhāraṇaṃ yadvā tiṣṭhettadaritaḥ śaṭhaṃ . .. 07.18.36a ba ..
भेदयेद्भिन्नं उच्छिन्द्यात्ततः शत्रुं अनन्तरं ॥ ०७.१८.३६च्द् ॥
bhedayedbhinnaṃ ucchindyāttataḥ śatruṃ anantaraṃ .. 07.18.36cd ..
उदासीनं च यत्तिष्ठेत्सामन्तैस्तद्विरोधयेत् । ॥ ०७.१८.३७अ ब ॥
udāsīnaṃ ca yattiṣṭhetsāmantaistadvirodhayet . .. 07.18.37a ba ..
ततो विग्रह-संतप्तं उपकारे निवेशयेत् ॥ ०७.१८.३७च्द् ॥
tato vigraha-saṃtaptaṃ upakāre niveśayet .. 07.18.37cd ..
अमित्रं विजिगीषुं च यत्संचरति दुर्बलं । ॥ ०७.१८.३८अ ब ॥
amitraṃ vijigīṣuṃ ca yatsaṃcarati durbalaṃ . .. 07.18.38a ba ..
तद्बलेनानुगृह्णीयाद्यथा स्यान्न परान्-मुखं ॥ ०७.१८.३८च्द् ॥
tadbalenānugṛhṇīyādyathā syānna parān-mukhaṃ .. 07.18.38cd ..
अपनीय ततोअन्यस्यां भूमौ वा सम्निवेशयेत् । ॥ ०७.१८.३९अ ब ॥
apanīya tatoanyasyāṃ bhūmau vā samniveśayet . .. 07.18.39a ba ..
निवेश्य पूर्वं तत्रान्यद्दण्ड-अनुग्रह-हेतुना ॥ ०७.१८.३९च्द् ॥
niveśya pūrvaṃ tatrānyaddaṇḍa-anugraha-hetunā .. 07.18.39cd ..
अपकुर्यात्समर्थं वा नौपकुर्याद्यदापदि । ॥ ०७.१८.४०अ ब ॥
apakuryātsamarthaṃ vā naupakuryādyadāpadi . .. 07.18.40a ba ..
उच्छिन्द्यादेव तन्-मित्रं विश्वस्याङ्कं उपस्थितं ॥ ०७.१८.४०च्द् ॥
ucchindyādeva tan-mitraṃ viśvasyāṅkaṃ upasthitaṃ .. 07.18.40cd ..
मित्र-व्यसनतो वाअरिरुत्तिष्ठेद्योअनवग्रहः । ॥ ०७.१८.४१अ ब ॥
mitra-vyasanato vāariruttiṣṭhedyoanavagrahaḥ . .. 07.18.41a ba ..
मित्रेणएव भवेत्साध्यश्छादित-व्यसनेन सः ॥ ०७.१८.४१च्द् ॥
mitreṇaeva bhavetsādhyaśchādita-vyasanena saḥ .. 07.18.41cd ..
अमित्र-व्यसनान्मित्रं उत्थितं यद्विरज्यति । ॥ ०७.१८.४१अ ब ॥
amitra-vyasanānmitraṃ utthitaṃ yadvirajyati . .. 07.18.41a ba ..
अरि-व्यसन-सिद्ध्या तत्-शत्रुणाएव प्रसिध्यति ॥ ०७.१८.४१च्द् ॥
ari-vyasana-siddhyā tat-śatruṇāeva prasidhyati .. 07.18.41cd ..
वृद्धिं क्षयं च स्थानं च कर्शन-उच्छेदनं तथा ॥ ०७.१८.४२अ ब ॥
vṛddhiṃ kṣayaṃ ca sthānaṃ ca karśana-ucchedanaṃ tathā .. 07.18.42a ba ..
सर्व-उपायान्समादध्यादेतान्यश्चार्थ-शास्त्रवित् । ॥ ०७.१८.४२च्द् ॥
sarva-upāyānsamādadhyādetānyaścārtha-śāstravit . .. 07.18.42cd ..
एवं अन्योन्य-संचारं षाड्गुण्यं योअनुपश्यति ॥ ०७.१८.४३अ ब ॥
evaṃ anyonya-saṃcāraṃ ṣāḍguṇyaṃ yoanupaśyati .. 07.18.43a ba ..
स बुद्धि-निगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ॥ ०७.१८.४३च्द् ॥
sa buddhi-nigalairbaddhairiṣṭaṃ krīḍati pārthivaiḥ .. 07.18.43cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In