| |
|

This overlay will guide you through the buttons:

विजिगीषुः शक्त्य्-अपेक्षः षाड्गुण्यं उपयुञ्जीत ॥ ०७.३.०१ ॥
विजिगीषुः शक्ति-अपेक्षः षाड्गुण्यम् उपयुञ्जीत ॥ ०७।३।०१ ॥
vijigīṣuḥ śakti-apekṣaḥ ṣāḍguṇyam upayuñjīta .. 07.3.01 ..
सम-ज्यायोभ्यां संधीयेत । हीनेन विगृह्णीयात् ॥ ०७.३.०२ ॥
सम-ज्यायोभ्याम् संधीयेत । हीनेन विगृह्णीयात् ॥ ०७।३।०२ ॥
sama-jyāyobhyām saṃdhīyeta . hīnena vigṛhṇīyāt .. 07.3.02 ..
विगृहीतो हि ज्यायसा हस्तिना पाद-युद्धं इवाभ्युपैति ॥ ०७.३.०३ ॥
विगृहीतः हि ज्यायसा हस्तिना पाद-युद्धम् इव अभ्युपैति ॥ ०७।३।०३ ॥
vigṛhītaḥ hi jyāyasā hastinā pāda-yuddham iva abhyupaiti .. 07.3.03 ..
समेन चऽमं पात्रं आमेनाहतं इवौभयतः क्षयं करोति ॥ ०७.३.०४ ॥
समेन च अमम् पात्रम् आमेन अहतम् इव औभयतस् क्षयम् करोति ॥ ०७।३।०४ ॥
samena ca amam pātram āmena ahatam iva aubhayatas kṣayam karoti .. 07.3.04 ..
कुम्भेनैवाश्मा हीनेनएक-अन्त-सिद्धिं अवाप्नोति ॥ ०७.३.०५ ॥
कुम्भेन एव अश्मा हीनेन एक-अन्त-सिद्धिम् अवाप्नोति ॥ ०७।३।०५ ॥
kumbhena eva aśmā hīnena eka-anta-siddhim avāpnoti .. 07.3.05 ..
ज्यायांश्चेन्न संधिं इच्छेद्दण्ड-उपनत-वृत्तं आबलीयसं वा योगं आतिष्ठेत् ॥ ०७.३.०६ ॥
ज्यायान् चेद् न संधिम् इच्छेत् दण्ड-उपनत-वृत्तम् आ बलीयसम् वा योगम् आतिष्ठेत् ॥ ०७।३।०६ ॥
jyāyān ced na saṃdhim icchet daṇḍa-upanata-vṛttam ā balīyasam vā yogam ātiṣṭhet .. 07.3.06 ..
समश्चेन्न संधिं इच्छेद्यावन्-मात्रं अपकुर्यात्तावन्-मात्रं अस्य प्रत्यपकुर्यात् ॥ ०७.३.०७ ॥
समः चेद् न संधिम् इच्छेत् यावत्-मात्रम् अपकुर्यात् तावत्-मात्रम् अस्य प्रत्यपकुर्यात् ॥ ०७।३।०७ ॥
samaḥ ced na saṃdhim icchet yāvat-mātram apakuryāt tāvat-mātram asya pratyapakuryāt .. 07.3.07 ..
तेजो हि संधान-कारणं ॥ ०७.३.०८ ॥
तेजः हि संधान-कारणम् ॥ ०७।३।०८ ॥
tejaḥ hi saṃdhāna-kāraṇam .. 07.3.08 ..
नातप्तं लोहं लोहेन संधत्त इति ॥ ०७.३.०९ ॥
न अ तप्तम् लोहम् लोहेन संधत्ते इति ॥ ०७।३।०९ ॥
na a taptam loham lohena saṃdhatte iti .. 07.3.09 ..
हीनश्चेत्सर्वत्रानुप्रणतस्तिष्ठेत्संधिं उपेयात् ॥ ०७.३.१० ॥
हीनः चेद् सर्वत्र अनुप्रणतः तिष्ठेत् संधिम् उपेयात् ॥ ०७।३।१० ॥
hīnaḥ ced sarvatra anupraṇataḥ tiṣṭhet saṃdhim upeyāt .. 07.3.10 ..
आरण्योअग्निरिव हि दुःख-अमर्षजं तेजो विक्रमयति ॥ ०७.३.११ ॥
आरण्यः अग्निः इव हि दुःख-अमर्ष-जम् तेजः विक्रमयति ॥ ०७।३।११ ॥
āraṇyaḥ agniḥ iva hi duḥkha-amarṣa-jam tejaḥ vikramayati .. 07.3.11 ..
मण्डलस्य चानुग्राह्यो भवति ॥ ०७.३.१२ ॥
मण्डलस्य च अनुग्राह्यः भवति ॥ ०७।३।१२ ॥
maṇḍalasya ca anugrāhyaḥ bhavati .. 07.3.12 ..
संहितश्चेत्"पर-प्रकृतयो लुब्ध-क्षीण-अपचरिताः प्रत्यादान-भयाद्वा नौपगच्छन्ति" इति पश्येद्द्हीनोअपि विगृह्णीयात् ॥ ०७.३.१३ ॥
संहितः चेद्"पर-प्रकृतयः लुब्ध-क्षीण-अपचरिताः प्रत्यादान-भयात् वा न उपगच्छन्ति" इति पश्येत् हीनः अपि विगृह्णीयात् ॥ ०७।३।१३ ॥
saṃhitaḥ ced"para-prakṛtayaḥ lubdha-kṣīṇa-apacaritāḥ pratyādāna-bhayāt vā na upagacchanti" iti paśyet hīnaḥ api vigṛhṇīyāt .. 07.3.13 ..
विगृहीतश्चेत्"पर-प्रकृतयो लुब्ध-क्षीण-अपचरिता विग्रह-उद्विग्ना वा मां नौपगच्छन्ति" इति पश्येज्ज्यायानपि संधीयेत । विग्रह-उद्वेगं वा शमयेत् ॥ ०७.३.१४ ॥
विगृहीतः चेद्"पर-प्रकृतयः लुब्ध-क्षीण-अपचरिताः विग्रह-उद्विग्नाः वा माम् न उपगच्छन्ति" इति पश्येत् ज्यायान् अपि संधीयेत । विग्रह-उद्वेगम् वा शमयेत् ॥ ०७।३।१४ ॥
vigṛhītaḥ ced"para-prakṛtayaḥ lubdha-kṣīṇa-apacaritāḥ vigraha-udvignāḥ vā mām na upagacchanti" iti paśyet jyāyān api saṃdhīyeta . vigraha-udvegam vā śamayet .. 07.3.14 ..
व्यसन-यौगपद्येअपि "गुरु-व्यसनोअस्मि । लघु-व्यसनः परः सुखेन प्रतिकृत्य व्यसनं आत्मनोअभियुञ्ज्याद्" इति पश्येज्ज्यायानपि संधीयेत ॥ ०७.३.१५ ॥
व्यसन-यौगपद्ये अपि "गुरु-व्यसनः अस्मि । लघु-व्यसनः परः सुखेन प्रतिकृत्य व्यसनम् आत्मनः अभियुञ्ज्यात्" इति पश्येत् ज्यायान् अपि संधीयेत ॥ ०७।३।१५ ॥
vyasana-yaugapadye api "guru-vyasanaḥ asmi . laghu-vyasanaḥ paraḥ sukhena pratikṛtya vyasanam ātmanaḥ abhiyuñjyāt" iti paśyet jyāyān api saṃdhīyeta .. 07.3.15 ..
संधि-विग्रहयोश्चेत्पर-कर्शनं आत्म-उपचयं वा नाभिपश्येज्ज्यायानप्यासीत ॥ ०७.३.१६ ॥
संधि-विग्रहयोः चेद् पर-कर्शनम् आत्म-उपचयम् वा न अभिपश्येत् ज्यायान् अपि आसीत ॥ ०७।३।१६ ॥
saṃdhi-vigrahayoḥ ced para-karśanam ātma-upacayam vā na abhipaśyet jyāyān api āsīta .. 07.3.16 ..
पर-व्यसनं अप्रतिकार्यं चेत्पश्येद्द्हीनोअप्यभियायात् ॥ ०७.३.१७ ॥
पर-व्यसनम् अप्रतिकार्यम् चेद् पश्येत् हीनः अपि अभियायात् ॥ ०७।३।१७ ॥
para-vyasanam apratikāryam ced paśyet hīnaḥ api abhiyāyāt .. 07.3.17 ..
अप्रतिकार्य-आसन्न-व्यसनो वा ज्यायानपि संश्रयेत ॥ ०७.३.१८ ॥
अप्रतिकार्य-आसन्न-व्यसनः वा ज्यायान् अपि संश्रयेत ॥ ०७।३।१८ ॥
apratikārya-āsanna-vyasanaḥ vā jyāyān api saṃśrayeta .. 07.3.18 ..
संधिनाएकतो विग्रहेणएकतश्चेत्कार्य-सिद्धिं पश्येज्ज्यायानपि द्वैधी-भूतस्तिष्ठेत् ॥ ०७.३.१९ ॥
संधिना एकतस् विग्रहेण एकतस् चेद् कार्य-सिद्धिम् पश्येत् ज्यायान् अपि द्वैधीभूतः तिष्ठेत् ॥ ०७।३।१९ ॥
saṃdhinā ekatas vigraheṇa ekatas ced kārya-siddhim paśyet jyāyān api dvaidhībhūtaḥ tiṣṭhet .. 07.3.19 ..
एवं समस्य षाड्गुण्य-उपयोगः ॥ ०७.३.२० ॥
एवम् समस्य षाड्गुण्य-उपयोगः ॥ ०७।३।२० ॥
evam samasya ṣāḍguṇya-upayogaḥ .. 07.3.20 ..
तत्र तु प्रतिविशेषः ॥ ०७.३.२१ ॥
तत्र तु प्रतिविशेषः ॥ ०७।३।२१ ॥
tatra tu prativiśeṣaḥ .. 07.3.21 ..
प्रवृत्त-चक्रेणऽक्रान्तो राज्ञा बलवताअबलः । ॥ ०७.३.२२अ ब ॥
प्रवृत्त-चक्रेण अक्रान्तः राज्ञा बलवता अबलः । ॥ ०७।३।२२अ ब ॥
pravṛtta-cakreṇa akrāntaḥ rājñā balavatā abalaḥ . .. 07.3.22a ba ..
संधिनाउपनमेत्तूर्णं कोश-दण्ड-आत्म-भूमिभिः ॥ ०७.३.२२च्द् ॥
संधिना अ उपनमेत् तूर्णम् कोश-दण्ड-आत्म-भूमिभिः ॥ ०७।३।२२च् ॥
saṃdhinā a upanamet tūrṇam kośa-daṇḍa-ātma-bhūmibhiḥ .. 07.3.22c ..
स्वयं संख्यात-दण्डेन दण्डस्य विभवेन वा । ॥ ०७.३.२३अ ब ॥
स्वयम् संख्यात-दण्डेन दण्डस्य विभवेन वा । ॥ ०७।३।२३अ ब ॥
svayam saṃkhyāta-daṇḍena daṇḍasya vibhavena vā . .. 07.3.23a ba ..
उपस्थातव्यं इत्येष संधिरात्म-आमिषो मतः ॥ ०७.३.२३च्द् ॥
उपस्थातव्यम् इति एष संधिः आत्म-आमिषः मतः ॥ ०७।३।२३च् ॥
upasthātavyam iti eṣa saṃdhiḥ ātma-āmiṣaḥ mataḥ .. 07.3.23c ..
सेना-पति-कुमाराभ्यां उपस्थातव्यं इत्ययं । ॥ ०७.३.२४अ ब ॥
सेना-पति-कुमाराभ्याम् उपस्थातव्यम् इति अयम् । ॥ ०७।३।२४अ ब ॥
senā-pati-kumārābhyām upasthātavyam iti ayam . .. 07.3.24a ba ..
पुरुष-अन्तर-संधिः स्यान्नऽत्मनाइत्यात्म-रक्षणः ॥ ०७.३.२४च्द् ॥
पुरुष-अन्तर-संधिः स्यात् न आत्मना ऐत्य-आत्म-रक्षणः ॥ ०७।३।२४च् ॥
puruṣa-antara-saṃdhiḥ syāt na ātmanā aitya-ātma-rakṣaṇaḥ .. 07.3.24c ..
एकेनान्यत्र यातव्यं स्वयं दण्डेन वाइत्ययं । ॥ ०७.३.२५अ ब ॥
एकेन अन्यत्र यातव्यम् स्वयम् दण्डेन । ॥ ०७।३।२५अ ब ॥
ekena anyatra yātavyam svayam daṇḍena . .. 07.3.25a ba ..
अदृष्ट-पुरुषः संधिर्दण्ड-मुख्य-आत्म-रक्षणः ॥ ०७.३.२५च्द् ॥
अदृष्ट-पुरुषः संधिः दण्ड-मुख्य-आत्म-रक्षणः ॥ ०७।३।२५च् ॥
adṛṣṭa-puruṣaḥ saṃdhiḥ daṇḍa-mukhya-ātma-rakṣaṇaḥ .. 07.3.25c ..
मुख्य-स्त्री-बन्धनं कुर्यात्पूर्वयोः पश्चिमे त्वरिं । ॥ ०७.३.२६अ ब ॥
मुख्य-स्त्री-बन्धनम् कुर्यात् पूर्वयोः पश्चिमे तु अरिम् । ॥ ०७।३।२६अ ब ॥
mukhya-strī-bandhanam kuryāt pūrvayoḥ paścime tu arim . .. 07.3.26a ba ..
साधयेद्गूढं इत्येते दण्ड-उपनत-संधयः ॥ ०७.३.२६च्द् ॥
साधयेत् गूढम् इति एते दण्ड-उपनत-संधयः ॥ ०७।३।२६च् ॥
sādhayet gūḍham iti ete daṇḍa-upanata-saṃdhayaḥ .. 07.3.26c ..
कोश-दानेन शेषाणां प्रकृतीनां विमोक्षणं । ॥ ०७.३.२७अ ब ॥
कोश-दानेन शेषाणाम् प्रकृतीनाम् विमोक्षणम् । ॥ ०७।३।२७अ ब ॥
kośa-dānena śeṣāṇām prakṛtīnām vimokṣaṇam . .. 07.3.27a ba ..
परिक्रयो भवेत्संधिः स एव च यथा-सुखं ॥ ०७.३.२७च्द् ॥
परिक्रयः भवेत् संधिः सः एव च ॥ ०७।३।२७च् ॥
parikrayaḥ bhavet saṃdhiḥ saḥ eva ca .. 07.3.27c ..
स्कन्ध-उपनेयो बहुधा ज्ञेयः संधिरुपग्रहः । ॥ ०७.३.२८अ ब ॥
स्कन्ध-उपनेयः बहुधा ज्ञेयः संधिः उपग्रहः । ॥ ०७।३।२८अ ब ॥
skandha-upaneyaḥ bahudhā jñeyaḥ saṃdhiḥ upagrahaḥ . .. 07.3.28a ba ..
निरुद्धो देश-कालाभ्यां अत्ययः स्यादुपग्रहः ॥ ०७.३.२८च्द् ॥
निरुद्धः देश-कालाभ्याम् अत्ययः स्यात् उपग्रहः ॥ ०७।३।२८च् ॥
niruddhaḥ deśa-kālābhyām atyayaḥ syāt upagrahaḥ .. 07.3.28c ..
विषह्य-दानादायत्यां क्षमः स्त्री-बन्धनादपि । ॥ ०७.३.२९अ ब ॥
विषह्य-दानात् आयत्याम् क्षमः स्त्री-बन्धनात् अपि । ॥ ०७।३।२९अ ब ॥
viṣahya-dānāt āyatyām kṣamaḥ strī-bandhanāt api . .. 07.3.29a ba ..
सुवर्ण-संधिर्विश्वासादेकी-भाव-गतो भवेत् ॥ ०७.३.२९च्द् ॥
सुवर्ण-संधिः विश्वासात् एकीभाव-गतः भवेत् ॥ ०७।३।२९च् ॥
suvarṇa-saṃdhiḥ viśvāsāt ekībhāva-gataḥ bhavet .. 07.3.29c ..
विपरीतः कपालः स्यादत्यादान-अभिभाषितः । ॥ ०७.३.३०अ ब ॥
विपरीतः कपालः स्यात् अत्यादान-अभिभाषितः । ॥ ०७।३।३०अ ब ॥
viparītaḥ kapālaḥ syāt atyādāna-abhibhāṣitaḥ . .. 07.3.30a ba ..
पूर्वयोः प्रणयेत्कुप्यं हस्त्य्-अश्वं वा गर-अन्वितं ॥ ०७.३.३०च्द् ॥
पूर्वयोः प्रणयेत् कुप्यम् हस्ति-अश्वम् वा गर-अन्वितम् ॥ ०७।३।३०च् ॥
pūrvayoḥ praṇayet kupyam hasti-aśvam vā gara-anvitam .. 07.3.30c ..
तृतीये प्रणयेदर्थं कथयन्कर्मणां क्षयं । ॥ ०७.३.३१अ ब ॥
तृतीये प्रणयेत् अर्थम् कथयन् कर्मणाम् क्षयम् । ॥ ०७।३।३१अ ब ॥
tṛtīye praṇayet artham kathayan karmaṇām kṣayam . .. 07.3.31a ba ..
तिष्ठेच्चतुर्थ इत्येते कोश-उपनत-संधयः ॥ ०७.३.३१च्द् ॥
तिष्ठेत् चतुर्थः इति एते कोश-उपनत-संधयः ॥ ०७।३।३१च् ॥
tiṣṭhet caturthaḥ iti ete kośa-upanata-saṃdhayaḥ .. 07.3.31c ..
भूम्य्-एक-देश-त्यागेन शेष-प्रकृति-रक्षणं । ॥ ०७.३.३२अ ब ॥
भूमि-एक-देश-त्यागेन शेष-प्रकृति-रक्षणम् । ॥ ०७।३।३२अ ब ॥
bhūmi-eka-deśa-tyāgena śeṣa-prakṛti-rakṣaṇam . .. 07.3.32a ba ..
आदिष्ट-संधिस्तत्रैष्टो गूढ-स्तेन-उपघातिनः ॥ ०७.३.३२च्द् ॥
आदिष्ट-संधिः तत्र एष्टः गूढ-स्तेन-उपघातिनः ॥ ०७।३।३२च् ॥
ādiṣṭa-saṃdhiḥ tatra eṣṭaḥ gūḍha-stena-upaghātinaḥ .. 07.3.32c ..
भूमीनां आत्त-साराणां मूल-वर्जं प्रणामनं । ॥ ०७.३.३३अ ब ॥
भूमीनाम् आत्त-साराणाम् मूल-वर्जम् प्रणामनम् । ॥ ०७।३।३३अ ब ॥
bhūmīnām ātta-sārāṇām mūla-varjam praṇāmanam . .. 07.3.33a ba ..
उच्छिन्न-संधिस्तत्रैष्टः पर-व्यसन-काङ्क्षिणः ॥ ०७.३.३३च्द् ॥
उच्छिन्न-संधिः तत्र एष्टः पर-व्यसन-काङ्क्षिणः ॥ ०७।३।३३च् ॥
ucchinna-saṃdhiḥ tatra eṣṭaḥ para-vyasana-kāṅkṣiṇaḥ .. 07.3.33c ..
फल-दानेन भूमीनां मोक्षणं स्यादवक्रयः । ॥ ०७.३.३४अ ब ॥
फल-दानेन भूमीनाम् मोक्षणम् स्यात् अवक्रयः । ॥ ०७।३।३४अ ब ॥
phala-dānena bhūmīnām mokṣaṇam syāt avakrayaḥ . .. 07.3.34a ba ..
फल-अतिमुक्तो भूमिभ्यः संधिः स परिदूषणः ॥ ०७.३.३४च्द् ॥
फल-अतिमुक्तः भूमिभ्यः संधिः स परिदूषणः ॥ ०७।३।३४च् ॥
phala-atimuktaḥ bhūmibhyaḥ saṃdhiḥ sa paridūṣaṇaḥ .. 07.3.34c ..
कुर्यादवेक्षणं पूर्वौ पश्चिमौ त्वाबलीयसं । ॥ ०७.३.३५अ ब ॥
कुर्यात् अवेक्षणम् पूर्वौ पश्चिमौ तु आ बलीयसम् । ॥ ०७।३।३५अ ब ॥
kuryāt avekṣaṇam pūrvau paścimau tu ā balīyasam . .. 07.3.35a ba ..
आदाय फलं इत्येते देश-उपनत-संधयः ॥ ०७.३.३५च्द् ॥
आदाय फलम् इति एते देश-उपनत-संधयः ॥ ०७।३।३५च् ॥
ādāya phalam iti ete deśa-upanata-saṃdhayaḥ .. 07.3.35c ..
स्व-कार्याणां वशेनएते देशे काले च भाषिताः । ॥ ०७.३.३६अ ब ॥
स्व-कार्याणाम् वशेन एते देशे काले च भाषिताः । ॥ ०७।३।३६अ ब ॥
sva-kāryāṇām vaśena ete deśe kāle ca bhāṣitāḥ . .. 07.3.36a ba ..
आबलीयसिकाः कार्यास्त्रिविधा हीन-संधयः ॥ ०७.३.३६च्द् ॥
आबलीयसिकाः कार्याः त्रिविधाः हीन-संधयः ॥ ०७।३।३६च् ॥
ābalīyasikāḥ kāryāḥ trividhāḥ hīna-saṃdhayaḥ .. 07.3.36c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In