| |
|

This overlay will guide you through the buttons:

विजिगीषुः शक्त्य्-अपेक्षः षाड्गुण्यं उपयुञ्जीत ॥ ०७.३.०१ ॥
vijigīṣuḥ śakty-apekṣaḥ ṣāḍguṇyaṃ upayuñjīta .. 07.3.01 ..
सम-ज्यायोभ्यां संधीयेत । हीनेन विगृह्णीयात् ॥ ०७.३.०२ ॥
sama-jyāyobhyāṃ saṃdhīyeta . hīnena vigṛhṇīyāt .. 07.3.02 ..
विगृहीतो हि ज्यायसा हस्तिना पाद-युद्धं इवाभ्युपैति ॥ ०७.३.०३ ॥
vigṛhīto hi jyāyasā hastinā pāda-yuddhaṃ ivābhyupaiti .. 07.3.03 ..
समेन चऽमं पात्रं आमेनाहतं इवौभयतः क्षयं करोति ॥ ०७.३.०४ ॥
samena ca'maṃ pātraṃ āmenāhataṃ ivaubhayataḥ kṣayaṃ karoti .. 07.3.04 ..
कुम्भेनैवाश्मा हीनेनएक-अन्त-सिद्धिं अवाप्नोति ॥ ०७.३.०५ ॥
kumbhenaivāśmā hīnenaeka-anta-siddhiṃ avāpnoti .. 07.3.05 ..
ज्यायांश्चेन्न संधिं इच्छेद्दण्ड-उपनत-वृत्तं आबलीयसं वा योगं आतिष्ठेत् ॥ ०७.३.०६ ॥
jyāyāṃścenna saṃdhiṃ iccheddaṇḍa-upanata-vṛttaṃ ābalīyasaṃ vā yogaṃ ātiṣṭhet .. 07.3.06 ..
समश्चेन्न संधिं इच्छेद्यावन्-मात्रं अपकुर्यात्तावन्-मात्रं अस्य प्रत्यपकुर्यात् ॥ ०७.३.०७ ॥
samaścenna saṃdhiṃ icchedyāvan-mātraṃ apakuryāttāvan-mātraṃ asya pratyapakuryāt .. 07.3.07 ..
तेजो हि संधान-कारणं ॥ ०७.३.०८ ॥
tejo hi saṃdhāna-kāraṇaṃ .. 07.3.08 ..
नातप्तं लोहं लोहेन संधत्त इति ॥ ०७.३.०९ ॥
nātaptaṃ lohaṃ lohena saṃdhatta iti .. 07.3.09 ..
हीनश्चेत्सर्वत्रानुप्रणतस्तिष्ठेत्संधिं उपेयात् ॥ ०७.३.१० ॥
hīnaścetsarvatrānupraṇatastiṣṭhetsaṃdhiṃ upeyāt .. 07.3.10 ..
आरण्योअग्निरिव हि दुःख-अमर्षजं तेजो विक्रमयति ॥ ०७.३.११ ॥
āraṇyoagniriva hi duḥkha-amarṣajaṃ tejo vikramayati .. 07.3.11 ..
मण्डलस्य चानुग्राह्यो भवति ॥ ०७.३.१२ ॥
maṇḍalasya cānugrāhyo bhavati .. 07.3.12 ..
संहितश्चेत्"पर-प्रकृतयो लुब्ध-क्षीण-अपचरिताः प्रत्यादान-भयाद्वा नौपगच्छन्ति" इति पश्येद्द्हीनोअपि विगृह्णीयात् ॥ ०७.३.१३ ॥
saṃhitaścet"para-prakṛtayo lubdha-kṣīṇa-apacaritāḥ pratyādāna-bhayādvā naupagacchanti" iti paśyedd_hīnoapi vigṛhṇīyāt .. 07.3.13 ..
विगृहीतश्चेत्"पर-प्रकृतयो लुब्ध-क्षीण-अपचरिता विग्रह-उद्विग्ना वा मां नौपगच्छन्ति" इति पश्येज्ज्यायानपि संधीयेत । विग्रह-उद्वेगं वा शमयेत् ॥ ०७.३.१४ ॥
vigṛhītaścet"para-prakṛtayo lubdha-kṣīṇa-apacaritā vigraha-udvignā vā māṃ naupagacchanti" iti paśyejjyāyānapi saṃdhīyeta . vigraha-udvegaṃ vā śamayet .. 07.3.14 ..
व्यसन-यौगपद्येअपि "गुरु-व्यसनोअस्मि । लघु-व्यसनः परः सुखेन प्रतिकृत्य व्यसनं आत्मनोअभियुञ्ज्याद्" इति पश्येज्ज्यायानपि संधीयेत ॥ ०७.३.१५ ॥
vyasana-yaugapadyeapi "guru-vyasanoasmi . laghu-vyasanaḥ paraḥ sukhena pratikṛtya vyasanaṃ ātmanoabhiyuñjyād" iti paśyejjyāyānapi saṃdhīyeta .. 07.3.15 ..
संधि-विग्रहयोश्चेत्पर-कर्शनं आत्म-उपचयं वा नाभिपश्येज्ज्यायानप्यासीत ॥ ०७.३.१६ ॥
saṃdhi-vigrahayoścetpara-karśanaṃ ātma-upacayaṃ vā nābhipaśyejjyāyānapyāsīta .. 07.3.16 ..
पर-व्यसनं अप्रतिकार्यं चेत्पश्येद्द्हीनोअप्यभियायात् ॥ ०७.३.१७ ॥
para-vyasanaṃ apratikāryaṃ cetpaśyedd_hīnoapyabhiyāyāt .. 07.3.17 ..
अप्रतिकार्य-आसन्न-व्यसनो वा ज्यायानपि संश्रयेत ॥ ०७.३.१८ ॥
apratikārya-āsanna-vyasano vā jyāyānapi saṃśrayeta .. 07.3.18 ..
संधिनाएकतो विग्रहेणएकतश्चेत्कार्य-सिद्धिं पश्येज्ज्यायानपि द्वैधी-भूतस्तिष्ठेत् ॥ ०७.३.१९ ॥
saṃdhināekato vigraheṇaekataścetkārya-siddhiṃ paśyejjyāyānapi dvaidhī-bhūtastiṣṭhet .. 07.3.19 ..
एवं समस्य षाड्गुण्य-उपयोगः ॥ ०७.३.२० ॥
evaṃ samasya ṣāḍguṇya-upayogaḥ .. 07.3.20 ..
तत्र तु प्रतिविशेषः ॥ ०७.३.२१ ॥
tatra tu prativiśeṣaḥ .. 07.3.21 ..
प्रवृत्त-चक्रेणऽक्रान्तो राज्ञा बलवताअबलः । ॥ ०७.३.२२अ ब ॥
pravṛtta-cakreṇa'krānto rājñā balavatāabalaḥ . .. 07.3.22a ba ..
संधिनाउपनमेत्तूर्णं कोश-दण्ड-आत्म-भूमिभिः ॥ ०७.३.२२च्द् ॥
saṃdhināupanamettūrṇaṃ kośa-daṇḍa-ātma-bhūmibhiḥ .. 07.3.22cd ..
स्वयं संख्यात-दण्डेन दण्डस्य विभवेन वा । ॥ ०७.३.२३अ ब ॥
svayaṃ saṃkhyāta-daṇḍena daṇḍasya vibhavena vā . .. 07.3.23a ba ..
उपस्थातव्यं इत्येष संधिरात्म-आमिषो मतः ॥ ०७.३.२३च्द् ॥
upasthātavyaṃ ityeṣa saṃdhirātma-āmiṣo mataḥ .. 07.3.23cd ..
सेना-पति-कुमाराभ्यां उपस्थातव्यं इत्ययं । ॥ ०७.३.२४अ ब ॥
senā-pati-kumārābhyāṃ upasthātavyaṃ ityayaṃ . .. 07.3.24a ba ..
पुरुष-अन्तर-संधिः स्यान्नऽत्मनाइत्यात्म-रक्षणः ॥ ०७.३.२४च्द् ॥
puruṣa-antara-saṃdhiḥ syānna'tmanāityātma-rakṣaṇaḥ .. 07.3.24cd ..
एकेनान्यत्र यातव्यं स्वयं दण्डेन वाइत्ययं । ॥ ०७.३.२५अ ब ॥
ekenānyatra yātavyaṃ svayaṃ daṇḍena vāityayaṃ . .. 07.3.25a ba ..
अदृष्ट-पुरुषः संधिर्दण्ड-मुख्य-आत्म-रक्षणः ॥ ०७.३.२५च्द् ॥
adṛṣṭa-puruṣaḥ saṃdhirdaṇḍa-mukhya-ātma-rakṣaṇaḥ .. 07.3.25cd ..
मुख्य-स्त्री-बन्धनं कुर्यात्पूर्वयोः पश्चिमे त्वरिं । ॥ ०७.३.२६अ ब ॥
mukhya-strī-bandhanaṃ kuryātpūrvayoḥ paścime tvariṃ . .. 07.3.26a ba ..
साधयेद्गूढं इत्येते दण्ड-उपनत-संधयः ॥ ०७.३.२६च्द् ॥
sādhayedgūḍhaṃ ityete daṇḍa-upanata-saṃdhayaḥ .. 07.3.26cd ..
कोश-दानेन शेषाणां प्रकृतीनां विमोक्षणं । ॥ ०७.३.२७अ ब ॥
kośa-dānena śeṣāṇāṃ prakṛtīnāṃ vimokṣaṇaṃ . .. 07.3.27a ba ..
परिक्रयो भवेत्संधिः स एव च यथा-सुखं ॥ ०७.३.२७च्द् ॥
parikrayo bhavetsaṃdhiḥ sa eva ca yathā-sukhaṃ .. 07.3.27cd ..
स्कन्ध-उपनेयो बहुधा ज्ञेयः संधिरुपग्रहः । ॥ ०७.३.२८अ ब ॥
skandha-upaneyo bahudhā jñeyaḥ saṃdhirupagrahaḥ . .. 07.3.28a ba ..
निरुद्धो देश-कालाभ्यां अत्ययः स्यादुपग्रहः ॥ ०७.३.२८च्द् ॥
niruddho deśa-kālābhyāṃ atyayaḥ syādupagrahaḥ .. 07.3.28cd ..
विषह्य-दानादायत्यां क्षमः स्त्री-बन्धनादपि । ॥ ०७.३.२९अ ब ॥
viṣahya-dānādāyatyāṃ kṣamaḥ strī-bandhanādapi . .. 07.3.29a ba ..
सुवर्ण-संधिर्विश्वासादेकी-भाव-गतो भवेत् ॥ ०७.३.२९च्द् ॥
suvarṇa-saṃdhirviśvāsādekī-bhāva-gato bhavet .. 07.3.29cd ..
विपरीतः कपालः स्यादत्यादान-अभिभाषितः । ॥ ०७.३.३०अ ब ॥
viparītaḥ kapālaḥ syādatyādāna-abhibhāṣitaḥ . .. 07.3.30a ba ..
पूर्वयोः प्रणयेत्कुप्यं हस्त्य्-अश्वं वा गर-अन्वितं ॥ ०७.३.३०च्द् ॥
pūrvayoḥ praṇayetkupyaṃ hasty-aśvaṃ vā gara-anvitaṃ .. 07.3.30cd ..
तृतीये प्रणयेदर्थं कथयन्कर्मणां क्षयं । ॥ ०७.३.३१अ ब ॥
tṛtīye praṇayedarthaṃ kathayankarmaṇāṃ kṣayaṃ . .. 07.3.31a ba ..
तिष्ठेच्चतुर्थ इत्येते कोश-उपनत-संधयः ॥ ०७.३.३१च्द् ॥
tiṣṭheccaturtha ityete kośa-upanata-saṃdhayaḥ .. 07.3.31cd ..
भूम्य्-एक-देश-त्यागेन शेष-प्रकृति-रक्षणं । ॥ ०७.३.३२अ ब ॥
bhūmy-eka-deśa-tyāgena śeṣa-prakṛti-rakṣaṇaṃ . .. 07.3.32a ba ..
आदिष्ट-संधिस्तत्रैष्टो गूढ-स्तेन-उपघातिनः ॥ ०७.३.३२च्द् ॥
ādiṣṭa-saṃdhistatraiṣṭo gūḍha-stena-upaghātinaḥ .. 07.3.32cd ..
भूमीनां आत्त-साराणां मूल-वर्जं प्रणामनं । ॥ ०७.३.३३अ ब ॥
bhūmīnāṃ ātta-sārāṇāṃ mūla-varjaṃ praṇāmanaṃ . .. 07.3.33a ba ..
उच्छिन्न-संधिस्तत्रैष्टः पर-व्यसन-काङ्क्षिणः ॥ ०७.३.३३च्द् ॥
ucchinna-saṃdhistatraiṣṭaḥ para-vyasana-kāṅkṣiṇaḥ .. 07.3.33cd ..
फल-दानेन भूमीनां मोक्षणं स्यादवक्रयः । ॥ ०७.३.३४अ ब ॥
phala-dānena bhūmīnāṃ mokṣaṇaṃ syādavakrayaḥ . .. 07.3.34a ba ..
फल-अतिमुक्तो भूमिभ्यः संधिः स परिदूषणः ॥ ०७.३.३४च्द् ॥
phala-atimukto bhūmibhyaḥ saṃdhiḥ sa paridūṣaṇaḥ .. 07.3.34cd ..
कुर्यादवेक्षणं पूर्वौ पश्चिमौ त्वाबलीयसं । ॥ ०७.३.३५अ ब ॥
kuryādavekṣaṇaṃ pūrvau paścimau tvābalīyasaṃ . .. 07.3.35a ba ..
आदाय फलं इत्येते देश-उपनत-संधयः ॥ ०७.३.३५च्द् ॥
ādāya phalaṃ ityete deśa-upanata-saṃdhayaḥ .. 07.3.35cd ..
स्व-कार्याणां वशेनएते देशे काले च भाषिताः । ॥ ०७.३.३६अ ब ॥
sva-kāryāṇāṃ vaśenaete deśe kāle ca bhāṣitāḥ . .. 07.3.36a ba ..
आबलीयसिकाः कार्यास्त्रिविधा हीन-संधयः ॥ ०७.३.३६च्द् ॥
ābalīyasikāḥ kāryāstrividhā hīna-saṃdhayaḥ .. 07.3.36cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In