| |
|

This overlay will guide you through the buttons:

संधि-विग्रहयोरासनं यानं च व्याख्यातं ॥ ०७.४.०१ ॥
संधि-विग्रहयोः आसनम् यानम् च व्याख्यातम् ॥ ०७।४।०१ ॥
saṃdhi-vigrahayoḥ āsanam yānam ca vyākhyātam .. 07.4.01 ..
स्थानं आसनं उपेक्षणं चैत्यासन-पर्यायाः ॥ ०७.४.०२ ॥
स्थानम् आसनम् उपेक्षणम् चैत्य-आसन-पर्यायाः ॥ ०७।४।०२ ॥
sthānam āsanam upekṣaṇam caitya-āsana-paryāyāḥ .. 07.4.02 ..
विशेषस्तु गुण-एकदेशे स्थानम् । स्व-वृद्धि-प्राप्त्य्-अर्थं आसनम् । उपायानां अप्रयोग उपेक्षणं ॥ ०७.४.०३ ॥
विशेषः तु गुण-एक-देशे स्थानम् । स्व-वृद्धि-प्राप्ति-अर्थम् आसनम् । उपायानाम् अ प्रयोगः उपेक्षणम् ॥ ०७।४।०३ ॥
viśeṣaḥ tu guṇa-eka-deśe sthānam . sva-vṛddhi-prāpti-artham āsanam . upāyānām a prayogaḥ upekṣaṇam .. 07.4.03 ..
अतिसंधान-कामयोररि-विजिगीष्वोरुपहन्तुं अशक्तयोर्विगृह्यऽसनं संधाय वा ॥ ०७.४.०४ ॥
अतिसंधान-कामयोः अरि-विजिगीष्वोः उपहन्तुम् अशक्तयोः विगृह्य असनम् संधाय वा ॥ ०७।४।०४ ॥
atisaṃdhāna-kāmayoḥ ari-vijigīṣvoḥ upahantum aśaktayoḥ vigṛhya asanam saṃdhāya vā .. 07.4.04 ..
यदा वा पश्येत्"स्व-दण्डैर्मित्र-अटवी-दण्डैर्वा समं ज्यायांसं वा कर्शयितुं उत्सहे" इति तदा कृत-बाह्य-अभ्यन्तर-कृत्यो विगृह्यऽसीत ॥ ०७.४.०५ ॥
यदा वा पश्येत्"स्व-दण्डैः मित्र-अटवी-दण्डैः वा समम् ज्यायांसम् वा कर्शयितुम् उत्सहे" इति तदा कृत-बाह्य-अभ्यन्तर-कृत्यः विगृह्य असीत ॥ ०७।४।०५ ॥
yadā vā paśyet"sva-daṇḍaiḥ mitra-aṭavī-daṇḍaiḥ vā samam jyāyāṃsam vā karśayitum utsahe" iti tadā kṛta-bāhya-abhyantara-kṛtyaḥ vigṛhya asīta .. 07.4.05 ..
यदा वा पश्येत्"उत्साह-युक्ता मे प्रकृतयः संहता विवृद्धाः स्व-कर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्ति" इति तदा विगृह्यऽसीत ॥ ०७.४.०६ ॥
यदा वा पश्येत्"उत्साह-युक्ताः मे प्रकृतयः संहताः विवृद्धाः स्व-कर्माणि अव्याहताः चरिष्यन्ति परस्य वा कर्माणि उपहनिष्यन्ति" इति तदा विगृह्य आसीत ॥ ०७।४।०६ ॥
yadā vā paśyet"utsāha-yuktāḥ me prakṛtayaḥ saṃhatāḥ vivṛddhāḥ sva-karmāṇi avyāhatāḥ cariṣyanti parasya vā karmāṇi upahaniṣyanti" iti tadā vigṛhya āsīta .. 07.4.06 ..
यदा वा पश्येत्"परस्यापचरिताः क्षीणा लुब्धाः स्व-चक्र-स्तेन-अटवी-व्यथिता वा प्रकृतयः स्वयं उपजापेन वा मां एष्यन्ति । सम्पन्ना मे वार्त्ता । विपन्ना परस्य । तस्य प्रकृतयो दुर्भिक्ष-उपहता मां एष्यन्ति; विपन्ना मे वार्त्ता । सम्पन्ना परस्य । ॥ ०७.४.०७अ ॥
यदा वा पश्येत्"परस्य अपचरिताः क्षीणाः लुब्धाः स्व-चक्र-स्तेन-अटवी-व्यथिताः वा प्रकृतयः स्वयम् उपजापेन वा माम् एष्यन्ति । सम्पन्ना मे वार्त्ता । विपन्ना परस्य । तस्य प्रकृतयः दुर्भिक्ष-उपहताः माम् एष्यन्ति; विपन्ना मे वार्त्ता । सम्पन्ना परस्य । ॥ ०७।४।०७अ ॥
yadā vā paśyet"parasya apacaritāḥ kṣīṇāḥ lubdhāḥ sva-cakra-stena-aṭavī-vyathitāḥ vā prakṛtayaḥ svayam upajāpena vā mām eṣyanti . sampannā me vārttā . vipannā parasya . tasya prakṛtayaḥ durbhikṣa-upahatāḥ mām eṣyanti; vipannā me vārttā . sampannā parasya . .. 07.4.07a ..
तं मे प्रकृतयो न गमिष्यन्ति । विगृह्य चास्य धान्य-पशु-हिरण्यान्याहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ॥ ०७.४.०७ब ॥
तम् मे प्रकृतयः न गमिष्यन्ति । विगृह्य च अस्य धान्य-पशु-हिरण्यानि आहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ॥ ०७।४।०७ब ॥
tam me prakṛtayaḥ na gamiṣyanti . vigṛhya ca asya dhānya-paśu-hiraṇyāni āhariṣyāmi . sva-paṇya-upaghātīni vā para-paṇyāni nivartayiṣyāmi . .. 07.4.07ba ..
पर-वणिक्-पथाद्वा सरवन्ति मां एष्यन्ति विगृहीते । नैतरम् । दूष्य-अमित्र-अटवी-निग्रहं वा विगृहीतो न करिष्यति । तैरेव वा विग्रहं प्राप्स्यति । ॥ ०७.४.०७क ॥
पर-वणिज्-पथात् वा माम् एष्यन्ति विगृहीते । न एतरम् । दूष्य-अमित्र-अटवी-निग्रहम् वा विगृहीतः न करिष्यति । तैः एव वा विग्रहम् प्राप्स्यति । ॥ ०७।४।०७क ॥
para-vaṇij-pathāt vā mām eṣyanti vigṛhīte . na etaram . dūṣya-amitra-aṭavī-nigraham vā vigṛhītaḥ na kariṣyati . taiḥ eva vā vigraham prāpsyati . .. 07.4.07ka ..
मित्रं मे मित्र-भाव्यभिप्रयातो बह्व्-अल्प-कालं तनु-क्षय-व्ययं अर्थं प्राप्स्यति । गुणवतीं आदेयां वा भूमिम् । ॥ ०७.४.०७ड ॥
मित्रम् मे मित्र-भावी अभिप्रयातः बहु-अल्प-कालम् तनु-क्षय-व्ययम् अर्थम् प्राप्स्यति । गुणवतीम् आदेयाम् वा भूमिम् । ॥ ०७।४।०७ड ॥
mitram me mitra-bhāvī abhiprayātaḥ bahu-alpa-kālam tanu-kṣaya-vyayam artham prāpsyati . guṇavatīm ādeyām vā bhūmim . .. 07.4.07ḍa ..
सर्व-संदोहेन वा मां अनादृत्य प्रयातु-कामः कथं न यायाद्" इति पर-वृद्धि-प्रतिघात-अर्थं प्रताप-अर्थं च विगृह्यऽसीत ॥ ०७.४.०७ए ॥
सर्व-संदोहेन वा माम् अन् आदृत्य प्रयातु-कामः कथम् न यायात्" इति पर-वृद्धि-प्रतिघात-अर्थम् प्रताप-अर्थम् च विगृह्य असीत ॥ ०७।४।०७ए ॥
sarva-saṃdohena vā mām an ādṛtya prayātu-kāmaḥ katham na yāyāt" iti para-vṛddhi-pratighāta-artham pratāpa-artham ca vigṛhya asīta .. 07.4.07e ..
तं एव हि प्रत्यावृत्तो ग्रसते इत्याचार्याः ॥ ०७.४.०८ ॥
तम् एव हि प्रत्यावृत्तः ग्रसते इति आचार्याः ॥ ०७।४।०८ ॥
tam eva hi pratyāvṛttaḥ grasate iti ācāryāḥ .. 07.4.08 ..
नैति कौटिल्यः ॥ ०७.४.०९ ॥
न एति कौटिल्यः ॥ ०७।४।०९ ॥
na eti kauṭilyaḥ .. 07.4.09 ..
कर्शन-मात्रं अस्य कुर्यादव्यसनिनः । पर-वृद्ध्या तु वृद्धः समुच्छेदनं ॥ ०७.४.१० ॥
कर्शन-मात्रम् अस्य कुर्यात् अव्यसनिनः । पर-वृद्ध्या तु वृद्धः समुच्छेदनम् ॥ ०७।४।१० ॥
karśana-mātram asya kuryāt avyasaninaḥ . para-vṛddhyā tu vṛddhaḥ samucchedanam .. 07.4.10 ..
एवं परस्य यातव्योअस्मै साहाय्यं अविनष्टः प्रयच्छेत् ॥ ०७.४.११ ॥
एवम् परस्य साहाय्यम् अ विनष्टः प्रयच्छेत् ॥ ०७।४।११ ॥
evam parasya sāhāyyam a vinaṣṭaḥ prayacchet .. 07.4.11 ..
तस्मात्सर्व-संदोह-प्रकृतं विगृह्यऽसीत ॥ ०७.४.१२ ॥
तस्मात् सर्व-संदोह-प्रकृतम् विगृह्य आसीत ॥ ०७।४।१२ ॥
tasmāt sarva-saṃdoha-prakṛtam vigṛhya āsīta .. 07.4.12 ..
विगृह्य-आसन-हेतु-प्रातिलोम्ये संधायऽसीत ॥ ०७.४.१३ ॥
विगृह्य आसन-हेतु-प्रातिलोम्ये संधाय असीत ॥ ०७।४।१३ ॥
vigṛhya āsana-hetu-prātilomye saṃdhāya asīta .. 07.4.13 ..
विगृह्य-आसन-हेतुभिरभ्युच्चितः सर्व-संदोह-वर्जं विगृह्य यायात् ॥ ०७.४.१४ ॥
विगृह्य आसन-हेतुभिः अभ्युच्चितः सर्व-संदोह-वर्जम् विगृह्य यायात् ॥ ०७।४।१४ ॥
vigṛhya āsana-hetubhiḥ abhyuccitaḥ sarva-saṃdoha-varjam vigṛhya yāyāt .. 07.4.14 ..
यदा वा पश्येत्"व्यसनी परः । प्रकृति-व्यसनं वाअस्य शीष-प्रकृतिभिरप्रतिकार्यम् । स्व-चक्र-पीडिता विरक्ता वाअस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद्वा भिन्नाः शक्या लोभयितुम् । अग्न्य्-उदक-व्याधि-मरक-दुर्भिक्ष-निमित्तं क्षीण-युग्य-पुरुष-निचय-रक्षा-विधानः परः" इति तदा विगृह्य यायात् ॥ ०७.४.१५ ॥
यदा वा पश्येत्"व्यसनी परः । प्रकृति-व्यसनम् वा अस्य शीष-प्रकृतिभिः अ प्रतिकार्यम् । स्व-चक्र-पीडिताः विरक्ताः वा अस्य प्रकृतयः कर्शिताः निरुत्साहाः परस्परात् वा भिन्नाः शक्याः लोभयितुम् । " इति तदा विगृह्य यायात् ॥ ०७।४।१५ ॥
yadā vā paśyet"vyasanī paraḥ . prakṛti-vyasanam vā asya śīṣa-prakṛtibhiḥ a pratikāryam . sva-cakra-pīḍitāḥ viraktāḥ vā asya prakṛtayaḥ karśitāḥ nirutsāhāḥ parasparāt vā bhinnāḥ śakyāḥ lobhayitum . " iti tadā vigṛhya yāyāt .. 07.4.15 ..
यदा वा पश्येत्"मित्रं आक्रन्दश्च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहश्चऽसारश्च । शक्ष्यामि मित्रेणऽसारं आक्रन्देन पार्ष्णि-ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ॥ ०७.४.१६ ॥
यदा वा पश्येत्"मित्रम् आक्रन्दः च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहः च असारः च । शक्ष्यामि मित्रेण असारम् आक्रन्देन पार्ष्णि-ग्राहम् वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ॥ ०७।४।१६ ॥
yadā vā paśyet"mitram ākrandaḥ ca me śūra-vṛddha-anurakta-prakṛtiḥ . viparīta-prakṛtiḥ paraḥ pārṣṇi-grāhaḥ ca asāraḥ ca . śakṣyāmi mitreṇa asāram ākrandena pārṣṇi-grāham vā vigṛhya yātum" iti tadā vigṛhya yāyāt .. 07.4.16 ..
यदा वा फलं एक-हार्यं अल्प-कालं पश्येत्तदा पार्ष्णि-ग्राह-आसाराभ्यां विगृह्य यायात् ॥ ०७.४.१७ ॥
यदा वा फलम् एक-हार्यम् अल्प-कालम् पश्येत् तदा पार्ष्णि-ग्राह-आसाराभ्याम् विगृह्य यायात् ॥ ०७।४।१७ ॥
yadā vā phalam eka-hāryam alpa-kālam paśyet tadā pārṣṇi-grāha-āsārābhyām vigṛhya yāyāt .. 07.4.17 ..
विपर्यये संधाय यायात् ॥ ०७.४.१८ ॥
विपर्यये संधाय यायात् ॥ ०७।४।१८ ॥
viparyaye saṃdhāya yāyāt .. 07.4.18 ..
यदा वा पश्येत्"न शक्यं एकेन यातुं अवश्यं च यातव्यम्" इति तदा सम-हीन-ज्यायोभिः सामवायिकैः सम्भूय यायाद् । एकत्र निर्दिष्टेनांशेन । अनेकत्रानिर्दिष्टेनांशेन ॥ ०७.४.१९ ॥
यदा वा पश्येत्"न शक्यम् एकेन यातुम् अवश्यम् च यातव्यम्" इति तदा सम-हीन-ज्यायोभिः सामवायिकैः सम्भूय यायात् । एकत्र निर्दिष्टेन अंशेन । अन् एकत्र अ निर्दिष्टेन अंशेन ॥ ०७।४।१९ ॥
yadā vā paśyet"na śakyam ekena yātum avaśyam ca yātavyam" iti tadā sama-hīna-jyāyobhiḥ sāmavāyikaiḥ sambhūya yāyāt . ekatra nirdiṣṭena aṃśena . an ekatra a nirdiṣṭena aṃśena .. 07.4.19 ..
तेषां असमवाये दण्डं अन्यतमस्मान्निविष्ट-अंशेन याचेत ॥ ०७.४.२० ॥
तेषाम् असमवाये दण्डम् अन्यतमस्मात् निविष्ट-अंशेन याचेत ॥ ०७।४।२० ॥
teṣām asamavāye daṇḍam anyatamasmāt niviṣṭa-aṃśena yāceta .. 07.4.20 ..
सम्भूय-अभिगमनेन वा निर्विश्येत । ध्रुवे लाभे निर्दिष्टेनांशेन । अध्रुवे लाभ-अंशेन ॥ ०७.४.२१ ॥
सम्भूय अभिगमनेन वा निर्विश्येत । ध्रुवे लाभे निर्दिष्टेन अंशेन । अध्रुवे लाभ-अंशेन ॥ ०७।४।२१ ॥
sambhūya abhigamanena vā nirviśyeta . dhruve lābhe nirdiṣṭena aṃśena . adhruve lābha-aṃśena .. 07.4.21 ..
अंशो दण्ड-समः पूर्वः प्रयास-सम उत्तमः । ॥ ०७.४.२२अ ब ॥
अंशः दण्ड-समः पूर्वः प्रयास-समः उत्तमः । ॥ ०७।४।२२अ ब ॥
aṃśaḥ daṇḍa-samaḥ pūrvaḥ prayāsa-samaḥ uttamaḥ . .. 07.4.22a ba ..
विलोपो वा यथा-लाभं प्रक्षेप-सम एव वा ॥ ०७.४.२२च्द् ॥
विलोपः वा यथा लाभम् प्रक्षेप-समः एव वा ॥ ०७।४।२२च् ॥
vilopaḥ vā yathā lābham prakṣepa-samaḥ eva vā .. 07.4.22c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In