तं मे प्रकृतयो न गमिष्यन्ति । विगृह्य चास्य धान्य-पशु-हिरण्यान्याहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ॥ ०७.४.०७ब ॥
PADACHEDA
तम् मे प्रकृतयः न गमिष्यन्ति । विगृह्य च अस्य धान्य-पशु-हिरण्यानि आहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ॥ ०७।४।०७ब ॥
TRANSLITERATION
tam me prakṛtayaḥ na gamiṣyanti . vigṛhya ca asya dhānya-paśu-hiraṇyāni āhariṣyāmi . sva-paṇya-upaghātīni vā para-paṇyāni nivartayiṣyāmi . .. 07.4.07ba ..
यदा वा पश्येत्"मित्रं आक्रन्दश्च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहश्चऽसारश्च । शक्ष्यामि मित्रेणऽसारं आक्रन्देन पार्ष्णि-ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ॥ ०७.४.१६ ॥
PADACHEDA
यदा वा पश्येत्"मित्रम् आक्रन्दः च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहः च असारः च । शक्ष्यामि मित्रेण असारम् आक्रन्देन पार्ष्णि-ग्राहम् वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ॥ ०७।४।१६ ॥
TRANSLITERATION
yadā vā paśyet"mitram ākrandaḥ ca me śūra-vṛddha-anurakta-prakṛtiḥ . viparīta-prakṛtiḥ paraḥ pārṣṇi-grāhaḥ ca asāraḥ ca . śakṣyāmi mitreṇa asāram ākrandena pārṣṇi-grāham vā vigṛhya yātum" iti tadā vigṛhya yāyāt .. 07.4.16 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.