| |
|

This overlay will guide you through the buttons:

तुल्य-सामन्त-व्यसने यातव्यं अमित्रं वाइत्यमित्रं अभियायात् । तत्-सिद्धौ यातव्यं ॥ ०७.५.०१ ॥
तुल्य-सामन्त-व्यसने यातव्यम् अमित्रम् वा ऐति अमित्रम् अभियायात् । तद्-सिद्धौ यातव्यम् ॥ ०७।५।०१ ॥
tulya-sāmanta-vyasane yātavyam amitram vā aiti amitram abhiyāyāt . tad-siddhau yātavyam .. 07.5.01 ..
अमित्र-सिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्य-सिद्धौ ॥ ०७.५.०२ ॥
अमित्र-सिद्धौ हि यातव्यः साहाय्यम् दद्यात् न अमित्रः यातव्य-सिद्धौ ॥ ०७।५।०२ ॥
amitra-siddhau hi yātavyaḥ sāhāyyam dadyāt na amitraḥ yātavya-siddhau .. 07.5.02 ..
गुरु-व्यसनं यातव्यं लघु-व्यसनं अमित्रं वाइति "गुरु-व्यसनं सौकर्यतो यायाद्" इत्याचार्याः ॥ ०७.५.०३ ॥
गुरु-व्यसनम् यातव्यम् लघु-व्यसनम् अमित्रम् वा ऐति "गुरु-व्यसनम् सौकर्यतः यायात्" इति आचार्याः ॥ ०७।५।०३ ॥
guru-vyasanam yātavyam laghu-vyasanam amitram vā aiti "guru-vyasanam saukaryataḥ yāyāt" iti ācāryāḥ .. 07.5.03 ..
नैति कौटिल्यः ॥ ०७.५.०४ ॥
न एति कौटिल्यः ॥ ०७।५।०४ ॥
na eti kauṭilyaḥ .. 07.5.04 ..
लघु-व्यसनं अमित्रं यायात् ॥ ०७.५.०५ ॥
लघु-व्यसनम् अमित्रम् यायात् ॥ ०७।५।०५ ॥
laghu-vyasanam amitram yāyāt .. 07.5.05 ..
लघ्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति ॥ ०७.५.०६ ॥
लघु अपि हि व्यसनम् अभियुक्तस्य कृच्छ्रम् भवति ॥ ०७।५।०६ ॥
laghu api hi vyasanam abhiyuktasya kṛcchram bhavati .. 07.5.06 ..
सत्यं गुर्वपि गुरुतरं भवति ॥ ०७.५.०७ ॥
सत्यम् गुरु अपि गुरुतरम् भवति ॥ ०७।५।०७ ॥
satyam guru api gurutaram bhavati .. 07.5.07 ..
अनभियुक्तस्तु लघु-व्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यं अभिसरेत् । पार्ष्णिं वा गृह्णीयात् ॥ ०७.५.०८ ॥
अनभियुक्तः तु लघु-व्यसनः सुखेन व्यसनम् प्रतिकृत्य अमित्रः यातव्यम् अभिसरेत् । पार्ष्णिम् वा गृह्णीयात् ॥ ०७।५।०८ ॥
anabhiyuktaḥ tu laghu-vyasanaḥ sukhena vyasanam pratikṛtya amitraḥ yātavyam abhisaret . pārṣṇim vā gṛhṇīyāt .. 07.5.08 ..
यातव्य-यौगपद्ये गुरु-व्यसनं न्याय-वृत्तिं लघु-व्यसनं अन्याय-वृत्तिं विरक्त-प्रकृतिं वाइति विरक्त-प्रकृतिं यायात् ॥ ०७.५.०९ ॥
यातव्य-यौगपद्ये गुरु-व्यसनम् न्याय-वृत्तिम् लघु-व्यसनम् अन्याय-वृत्तिम् विरक्त-प्रकृतिम् वा ऐति विरक्त-प्रकृतिम् यायात् ॥ ०७।५।०९ ॥
yātavya-yaugapadye guru-vyasanam nyāya-vṛttim laghu-vyasanam anyāya-vṛttim virakta-prakṛtim vā aiti virakta-prakṛtim yāyāt .. 07.5.09 ..
गुरु-व्यसनं न्याय-वृत्तिं अभियुक्तं प्रकृतयोअनुगृह्णन्ति । लघु-व्यसनं अन्याय-वृत्तिं उपेक्षन्ते । विरक्ता बलवन्तं अप्युच्छिन्दन्ति ॥ ०७.५.१० ॥
गुरु-व्यसनम् न्याय-वृत्तिम् अभियुक्तम् प्रकृतयः अनुगृह्णन्ति । लघु-व्यसनम् अन्याय-वृत्तिम् उपेक्षन्ते । विरक्ताः बलवन्तम् अपि उच्छिन्दन्ति ॥ ०७।५।१० ॥
guru-vyasanam nyāya-vṛttim abhiyuktam prakṛtayaḥ anugṛhṇanti . laghu-vyasanam anyāya-vṛttim upekṣante . viraktāḥ balavantam api ucchindanti .. 07.5.10 ..
तस्माद्विरक्त-प्रकृतिं एव यायात् ॥ ०७.५.११ ॥
तस्मात् विरक्त-प्रकृतिम् एव यायात् ॥ ०७।५।११ ॥
tasmāt virakta-prakṛtim eva yāyāt .. 07.5.11 ..
क्षीण-लुब्ध-प्रकृतिं अपचरित-प्रकृतिं वाइति क्षीण-लुब्ध-प्रकृतिं यायात् । क्षीण-लुब्धा हि प्रकृतयः सुखेनौपजापं पीडां वाउपगच्छन्ति । नापचरिताः प्रधान-अवग्रह-साध्याः" इत्याचार्याः ॥ ०७.५.१२ ॥
क्षीण-लुब्ध-प्रकृतिम् अपचरित-प्रकृतिम् वा ऐति क्षीण-लुब्ध-प्रकृतिम् यायात् । क्षीण-लुब्धाः हि प्रकृतयः सुखेन औपजापम् पीडाम् वा औपगच्छन्ति । न अपचरिताः प्रधान-अवग्रह-साध्याः" इति आचार्याः ॥ ०७।५।१२ ॥
kṣīṇa-lubdha-prakṛtim apacarita-prakṛtim vā aiti kṣīṇa-lubdha-prakṛtim yāyāt . kṣīṇa-lubdhāḥ hi prakṛtayaḥ sukhena aupajāpam pīḍām vā aupagacchanti . na apacaritāḥ pradhāna-avagraha-sādhyāḥ" iti ācāryāḥ .. 07.5.12 ..
नैति कौटिल्यः ॥ ०७.५.१३ ॥
न एति कौटिल्यः ॥ ०७।५।१३ ॥
na eti kauṭilyaḥ .. 07.5.13 ..
क्षीण-लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ-हिते तिष्ठन्ति । उपजापं वा विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ॥ ०७.५.१४ ॥
क्षीण-लुब्धाः हि प्रकृतयः भर्तरि स्निग्धाः भर्तृ-हिते तिष्ठन्ति । उपजापम् वा विसंवादयन्ति । अनुरागे सार्वगुण्यम् इति ॥ ०७।५।१४ ॥
kṣīṇa-lubdhāḥ hi prakṛtayaḥ bhartari snigdhāḥ bhartṛ-hite tiṣṭhanti . upajāpam vā visaṃvādayanti . anurāge sārvaguṇyam iti .. 07.5.14 ..
तस्मादपचरित-प्रकृतिं एव यायात् ॥ ०७.५.१५ ॥
तस्मात् अपचरित-प्रकृतिम् एव यायात् ॥ ०७।५।१५ ॥
tasmāt apacarita-prakṛtim eva yāyāt .. 07.5.15 ..
बलवन्तं अन्याय-वृत्तिं दुर्बलं वा न्याय-वृत्तिं इति बलवन्तं अन्याय-वृत्तिं यायात् ॥ ०७.५.१६ ॥
बलवन्तम् अन्याय-वृत्तिम् दुर्बलम् वा न्याय-वृत्तिम् इति बलवन्तम् अन्याय-वृत्तिम् यायात् ॥ ०७।५।१६ ॥
balavantam anyāya-vṛttim durbalam vā nyāya-vṛttim iti balavantam anyāya-vṛttim yāyāt .. 07.5.16 ..
बलवन्तं अन्याय-वृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति । निष्पातयन्ति । अमित्रं वाअस्य भजन्ते ॥ ०७.५.१७ ॥
बलवन्तम् अन्याय-वृत्तिम् अभियुक्तम् प्रकृतयः न अनुगृह्णन्ति । निष्पातयन्ति । अमित्रम् वा अस्य भजन्ते ॥ ०७।५।१७ ॥
balavantam anyāya-vṛttim abhiyuktam prakṛtayaḥ na anugṛhṇanti . niṣpātayanti . amitram vā asya bhajante .. 07.5.17 ..
दुर्बलं तु न्याय-वृत्तिं अभियुक्तं प्रकृतयः परिगृह्णन्ति । अनुनिष्पतन्ति वा ॥ ०७.५.१८ ॥
दुर्बलम् तु न्याय-वृत्तिम् अभियुक्तम् प्रकृतयः परिगृह्णन्ति । अनुनिष्पतन्ति वा ॥ ०७।५।१८ ॥
durbalam tu nyāya-vṛttim abhiyuktam prakṛtayaḥ parigṛhṇanti . anuniṣpatanti vā .. 07.5.18 ..
अवक्षेपेण हि सतां असतां प्रग्रहेण च । ॥ ०७.५.१९अ ब ॥
अवक्षेपेण हि सताम् असताम् प्रग्रहेण च । ॥ ०७।५।१९अ ब ॥
avakṣepeṇa hi satām asatām pragraheṇa ca . .. 07.5.19a ba ..
अभूतानां च हिंसानां अधर्म्याणां प्रवर्तनैः ॥ ०७.५.१९च्द् ॥
अभूतानाम् च हिंसानाम् अधर्म्याणाम् प्रवर्तनैः ॥ ०७।५।१९च् ॥
abhūtānām ca hiṃsānām adharmyāṇām pravartanaiḥ .. 07.5.19c ..
उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः । ॥ ०७.५.२०अ ब ॥
उचितानाम् चरित्राणाम् धर्मिष्ठानाम् निवर्तनैः । ॥ ०७।५।२०अ ब ॥
ucitānām caritrāṇām dharmiṣṭhānām nivartanaiḥ . .. 07.5.20a ba ..
अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च ॥ ०७.५.२०च्द् ॥
अधर्मस्य प्रसङ्गेन धर्मस्य अवग्रहेण च ॥ ०७।५।२०च् ॥
adharmasya prasaṅgena dharmasya avagraheṇa ca .. 07.5.20c ..
अकार्याणां च करणैः कार्याणां च प्रणाशनैः । ॥ ०७.५.२१अ ब ॥
अकार्याणाम् च करणैः कार्याणाम् च प्रणाशनैः । ॥ ०७।५।२१अ ब ॥
akāryāṇām ca karaṇaiḥ kāryāṇām ca praṇāśanaiḥ . .. 07.5.21a ba ..
अप्रदानैश्च देयानां अदेयानां च साधनैः ॥ ०७.५.२१च्द् ॥
अप्रदानैः च देयानाम् अदेयानाम् च साधनैः ॥ ०७।५।२१च् ॥
apradānaiḥ ca deyānām adeyānām ca sādhanaiḥ .. 07.5.21c ..
अदण्डनैश्च दण्ड्यानां अदण्ड्यानां च दण्डनैः । ॥ ०७.५.२२अ ब ॥
अ दण्डनैः च दण्ड्यानाम् अ दण्ड्यानाम् च दण्डनैः । ॥ ०७।५।२२अ ब ॥
a daṇḍanaiḥ ca daṇḍyānām a daṇḍyānām ca daṇḍanaiḥ . .. 07.5.22a ba ..
अग्राह्याणां उपग्राहैर्ग्राह्याणां चानभिग्रहैः ॥ ०७.५.२२च्द् ॥
अग्राह्याणाम् उपग्राहैः ग्राह्याणाम् च अनभिग्रहैः ॥ ०७।५।२२च् ॥
agrāhyāṇām upagrāhaiḥ grāhyāṇām ca anabhigrahaiḥ .. 07.5.22c ..
अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः । ॥ ०७.५.२३अ ब ॥
अनर्थ्यानाम् च करणैः अर्थ्यानाम् च विघातनैः । ॥ ०७।५।२३अ ब ॥
anarthyānām ca karaṇaiḥ arthyānām ca vighātanaiḥ . .. 07.5.23a ba ..
अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः ॥ ०७.५.२३च्द् ॥
अरक्षणैः च चोरेभ्यः स्वयम् च परिमोषणैः ॥ ०७।५।२३च् ॥
arakṣaṇaiḥ ca corebhyaḥ svayam ca parimoṣaṇaiḥ .. 07.5.23c ..
पातैः पुरुष-काराणां कर्मणां गुण-दूषणैः । ॥ ०७.५.२४अ ब ॥
पातैः पुरुष-काराणाम् कर्मणाम् गुण-दूषणैः । ॥ ०७।५।२४अ ब ॥
pātaiḥ puruṣa-kārāṇām karmaṇām guṇa-dūṣaṇaiḥ . .. 07.5.24a ba ..
उपघातैः प्रधानानां मान्यानां चावमाननैः ॥ ०७.५.२४च्द् ॥
उपघातैः प्रधानानाम् मान्यानाम् च अवमाननैः ॥ ०७।५।२४च् ॥
upaghātaiḥ pradhānānām mānyānām ca avamānanaiḥ .. 07.5.24c ..
विरोधनैश्च वृद्धानां वैषम्येणानृतेन च । ॥ ०७.५.२५अ ब ॥
विरोधनैः च वृद्धानाम् वैषम्येण अनृतेन च । ॥ ०७।५।२५अ ब ॥
virodhanaiḥ ca vṛddhānām vaiṣamyeṇa anṛtena ca . .. 07.5.25a ba ..
कृतस्याप्रतिकारेण स्थितस्याकरणेन च ॥ ०७.५.२५च्द् ॥
कृतस्य अ प्रतिकारेण स्थितस्य अ करणेन च ॥ ०७।५।२५च् ॥
kṛtasya a pratikāreṇa sthitasya a karaṇena ca .. 07.5.25c ..
राज्ञः प्रमाद-आलस्याभ्यां योग-क्षेम-वधेन वा । ॥ ०७.५.२६अ ब ॥
राज्ञः प्रमाद-आलस्याभ्याम् योग-क्षेम-वधेन वा । ॥ ०७।५।२६अ ब ॥
rājñaḥ pramāda-ālasyābhyām yoga-kṣema-vadhena vā . .. 07.5.26a ba ..
प्रकृतीनां क्षयो लोभो वैराग्यं चौपजायते ॥ ०७.५.२६च्द् ॥
प्रकृतीनाम् क्षयः लोभः वैराग्यम् च उपजायते ॥ ०७।५।२६च् ॥
prakṛtīnām kṣayaḥ lobhaḥ vairāgyam ca upajāyate .. 07.5.26c ..
क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागतां । ॥ ०७.५.२७अ ब ॥
क्षीणाः प्रकृतयः लोभम् लुब्धाः यान्ति विराग-ताम् । ॥ ०७।५।२७अ ब ॥
kṣīṇāḥ prakṛtayaḥ lobham lubdhāḥ yānti virāga-tām . .. 07.5.27a ba ..
विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयं ॥ ०७.५.२७च्द् ॥
विरक्ताः यान्ति अमित्रम् वा भर्तारम् घ्नन्ति वा स्वयम् ॥ ०७।५।२७च् ॥
viraktāḥ yānti amitram vā bhartāram ghnanti vā svayam .. 07.5.27c ..
तस्मात्प्रकृतीनां क्षय-लोभ-विराग-कारणानि नौत्पादयेत् । उत्पन्नानि वा सद्यः प्रतिकुर्वीत ॥ ०७.५.२८ ॥
तस्मात् प्रकृतीनाम् क्षय-लोभ-विराग-कारणानि न उत्पादयेत् । उत्पन्नानि वा सद्यस् प्रतिकुर्वीत ॥ ०७।५।२८ ॥
tasmāt prakṛtīnām kṣaya-lobha-virāga-kāraṇāni na utpādayet . utpannāni vā sadyas pratikurvīta .. 07.5.28 ..
क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ॥ ०७.५.२९ ॥
क्षीणाः लुब्धाः विरक्ताः वा प्रकृतयः इति ॥ ०७।५।२९ ॥
kṣīṇāḥ lubdhāḥ viraktāḥ vā prakṛtayaḥ iti .. 07.5.29 ..
क्षीणाः पीडन-उच्छेदन-भयात्सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ॥ ०७.५.३० ॥
क्षीणाः पीडन-उच्छेदन-भयात् सद्यस् संधिम् युद्धम् निष्पतनम् वा रोचयन्ते ॥ ०७।५।३० ॥
kṣīṇāḥ pīḍana-ucchedana-bhayāt sadyas saṃdhim yuddham niṣpatanam vā rocayante .. 07.5.30 ..
लुब्धा लोभेनासंतुष्टाः पर-उपजापं लिप्सन्ते ॥ ०७.५.३१ ॥
लुब्धाः लोभेन असंतुष्टाः पर-उपजापम् लिप्सन्ते ॥ ०७।५।३१ ॥
lubdhāḥ lobhena asaṃtuṣṭāḥ para-upajāpam lipsante .. 07.5.31 ..
विरक्ताः पर-अभियोगं अभ्युत्तिष्ठन्ते ॥ ०७.५.३२ ॥
विरक्ताः पर-अभियोगम् अभ्युत्तिष्ठन्ते ॥ ०७।५।३२ ॥
viraktāḥ para-abhiyogam abhyuttiṣṭhante .. 07.5.32 ..
तासां हिरण्य-धान्य-क्षयः सर्व-उपघाती कृच्छ्र-प्रतीकारश्च । युग्य-पुरुष-क्षयो हिरण्य-धान्य-साध्यः ॥ ०७.५.३३ ॥
तासाम् हिरण्य-धान्य-क्षयः सर्व-उपघाती कृच्छ्र-प्रतीकारः च । ॥ ०७।५।३३ ॥
tāsām hiraṇya-dhānya-kṣayaḥ sarva-upaghātī kṛcchra-pratīkāraḥ ca . .. 07.5.33 ..
लोभ ऐकदेशिको मुख्य-आयत्तः पर-अर्थेषु शक्यः प्रतिहन्तुं आदातुं वा ॥ ०७.५.३४ ॥
लोभ ऐकदेशिकः मुख्य-आयत्तः पर-अर्थेषु शक्यः प्रतिहन्तुम् आदातुम् वा ॥ ०७।५।३४ ॥
lobha aikadeśikaḥ mukhya-āyattaḥ para-artheṣu śakyaḥ pratihantum ādātum vā .. 07.5.34 ..
विरागः प्रधान-अवग्रह-साध्यः ॥ ०७.५.३५ ॥
विरागः प्रधान-अवग्रह-साध्यः ॥ ०७।५।३५ ॥
virāgaḥ pradhāna-avagraha-sādhyaḥ .. 07.5.35 ..
निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषाम् । अनापत्-सहास्तु ॥ ०७.५.३६ ॥
निष्प्रधानाः हि प्रकृतयः भोग्याः भवन्ति अनुपजाप्याः च अन्येषाम् । अनापद्-सहा अस्तु ॥ ०७।५।३६ ॥
niṣpradhānāḥ hi prakṛtayaḥ bhogyāḥ bhavanti anupajāpyāḥ ca anyeṣām . anāpad-sahā astu .. 07.5.36 ..
प्रकृति-मुख्य-प्रग्रहैस्तु बहुधा भिन्ना गुप्ता भवन्त्यापत्-सहाश्च ॥ ०७.५.३७ ॥
प्रकृति-मुख्य-प्रग्रहैः तु बहुधा भिन्नाः गुप्ताः भवन्ति आपद्-सहाः च ॥ ०७।५।३७ ॥
prakṛti-mukhya-pragrahaiḥ tu bahudhā bhinnāḥ guptāḥ bhavanti āpad-sahāḥ ca .. 07.5.37 ..
सामवायिकानां अपि संधि-विग्रह-कारणान्यवेक्ष्य शक्ति-शौच-युक्तैः सम्भूय यायात् ॥ ०७.५.३८ ॥
सामवायिकानाम् अपि संधि-विग्रह-कारणानि अवेक्ष्य शक्ति-शौच-युक्तैः सम्भूय यायात् ॥ ०७।५।३८ ॥
sāmavāyikānām api saṃdhi-vigraha-kāraṇāni avekṣya śakti-śauca-yuktaiḥ sambhūya yāyāt .. 07.5.38 ..
शक्तिमान्हि पार्ष्णि-ग्रहणे यात्रा-साहाय्य-दाने वा शक्तः । शुचिः सिद्धौ चासिद्धौ च यथा-स्थित-कारीइति ॥ ०७.५.३९ ॥
शक्तिमान् हि पार्ष्णि-ग्रहणे यात्रा-साहाय्य-दाने वा शक्तः । शुचिः सिद्धौ च असिद्धौ च यथा स्थित-कारी इति ॥ ०७।५।३९ ॥
śaktimān hi pārṣṇi-grahaṇe yātrā-sāhāyya-dāne vā śaktaḥ . śuciḥ siddhau ca asiddhau ca yathā sthita-kārī iti .. 07.5.39 ..
तेषां ज्यायसाएकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यं इति द्वाभ्यां समाभ्यां श्रेयः ॥ ०७.५.४० ॥
तेषाम् ज्यायसा एकेन द्वाभ्याम् समाभ्याम् वा सम्भूय यातव्यम् इति द्वाभ्याम् समाभ्याम् श्रेयः ॥ ०७।५।४० ॥
teṣām jyāyasā ekena dvābhyām samābhyām vā sambhūya yātavyam iti dvābhyām samābhyām śreyaḥ .. 07.5.40 ..
ज्यायसा ह्यवगृहीतश्चरति । समाभ्यां अतिसंधान-आधिक्ये वा ॥ ०७.५.४१ ॥
ज्यायसा हि अवगृहीतः चरति । समाभ्याम् अतिसंधान-आधिक्ये वा ॥ ०७।५।४१ ॥
jyāyasā hi avagṛhītaḥ carati . samābhyām atisaṃdhāna-ādhikye vā .. 07.5.41 ..
तौ हि सुखौ भेदयितुम् । दुष्टश्चएको द्वाभ्यां नियन्तुं भेद-उपग्रहं चौपगन्तुं इति ॥ ०७.५.४२ ॥
तौ हि सुखौ भेदयितुम् । दुष्टः च एकः द्वाभ्याम् नियन्तुम् भेद-उपग्रहम् च औपगन्तुम् इति ॥ ०७।५।४२ ॥
tau hi sukhau bhedayitum . duṣṭaḥ ca ekaḥ dvābhyām niyantum bheda-upagraham ca aupagantum iti .. 07.5.42 ..
समेनएकेन द्वाभ्यां हीनाभ्यां वाइति द्वाभ्यां हीनाभ्यां श्रेयः ॥ ०७.५.४३ ॥
समेन एकेन द्वाभ्याम् हीनाभ्याम् वा इति द्वाभ्याम् हीनाभ्याम् श्रेयः ॥ ०७।५।४३ ॥
samena ekena dvābhyām hīnābhyām vā iti dvābhyām hīnābhyām śreyaḥ .. 07.5.43 ..
तौ हि द्वि-कार्य-साधकौ वश्यौ च भवतः ॥ ०७.५.४४ ॥
तौ हि द्वि-कार्य-साधकौ वश्यौ च भवतः ॥ ०७।५।४४ ॥
tau hi dvi-kārya-sādhakau vaśyau ca bhavataḥ .. 07.5.44 ..
कार्य-सिद्धौ तु कृत-अर्थाज्ज्यायसो गूढः स-अपदेशं अपस्रवेत् । ॥ ०७.५.४५अ ब ॥
कार्य-सिद्धौ तु कृत-अर्थात् ज्यायसः गूढः स अपदेशम् अपस्रवेत् । ॥ ०७।५।४५अ ब ॥
kārya-siddhau tu kṛta-arthāt jyāyasaḥ gūḍhaḥ sa apadeśam apasravet . .. 07.5.45a ba ..
अशुचेः शुचि-वृत्तात्तु प्रतीक्षेतऽ विसर्जनात् ॥ ०७.५.४५च्द् ॥
अशुचेः शुचि-वृत्तात् तु प्रतीक्षेत विसर्जनात् ॥ ०७।५।४५च् ॥
aśuceḥ śuci-vṛttāt tu pratīkṣeta visarjanāt .. 07.5.45c ..
सत्त्रादपसरेद्यत्तः कलत्रं अपनीय वा । ॥ ०७.५.४६अ ब ॥
सत्त्रात् अपसरेत् यत्तः कलत्रम् अपनीय वा । ॥ ०७।५।४६अ ब ॥
sattrāt apasaret yattaḥ kalatram apanīya vā . .. 07.5.46a ba ..
समादपि हि लब्ध-अर्थाद्विश्वस्तस्य भयं भवेत् ॥ ०७.५.४६च्द् ॥
समात् अपि हि लब्ध-अर्थात् विश्वस्तस्य भयम् भवेत् ॥ ०७।५।४६च् ॥
samāt api hi labdha-arthāt viśvastasya bhayam bhavet .. 07.5.46c ..
ज्यायस्त्वे चापि लब्ध-अर्थः समोअपि परिकल्पते । ॥ ०७.५.४७अ ब ॥
ज्यायः-त्वे च अपि लब्ध-अर्थः परिकल्पते । ॥ ०७।५।४७अ ब ॥
jyāyaḥ-tve ca api labdha-arthaḥ parikalpate . .. 07.5.47a ba ..
अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्त-विकारिणी ॥ ०७.५.४७च्द् ॥
अभ्युच्चितः च अविश्वास्यः वृद्धिः चित्त-विकारिणी ॥ ०७।५।४७च् ॥
abhyuccitaḥ ca aviśvāsyaḥ vṛddhiḥ citta-vikāriṇī .. 07.5.47c ..
विशिष्टादल्पं अप्यंशं लब्ध्वा तुष्ट-मुखो व्रजेत् । ॥ ०७.५.४८अ ब ॥
विशिष्टात् अल्पम् अपि अंशम् लब्ध्वा तुष्ट-मुखः व्रजेत् । ॥ ०७।५।४८अ ब ॥
viśiṣṭāt alpam api aṃśam labdhvā tuṣṭa-mukhaḥ vrajet . .. 07.5.48a ba ..
अनंशो वा ततोअस्याङ्के प्रहृत्य द्वि-गुणं हरेत् ॥ ०७.५.४८च्द् ॥
अन् अंशः वा प्रहृत्य द्वि-गुणम् हरेत् ॥ ०७।५।४८च् ॥
an aṃśaḥ vā prahṛtya dvi-guṇam haret .. 07.5.48c ..
कृत-अर्थस्तु स्वयं नेता विसृजेत्सामवायिकान् । ॥ ०७.५.४९अ ब ॥
कृत-अर्थः तु स्वयम् नेता विसृजेत् सामवायिकान् । ॥ ०७।५।४९अ ब ॥
kṛta-arthaḥ tu svayam netā visṛjet sāmavāyikān . .. 07.5.49a ba ..
अपि जीयेत न जयेन्मण्डल-इष्टस्तथा भवेत् ॥ ०७.५.४९च्द् ॥
अपि जीयेत न जयेत् मण्डल-इष्टः तथा भवेत् ॥ ०७।५।४९च् ॥
api jīyeta na jayet maṇḍala-iṣṭaḥ tathā bhavet .. 07.5.49c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In