| |
|

This overlay will guide you through the buttons:

तुल्य-सामन्त-व्यसने यातव्यं अमित्रं वाइत्यमित्रं अभियायात् । तत्-सिद्धौ यातव्यं ॥ ०७.५.०१ ॥
tulya-sāmanta-vyasane yātavyaṃ amitraṃ vāityamitraṃ abhiyāyāt . tat-siddhau yātavyaṃ .. 07.5.01 ..
अमित्र-सिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्य-सिद्धौ ॥ ०७.५.०२ ॥
amitra-siddhau hi yātavyaḥ sāhāyyaṃ dadyānnāmitro yātavya-siddhau .. 07.5.02 ..
गुरु-व्यसनं यातव्यं लघु-व्यसनं अमित्रं वाइति "गुरु-व्यसनं सौकर्यतो यायाद्" इत्याचार्याः ॥ ०७.५.०३ ॥
guru-vyasanaṃ yātavyaṃ laghu-vyasanaṃ amitraṃ vāiti "guru-vyasanaṃ saukaryato yāyād" ityācāryāḥ .. 07.5.03 ..
नैति कौटिल्यः ॥ ०७.५.०४ ॥
naiti kauṭilyaḥ .. 07.5.04 ..
लघु-व्यसनं अमित्रं यायात् ॥ ०७.५.०५ ॥
laghu-vyasanaṃ amitraṃ yāyāt .. 07.5.05 ..
लघ्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति ॥ ०७.५.०६ ॥
laghvapi hi vyasanaṃ abhiyuktasya kṛcchraṃ bhavati .. 07.5.06 ..
सत्यं गुर्वपि गुरुतरं भवति ॥ ०७.५.०७ ॥
satyaṃ gurvapi gurutaraṃ bhavati .. 07.5.07 ..
अनभियुक्तस्तु लघु-व्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यं अभिसरेत् । पार्ष्णिं वा गृह्णीयात् ॥ ०७.५.०८ ॥
anabhiyuktastu laghu-vyasanaḥ sukhena vyasanaṃ pratikṛtyāmitro yātavyaṃ abhisaret . pārṣṇiṃ vā gṛhṇīyāt .. 07.5.08 ..
यातव्य-यौगपद्ये गुरु-व्यसनं न्याय-वृत्तिं लघु-व्यसनं अन्याय-वृत्तिं विरक्त-प्रकृतिं वाइति विरक्त-प्रकृतिं यायात् ॥ ०७.५.०९ ॥
yātavya-yaugapadye guru-vyasanaṃ nyāya-vṛttiṃ laghu-vyasanaṃ anyāya-vṛttiṃ virakta-prakṛtiṃ vāiti virakta-prakṛtiṃ yāyāt .. 07.5.09 ..
गुरु-व्यसनं न्याय-वृत्तिं अभियुक्तं प्रकृतयोअनुगृह्णन्ति । लघु-व्यसनं अन्याय-वृत्तिं उपेक्षन्ते । विरक्ता बलवन्तं अप्युच्छिन्दन्ति ॥ ०७.५.१० ॥
guru-vyasanaṃ nyāya-vṛttiṃ abhiyuktaṃ prakṛtayoanugṛhṇanti . laghu-vyasanaṃ anyāya-vṛttiṃ upekṣante . viraktā balavantaṃ apyucchindanti .. 07.5.10 ..
तस्माद्विरक्त-प्रकृतिं एव यायात् ॥ ०७.५.११ ॥
tasmādvirakta-prakṛtiṃ eva yāyāt .. 07.5.11 ..
क्षीण-लुब्ध-प्रकृतिं अपचरित-प्रकृतिं वाइति क्षीण-लुब्ध-प्रकृतिं यायात् । क्षीण-लुब्धा हि प्रकृतयः सुखेनौपजापं पीडां वाउपगच्छन्ति । नापचरिताः प्रधान-अवग्रह-साध्याः" इत्याचार्याः ॥ ०७.५.१२ ॥
kṣīṇa-lubdha-prakṛtiṃ apacarita-prakṛtiṃ vāiti kṣīṇa-lubdha-prakṛtiṃ yāyāt . kṣīṇa-lubdhā hi prakṛtayaḥ sukhenaupajāpaṃ pīḍāṃ vāupagacchanti . nāpacaritāḥ pradhāna-avagraha-sādhyāḥ" ityācāryāḥ .. 07.5.12 ..
नैति कौटिल्यः ॥ ०७.५.१३ ॥
naiti kauṭilyaḥ .. 07.5.13 ..
क्षीण-लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ-हिते तिष्ठन्ति । उपजापं वा विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ॥ ०७.५.१४ ॥
kṣīṇa-lubdhā hi prakṛtayo bhartari snigdhā bhartṛ-hite tiṣṭhanti . upajāpaṃ vā visaṃvādayanti . anurāge sārvaguṇyaṃ iti .. 07.5.14 ..
तस्मादपचरित-प्रकृतिं एव यायात् ॥ ०७.५.१५ ॥
tasmādapacarita-prakṛtiṃ eva yāyāt .. 07.5.15 ..
बलवन्तं अन्याय-वृत्तिं दुर्बलं वा न्याय-वृत्तिं इति बलवन्तं अन्याय-वृत्तिं यायात् ॥ ०७.५.१६ ॥
balavantaṃ anyāya-vṛttiṃ durbalaṃ vā nyāya-vṛttiṃ iti balavantaṃ anyāya-vṛttiṃ yāyāt .. 07.5.16 ..
बलवन्तं अन्याय-वृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति । निष्पातयन्ति । अमित्रं वाअस्य भजन्ते ॥ ०७.५.१७ ॥
balavantaṃ anyāya-vṛttiṃ abhiyuktaṃ prakṛtayo nānugṛhṇanti . niṣpātayanti . amitraṃ vāasya bhajante .. 07.5.17 ..
दुर्बलं तु न्याय-वृत्तिं अभियुक्तं प्रकृतयः परिगृह्णन्ति । अनुनिष्पतन्ति वा ॥ ०७.५.१८ ॥
durbalaṃ tu nyāya-vṛttiṃ abhiyuktaṃ prakṛtayaḥ parigṛhṇanti . anuniṣpatanti vā .. 07.5.18 ..
अवक्षेपेण हि सतां असतां प्रग्रहेण च । ॥ ०७.५.१९अ ब ॥
avakṣepeṇa hi satāṃ asatāṃ pragraheṇa ca . .. 07.5.19a ba ..
अभूतानां च हिंसानां अधर्म्याणां प्रवर्तनैः ॥ ०७.५.१९च्द् ॥
abhūtānāṃ ca hiṃsānāṃ adharmyāṇāṃ pravartanaiḥ .. 07.5.19cd ..
उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः । ॥ ०७.५.२०अ ब ॥
ucitānāṃ caritrāṇāṃ dharmiṣṭhānāṃ nivartanaiḥ . .. 07.5.20a ba ..
अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च ॥ ०७.५.२०च्द् ॥
adharmasya prasaṅgena dharmasyāvagraheṇa ca .. 07.5.20cd ..
अकार्याणां च करणैः कार्याणां च प्रणाशनैः । ॥ ०७.५.२१अ ब ॥
akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ . .. 07.5.21a ba ..
अप्रदानैश्च देयानां अदेयानां च साधनैः ॥ ०७.५.२१च्द् ॥
apradānaiśca deyānāṃ adeyānāṃ ca sādhanaiḥ .. 07.5.21cd ..
अदण्डनैश्च दण्ड्यानां अदण्ड्यानां च दण्डनैः । ॥ ०७.५.२२अ ब ॥
adaṇḍanaiśca daṇḍyānāṃ adaṇḍyānāṃ ca daṇḍanaiḥ . .. 07.5.22a ba ..
अग्राह्याणां उपग्राहैर्ग्राह्याणां चानभिग्रहैः ॥ ०७.५.२२च्द् ॥
agrāhyāṇāṃ upagrāhairgrāhyāṇāṃ cānabhigrahaiḥ .. 07.5.22cd ..
अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः । ॥ ०७.५.२३अ ब ॥
anarthyānāṃ ca karaṇairarthyānāṃ ca vighātanaiḥ . .. 07.5.23a ba ..
अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः ॥ ०७.५.२३च्द् ॥
arakṣaṇaiśca corebhyaḥ svayaṃ ca parimoṣaṇaiḥ .. 07.5.23cd ..
पातैः पुरुष-काराणां कर्मणां गुण-दूषणैः । ॥ ०७.५.२४अ ब ॥
pātaiḥ puruṣa-kārāṇāṃ karmaṇāṃ guṇa-dūṣaṇaiḥ . .. 07.5.24a ba ..
उपघातैः प्रधानानां मान्यानां चावमाननैः ॥ ०७.५.२४च्द् ॥
upaghātaiḥ pradhānānāṃ mānyānāṃ cāvamānanaiḥ .. 07.5.24cd ..
विरोधनैश्च वृद्धानां वैषम्येणानृतेन च । ॥ ०७.५.२५अ ब ॥
virodhanaiśca vṛddhānāṃ vaiṣamyeṇānṛtena ca . .. 07.5.25a ba ..
कृतस्याप्रतिकारेण स्थितस्याकरणेन च ॥ ०७.५.२५च्द् ॥
kṛtasyāpratikāreṇa sthitasyākaraṇena ca .. 07.5.25cd ..
राज्ञः प्रमाद-आलस्याभ्यां योग-क्षेम-वधेन वा । ॥ ०७.५.२६अ ब ॥
rājñaḥ pramāda-ālasyābhyāṃ yoga-kṣema-vadhena vā . .. 07.5.26a ba ..
प्रकृतीनां क्षयो लोभो वैराग्यं चौपजायते ॥ ०७.५.२६च्द् ॥
prakṛtīnāṃ kṣayo lobho vairāgyaṃ caupajāyate .. 07.5.26cd ..
क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागतां । ॥ ०७.५.२७अ ब ॥
kṣīṇāḥ prakṛtayo lobhaṃ lubdhā yānti virāgatāṃ . .. 07.5.27a ba ..
विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयं ॥ ०७.५.२७च्द् ॥
viraktā yāntyamitraṃ vā bhartāraṃ ghnanti vā svayaṃ .. 07.5.27cd ..
तस्मात्प्रकृतीनां क्षय-लोभ-विराग-कारणानि नौत्पादयेत् । उत्पन्नानि वा सद्यः प्रतिकुर्वीत ॥ ०७.५.२८ ॥
tasmātprakṛtīnāṃ kṣaya-lobha-virāga-kāraṇāni nautpādayet . utpannāni vā sadyaḥ pratikurvīta .. 07.5.28 ..
क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ॥ ०७.५.२९ ॥
kṣīṇā lubdhā viraktā vā prakṛtaya iti .. 07.5.29 ..
क्षीणाः पीडन-उच्छेदन-भयात्सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ॥ ०७.५.३० ॥
kṣīṇāḥ pīḍana-ucchedana-bhayātsadyaḥ saṃdhiṃ yuddhaṃ niṣpatanaṃ vā rocayante .. 07.5.30 ..
लुब्धा लोभेनासंतुष्टाः पर-उपजापं लिप्सन्ते ॥ ०७.५.३१ ॥
lubdhā lobhenāsaṃtuṣṭāḥ para-upajāpaṃ lipsante .. 07.5.31 ..
विरक्ताः पर-अभियोगं अभ्युत्तिष्ठन्ते ॥ ०७.५.३२ ॥
viraktāḥ para-abhiyogaṃ abhyuttiṣṭhante .. 07.5.32 ..
तासां हिरण्य-धान्य-क्षयः सर्व-उपघाती कृच्छ्र-प्रतीकारश्च । युग्य-पुरुष-क्षयो हिरण्य-धान्य-साध्यः ॥ ०७.५.३३ ॥
tāsāṃ hiraṇya-dhānya-kṣayaḥ sarva-upaghātī kṛcchra-pratīkāraśca . yugya-puruṣa-kṣayo hiraṇya-dhānya-sādhyaḥ .. 07.5.33 ..
लोभ ऐकदेशिको मुख्य-आयत्तः पर-अर्थेषु शक्यः प्रतिहन्तुं आदातुं वा ॥ ०७.५.३४ ॥
lobha aikadeśiko mukhya-āyattaḥ para-artheṣu śakyaḥ pratihantuṃ ādātuṃ vā .. 07.5.34 ..
विरागः प्रधान-अवग्रह-साध्यः ॥ ०७.५.३५ ॥
virāgaḥ pradhāna-avagraha-sādhyaḥ .. 07.5.35 ..
निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषाम् । अनापत्-सहास्तु ॥ ०७.५.३६ ॥
niṣpradhānā hi prakṛtayo bhogyā bhavantyanupajāpyāścānyeṣām . anāpat-sahāstu .. 07.5.36 ..
प्रकृति-मुख्य-प्रग्रहैस्तु बहुधा भिन्ना गुप्ता भवन्त्यापत्-सहाश्च ॥ ०७.५.३७ ॥
prakṛti-mukhya-pragrahaistu bahudhā bhinnā guptā bhavantyāpat-sahāśca .. 07.5.37 ..
सामवायिकानां अपि संधि-विग्रह-कारणान्यवेक्ष्य शक्ति-शौच-युक्तैः सम्भूय यायात् ॥ ०७.५.३८ ॥
sāmavāyikānāṃ api saṃdhi-vigraha-kāraṇānyavekṣya śakti-śauca-yuktaiḥ sambhūya yāyāt .. 07.5.38 ..
शक्तिमान्हि पार्ष्णि-ग्रहणे यात्रा-साहाय्य-दाने वा शक्तः । शुचिः सिद्धौ चासिद्धौ च यथा-स्थित-कारीइति ॥ ०७.५.३९ ॥
śaktimānhi pārṣṇi-grahaṇe yātrā-sāhāyya-dāne vā śaktaḥ . śuciḥ siddhau cāsiddhau ca yathā-sthita-kārīiti .. 07.5.39 ..
तेषां ज्यायसाएकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यं इति द्वाभ्यां समाभ्यां श्रेयः ॥ ०७.५.४० ॥
teṣāṃ jyāyasāekena dvābhyāṃ samābhyāṃ vā sambhūya yātavyaṃ iti dvābhyāṃ samābhyāṃ śreyaḥ .. 07.5.40 ..
ज्यायसा ह्यवगृहीतश्चरति । समाभ्यां अतिसंधान-आधिक्ये वा ॥ ०७.५.४१ ॥
jyāyasā hyavagṛhītaścarati . samābhyāṃ atisaṃdhāna-ādhikye vā .. 07.5.41 ..
तौ हि सुखौ भेदयितुम् । दुष्टश्चएको द्वाभ्यां नियन्तुं भेद-उपग्रहं चौपगन्तुं इति ॥ ०७.५.४२ ॥
tau hi sukhau bhedayitum . duṣṭaścaeko dvābhyāṃ niyantuṃ bheda-upagrahaṃ caupagantuṃ iti .. 07.5.42 ..
समेनएकेन द्वाभ्यां हीनाभ्यां वाइति द्वाभ्यां हीनाभ्यां श्रेयः ॥ ०७.५.४३ ॥
samenaekena dvābhyāṃ hīnābhyāṃ vāiti dvābhyāṃ hīnābhyāṃ śreyaḥ .. 07.5.43 ..
तौ हि द्वि-कार्य-साधकौ वश्यौ च भवतः ॥ ०७.५.४४ ॥
tau hi dvi-kārya-sādhakau vaśyau ca bhavataḥ .. 07.5.44 ..
कार्य-सिद्धौ तु कृत-अर्थाज्ज्यायसो गूढः स-अपदेशं अपस्रवेत् । ॥ ०७.५.४५अ ब ॥
kārya-siddhau tu kṛta-arthājjyāyaso gūḍhaḥ sa-apadeśaṃ apasravet . .. 07.5.45a ba ..
अशुचेः शुचि-वृत्तात्तु प्रतीक्षेतऽ विसर्जनात् ॥ ०७.५.४५च्द् ॥
aśuceḥ śuci-vṛttāttu pratīkṣeta' visarjanāt .. 07.5.45cd ..
सत्त्रादपसरेद्यत्तः कलत्रं अपनीय वा । ॥ ०७.५.४६अ ब ॥
sattrādapasaredyattaḥ kalatraṃ apanīya vā . .. 07.5.46a ba ..
समादपि हि लब्ध-अर्थाद्विश्वस्तस्य भयं भवेत् ॥ ०७.५.४६च्द् ॥
samādapi hi labdha-arthādviśvastasya bhayaṃ bhavet .. 07.5.46cd ..
ज्यायस्त्वे चापि लब्ध-अर्थः समोअपि परिकल्पते । ॥ ०७.५.४७अ ब ॥
jyāyastve cāpi labdha-arthaḥ samoapi parikalpate . .. 07.5.47a ba ..
अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्त-विकारिणी ॥ ०७.५.४७च्द् ॥
abhyuccitaścāviśvāsyo vṛddhiścitta-vikāriṇī .. 07.5.47cd ..
विशिष्टादल्पं अप्यंशं लब्ध्वा तुष्ट-मुखो व्रजेत् । ॥ ०७.५.४८अ ब ॥
viśiṣṭādalpaṃ apyaṃśaṃ labdhvā tuṣṭa-mukho vrajet . .. 07.5.48a ba ..
अनंशो वा ततोअस्याङ्के प्रहृत्य द्वि-गुणं हरेत् ॥ ०७.५.४८च्द् ॥
anaṃśo vā tatoasyāṅke prahṛtya dvi-guṇaṃ haret .. 07.5.48cd ..
कृत-अर्थस्तु स्वयं नेता विसृजेत्सामवायिकान् । ॥ ०७.५.४९अ ब ॥
kṛta-arthastu svayaṃ netā visṛjetsāmavāyikān . .. 07.5.49a ba ..
अपि जीयेत न जयेन्मण्डल-इष्टस्तथा भवेत् ॥ ०७.५.४९च्द् ॥
api jīyeta na jayenmaṇḍala-iṣṭastathā bhavet .. 07.5.49cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In