| |
|

This overlay will guide you through the buttons:

विजिगीषुर्द्वितीयां प्रकृतिं एवं अतिसंदध्यात् ॥ ०७.६.०१ ॥
विजिगीषुः द्वितीयाम् प्रकृतिम् एवम् अतिसंदध्यात् ॥ ०७।६।०१ ॥
vijigīṣuḥ dvitīyām prakṛtim evam atisaṃdadhyāt .. 07.6.01 ..
सामन्तं संहित-प्रयाणे योजयेत्"त्वं इतो याहि । अहं इतो यास्यामि । समानो लाभः" इति ॥ ०७.६.०२ ॥
सामन्तम् संहित-प्रयाणे योजयेत्"त्वम् इतस् याहि । अहम् इतस् यास्यामि । समानः लाभः" इति ॥ ०७।६।०२ ॥
sāmantam saṃhita-prayāṇe yojayet"tvam itas yāhi . aham itas yāsyāmi . samānaḥ lābhaḥ" iti .. 07.6.02 ..
लाभ-साम्ये संधिः । वैषम्ये विक्रमः ॥ ०७.६.०३ ॥
लाभ-साम्ये संधिः । वैषम्ये विक्रमः ॥ ०७।६।०३ ॥
lābha-sāmye saṃdhiḥ . vaiṣamye vikramaḥ .. 07.6.03 ..
संधिः परिपणितश्चापरिपणितश्च ॥ ०७.६.०४ ॥
संधिः परिपणितः च अ परिपणितः च ॥ ०७।६।०४ ॥
saṃdhiḥ paripaṇitaḥ ca a paripaṇitaḥ ca .. 07.6.04 ..
त्वं एतं देशं याहि । अहं इमं देशं यास्यामि इति परिपणित-देशः ॥ ०७.६.०५ ॥
त्वम् एतम् देशम् याहि । अहम् इमम् देशम् यास्यामि इति परिपणित-देशः ॥ ०७।६।०५ ॥
tvam etam deśam yāhi . aham imam deśam yāsyāmi iti paripaṇita-deśaḥ .. 07.6.05 ..
त्वं एतावन्तं कालं चेष्टस्व । अहं एतावन्तं कालं चेष्टिष्ये इति परिपणित-कालः ॥ ०७.६.०६ ॥
त्वम् एतावन्तम् कालम् चेष्टस्व । अहम् एतावन्तम् कालम् चेष्टिष्ये इति परिपणित-कालः ॥ ०७।६।०६ ॥
tvam etāvantam kālam ceṣṭasva . aham etāvantam kālam ceṣṭiṣye iti paripaṇita-kālaḥ .. 07.6.06 ..
त्वं एतावत्-कार्यं साधय । अहं इदं कार्यं साधयिष्यामि इति परिपणित-अर्थः ॥ ०७.६.०७ ॥
त्वम् एतावत् कार्यम् साधय । अहम् इदम् कार्यम् साधयिष्यामि इति परिपणित-अर्थः ॥ ०७।६।०७ ॥
tvam etāvat kāryam sādhaya . aham idam kāryam sādhayiṣyāmi iti paripaṇita-arthaḥ .. 07.6.07 ..
यदि वा मन्येत "शैल-वन-नदी-दुर्गं अटवी-व्यवहितं छिन्न-धान्य-पुरुष-वीवध-आसारं अयवस-इन्धन-उदकं अविज्ञातं प्रकृष्टं अन्य-भाव-देशीयं वा सैन्य-व्यायामानां अलब्ध-भौमं वा देशं परो यास्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-देशं संधिं उपेयात् ॥ ०७.६.०८ ॥
यदि वा मन्येत "शैल-वन-नदी-दुर्गम् अटवी-व्यवहितम् छिन्न-धान्य-पुरुष-वीवध-आसारम् अयवस-इन्धन-उदकम् अविज्ञातम् प्रकृष्टम् अन्य-भाव-देशीयम् वा सैन्य-व्यायामानाम् अलब्ध-भौमम् वा देशम् परस् यास्यति । विपरीतम् अहम्" इति एतस्मिन् विशेषे परिपणित-देशम् संधिम् उपेयात् ॥ ०७।६।०८ ॥
yadi vā manyeta "śaila-vana-nadī-durgam aṭavī-vyavahitam chinna-dhānya-puruṣa-vīvadha-āsāram ayavasa-indhana-udakam avijñātam prakṛṣṭam anya-bhāva-deśīyam vā sainya-vyāyāmānām alabdha-bhaumam vā deśam paras yāsyati . viparītam aham" iti etasmin viśeṣe paripaṇita-deśam saṃdhim upeyāt .. 07.6.08 ..
यदि वा मन्येत "प्रवर्ष-उष्ण-शीतं अतिव्याधि-प्रायं उपक्षीण-आहार-उपभोगं सैन्य-व्यायामानां चाउपरोधिकं कार्य-साधनानां ऊनं अतिरिक्तं वा कालं परश्चेष्टिष्यते । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-कालं संधिं उपेयात् ॥ ०७.६.०९ ॥
यदि वा मन्येत "प्रवर्ष-उष्ण-शीतम् अति व्याधि-प्रायम् उपक्षीण-आहार-उपभोगम् सैन्य-व्यायामानाम् च औपरोधिकम् कार्य-साधनानाम् ऊनम् अतिरिक्तम् वा कालम् परः चेष्टिष्यते । विपरीतम् अहम्" इति एतस्मिन् विशेषे परिपणित-कालम् संधिम् उपेयात् ॥ ०७।६।०९ ॥
yadi vā manyeta "pravarṣa-uṣṇa-śītam ati vyādhi-prāyam upakṣīṇa-āhāra-upabhogam sainya-vyāyāmānām ca auparodhikam kārya-sādhanānām ūnam atiriktam vā kālam paraḥ ceṣṭiṣyate . viparītam aham" iti etasmin viśeṣe paripaṇita-kālam saṃdhim upeyāt .. 07.6.09 ..
यदि वा मन्येत "प्रत्यादेयं प्रकृति-कोपकं दीर्घ-कालं महा-क्षय-व्ययं अल्पं अनर्थ-अनुबन्धं अकल्यं अधर्म्यं मध्यम-उदासीन-विरुद्धं मित्र-उपघातकं वा कार्यं परः साधयिष्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-अर्थं संधिं उपेयात् ॥ ०७.६.१० ॥
यदि वा मन्येत "प्रत्यादेयम् प्रकृति-कोपकम् दीर्घ-कालम् महा-क्षय-व्ययम् अल्पम् अनर्थ-अनुबन्धम् अकल्यम् अधर्म्यम् मध्यम-उदासीन-विरुद्धम् मित्र-उपघातकम् वा कार्यम् परः साधयिष्यति । विपरीतम् अहम्" इति एतस्मिन् विशेषे परिपणित-अर्थम् संधिम् उपेयात् ॥ ०७।६।१० ॥
yadi vā manyeta "pratyādeyam prakṛti-kopakam dīrgha-kālam mahā-kṣaya-vyayam alpam anartha-anubandham akalyam adharmyam madhyama-udāsīna-viruddham mitra-upaghātakam vā kāryam paraḥ sādhayiṣyati . viparītam aham" iti etasmin viśeṣe paripaṇita-artham saṃdhim upeyāt .. 07.6.10 ..
एवं देश-कालयोः काल-कार्ययोर्देश-कार्ययोर्देश-काल-कार्याणां चावस्थापनात्सप्त-विधः परिपणितः ॥ ०७.६.११ ॥
एवम् देश-कालयोः काल-कार्ययोः देश-काल-कार्याणाम् च अवस्थापनात् सप्त-विधः-विधः परिपणितः ॥ ०७।६।११ ॥
evam deśa-kālayoḥ kāla-kāryayoḥ deśa-kāla-kāryāṇām ca avasthāpanāt sapta-vidhaḥ-vidhaḥ paripaṇitaḥ .. 07.6.11 ..
तस्मिन्प्रागेवऽरभ्य प्रतिष्ठाप्य च स्व-कर्माणि पर-कर्मसु विक्रमेत ॥ ०७.६.१२ ॥
तस्मिन् प्राक् एव आरभ्य प्रतिष्ठाप्य च स्व-कर्माणि पर-कर्मसु विक्रमेत ॥ ०७।६।१२ ॥
tasmin prāk eva ārabhya pratiṣṭhāpya ca sva-karmāṇi para-karmasu vikrameta .. 07.6.12 ..
व्यसन-त्वर-अवमान-आलस्य-युक्तं अज्ञं वा शत्रुं अतिसंधातु-कामो देश-काल-कार्याणां अनवस्थापनात्"संहितौ स्वः" इति संधि-विश्वासेन परच्-छिद्रं आसाद्य प्रहरेदित्यपरिपणितः ॥ ०७.६.१३ ॥
व्यसन-त्वर-अवमान-आलस्य-युक्तम् अज्ञम् वा शत्रुम् अतिसंधातु-कामः देश-काल-कार्याणाम् अनवस्थापनात्"संहितौ स्वः" इति संधि-विश्वासेन परत्-छिद्रम् आसाद्य प्रहरेत् इति अपरिपणितः ॥ ०७।६।१३ ॥
vyasana-tvara-avamāna-ālasya-yuktam ajñam vā śatrum atisaṃdhātu-kāmaḥ deśa-kāla-kāryāṇām anavasthāpanāt"saṃhitau svaḥ" iti saṃdhi-viśvāsena parat-chidram āsādya praharet iti aparipaṇitaḥ .. 07.6.13 ..
तत्रएतद्भवति ॥ ०७.६.१४ ॥
तत्र एतत् भवति ॥ ०७।६।१४ ॥
tatra etat bhavati .. 07.6.14 ..
सामन्तेनएव सामन्तं विद्वानायोज्य विग्रहे । ॥ ०७.६.१५अ ब ॥
सामन्तेन एव सामन्तम् विद्वान् आयोज्य विग्रहे । ॥ ०७।६।१५अ ब ॥
sāmantena eva sāmantam vidvān āyojya vigrahe . .. 07.6.15a ba ..
ततोअन्यस्य हरेद्भूमिं छित्त्वा पक्षं समन्ततः ॥ ०७.६.१५च्द् ॥
ततस् अन्यस्य हरेत् भूमिम् छित्त्वा पक्षम् समन्ततः ॥ ०७।६।१५च् ॥
tatas anyasya haret bhūmim chittvā pakṣam samantataḥ .. 07.6.15c ..
संधेरकृत-चिकीर्षा कृत-श्लेषणं कृत-विदूषणं अवशीर्ण-क्रिया च ॥ ०७.६.१६ ॥
संधेः अकृत-चिकीर्षा कृत-श्लेषणम् कृत-विदूषणम् अवशीर्ण-क्रिया च ॥ ०७।६।१६ ॥
saṃdheḥ akṛta-cikīrṣā kṛta-śleṣaṇam kṛta-vidūṣaṇam avaśīrṇa-kriyā ca .. 07.6.16 ..
विक्रमस्य प्रकाश-युद्धं कूट-युद्धं तूष्णीं-युद्धं ॥ ०७.६.१७ ॥
विक्रमस्य प्रकाश-युद्धम् कूट-युद्धम् तूष्णीं युद्धम् ॥ ०७।६।१७ ॥
vikramasya prakāśa-yuddham kūṭa-yuddham tūṣṇīṃ yuddham .. 07.6.17 ..
इति संधि-विक्रमौ ॥ ०७.६.१८ ॥
इति संधि-विक्रमौ ॥ ०७।६।१८ ॥
iti saṃdhi-vikramau .. 07.6.18 ..
अपूर्वस्य संधेः स-अनुबन्धैः साम-आदिभिः पर्येषणं सम-हीन-ज्यायसां च यथा-बलं अवस्थापनं अकृत-चिकीर्षा ॥ ०७.६.१९ ॥
अपूर्वस्य संधेः स अनुबन्धैः साम-आदिभिः पर्येषणम् सम-हीन-ज्यायसाम् च यथा बलम् अवस्थापनम् अकृत-चिकीर्षा ॥ ०७।६।१९ ॥
apūrvasya saṃdheḥ sa anubandhaiḥ sāma-ādibhiḥ paryeṣaṇam sama-hīna-jyāyasām ca yathā balam avasthāpanam akṛta-cikīrṣā .. 07.6.19 ..
कृतस्य प्रिय-हिताभ्यां उभयतः परिपालनं यथा-सम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च "कथं परस्मान्न भिद्येत" इति कृत-श्लेषणं ॥ ०७.६.२० ॥
कृतस्य प्रिय-हिताभ्याम् उभयतस् परिपालनम् यथा सम्भाषितस्य च निबन्धनस्य अनुवर्तनम् रक्षणम् च "कथम् परस्मात् न भिद्येत" इति कृत-श्लेषणम् ॥ ०७।६।२० ॥
kṛtasya priya-hitābhyām ubhayatas paripālanam yathā sambhāṣitasya ca nibandhanasya anuvartanam rakṣaṇam ca "katham parasmāt na bhidyeta" iti kṛta-śleṣaṇam .. 07.6.20 ..
परस्यापसंधेयतां दूष्य-अतिसंधानेन स्थापयित्वा व्यतिक्रमः कृत-विदूषणं ॥ ०७.६.२१ ॥
परस्य अपसंधेय-ताम् दूष्य-अतिसंधानेन स्थापयित्वा व्यतिक्रमः कृत-विदूषणम् ॥ ०७।६।२१ ॥
parasya apasaṃdheya-tām dūṣya-atisaṃdhānena sthāpayitvā vyatikramaḥ kṛta-vidūṣaṇam .. 07.6.21 ..
भृत्येन मित्रेण वा दोष-अपसृतेन प्रतिसंधानं अवशीर्ण-क्रिया ॥ ०७.६.२२ ॥
भृत्येन मित्रेण वा दोष-अपसृतेन प्रतिसंधानम् अवशीर्ण-क्रिया ॥ ०७।६।२२ ॥
bhṛtyena mitreṇa vā doṣa-apasṛtena pratisaṃdhānam avaśīrṇa-kriyā .. 07.6.22 ..
तस्यां गत-आगतश्चतुर्-विधः कारणाद्गत-आगतो । विपरीतः । कारणाद्गतोअकारणादागतो । विपरीतश्चैति ॥ ०७.६.२३ ॥
तस्याम् गत-आगतः चतुर्-विधः कारणात् गत-आगतः । विपरीतः । कारणात् गतः अ कारणात् आगतः । विपरीतः च एति ॥ ०७।६।२३ ॥
tasyām gata-āgataḥ catur-vidhaḥ kāraṇāt gata-āgataḥ . viparītaḥ . kāraṇāt gataḥ a kāraṇāt āgataḥ . viparītaḥ ca eti .. 07.6.23 ..
स्वामिनो दोषेण गतो गुणेनऽगतः परस्य गुणेन गतो दोषेणऽगत इति कारणाद्गत-आगतः संधेयः ॥ ०७.६.२४ ॥
स्वामिनः दोषेण गतः गुणेन अ गतः परस्य गुणेन गतः दोषेण अ गतः इति कारणात् गतः आगतः संधेयः ॥ ०७।६।२४ ॥
svāminaḥ doṣeṇa gataḥ guṇena a gataḥ parasya guṇena gataḥ doṣeṇa a gataḥ iti kāraṇāt gataḥ āgataḥ saṃdheyaḥ .. 07.6.24 ..
स्व-दोषेण गत-आगतो गुणं उभयोः परित्यज्य अकारणाद्गत-आगतः चल-बुद्धिरसंधेयः ॥ ०७.६.२५ ॥
स्व-दोषेण गत-आगतः गुणम् उभयोः परित्यज्य अकारणात् गत-आगतः चल-बुद्धिः असंधेयः ॥ ०७।६।२५ ॥
sva-doṣeṇa gata-āgataḥ guṇam ubhayoḥ parityajya akāraṇāt gata-āgataḥ cala-buddhiḥ asaṃdheyaḥ .. 07.6.25 ..
स्वामिनो दोषेण गतः परस्मात्स्व-दोषेणऽगत इति कारणाद्गतोअकारणादागतः तर्कयितव्यः "पर-प्रयुक्तः स्वेन वा दोषेणापकर्तु-कामः । परस्यौच्छेत्तारं अमित्रं मे ज्ञात्वा प्रतिघात-भयादागतः । परं वा मां उच्छेत्तु-कामं परित्यज्यऽनृशंस्यादागतः" इति ॥ ०७.६.२६ ॥
स्वामिनः दोषेण गतः परस्मात् स्व-दोषेण अ गतः इति कारणात् गतः उ कारणात् आगतः तर्कयितव्यः "पर-प्रयुक्तः स्वेन वा दोषेण अपकर्तु-कामः । परस्य औच्छेत्तारम् अमित्रम् मे ज्ञात्वा प्रतिघात-भयात् आगतः । परम् वा माम् उच्छेत्तु-कामम् परित्यज्य आनृशंस्यात् आगतः" इति ॥ ०७।६।२६ ॥
svāminaḥ doṣeṇa gataḥ parasmāt sva-doṣeṇa a gataḥ iti kāraṇāt gataḥ u kāraṇāt āgataḥ tarkayitavyaḥ "para-prayuktaḥ svena vā doṣeṇa apakartu-kāmaḥ . parasya aucchettāram amitram me jñātvā pratighāta-bhayāt āgataḥ . param vā mām ucchettu-kāmam parityajya ānṛśaṃsyāt āgataḥ" iti .. 07.6.26 ..
ज्ञात्वा कल्याण-बुद्धिं पूजयेद् । अन्यथा-बुद्धिं अपकृष्टं वासयेत् ॥ ०७.६.२७ ॥
ज्ञात्वा कल्याण-बुद्धिम् पूजयेत् । अन्यथा बुद्धिम् अपकृष्टम् वासयेत् ॥ ०७।६।२७ ॥
jñātvā kalyāṇa-buddhim pūjayet . anyathā buddhim apakṛṣṭam vāsayet .. 07.6.27 ..
स्व-दोषेण गतः पर-दोषेणऽगत इत्यकारणाद्गतः कारणादागतः तर्कयितव्यः " छिद्रं मे पूरयिष्यति । उचितोअयं अस्य वासः । परत्रास्य जनो न रमते । मित्रैर्मे संहितः । शत्रुभिर्विगृहीतः । लुब्ध-क्रूरादाविग्नः शत्रु-संहिताद्वा परस्मात्" इति ॥ ०७.६.२८ ॥
स्व-दोषेण गतः पर-दोषेण अगतः इति अकारणात् गतः कारणात् आगतः तर्कयितव्यः " छिद्रम् मे पूरयिष्यति । उचित-ऊअयम् अस्य वासः । परत्र अस्य जनः न रमते । मित्रैः मे संहितः । शत्रुभिः विगृहीतः । लुब्ध-क्रूरात् आविग्नः शत्रु-संहितात् वा परस्मात्" इति ॥ ०७।६।२८ ॥
sva-doṣeṇa gataḥ para-doṣeṇa agataḥ iti akāraṇāt gataḥ kāraṇāt āgataḥ tarkayitavyaḥ " chidram me pūrayiṣyati . ucita-ūayam asya vāsaḥ . paratra asya janaḥ na ramate . mitraiḥ me saṃhitaḥ . śatrubhiḥ vigṛhītaḥ . lubdha-krūrāt āvignaḥ śatru-saṃhitāt vā parasmāt" iti .. 07.6.28 ..
ज्ञात्वा यथा-बुद्ध्यवस्थापयितव्यः ॥ ०७.६.२९ ॥
ज्ञात्वा यथा बुद्धि अवस्थापयितव्यः ॥ ०७।६।२९ ॥
jñātvā yathā buddhi avasthāpayitavyaḥ .. 07.6.29 ..
कृत-प्रणाशः शक्ति-हानिर्विद्या-पण्यत्वं आशा-निर्वेदो देश-लौल्यं अविश्वासो बलवद्-विग्रहो वा परित्याग-स्थानम् इत्याचार्याः ॥ ०७.६.३० ॥
कृत-प्रणाशः शक्ति-हानिः विद्या-पण्य-त्वम् आशा-निर्वेदः देश-लौल्यम् अविश्वासः बलवत्-विग्रहः वा परित्याग-स्थानम् इति आचार्याः ॥ ०७।६।३० ॥
kṛta-praṇāśaḥ śakti-hāniḥ vidyā-paṇya-tvam āśā-nirvedaḥ deśa-laulyam aviśvāsaḥ balavat-vigrahaḥ vā parityāga-sthānam iti ācāryāḥ .. 07.6.30 ..
भयं अवृत्तिरमर्ष इति कौटिल्यः ॥ ०७.६.३१ ॥
भयम् अवृत्तिः अमर्षः इति कौटिल्यः ॥ ०७।६।३१ ॥
bhayam avṛttiḥ amarṣaḥ iti kauṭilyaḥ .. 07.6.31 ..
इहापकारी त्याज्यः । पर-अपकारी संधेयः । उभय-अपकारी तर्कयितव्य इति समानं ॥ ०७.६.३२ ॥
इह अपकारी त्याज्यः । पर-अपकारी संधेयः । उभय-अपकारी तर्कयितव्यः इति समानम् ॥ ०७।६।३२ ॥
iha apakārī tyājyaḥ . para-apakārī saṃdheyaḥ . ubhaya-apakārī tarkayitavyaḥ iti samānam .. 07.6.32 ..
असंधेयेन त्ववश्यं संधातव्ये यतः प्रभावस्ततः प्रतिविदध्यात् ॥ ०७.६.३३ ॥
असंधेयेन तु अवश्यम् संधातव्ये यतस् प्रभावः ततस् प्रतिविदध्यात् ॥ ०७।६।३३ ॥
asaṃdheyena tu avaśyam saṃdhātavye yatas prabhāvaḥ tatas pratividadhyāt .. 07.6.33 ..
स-उपकारं व्यवहितं गुप्तं आयुः-क्षयादिति । ॥ ०७.६.३४अ ब ॥
स उपकारम् व्यवहितम् गुप्तम् आयुः-क्षयात् इति । ॥ ०७।६।३४अ ब ॥
sa upakāram vyavahitam guptam āyuḥ-kṣayāt iti . .. 07.6.34a ba ..
वासयेदरि-पक्षीयं अवशीर्ण-क्रिया-विधौ ॥ ०७.६.३४च्द् ॥
वासयेत् अरि-पक्षीयम् अवशीर्ण-क्रिया-विधौ ॥ ०७।६।३४च् ॥
vāsayet ari-pakṣīyam avaśīrṇa-kriyā-vidhau .. 07.6.34c ..
विक्रमयेद्भर्तरि वा सिद्धं वा दण्ड-चारिणं ॥ ०७.६.३५अ ब ॥
विक्रमयेत् भर्तरि वा सिद्धम् वा दण्ड-चारिणम् ॥ ०७।६।३५अ ब ॥
vikramayet bhartari vā siddham vā daṇḍa-cāriṇam .. 07.6.35a ba ..
कुर्यादमित्र-अटवीषु प्रत्यन्ते वाअन्यतः क्षिपेत् ॥ ०७.६.३५च्द् ॥
कुर्यात् अमित्र-अटवीषु प्रत्यन्ते वा अन्यतस् क्षिपेत् ॥ ०७।६।३५च् ॥
kuryāt amitra-aṭavīṣu pratyante vā anyatas kṣipet .. 07.6.35c ..
पण्यं कुर्यादसिद्धं वा सिद्धं वा तेन संवृतं ॥ ०७.६.३६अ ब ॥
पण्यम् कुर्यात् असिद्धम् वा सिद्धम् वा तेन संवृतम् ॥ ०७।६।३६अ ब ॥
paṇyam kuryāt asiddham vā siddham vā tena saṃvṛtam .. 07.6.36a ba ..
तस्यएव दोषेण-अदूष्य पर-संधेय-कारणात् ॥ ०७.६.३६च्द् ॥
तस्य एव दोषेण अ दूष्य पर-संधेय-कारणात् ॥ ०७।६।३६च् ॥
tasya eva doṣeṇa a dūṣya para-saṃdheya-kāraṇāt .. 07.6.36c ..
अथ वा शमयेदेनं आयत्य्-अर्थं उपांशुना ॥ ०७.६.३७अ ब ॥
अथ वा शमयेत् एनम् आयति-अर्थम् उपांशुना ॥ ०७।६।३७अ ब ॥
atha vā śamayet enam āyati-artham upāṃśunā .. 07.6.37a ba ..
आयत्यां च वध-प्रेप्सुं दृष्ट्वा हन्याद्गत-आगतं ॥ ०७.६.३७च्द् ॥
आयत्याम् च वध-प्रेप्सुम् दृष्ट्वा हन्यात् गत-आगतम् ॥ ०७।६।३७च् ॥
āyatyām ca vadha-prepsum dṛṣṭvā hanyāt gata-āgatam .. 07.6.37c ..
अरितोअभ्यागतो दोषः शत्रु-संवास-कारितः ॥ ०७.६.३८अ ब ॥
दोषः शत्रु-संवास-कारितः ॥ ०७।६।३८अ ब ॥
doṣaḥ śatru-saṃvāsa-kāritaḥ .. 07.6.38a ba ..
सर्प-संवास-धर्मित्वान्नित्य-उद्वेगेन दूषितः ॥ ०७.६.३८च्द् ॥
सर्प-संवास-धर्मि-त्वात् नित्य-उद्वेगेन दूषितः ॥ ०७।६।३८च् ॥
sarpa-saṃvāsa-dharmi-tvāt nitya-udvegena dūṣitaḥ .. 07.6.38c ..
जायते प्लक्ष-बीज-आशात्कपोतादिव शाल्मलेः ॥ ०७.६.३९अ ब ॥
जायते प्लक्ष-बीज-आशात् कपोतात् इव शाल्मलेः ॥ ०७।६।३९अ ब ॥
jāyate plakṣa-bīja-āśāt kapotāt iva śālmaleḥ .. 07.6.39a ba ..
उद्वेग-जननो नित्यं पश्चादपि भय-आवहः ॥ ०७.६.३९च्द् ॥
उद्वेग-जननः नित्यम् पश्चात् अपि भय-आवहः ॥ ०७।६।३९च् ॥
udvega-jananaḥ nityam paścāt api bhaya-āvahaḥ .. 07.6.39c ..
प्रकाश-युद्धं निर्दिष्टे देशे काले च विक्रमः ॥ ०७.६.४०अ ब ॥
प्रकाश-युद्धम् निर्दिष्टे देशे काले च विक्रमः ॥ ०७।६।४०अ ब ॥
prakāśa-yuddham nirdiṣṭe deśe kāle ca vikramaḥ .. 07.6.40a ba ..
विभीषणं अवस्कन्दः प्रमाद-व्यसन-अर्दनं ॥ ०७.६.४०च्द् ॥
विभीषणम् अवस्कन्दः प्रमाद-व्यसन-अर्दनम् ॥ ०७।६।४०च् ॥
vibhīṣaṇam avaskandaḥ pramāda-vyasana-ardanam .. 07.6.40c ..
एकत्र त्याग-घातौ च कूट-युद्धस्य मातृका ॥ ०७.६.४१अ ब ॥
एकत्र त्याग-घातौ च कूट-युद्धस्य मातृका ॥ ०७।६।४१अ ब ॥
ekatra tyāga-ghātau ca kūṭa-yuddhasya mātṛkā .. 07.6.41a ba ..
योग-गूढ-उपजाप-अर्थं तूष्णीं-युद्धस्य लक्षणं ॥ ०७.६.४१च्द् ॥
योग-गूढ-उपजाप-अर्थम् तूष्णीम् युद्धस्य लक्षणम् ॥ ०७।६।४१च् ॥
yoga-gūḍha-upajāpa-artham tūṣṇīm yuddhasya lakṣaṇam .. 07.6.41c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In