| |
|

This overlay will guide you through the buttons:

विजिगीषुर्द्वितीयां प्रकृतिं एवं उपगृह्णीयात् ॥ ०७.७.०१ ॥
विजिगीषुः द्वितीयाम् प्रकृतिम् एवम् उपगृह्णीयात् ॥ ०७।७।०१ ॥
vijigīṣuḥ dvitīyām prakṛtim evam upagṛhṇīyāt .. 07.7.01 ..
सामन्तं सामन्तेन सम्भूय यायात् । यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति । पार्ष्णि-ग्राहं वारयिष्यति । यातव्यं नाभिसरिष्यति । बल-द्वैगुण्यं मे भविष्यति । वीवध-आसारौ मे प्रवर्तयिष्यति । परस्य वारयिष्यति । बह्व्-आबाधे मे पथि कण्टकान्मर्दयिष्यति । दुर्ग-अटव्य्-अपसारेषु दण्डेन चरिष्यति । यातव्यं अविषह्ये दोषे संधौ वा स्थापयिष्यति । लब्ध-लाभ-अंशो वा शत्रूनन्यान्मे विश्वासयिष्यति" इति ॥ ०७.७.०२ ॥
सामन्तम् सामन्तेन सम्भूय यायात् । यदि वा मन्येत "पार्ष्णिम् मे न ग्रहीष्यति । पार्ष्णि-ग्राहम् वारयिष्यति । यातव्यम् न अभिसरिष्यति । बल-द्वैगुण्यम् मे भविष्यति । वीवध-आसारौ मे प्रवर्तयिष्यति । परस्य वारयिष्यति । बहु-आबाधे मे पथि कण्टकान् मर्दयिष्यति । दुर्ग-अटवी-अपसारेषु दण्डेन चरिष्यति । यातव्यम् अविषह्ये दोषे संधौ वा स्थापयिष्यति । लब्ध-लाभ-अंशः वा शत्रून् अन्यान् मे विश्वासयिष्यति" इति ॥ ०७।७।०२ ॥
sāmantam sāmantena sambhūya yāyāt . yadi vā manyeta "pārṣṇim me na grahīṣyati . pārṣṇi-grāham vārayiṣyati . yātavyam na abhisariṣyati . bala-dvaiguṇyam me bhaviṣyati . vīvadha-āsārau me pravartayiṣyati . parasya vārayiṣyati . bahu-ābādhe me pathi kaṇṭakān mardayiṣyati . durga-aṭavī-apasāreṣu daṇḍena cariṣyati . yātavyam aviṣahye doṣe saṃdhau vā sthāpayiṣyati . labdha-lābha-aṃśaḥ vā śatrūn anyān me viśvāsayiṣyati" iti .. 07.7.02 ..
द्वैधी-भूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानां अन्यतमाल्लिप्सेत ॥ ०७.७.०३ ॥
द्वैधीभूतः वा कोशेन दण्डम् दण्डेन कोशम् सामन्तानाम् अन्यतमान् लिप्सेत ॥ ०७।७।०३ ॥
dvaidhībhūtaḥ vā kośena daṇḍam daṇḍena kośam sāmantānām anyatamān lipseta .. 07.7.03 ..
तेषां ज्यायसोअधिकेनांशेन समात्समेन हीनाद्द्हीनेनैति सम-संधिः ॥ ०७.७.०४ ॥
तेषाम् ज्यायसः अधिकेन अंशेन समात् समेन हीनात् हीनेन एति सम-संधिः ॥ ०७।७।०४ ॥
teṣām jyāyasaḥ adhikena aṃśena samāt samena hīnāt hīnena eti sama-saṃdhiḥ .. 07.7.04 ..
विपर्यये विषम-संधिः ॥ ०७.७.०५ ॥
विपर्यये विषम-संधिः ॥ ०७।७।०५ ॥
viparyaye viṣama-saṃdhiḥ .. 07.7.05 ..
तयोर्विशेष-लाभादतिसंधिः ॥ ०७.७.०६ ॥
तयोः विशेष-लाभात् अतिसंधिः ॥ ०७।७।०६ ॥
tayoḥ viśeṣa-lābhāt atisaṃdhiḥ .. 07.7.06 ..
व्यसनिनं अपाय-स्थाने सक्तं अनर्थिनं वा ज्यायांसं हीनो बल-समेन लाभेन पणेत ॥ ०७.७.०७ ॥
व्यसनिनम् अपाय-स्थाने सक्तम् अनर्थिनम् वा ज्यायांसम् हीनः बल-समेन लाभेन पणेत ॥ ०७।७।०७ ॥
vyasaninam apāya-sthāne saktam anarthinam vā jyāyāṃsam hīnaḥ bala-samena lābhena paṇeta .. 07.7.07 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.०८ ॥
पणितः तस्य अपकार-समर्थः विक्रमेत । अन्यथा संदध्यात् ॥ ०७।७।०८ ॥
paṇitaḥ tasya apakāra-samarthaḥ vikrameta . anyathā saṃdadhyāt .. 07.7.08 ..
एवं-भूतो वा हीन-शक्ति-प्रताप-पूरण-अर्थं सम्भाव्य-अर्थ-अभिसारी मूल-पार्ष्णि-त्राण-अर्थं वा ज्यायांसं हीनो बल-समाद्विशिष्टेन लाभेन पणेत ॥ ०७.७.०९ ॥
एवंभूतः वा हीन-शक्ति-प्रताप-पूरण-अर्थम् सम्भाव्य-अर्थ-अभिसारी मूल-पार्ष्णि-त्राण-अर्थम् वा ज्यायांसम् हीनः बल-समात् विशिष्टेन लाभेन पणेत ॥ ०७।७।०९ ॥
evaṃbhūtaḥ vā hīna-śakti-pratāpa-pūraṇa-artham sambhāvya-artha-abhisārī mūla-pārṣṇi-trāṇa-artham vā jyāyāṃsam hīnaḥ bala-samāt viśiṣṭena lābhena paṇeta .. 07.7.09 ..
पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ॥ ०७.७.१० ॥
पणितः कल्याण-बुद्धिम् अनुगृह्णीयात् । अन्यथा विक्रमेत ॥ ०७।७।१० ॥
paṇitaḥ kalyāṇa-buddhim anugṛhṇīyāt . anyathā vikrameta .. 07.7.10 ..
जात-व्यसन-प्रकृति-रन्ध्रं उपस्थित-अनर्थं वा ज्यायांसं हीनो दुर्ग-मित्र-प्रतिष्टब्धो वा ह्रस्वं अध्वानं यातु-कामः शत्रुं अयुद्धं एक-अन्त-सिद्धिं वा लाभं आदातु-कामो बल-समाद्द्हीनेन लाभेन पणेत ॥ ०७.७.११ ॥
जात-व्यसन-प्रकृति-रन्ध्रम् उपस्थित-अनर्थम् वा ज्यायांसम् हीनः दुर्ग-मित्र-प्रतिष्टब्धः वा ह्रस्वम् अध्वानम् यातु-कामः शत्रुम् अयुद्धम् एक-अन्त-सिद्धिम् वा लाभम् आदातु-कामः बल-समात् हीनेन लाभेन पणेत ॥ ०७।७।११ ॥
jāta-vyasana-prakṛti-randhram upasthita-anartham vā jyāyāṃsam hīnaḥ durga-mitra-pratiṣṭabdhaḥ vā hrasvam adhvānam yātu-kāmaḥ śatrum ayuddham eka-anta-siddhim vā lābham ādātu-kāmaḥ bala-samāt hīnena lābhena paṇeta .. 07.7.11 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.१२ ॥
पणितः तस्य अपकार-समर्थः विक्रमेत । अन्यथा संदध्यात् ॥ ०७।७।१२ ॥
paṇitaḥ tasya apakāra-samarthaḥ vikrameta . anyathā saṃdadhyāt .. 07.7.12 ..
अरन्ध्र-व्यसनो वा ज्यायान्दुर्-आरब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामो दूष्य-दण्डं प्रवासयितु-कामो दूष्य-दण्डं आवाहयितु-कामो वा पीडनीयं उच्छेदनीयं वा हीनेन व्यथयितु-कामः संधि-प्रधानो वा कल्याण-बुद्धिर्हीनं लाभं प्रतिगृह्णीयात् ॥ ०७.७.१३ ॥
अरन्ध्र-व्यसनः वा ज्यायान् दुर्-आरब्ध-कर्माणम् भूयस् क्षय-व्ययाभ्याम् योक्तु-कामः दूष्य-दण्डम् प्रवासयितु-कामः दूष्य-दण्डम् आवाहयितु-कामः वा पीडनीयम् उच्छेदनीयम् वा हीनेन व्यथयितु-कामः संधि-प्रधानः वा कल्याण-बुद्धिः हीनम् लाभम् प्रतिगृह्णीयात् ॥ ०७।७।१३ ॥
arandhra-vyasanaḥ vā jyāyān dur-ārabdha-karmāṇam bhūyas kṣaya-vyayābhyām yoktu-kāmaḥ dūṣya-daṇḍam pravāsayitu-kāmaḥ dūṣya-daṇḍam āvāhayitu-kāmaḥ vā pīḍanīyam ucchedanīyam vā hīnena vyathayitu-kāmaḥ saṃdhi-pradhānaḥ vā kalyāṇa-buddhiḥ hīnam lābham pratigṛhṇīyāt .. 07.7.13 ..
कल्याण-बुद्धिना सम्भूयार्थं लिप्सेत । अन्यथा विक्रमेत ॥ ०७.७.१४ ॥
कल्याण-बुद्धिना सम्भूय अर्थम् लिप्सेत । अन्यथा विक्रमेत ॥ ०७।७।१४ ॥
kalyāṇa-buddhinā sambhūya artham lipseta . anyathā vikrameta .. 07.7.14 ..
एवं समः समं अतिसंदध्यादनुगृह्णीयाद्वा ॥ ०७.७.१५ ॥
एवम् समः समम् अतिसंदध्यात् अनुगृह्णीयात् वा ॥ ०७।७।१५ ॥
evam samaḥ samam atisaṃdadhyāt anugṛhṇīyāt vā .. 07.7.15 ..
पर-अनीकस्य प्रत्यनीकं मित्र-अटवीनां वा । शत्रोर्विभूमीनां देशिकं मूल-पार्ष्णि-त्राण-अर्थं वा समो बल-समेन लाभेन पणेत ॥ ०७.७.१६ ॥
पर-अनीकस्य प्रत्यनीकम् मित्र-अटवीनाम् वा । शत्रोः विभूमीनाम् देशिकम् मूल-पार्ष्णि-त्राण-अर्थम् वा समः बल-समेन लाभेन पणेत ॥ ०७।७।१६ ॥
para-anīkasya pratyanīkam mitra-aṭavīnām vā . śatroḥ vibhūmīnām deśikam mūla-pārṣṇi-trāṇa-artham vā samaḥ bala-samena lābhena paṇeta .. 07.7.16 ..
पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ॥ ०७.७.१७ ॥
पणितः कल्याण-बुद्धिम् अनुगृह्णीयात् । अन्यथा विक्रमेत ॥ ०७।७।१७ ॥
paṇitaḥ kalyāṇa-buddhim anugṛhṇīyāt . anyathā vikrameta .. 07.7.17 ..
जात-व्यसन-प्रकृति-रन्ध्रं अनेक-विरुद्धं अन्यतो लभमानो वा समो बल-समाद्द्हीनेन लाभेन पणेत ॥ ०७.७.१८ ॥
जात-व्यसन-प्रकृति-रन्ध्रम् अनेक-विरुद्धम् अन्यतस् लभमानः वा समः बल-समात् हीनेन लाभेन पणेत ॥ ०७।७।१८ ॥
jāta-vyasana-prakṛti-randhram aneka-viruddham anyatas labhamānaḥ vā samaḥ bala-samāt hīnena lābhena paṇeta .. 07.7.18 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.१९ ॥
पणितः तस्य अपकार-समर्थः विक्रमेत । अन्यथा संदध्यात् ॥ ०७।७।१९ ॥
paṇitaḥ tasya apakāra-samarthaḥ vikrameta . anyathā saṃdadhyāt .. 07.7.19 ..
एवं-भूतो वा समः सामन्त-आयत्त-कार्यः कर्तव्य-बलो वा बल-समाद्विशिष्टेन लाभेन पणेत ॥ ०७.७.२० ॥
एवंभूतः वा समः सामन्त-आयत्त-कार्यः कर्तव्य-बलः वा बल-समात् विशिष्टेन लाभेन पणेत ॥ ०७।७।२० ॥
evaṃbhūtaḥ vā samaḥ sāmanta-āyatta-kāryaḥ kartavya-balaḥ vā bala-samāt viśiṣṭena lābhena paṇeta .. 07.7.20 ..
पणितः कल्याण-बुद्धिं अनुगृह्णीयातन्यथा विक्रमेत ॥ ०७.७.२१ ॥
पणितः कल्याण-बुद्धिम् अनुगृह्णीयात् अतन्यथा विक्रमेत ॥ ०७।७।२१ ॥
paṇitaḥ kalyāṇa-buddhim anugṛhṇīyāt atanyathā vikrameta .. 07.7.21 ..
जात-व्यसन-प्रकृति-रन्ध्रं अभिहन्तु-कामः स्व्-आरब्धं एक-अन्त-सिद्धिं वाअस्य कर्म-उपहन्तु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्याद्-भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ॥ ०७.७.२२ ॥
जात-व्यसन-प्रकृति-रन्ध्रम् अभिहन्तु-कामः सु आरब्धम् एक-अन्त-सिद्धिम् वाअस्य-कर्म-उपहन्तु-कामः मूले यात्रायाम् वा प्रहर्तु-कामः यातव्यात् भूयः लभमानः वा ज्यायांसम् हीनम् समम् वा भूयः याचेत ॥ ०७।७।२२ ॥
jāta-vyasana-prakṛti-randhram abhihantu-kāmaḥ su ārabdham eka-anta-siddhim vāasya-karma-upahantu-kāmaḥ mūle yātrāyām vā prahartu-kāmaḥ yātavyāt bhūyaḥ labhamānaḥ vā jyāyāṃsam hīnam samam vā bhūyaḥ yāceta .. 07.7.22 ..
भूयो वा याचितः स्व-बल-रक्षा-अर्थं दुर्धर्षं अन्य-दुर्गं आसारं अटवीं वा पर-दण्डेन मर्दितु-कामः प्रकृष्टेअध्वनि काले वा पर-दण्डं क्षय-व्ययाभ्यां योक्तु-कामः पर-दण्डेन वा विवृद्धस्तं एवौच्छेत्तु-कामः पर-दण्डं आदातु-कामो वा भूयो दद्यात् ॥ ०७.७.२३ ॥
भूयस् वा याचितः स्व-बल-रक्षा-अर्थम् दुर्धर्षम् अन्य-दुर्गम् आसारम् अटवीम् वा पर-दण्डेन मर्दितु-कामः प्रकृष्टेअध्वनि काले वा पर-दण्डम् क्षय-व्ययाभ्याम् योक्तु-कामः पर-दण्डेन वा विवृद्धः तम् एव औच्छेत्तु-कामः पर-दण्डम् आदातु-कामः वा भूयस् दद्यात् ॥ ०७।७।२३ ॥
bhūyas vā yācitaḥ sva-bala-rakṣā-artham durdharṣam anya-durgam āsāram aṭavīm vā para-daṇḍena marditu-kāmaḥ prakṛṣṭeadhvani kāle vā para-daṇḍam kṣaya-vyayābhyām yoktu-kāmaḥ para-daṇḍena vā vivṛddhaḥ tam eva aucchettu-kāmaḥ para-daṇḍam ādātu-kāmaḥ vā bhūyas dadyāt .. 07.7.23 ..
ज्यायान्वा हीनं यातव्य-अपदेशेन हस्ते कर्तु-कामः परं उच्छिद्य वा तं एवौच्छेत्तु-कामः । त्यागं वा कृत्वा प्रत्यादातु-कामो बल-समाद्विशिष्टेन लाभेन पणेत ॥ ०७.७.२४ ॥
ज्यायान् वा हीनम् यातव्य-अपदेशेन हस्ते कर्तु-कामः परम् उच्छिद्य वा तम् एव औच्छेत्तु-कामः । त्यागम् वा कृत्वा प्रत्यादातु-कामः बल-समात् विशिष्टेन लाभेन पणेत ॥ ०७।७।२४ ॥
jyāyān vā hīnam yātavya-apadeśena haste kartu-kāmaḥ param ucchidya vā tam eva aucchettu-kāmaḥ . tyāgam vā kṛtvā pratyādātu-kāmaḥ bala-samāt viśiṣṭena lābhena paṇeta .. 07.7.24 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.२५ ॥
पणितः तस्य अपकार-समर्थः विक्रमेत । अन्यथा संदध्यात् ॥ ०७।७।२५ ॥
paṇitaḥ tasya apakāra-samarthaḥ vikrameta . anyathā saṃdadhyāt .. 07.7.25 ..
यातव्य-संहितो वा तिष्ठेत् । दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ॥ ०७.७.२६ ॥
यातव्य-संहितः वा तिष्ठेत् । दूष्य-अमित्र-अटवी-दण्डम् वा अस्मै दद्यात् ॥ ०७।७।२६ ॥
yātavya-saṃhitaḥ vā tiṣṭhet . dūṣya-amitra-aṭavī-daṇḍam vā asmai dadyāt .. 07.7.26 ..
जात-व्यसन-प्रकृति-रन्ध्रो वा ज्यायान्हीनं बल-समेन लाभेन पणेत ॥ ०७.७.२७ ॥
जात-व्यसन-प्रकृति-रन्ध्रः वा ज्यायान् हीनम् बल-समेन लाभेन पणेत ॥ ०७।७।२७ ॥
jāta-vyasana-prakṛti-randhraḥ vā jyāyān hīnam bala-samena lābhena paṇeta .. 07.7.27 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.२८ ॥
पणितः तस्य अपकार-समर्थः विक्रमेत । अन्यथा संदध्यात् ॥ ०७।७।२८ ॥
paṇitaḥ tasya apakāra-samarthaḥ vikrameta . anyathā saṃdadhyāt .. 07.7.28 ..
एवं-भूतं हीनं ज्यायान्बल-समाद्द्हीनेन लाभेन पणेत ॥ ०७.७.२९ ॥
एवंभूतम् हीनम् ज्यायान् बल-समात् हीनेन लाभेन पणेत ॥ ०७।७।२९ ॥
evaṃbhūtam hīnam jyāyān bala-samāt hīnena lābhena paṇeta .. 07.7.29 ..
पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ॥ ०७.७.३० ॥
पणितः तस्य अपकार-समर्थः विक्रमेत । अन्यथा संदध्यात् ॥ ०७।७।३० ॥
paṇitaḥ tasya apakāra-samarthaḥ vikrameta . anyathā saṃdadhyāt .. 07.7.30 ..
आदौ बुध्येत पणितः पणमानश्च कारणं ॥ ०७.७.३१अ ब ॥
आदौ बुध्येत पणितः पणमानः च कारणम् ॥ ०७।७।३१अ ब ॥
ādau budhyeta paṇitaḥ paṇamānaḥ ca kāraṇam .. 07.7.31a ba ..
ततो वितर्क्य-उभयतो यतः श्रेयश्ततो व्रजेत् ॥ ०७.७.३१च्द् ॥
ततस् वितर्क्य उभयतस् यतस् श्रेयः ततस् व्रजेत् ॥ ०७।७।३१च् ॥
tatas vitarkya ubhayatas yatas śreyaḥ tatas vrajet .. 07.7.31c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In