| |
|

This overlay will guide you through the buttons:

यातव्योअभियास्यमानः संधि-कारणं आदातु-कामो विहन्तु-कामो वा सामवायिकानां अन्यतमं लाभ-द्वैगुण्येन पणेत ॥ ०७.८.०१ ॥
यातव्यः अभियास्यमानः संधि-कारणम् आदातु-कामः विहन्तु-कामः वा सामवायिकानाम् अन्यतमम् लाभ-द्वैगुण्येन पणेत ॥ ०७।८।०१ ॥
yātavyaḥ abhiyāsyamānaḥ saṃdhi-kāraṇam ādātu-kāmaḥ vihantu-kāmaḥ vā sāmavāyikānām anyatamam lābha-dvaiguṇyena paṇeta .. 07.8.01 ..
पणमानः क्षय-व्यय-प्रवास-प्रत्यवाय-पर-उपकार-शरीर-आबाधांश्चास्य वर्णयेत् ॥ ०७.८.०२ ॥
पणमानः क्षय-व्यय-प्रवास-प्रत्यवाय-पर-उपकार-शरीर-आबाधान् च अस्य वर्णयेत् ॥ ०७।८।०२ ॥
paṇamānaḥ kṣaya-vyaya-pravāsa-pratyavāya-para-upakāra-śarīra-ābādhān ca asya varṇayet .. 07.8.02 ..
प्रतिपन्नं अर्थेन योजयेत् ॥ ०७.८.०३ ॥
प्रतिपन्नम् अर्थेन योजयेत् ॥ ०७।८।०३ ॥
pratipannam arthena yojayet .. 07.8.03 ..
वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ॥ ०७.८.०४ ॥
वैरम् वा परैः ग्राहयित्वा विसंवादयेत् ॥ ०७।८।०४ ॥
vairam vā paraiḥ grāhayitvā visaṃvādayet .. 07.8.04 ..
दुरारब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामः स्व्-आरब्धां वा यात्रा-सिद्धिं विघातयितु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्य-संहितः पुनर्याचितु-कामः प्रत्युत्पन्न-अर्थ-कृच्छ्रस्तस्मिन्नविश्वस्तो वा तदात्वे लाभं अल्पं इच्छेत् । आयत्यां प्रभूतं ॥ ०७.८.०५ ॥
दुरारब्ध-कर्माणम् भूयस् क्षय-व्ययाभ्याम् योक्तु-कामः सु आरब्धाम् वा यात्रा-सिद्धिम् विघातयितु-कामः मूले यात्रायाम् वा प्रहर्तु-कामः यातव्य-संहितः पुनर्याचितु-कामः प्रत्युत्पन्न-अर्थ-कृच्छ्रः तस्मिन् अविश्वस्तः वा तदात्वे लाभम् अल्पम् इच्छेत् । आयत्याम् प्रभूतम् ॥ ०७।८।०५ ॥
durārabdha-karmāṇam bhūyas kṣaya-vyayābhyām yoktu-kāmaḥ su ārabdhām vā yātrā-siddhim vighātayitu-kāmaḥ mūle yātrāyām vā prahartu-kāmaḥ yātavya-saṃhitaḥ punaryācitu-kāmaḥ pratyutpanna-artha-kṛcchraḥ tasmin aviśvastaḥ vā tadātve lābham alpam icchet . āyatyām prabhūtam .. 07.8.05 ..
मित्र-उपकारं अमित्र-उपघातं अर्थ-अनुबन्धं अवेक्षमाणः पूर्व-उपकारकं कारयितु-कामो भूयस्तदात्वे महान्तं लाभं उत्सृज्यऽयत्यां अल्पं इच्छेत् ॥ ०७.८.०६ ॥
मित्र-उपकारम् अमित्र-उपघातम् अर्थ-अनुबन्धम् अवेक्षमाणः पूर्व-उपकारकम् कारयितु-कामः भूयस् तदात्वे महान्तम् लाभम् उत्सृज्य अयत्याम् अल्पम् इच्छेत् ॥ ०७।८।०६ ॥
mitra-upakāram amitra-upaghātam artha-anubandham avekṣamāṇaḥ pūrva-upakārakam kārayitu-kāmaḥ bhūyas tadātve mahāntam lābham utsṛjya ayatyām alpam icchet .. 07.8.06 ..
दूष्य-अमित्राभ्यां मूल-हरेण वा ज्यायसा विगृहीतं त्रातु-कामस्तथा-विधं उपकारं कारयितु-कामः सम्बन्ध-अवेक्षी वा तदात्वे चऽयत्यां च लाभं न प्रतिगृह्णीयात् ॥ ०७.८.०७ ॥
दूष्य-अमित्राभ्याम् मूल-हरेण वा ज्यायसा विगृहीतम् त्रातु-कामः तथाविधम् उपकारम् कारयितु-कामः सम्बन्ध-अवेक्षी वा तदात्वे च अयत्याम् च लाभम् न प्रतिगृह्णीयात् ॥ ०७।८।०७ ॥
dūṣya-amitrābhyām mūla-hareṇa vā jyāyasā vigṛhītam trātu-kāmaḥ tathāvidham upakāram kārayitu-kāmaḥ sambandha-avekṣī vā tadātve ca ayatyām ca lābham na pratigṛhṇīyāt .. 07.8.07 ..
कृत-संधिरतिक्रमितु-कामः परस्य प्रकृति-कर्शनं मित्र-अमित्र-संधि-विश्लेषणं वा कर्तु-कामः पर-अभियोगात्शङ्कमानो लाभं अप्राप्तं अधिकं वा याचेत ॥ ०७.८.०८ ॥
कृत-संधिः अतिक्रमितु-कामः परस्य प्रकृति-कर्शनम् मित्र-अमित्र-संधि-विश्लेषणम् वा कर्तु-कामः पर-अभियोगात् शङ्कमानः लाभम् अप्राप्तम् अधिकम् वा याचेत ॥ ०७।८।०८ ॥
kṛta-saṃdhiḥ atikramitu-kāmaḥ parasya prakṛti-karśanam mitra-amitra-saṃdhi-viśleṣaṇam vā kartu-kāmaḥ para-abhiyogāt śaṅkamānaḥ lābham aprāptam adhikam vā yāceta .. 07.8.08 ..
तं इतरस्तदात्वे चऽयत्यां च क्रमं अवेक्षेत ॥ ०७.८.०९ ॥
तम् इतरः तदात्वे च अयत्याम् च क्रमम् अवेक्षेत ॥ ०७।८।०९ ॥
tam itaraḥ tadātve ca ayatyām ca kramam avekṣeta .. 07.8.09 ..
तेन पूर्वे व्याख्याताः ॥ ०७.८.१० ॥
तेन पूर्वे व्याख्याताः ॥ ०७।८।१० ॥
tena pūrve vyākhyātāḥ .. 07.8.10 ..
अरि-विजिगीष्वोस्तु स्वं स्वं मित्रं अनुगृह्णतोः शक्य-कल्य-भव्य-आरम्भि-स्थिर-कर्म-अनुरक्त-प्रकृतिभ्यो विशेषः ॥ ०७.८.११ ॥
अरि-विजिगीष्वोः तु स्वम् स्वम् मित्रम् अनुगृह्णतोः शक्य-कल्य-भव्य-आरम्भि-स्थिर-कर्म-अनुरक्त-प्रकृतिभ्यः विशेषः ॥ ०७।८।११ ॥
ari-vijigīṣvoḥ tu svam svam mitram anugṛhṇatoḥ śakya-kalya-bhavya-ārambhi-sthira-karma-anurakta-prakṛtibhyaḥ viśeṣaḥ .. 07.8.11 ..
शक्य-आरम्भी विषह्यं कर्मऽरभते । कल्य-आरम्भी निर्दोषम् । भव्य-आरम्भी कल्याण-उदयं ॥ ०७.८.१२ ॥
शक्य-आरम्भी विषह्यम् कर्म आरभते । कल्य-आरम्भी निर्दोषम् । भव्य-आरम्भी कल्याण-उदयम् ॥ ०७।८।१२ ॥
śakya-ārambhī viṣahyam karma ārabhate . kalya-ārambhī nirdoṣam . bhavya-ārambhī kalyāṇa-udayam .. 07.8.12 ..
स्थिर-कर्मा नासमाप्य कर्मौपरमते ॥ ०७.८.१३ ॥
स्थिर-कर्मा न अ समाप्य कर्म उपरमते ॥ ०७।८।१३ ॥
sthira-karmā na a samāpya karma uparamate .. 07.8.13 ..
अनुरक्त-प्रकृतिः सुसहायत्वादल्पेनाप्यनुग्रहेण कार्यं साधयति ॥ ०७.८.१४ ॥
अनुरक्त-प्रकृतिः सु सहाय-त्वात् अल्पेन अपि अनुग्रहेण कार्यम् साधयति ॥ ०७।८।१४ ॥
anurakta-prakṛtiḥ su sahāya-tvāt alpena api anugraheṇa kāryam sādhayati .. 07.8.14 ..
त एते कृत-अर्थाः सुखेन प्रभूतं चौपकुर्वन्ति ॥ ०७.८.१५ ॥
ते एते कृत-अर्थाः सुखेन प्रभूतम् च औपकुर्वन्ति ॥ ०७।८।१५ ॥
te ete kṛta-arthāḥ sukhena prabhūtam ca aupakurvanti .. 07.8.15 ..
अतः प्रतिलोमा नानुग्राह्याः ॥ ०७.८.१६ ॥
अतस् प्रतिलोमाः न अनुग्राह्याः ॥ ०७।८।१६ ॥
atas pratilomāḥ na anugrāhyāḥ .. 07.8.16 ..
तयोरेक-पुरुष-अनुग्रहे यो मित्रं मित्र-तरं वाअनुगृह्णाति सोअतिसंधत्ते ॥ ०७.८.१७ ॥
तयोः एक-पुरुष-अनुग्रहे यः मित्रम् मित्रतरम् वा अनुगृह्णाति सः अतिसंधत्ते ॥ ०७।८।१७ ॥
tayoḥ eka-puruṣa-anugrahe yaḥ mitram mitrataram vā anugṛhṇāti saḥ atisaṃdhatte .. 07.8.17 ..
मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ॥ ०७.८.१८ ॥
मित्रात् आत्म-वृद्धिम् हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकार-अनितरः ॥ ०७।८।१८ ॥
mitrāt ātma-vṛddhim hi prāpnoti . kṣaya-vyaya-pravāsa-para-upakāra-anitaraḥ .. 07.8.18 ..
कृत-अर्थश्च शत्रुर्वैगुण्यं एति ॥ ०७.८.१९ ॥
कृत-अर्थः च शत्रुः वैगुण्यम् एति ॥ ०७।८।१९ ॥
kṛta-arthaḥ ca śatruḥ vaiguṇyam eti .. 07.8.19 ..
मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाअनुगृह्णाति सोअतिसंधत्ते ॥ ०७.८.२० ॥
मध्यमम् तु अनुगृह्णतोः यः मध्यमम् मित्रम् मित्रतरम् वा अनुगृह्णाति सः अतिसंधत्ते ॥ ०७।८।२० ॥
madhyamam tu anugṛhṇatoḥ yaḥ madhyamam mitram mitrataram vā anugṛhṇāti saḥ atisaṃdhatte .. 07.8.20 ..
मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ॥ ०७.८.२१ ॥
मित्रात् आत्म-वृद्धिम् हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकार-अनितरः ॥ ०७।८।२१ ॥
mitrāt ātma-vṛddhim hi prāpnoti . kṣaya-vyaya-pravāsa-para-upakāra-anitaraḥ .. 07.8.21 ..
मध्यमश्चेदनुगृहीतो विगुणः स्यादमित्रोअतिसंधत्ते ॥ ०७.८.२२ ॥
मध्यमः चेद् अनुगृहीतः विगुणः स्यात् अमित्रः अतिसंधत्ते ॥ ०७।८।२२ ॥
madhyamaḥ ced anugṛhītaḥ viguṇaḥ syāt amitraḥ atisaṃdhatte .. 07.8.22 ..
कृत-प्रयासं हि मध्यम-अमित्रं अपसृतं एक-अर्थ-उपगतं प्राप्नोति ॥ ०७.८.२३ ॥
कृत-प्रयासम् हि मध्यम-अमित्रम् अपसृतम् एक-अर्थ-उपगतम् प्राप्नोति ॥ ०७।८।२३ ॥
kṛta-prayāsam hi madhyama-amitram apasṛtam eka-artha-upagatam prāpnoti .. 07.8.23 ..
तेनौदासीन-अनुग्रहो व्याख्यातः ॥ ०७.८.२४ ॥
तेन औदासीन-अनुग्रहः व्याख्यातः ॥ ०७।८।२४ ॥
tena audāsīna-anugrahaḥ vyākhyātaḥ .. 07.8.24 ..
मध्यम-उदासीनयोर्बल-अंश-दाने यः शूरं कृत-अस्त्रं दुःख-सहं अनुरक्तं वा दण्डं ददाति सोअतिसंधीयते ॥ ०७.८.२५ ॥
मध्यम-उदासीनयोः बल-अंश-दाने यः शूरम् कृत-अस्त्रम् दुःख-सहम् अनुरक्तम् वा दण्डम् ददाति सः अतिसंधीयते ॥ ०७।८।२५ ॥
madhyama-udāsīnayoḥ bala-aṃśa-dāne yaḥ śūram kṛta-astram duḥkha-saham anuraktam vā daṇḍam dadāti saḥ atisaṃdhīyate .. 07.8.25 ..
विपरीतोअतिसंधत्ते ॥ ०७.८.२६ ॥
विपरीतः अतिसंधत्ते ॥ ०७।८।२६ ॥
viparītaḥ atisaṃdhatte .. 07.8.26 ..
यत्र तु दण्डः प्रहितस्तं वा चार्थं अन्यांश्च साधयति तत्र मौल-भृत-श्रेणी-मित्र-अटवी-बलानां अन्यतमं उपलब्ध-देश-कालं दण्डं दद्यात् । अमित्र-अटवी-बलं वा व्यवहित-देश-कालं ॥ ०७.८.२७ ॥
यत्र तु दण्डः प्रहितः तम् वा च अर्थम् अन्यान् च साधयति तत्र मौल-भृत-श्रेणी-मित्र-अटवी-बलानाम् अन्यतमम् उपलब्ध-देश-कालम् दण्डम् दद्यात् । अमित्र-अटवी-बलम् वा व्यवहित-देश-कालम् ॥ ०७।८।२७ ॥
yatra tu daṇḍaḥ prahitaḥ tam vā ca artham anyān ca sādhayati tatra maula-bhṛta-śreṇī-mitra-aṭavī-balānām anyatamam upalabdha-deśa-kālam daṇḍam dadyāt . amitra-aṭavī-balam vā vyavahita-deśa-kālam .. 07.8.27 ..
यं तु मन्येत "कृत-अर्थो मे दण्डं गृह्णीयाद् । अमित्र-अटव्य्-अभूम्य्-अनृतुषु वा वासयेद् । अफलं वा कुर्याद्" इति । दण्ड-व्यासङ्ग-अपदेशेन नएनं अनुगृह्णीयात् ॥ ०७.८.२८ ॥
यम् तु मन्येत "कृत-अर्थः मे दण्डम् गृह्णीयात् । अमित्र-अटवी-अभूमि-अन् ऋतुषु वा वासयेत् । अफलम् वा कुर्यात्" इति । दण्ड-व्यासङ्ग-अपदेशेन न एनम् अनुगृह्णीयात् ॥ ०७।८।२८ ॥
yam tu manyeta "kṛta-arthaḥ me daṇḍam gṛhṇīyāt . amitra-aṭavī-abhūmi-an ṛtuṣu vā vāsayet . aphalam vā kuryāt" iti . daṇḍa-vyāsaṅga-apadeśena na enam anugṛhṇīyāt .. 07.8.28 ..
एवं अवश्यं त्वनुग्रहीतव्ये तत्-काल-सहं अस्मै दण्डं दद्यात् ॥ ०७.८.२९ ॥
एवम् अवश्यम् तु अनुग्रहीतव्ये तद्-काल-सहम् अस्मै दण्डम् दद्यात् ॥ ०७।८।२९ ॥
evam avaśyam tu anugrahītavye tad-kāla-saham asmai daṇḍam dadyāt .. 07.8.29 ..
आ-समाप्तेश्चएनं वासयेद्योधयेच्च बल-व्यसनेभ्यश्च रक्षेत् ॥ ०७.८.३० ॥
आ समाप्तेः च एनम् वासयेत् योधयेत् च बल-व्यसनेभ्यः च रक्षेत् ॥ ०७।८।३० ॥
ā samāpteḥ ca enam vāsayet yodhayet ca bala-vyasanebhyaḥ ca rakṣet .. 07.8.30 ..
कृत-अर्थाच्च स-अपदेशं अपस्रावयेत् ॥ ०७.८.३१ ॥
कृत-अर्थात् च स अपदेशम् अपस्रावयेत् ॥ ०७।८।३१ ॥
kṛta-arthāt ca sa apadeśam apasrāvayet .. 07.8.31 ..
दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ॥ ०७.८.३२ ॥
दूष्य-अमित्र-अटवी-दण्डम् वा अस्मै दद्यात् ॥ ०७।८।३२ ॥
dūṣya-amitra-aṭavī-daṇḍam vā asmai dadyāt .. 07.8.32 ..
यातव्येन वा संधायएनं अतिसंदध्यात् ॥ ०७.८.३३ ॥
यातव्येन वा संधाय एनम् अतिसंदध्यात् ॥ ०७।८।३३ ॥
yātavyena vā saṃdhāya enam atisaṃdadhyāt .. 07.8.33 ..
समे हि लाभे संधिः स्याद्विषमे विक्रमो मतः ॥ ०७.८.३४अ ब ॥
समे हि लाभे संधिः स्यात् विषमे विक्रमः मतः ॥ ०७।८।३४अ ब ॥
same hi lābhe saṃdhiḥ syāt viṣame vikramaḥ mataḥ .. 07.8.34a ba ..
सम-हीन-विशिष्टानां इत्युक्ताः संधि-विक्रमाः ॥ ०७.८.३४च्द् ॥
सम-हीन-विशिष्टानाम् इति उक्ताः संधि-विक्रमाः ॥ ०७।८।३४च् ॥
sama-hīna-viśiṣṭānām iti uktāḥ saṃdhi-vikramāḥ .. 07.8.34c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In