| |
|

This overlay will guide you through the buttons:

संहित-प्रयाणे मित्र-हिरण्य-भूमि-लाभानां उत्तर-उत्तरो लाभः श्रेयान् ॥ ०७.९.०१ ॥
संहित-प्रयाणे मित्र-हिरण्य-भूमि-लाभानाम् उत्तर-उत्तरः लाभः श्रेयान् ॥ ०७।९।०१ ॥
saṃhita-prayāṇe mitra-hiraṇya-bhūmi-lābhānām uttara-uttaraḥ lābhaḥ śreyān .. 07.9.01 ..
मित्र-हिरण्ये हि भूमि-लाभाद्भवतः । मित्रं हिरण्य-लाभात् ॥ ०७.९.०२ ॥
मित्र-हिरण्ये हि भूमि-लाभात् भवतः । मित्रम् हिरण्य-लाभात् ॥ ०७।९।०२ ॥
mitra-hiraṇye hi bhūmi-lābhāt bhavataḥ . mitram hiraṇya-lābhāt .. 07.9.02 ..
यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति ॥ ०७.९.०३ ॥
यः वा लाभः सिद्धः शेषयोः अन्यतरम् साधयति ॥ ०७।९।०३ ॥
yaḥ vā lābhaḥ siddhaḥ śeṣayoḥ anyataram sādhayati .. 07.9.03 ..
त्वं चाहं च मित्रं लभावहे इत्येवं-आदिध्सम-संधिः ॥ ०७.९.०४ ॥
त्वम् च अहम् च मित्रम् लभावहे इति एवम् आदिध्सम-संधिः ॥ ०७।९।०४ ॥
tvam ca aham ca mitram labhāvahe iti evam ādidhsama-saṃdhiḥ .. 07.9.04 ..
त्वं मित्रम् इत्येवं-आदिर्विषम-संधिः ॥ ०७.९.०५ ॥
त्वम् मित्रम् इति एवम् आदिः विषम-संधिः ॥ ०७।९।०५ ॥
tvam mitram iti evam ādiḥ viṣama-saṃdhiḥ .. 07.9.05 ..
तयोर्विशेष-लाभादतिसंधिः ॥ ०७.९.०६ ॥
तयोः विशेष-लाभात् अतिसंधिः ॥ ०७।९।०६ ॥
tayoḥ viśeṣa-lābhāt atisaṃdhiḥ .. 07.9.06 ..
सम-संधौ तु यः सम्पन्नं मित्रं मित्र-कृच्छ्रे वा मित्रं अवाप्नोति सोअतिसंधत्ते ॥ ०७.९.०७ ॥
सम-संधौ तु यः सम्पन्नम् मित्रम् मित्र-कृच्छ्रे वा मित्रम् अवाप्नोति सः अतिसंधत्ते ॥ ०७।९।०७ ॥
sama-saṃdhau tu yaḥ sampannam mitram mitra-kṛcchre vā mitram avāpnoti saḥ atisaṃdhatte .. 07.9.07 ..
आपद्द्हि सौहृद-स्थैर्यं उत्पादयति ॥ ०७.९.०८ ॥
आपद् हि सौहृद-स्थैर्यम् उत्पादयति ॥ ०७।९।०८ ॥
āpad hi sauhṛda-sthairyam utpādayati .. 07.9.08 ..
मित्र-कृच्छ्रेअपि नित्यं अवश्यं अनित्यं वश्यं वाइति "नित्यं अवश्यं श्रेयः । तद्द्हि अनुपकुर्वदपि नापकरोति" इत्याचार्याः ॥ ०७.९.०९ ॥
मित्र-कृच्छ्रे अपि नित्यम् अवश्यम् अनित्यम् वश्यम् वा इति "नित्यम् अवश्यम् श्रेयः । तत् हि अन् उपकुर्वत् अपि न अपकरोति" इति आचार्याः ॥ ०७।९।०९ ॥
mitra-kṛcchre api nityam avaśyam anityam vaśyam vā iti "nityam avaśyam śreyaḥ . tat hi an upakurvat api na apakaroti" iti ācāryāḥ .. 07.9.09 ..
नैति कौटिल्यः ॥ ०७.९.१० ॥
न एति कौटिल्यः ॥ ०७।९।१० ॥
na eti kauṭilyaḥ .. 07.9.10 ..
वश्यं अनित्यं श्रेयः ॥ ०७.९.११ ॥
वश्यम् अनित्यम् श्रेयः ॥ ०७।९।११ ॥
vaśyam anityam śreyaḥ .. 07.9.11 ..
यावदुपकरोति तावन्मित्रं भवति । उपकार-लक्षणं मित्रं इति ॥ ०७.९.१२ ॥
यावत् उपकरोति तावत् मित्रम् भवति । उपकार-लक्षणम् मित्रम् इति ॥ ०७।९।१२ ॥
yāvat upakaroti tāvat mitram bhavati . upakāra-lakṣaṇam mitram iti .. 07.9.12 ..
वश्ययोरपि महा-भोगं अनित्यं अल्प-भोगं वा नित्यं इति महा-भोगं अनित्यं श्रेयः । महा-भोगं अनित्यं अल्प-कालेन महद्-उपकुर्वन्महान्ति व्यय-स्थानानि प्रतिकरोति" इत्याचार्याः ॥ ०७.९.१३ ॥
वश्ययोः अपि महा-भोगम् अनित्यम् अल्प-भोगम् वा नित्यम् इति महा-भोगम् अनित्यम् श्रेयः । महा-भोगम् अनित्यम् अल्प-कालेन महत् उपकुर्वन् महान्ति व्यय-स्थानानि प्रतिकरोति" इति आचार्याः ॥ ०७।९।१३ ॥
vaśyayoḥ api mahā-bhogam anityam alpa-bhogam vā nityam iti mahā-bhogam anityam śreyaḥ . mahā-bhogam anityam alpa-kālena mahat upakurvan mahānti vyaya-sthānāni pratikaroti" iti ācāryāḥ .. 07.9.13 ..
नैति कौटिल्यः ॥ ०७.९.१४ ॥
न एति कौटिल्यः ॥ ०७।९।१४ ॥
na eti kauṭilyaḥ .. 07.9.14 ..
नित्यं अल्प-भोगं श्रेयः ॥ ०७.९.१५ ॥
नित्यम् अल्प-भोगम् श्रेयः ॥ ०७।९।१५ ॥
nityam alpa-bhogam śreyaḥ .. 07.9.15 ..
महा-भोगं अनित्यं उपकार-भयादपक्रामति । उपकृत्य वा प्रत्यादातुं ईहते ॥ ०७.९.१६ ॥
महा-भोगम् अनित्यम् उपकार-भयात् अपक्रामति । उपकृत्य वा प्रत्यादातुम् ईहते ॥ ०७।९।१६ ॥
mahā-bhogam anityam upakāra-bhayāt apakrāmati . upakṛtya vā pratyādātum īhate .. 07.9.16 ..
नित्यं अल्प-भोगं सातत्यादल्पं उपकुर्वन्महता कालेन महदुपकरोति ॥ ०७.९.१७ ॥
नित्यम् अल्प-भोगम् सातत्यात् अल्पम् उपकुर्वन् महता कालेन महत् उपकरोति ॥ ०७।९।१७ ॥
nityam alpa-bhogam sātatyāt alpam upakurvan mahatā kālena mahat upakaroti .. 07.9.17 ..
गुरु-समुत्थं महन्मित्रं लघु-समुत्थं अल्पं वाइति "गुरु-समुत्थं महन्मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ॥ ०७.९.१८ ॥
गुरु-समुत्थम् महत्-मित्रम् लघु-समुत्थम् अल्पम् "गुरु-समुत्थम् महत् मित्रम् प्रताप-करम् भवति । यदा च उत्तिष्ठते तदा कार्यम् साधयति" इति आचार्याः ॥ ०७।९।१८ ॥
guru-samuttham mahat-mitram laghu-samuttham alpam "guru-samuttham mahat mitram pratāpa-karam bhavati . yadā ca uttiṣṭhate tadā kāryam sādhayati" iti ācāryāḥ .. 07.9.18 ..
नैति कौटिल्यः ॥ ०७.९.१९ ॥
न एति कौटिल्यः ॥ ०७।९।१९ ॥
na eti kauṭilyaḥ .. 07.9.19 ..
लघु-समुत्थं अल्पं श्रेयः ॥ ०७.९.२० ॥
लघु-समुत्थम् अल्पम् श्रेयः ॥ ०७।९।२० ॥
laghu-samuttham alpam śreyaḥ .. 07.9.20 ..
लगु-समुत्थं अल्पं मित्रं कार्य-कालं नातिपातयति दौर्बल्याच्च यथा-इष्ट-भोग्यं भवति । नैतरत्प्रकृष्ट-भौमं ॥ ०७.९.२१ ॥
लगु-समुत्थम् अल्पम् मित्रम् कार्य-कालम् न अतिपातयति दौर्बल्यात् च यथा इष्ट-भोग्यम् भवति । न एतरत् प्रकृष्ट-भौमम् ॥ ०७।९।२१ ॥
lagu-samuttham alpam mitram kārya-kālam na atipātayati daurbalyāt ca yathā iṣṭa-bhogyam bhavati . na etarat prakṛṣṭa-bhaumam .. 07.9.21 ..
विक्षिप्त-सैन्यं अवश्य-सैन्यं वाइति "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्याचार्याः ॥ ०७.९.२२ ॥
विक्षिप्त-सैन्यम् अवश्य-सैन्यम् वा ऐति "विक्षिप्तम् सैन्यम् शक्यम् प्रतिसंहर्तुम् वश्य-त्वात्" इति आचार्याः ॥ ०७।९।२२ ॥
vikṣipta-sainyam avaśya-sainyam vā aiti "vikṣiptam sainyam śakyam pratisaṃhartum vaśya-tvāt" iti ācāryāḥ .. 07.9.22 ..
नैति कौटिल्यः ॥ ०७.९.२३ ॥
न एति कौटिल्यः ॥ ०७।९।२३ ॥
na eti kauṭilyaḥ .. 07.9.23 ..
अवश्य-सैन्यं श्रेयः ॥ ०७.९.२४ ॥
अवश्य-सैन्यम् श्रेयः ॥ ०७।९।२४ ॥
avaśya-sainyam śreyaḥ .. 07.9.24 ..
अवश्यं हि शक्यं साम-आदिभिर्वश्यं कर्तुम् । नैतरत्कार्य-व्यासक्तं प्रतिसंहर्तुं ॥ ०७.९.२५ ॥
अवश्यम् हि शक्यम् साम-आदिभिः वश्यम् कर्तुम् । न एतरत् कार्य-व्यासक्तम् प्रतिसंहर्तुम् ॥ ०७।९।२५ ॥
avaśyam hi śakyam sāma-ādibhiḥ vaśyam kartum . na etarat kārya-vyāsaktam pratisaṃhartum .. 07.9.25 ..
पुरुष-भोगं हिरण्य-भोगं वा मित्रं इति "पुरुष-भोगं मित्रं श्रेयः । प्रुष-भोगं मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ॥ ०७.९.२६ ॥
पुरुष-भोगम् हिरण्य-भोगम् वा मित्रम् इति "पुरुष-भोगम् मित्रम् श्रेयः । प्रुष-भोगम् मित्रम् प्रताप-करम् भवति । यदा च उत्तिष्ठते तदा कार्यम् साधयति" इति आचार्याः ॥ ०७।९।२६ ॥
puruṣa-bhogam hiraṇya-bhogam vā mitram iti "puruṣa-bhogam mitram śreyaḥ . pruṣa-bhogam mitram pratāpa-karam bhavati . yadā ca uttiṣṭhate tadā kāryam sādhayati" iti ācāryāḥ .. 07.9.26 ..
नैति कौटिल्यः ॥ ०७.९.२७ ॥
न एति कौटिल्यः ॥ ०७।९।२७ ॥
na eti kauṭilyaḥ .. 07.9.27 ..
हिरण्य-भोगं मित्रं श्रेयः ॥ ०७.९.२८ ॥
हिरण्य-भोगम् मित्रम् श्रेयः ॥ ०७।९।२८ ॥
hiraṇya-bhogam mitram śreyaḥ .. 07.9.28 ..
नित्यो हि हिरण्येन योगः कदाचिद्दण्डेन ॥ ०७.९.२९ ॥
नित्यः हि हिरण्येन योगः कदाचिद् दण्डेन ॥ ०७।९।२९ ॥
nityaḥ hi hiraṇyena yogaḥ kadācid daṇḍena .. 07.9.29 ..
दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति ॥ ०७.९.३० ॥
दण्डः च हिरण्येन अन्ये च कामाः प्राप्यन्ते इति ॥ ०७।९।३० ॥
daṇḍaḥ ca hiraṇyena anye ca kāmāḥ prāpyante iti .. 07.9.30 ..
हिरण्य-भोगं भूमि-भोगं वा मित्रं इति "हिरण्य-भोगं गतिमत्त्वात्सर्व-व्यय-प्रतीकार-करम्" इत्याचार्याः ॥ ०७.९.३१ ॥
हिरण्य-भोगम् भूमि-भोगम् वा मित्रम् इति "हिरण्य-भोगम् गतिमत्-त्वात् सर्व-व्यय-प्रतीकार-करम्" इति आचार्याः ॥ ०७।९।३१ ॥
hiraṇya-bhogam bhūmi-bhogam vā mitram iti "hiraṇya-bhogam gatimat-tvāt sarva-vyaya-pratīkāra-karam" iti ācāryāḥ .. 07.9.31 ..
नैति कौटिल्यः ॥ ०७.९.३२ ॥
न एति कौटिल्यः ॥ ०७।९।३२ ॥
na eti kauṭilyaḥ .. 07.9.32 ..
मित्र-हिरण्ये हि भूमि-लाभाद्भवत इत्युक्तं पुरस्ताड ॥ ०७.९.३३ ॥
मित्र-हिरण्ये हि भूमि-लाभात् भवतः इति उक्तम् पुरस् ताड ॥ ०७।९।३३ ॥
mitra-hiraṇye hi bhūmi-lābhāt bhavataḥ iti uktam puras tāḍa .. 07.9.33 ..
तस्माद्भूमि-भोगं मित्रं श्रेय इति ॥ ०७.९.३४ ॥
तस्मात् भूमि-भोगम् मित्रम् श्रेयः इति ॥ ०७।९।३४ ॥
tasmāt bhūmi-bhogam mitram śreyaḥ iti .. 07.9.34 ..
तुल्ये पुरुष-भोगे विक्रमः क्लेश-सहत्वं अनुरागः सर्व-बल-लाभो वा मित्र-कुलाद्विशेषः ॥ ०७.९.३५ ॥
तुल्ये पुरुष-भोगे विक्रमः क्लेश-सह-त्वम् अनुरागः सर्व-बल-लाभः वा मित्र-कुलात् विशेषः ॥ ०७।९।३५ ॥
tulye puruṣa-bhoge vikramaḥ kleśa-saha-tvam anurāgaḥ sarva-bala-lābhaḥ vā mitra-kulāt viśeṣaḥ .. 07.9.35 ..
तुल्ये हिरण्य-भोगे प्रार्थित-अर्थता प्राभूत्यं अल्प-प्रयसता सातत्यं च विशेषः ॥ ०७.९.३६ ॥
तुल्ये हिरण्य-भोगे प्रार्थित-अर्थ-ता प्राभूत्यम् अल्प-प्रयस-ता सातत्यम् च विशेषः ॥ ०७।९।३६ ॥
tulye hiraṇya-bhoge prārthita-artha-tā prābhūtyam alpa-prayasa-tā sātatyam ca viśeṣaḥ .. 07.9.36 ..
तत्रएतद्भवति ॥ ०७.९.३७ ॥
तत्र एतत् भवति ॥ ०७।९।३७ ॥
tatra etat bhavati .. 07.9.37 ..
नित्यं वश्यं लघु-उत्थानं पितृ-पैतामहं महत् । ॥ ०७.९.३८अ ब ॥
नित्यम् वश्यम् लघु-उत्थानम् पितृ-पैतामहम् महत् । ॥ ०७।९।३८अ ब ॥
nityam vaśyam laghu-utthānam pitṛ-paitāmaham mahat . .. 07.9.38a ba ..
अद्वैध्यं चैति सम्पन्नं मित्रं षड्-गुणं उच्यते ॥ ०७.९.३८च्द् ॥
अद्वैध्यम् च एति सम्पन्नम् मित्रम् षड् गुणम् उच्यते ॥ ०७।९।३८च् ॥
advaidhyam ca eti sampannam mitram ṣaḍ guṇam ucyate .. 07.9.38c ..
ऋते यदर्थं प्रणयाद्रक्ष्यते यच्च रक्षति । ॥ ०७.९.३९अ ब ॥
ऋते यद्-अर्थम् प्रणयात् रक्ष्यते यत् च रक्षति । ॥ ०७।९।३९अ ब ॥
ṛte yad-artham praṇayāt rakṣyate yat ca rakṣati . .. 07.9.39a ba ..
पूर्व-उपचित-सम्बन्धं तन्मित्रं नित्यं उच्यते ॥ ०७.९.३९च्द् ॥
पूर्व-उपचित-सम्बन्धम् तत् मित्रम् नित्यम् उच्यते ॥ ०७।९।३९च् ॥
pūrva-upacita-sambandham tat mitram nityam ucyate .. 07.9.39c ..
सर्व-चित्र-महा-भोगं त्रिविधं वश्यं उच्यते । ॥ ०७.९.४०अ ब ॥
सर्व-चित्र-महा-भोगम् त्रिविधम् वश्यम् उच्यते । ॥ ०७।९।४०अ ब ॥
sarva-citra-mahā-bhogam trividham vaśyam ucyate . .. 07.9.40a ba ..
एकतो-भोग्युभयतः सर्वतो-भोगि चापरं ॥ ०७.९.४०च्द् ॥
एकतस् भोगि उभयतस् सर्वतस् भोगि च अपरम् ॥ ०७।९।४०च् ॥
ekatas bhogi ubhayatas sarvatas bhogi ca aparam .. 07.9.40c ..
आदातृ वा दात्र्-अपि वा जीवत्यरिषु हिंसया । ॥ ०७.९.४१अ ब ॥
आदातृ वा दातृ अपि वा जीवति अरिषु हिंसया । ॥ ०७।९।४१अ ब ॥
ādātṛ vā dātṛ api vā jīvati ariṣu hiṃsayā . .. 07.9.41a ba ..
मित्रं नित्यं अवश्यं तद्-दुर्ग-अटव्य्-अपसारि च ॥ ०७.९.४१च्द् ॥
मित्रम् नित्यम् अवश्यम् तद्-दुर्ग-अटवी-अपसारि च ॥ ०७।९।४१च् ॥
mitram nityam avaśyam tad-durga-aṭavī-apasāri ca .. 07.9.41c ..
अन्यतो विगृहीतं यल्लघु-व्यसनं एव वा । ॥ ०७.९.४२अ ब ॥
अन्यतस् विगृहीतम् यत् लघु-व्यसनम् एव वा । ॥ ०७।९।४२अ ब ॥
anyatas vigṛhītam yat laghu-vyasanam eva vā . .. 07.9.42a ba ..
संधत्ते चौपकाराय तन्मित्रं वश्यं अध्रुवं ॥ ०७.९.४२च्द् ॥
संधत्ते च औपकाराय तत् मित्रम् वश्यम् अध्रुवम् ॥ ०७।९।४२च् ॥
saṃdhatte ca aupakārāya tat mitram vaśyam adhruvam .. 07.9.42c ..
एक-अर्थेनाथ सम्बद्धं उपकार्य-विकारि च । ॥ ०७.९.४३अ ब ॥
एक-अर्थेन अथ सम्बद्धम् उपकार्य-विकारि च । ॥ ०७।९।४३अ ब ॥
eka-arthena atha sambaddham upakārya-vikāri ca . .. 07.9.43a ba ..
मित्र-भावि भवत्येतन्मित्रं अद्वैध्यं आपदि ॥ ०७.९.४३च्द् ॥
मित्र-भावि भवति एतत् मित्रम् अ द्वैध्यम् आपदि ॥ ०७।९।४३च् ॥
mitra-bhāvi bhavati etat mitram a dvaidhyam āpadi .. 07.9.43c ..
मित्र-भावाद्ध्रुवं मित्रं शत्रु-साधारणाच्चलं । ॥ ०७.९.४४अ ब ॥
मित्र-भावात् ध्रुवम् मित्रम् शत्रु-साधारणात् चलम् । ॥ ०७।९।४४अ ब ॥
mitra-bhāvāt dhruvam mitram śatru-sādhāraṇāt calam . .. 07.9.44a ba ..
न कस्यचिदुदासीनं द्वयोरुभय-भावि तत् ॥ ०७.९.४४च्द् ॥
न कस्यचिद् उदासीनम् द्वयोः उभय-भावि तत् ॥ ०७।९।४४च् ॥
na kasyacid udāsīnam dvayoḥ ubhaya-bhāvi tat .. 07.9.44c ..
विजिगीषोरमित्रं यन्मित्रं अन्तर्धितां गतं । ॥ ०७.९.४५अ ब ॥
विजिगीषोः अमित्रम् यत् मित्रम् अन्तर्धि-ताम् गतम् । ॥ ०७।९।४५अ ब ॥
vijigīṣoḥ amitram yat mitram antardhi-tām gatam . .. 07.9.45a ba ..
उपकारेअनिविष्टं वाअशक्तं वाअनुपकारि तत् ॥ ०७.९.४५च्द् ॥
उपकारे अनिविष्टम् वा अशक्तम् वा अनुपकारि तत् ॥ ०७।९।४५च् ॥
upakāre aniviṣṭam vā aśaktam vā anupakāri tat .. 07.9.45c ..
प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धं एव वा । ॥ ०७.९.४६अ ब ॥
प्रियम् परस्य वा रक्ष्यम् पूज्यम् सम्बद्धम् एव वा । ॥ ०७।९।४६अ ब ॥
priyam parasya vā rakṣyam pūjyam sambaddham eva vā . .. 07.9.46a ba ..
अनुगृह्णाति यन्मित्रं शत्रु-साधारणं हि तत् ॥ ०७.९.४६च्द् ॥
अनुगृह्णाति यत् मित्रम् शत्रु-साधारणम् हि तत् ॥ ०७।९।४६च् ॥
anugṛhṇāti yat mitram śatru-sādhāraṇam hi tat .. 07.9.46c ..
प्रकृष्ट-भौमं संतुष्टं बलवच्चऽलसं च यत् । ॥ ०७.९.४७अ ब ॥
प्रकृष्ट-भौमम् संतुष्टम् बलवत् च अलसम् च यत् । ॥ ०७।९।४७अ ब ॥
prakṛṣṭa-bhaumam saṃtuṣṭam balavat ca alasam ca yat . .. 07.9.47a ba ..
उदासीनं भवत्येतद्व्यसनादवमानितं ॥ ०७.९.४७च्द् ॥
उदासीनम् भवति एतत् व्यसनात् अवमानितम् ॥ ०७।९।४७च् ॥
udāsīnam bhavati etat vyasanāt avamānitam .. 07.9.47c ..
अरेर्नेतुश्च यद्वृद्धिं दौर्बल्यादनुवर्तते । ॥ ०७.९.४८अ ब ॥
अरेः नेतुः च यत् वृद्धिम् दौर्बल्यात् अनुवर्तते । ॥ ०७।९।४८अ ब ॥
areḥ netuḥ ca yat vṛddhim daurbalyāt anuvartate . .. 07.9.48a ba ..
उभयस्याप्यविद्विष्टं विद्यादुभय-भावि तत् ॥ ०७.९.४८च्द् ॥
उभयस्य अपि अ विद्विष्टम् विद्यात् उभय-भावि तत् ॥ ०७।९।४८च् ॥
ubhayasya api a vidviṣṭam vidyāt ubhaya-bhāvi tat .. 07.9.48c ..
कारण-अकारण-ध्वस्तं कारण-अकारण-आगतं । ॥ ०७.९.४९अ ब ॥
कारण-अकारण-ध्वस्तम् कारण-अकारण-आगतम् । ॥ ०७।९।४९अ ब ॥
kāraṇa-akāraṇa-dhvastam kāraṇa-akāraṇa-āgatam . .. 07.9.49a ba ..
यो मित्रं समुपेक्षेत स मृत्युं उपगूहति ॥ ०७.९.४९च्द् ॥
यः मित्रम् समुपेक्षेत स मृत्युम् उपगूहति ॥ ०७।९।४९च् ॥
yaḥ mitram samupekṣeta sa mṛtyum upagūhati .. 07.9.49c ..
क्षिप्रं अल्पो लाभश्चिरान्महानिति वा "क्षिप्रं अल्पो लाभः कार्य-देश-काल-संवादकः श्रेयान्" इत्याचार्याः ॥ ०७.९.५० ॥
क्षिप्रम् अल्पः लाभः चिरात् महान् इति वा "क्षिप्रम् अल्पः लाभः कार्य-देश-काल-संवादकः श्रेयान्" इति आचार्याः ॥ ०७।९।५० ॥
kṣipram alpaḥ lābhaḥ cirāt mahān iti vā "kṣipram alpaḥ lābhaḥ kārya-deśa-kāla-saṃvādakaḥ śreyān" iti ācāryāḥ .. 07.9.50 ..
नैति कौटिल्यः ॥ ०७.९.५१ ॥
न एति कौटिल्यः ॥ ०७।९।५१ ॥
na eti kauṭilyaḥ .. 07.9.51 ..
चिरादविनिपाती बीज-सधर्मा महाम्ल्लाभः श्रेयान् । विपर्यये पूर्वः ॥ ०७.९.५२ ॥
चिरात् अविनिपाती बीज-सधर्मा श्रेयान् । विपर्यये पूर्वः ॥ ०७।९।५२ ॥
cirāt avinipātī bīja-sadharmā śreyān . viparyaye pūrvaḥ .. 07.9.52 ..
एवं दृष्ट्वा ध्रुवे लाभे लाभ-अंशे च गुण-उदयं । ॥ ०७.९.५३अ ब ॥
एवम् दृष्ट्वा ध्रुवे लाभे लाभ-अंशे च गुण-उदयम् । ॥ ०७।९।५३अ ब ॥
evam dṛṣṭvā dhruve lābhe lābha-aṃśe ca guṇa-udayam . .. 07.9.53a ba ..
स्व-अर्थ-सिद्धि-परो यायात्संहितः सामवायिकैः ॥ ०७.९.५३च्द् ॥
स्व-अर्थ-सिद्धि-परः यायात् संहितः सामवायिकैः ॥ ०७।९।५३च् ॥
sva-artha-siddhi-paraḥ yāyāt saṃhitaḥ sāmavāyikaiḥ .. 07.9.53c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In