| |
|

This overlay will guide you through the buttons:

संहित-प्रयाणे मित्र-हिरण्य-भूमि-लाभानां उत्तर-उत्तरो लाभः श्रेयान् ॥ ०७.९.०१ ॥
saṃhita-prayāṇe mitra-hiraṇya-bhūmi-lābhānāṃ uttara-uttaro lābhaḥ śreyān .. 07.9.01 ..
मित्र-हिरण्ये हि भूमि-लाभाद्भवतः । मित्रं हिरण्य-लाभात् ॥ ०७.९.०२ ॥
mitra-hiraṇye hi bhūmi-lābhādbhavataḥ . mitraṃ hiraṇya-lābhāt .. 07.9.02 ..
यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति ॥ ०७.९.०३ ॥
yo vā lābhaḥ siddhaḥ śeṣayoranyataraṃ sādhayati .. 07.9.03 ..
त्वं चाहं च मित्रं लभावहे इत्येवं-आदिध्सम-संधिः ॥ ०७.९.०४ ॥
tvaṃ cāhaṃ ca mitraṃ labhāvahe ityevaṃ-ādidhsama-saṃdhiḥ .. 07.9.04 ..
त्वं मित्रम् इत्येवं-आदिर्विषम-संधिः ॥ ०७.९.०५ ॥
tvaṃ mitram ityevaṃ-ādirviṣama-saṃdhiḥ .. 07.9.05 ..
तयोर्विशेष-लाभादतिसंधिः ॥ ०७.९.०६ ॥
tayorviśeṣa-lābhādatisaṃdhiḥ .. 07.9.06 ..
सम-संधौ तु यः सम्पन्नं मित्रं मित्र-कृच्छ्रे वा मित्रं अवाप्नोति सोअतिसंधत्ते ॥ ०७.९.०७ ॥
sama-saṃdhau tu yaḥ sampannaṃ mitraṃ mitra-kṛcchre vā mitraṃ avāpnoti soatisaṃdhatte .. 07.9.07 ..
आपद्द्हि सौहृद-स्थैर्यं उत्पादयति ॥ ०७.९.०८ ॥
āpadd_hi sauhṛda-sthairyaṃ utpādayati .. 07.9.08 ..
मित्र-कृच्छ्रेअपि नित्यं अवश्यं अनित्यं वश्यं वाइति "नित्यं अवश्यं श्रेयः । तद्द्हि अनुपकुर्वदपि नापकरोति" इत्याचार्याः ॥ ०७.९.०९ ॥
mitra-kṛcchreapi nityaṃ avaśyaṃ anityaṃ vaśyaṃ vāiti "nityaṃ avaśyaṃ śreyaḥ . tadd_hi anupakurvadapi nāpakaroti" ityācāryāḥ .. 07.9.09 ..
नैति कौटिल्यः ॥ ०७.९.१० ॥
naiti kauṭilyaḥ .. 07.9.10 ..
वश्यं अनित्यं श्रेयः ॥ ०७.९.११ ॥
vaśyaṃ anityaṃ śreyaḥ .. 07.9.11 ..
यावदुपकरोति तावन्मित्रं भवति । उपकार-लक्षणं मित्रं इति ॥ ०७.९.१२ ॥
yāvadupakaroti tāvanmitraṃ bhavati . upakāra-lakṣaṇaṃ mitraṃ iti .. 07.9.12 ..
वश्ययोरपि महा-भोगं अनित्यं अल्प-भोगं वा नित्यं इति महा-भोगं अनित्यं श्रेयः । महा-भोगं अनित्यं अल्प-कालेन महद्-उपकुर्वन्महान्ति व्यय-स्थानानि प्रतिकरोति" इत्याचार्याः ॥ ०७.९.१३ ॥
vaśyayorapi mahā-bhogaṃ anityaṃ alpa-bhogaṃ vā nityaṃ iti mahā-bhogaṃ anityaṃ śreyaḥ . mahā-bhogaṃ anityaṃ alpa-kālena mahad-upakurvanmahānti vyaya-sthānāni pratikaroti" ityācāryāḥ .. 07.9.13 ..
नैति कौटिल्यः ॥ ०७.९.१४ ॥
naiti kauṭilyaḥ .. 07.9.14 ..
नित्यं अल्प-भोगं श्रेयः ॥ ०७.९.१५ ॥
nityaṃ alpa-bhogaṃ śreyaḥ .. 07.9.15 ..
महा-भोगं अनित्यं उपकार-भयादपक्रामति । उपकृत्य वा प्रत्यादातुं ईहते ॥ ०७.९.१६ ॥
mahā-bhogaṃ anityaṃ upakāra-bhayādapakrāmati . upakṛtya vā pratyādātuṃ īhate .. 07.9.16 ..
नित्यं अल्प-भोगं सातत्यादल्पं उपकुर्वन्महता कालेन महदुपकरोति ॥ ०७.९.१७ ॥
nityaṃ alpa-bhogaṃ sātatyādalpaṃ upakurvanmahatā kālena mahadupakaroti .. 07.9.17 ..
गुरु-समुत्थं महन्मित्रं लघु-समुत्थं अल्पं वाइति "गुरु-समुत्थं महन्मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ॥ ०७.९.१८ ॥
guru-samutthaṃ mahanmitraṃ laghu-samutthaṃ alpaṃ vāiti "guru-samutthaṃ mahanmitraṃ pratāpa-karaṃ bhavati . yadā cauttiṣṭhate tadā kāryaṃ sādhayati" ityācāryāḥ .. 07.9.18 ..
नैति कौटिल्यः ॥ ०७.९.१९ ॥
naiti kauṭilyaḥ .. 07.9.19 ..
लघु-समुत्थं अल्पं श्रेयः ॥ ०७.९.२० ॥
laghu-samutthaṃ alpaṃ śreyaḥ .. 07.9.20 ..
लगु-समुत्थं अल्पं मित्रं कार्य-कालं नातिपातयति दौर्बल्याच्च यथा-इष्ट-भोग्यं भवति । नैतरत्प्रकृष्ट-भौमं ॥ ०७.९.२१ ॥
lagu-samutthaṃ alpaṃ mitraṃ kārya-kālaṃ nātipātayati daurbalyācca yathā-iṣṭa-bhogyaṃ bhavati . naitaratprakṛṣṭa-bhaumaṃ .. 07.9.21 ..
विक्षिप्त-सैन्यं अवश्य-सैन्यं वाइति "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्याचार्याः ॥ ०७.९.२२ ॥
vikṣipta-sainyaṃ avaśya-sainyaṃ vāiti "vikṣiptaṃ sainyaṃ śakyaṃ pratisaṃhartuṃ vaśyatvād" ityācāryāḥ .. 07.9.22 ..
नैति कौटिल्यः ॥ ०७.९.२३ ॥
naiti kauṭilyaḥ .. 07.9.23 ..
अवश्य-सैन्यं श्रेयः ॥ ०७.९.२४ ॥
avaśya-sainyaṃ śreyaḥ .. 07.9.24 ..
अवश्यं हि शक्यं साम-आदिभिर्वश्यं कर्तुम् । नैतरत्कार्य-व्यासक्तं प्रतिसंहर्तुं ॥ ०७.९.२५ ॥
avaśyaṃ hi śakyaṃ sāma-ādibhirvaśyaṃ kartum . naitaratkārya-vyāsaktaṃ pratisaṃhartuṃ .. 07.9.25 ..
पुरुष-भोगं हिरण्य-भोगं वा मित्रं इति "पुरुष-भोगं मित्रं श्रेयः । प्रुष-भोगं मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ॥ ०७.९.२६ ॥
puruṣa-bhogaṃ hiraṇya-bhogaṃ vā mitraṃ iti "puruṣa-bhogaṃ mitraṃ śreyaḥ . pruṣa-bhogaṃ mitraṃ pratāpa-karaṃ bhavati . yadā cauttiṣṭhate tadā kāryaṃ sādhayati" ityācāryāḥ .. 07.9.26 ..
नैति कौटिल्यः ॥ ०७.९.२७ ॥
naiti kauṭilyaḥ .. 07.9.27 ..
हिरण्य-भोगं मित्रं श्रेयः ॥ ०७.९.२८ ॥
hiraṇya-bhogaṃ mitraṃ śreyaḥ .. 07.9.28 ..
नित्यो हि हिरण्येन योगः कदाचिद्दण्डेन ॥ ०७.९.२९ ॥
nityo hi hiraṇyena yogaḥ kadāciddaṇḍena .. 07.9.29 ..
दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति ॥ ०७.९.३० ॥
daṇḍaśca hiraṇyenānye ca kāmāḥ prāpyanta iti .. 07.9.30 ..
हिरण्य-भोगं भूमि-भोगं वा मित्रं इति "हिरण्य-भोगं गतिमत्त्वात्सर्व-व्यय-प्रतीकार-करम्" इत्याचार्याः ॥ ०७.९.३१ ॥
hiraṇya-bhogaṃ bhūmi-bhogaṃ vā mitraṃ iti "hiraṇya-bhogaṃ gatimattvātsarva-vyaya-pratīkāra-karam" ityācāryāḥ .. 07.9.31 ..
नैति कौटिल्यः ॥ ०७.९.३२ ॥
naiti kauṭilyaḥ .. 07.9.32 ..
मित्र-हिरण्ये हि भूमि-लाभाद्भवत इत्युक्तं पुरस्ताड ॥ ०७.९.३३ ॥
mitra-hiraṇye hi bhūmi-lābhādbhavata ityuktaṃ purastāḍa .. 07.9.33 ..
तस्माद्भूमि-भोगं मित्रं श्रेय इति ॥ ०७.९.३४ ॥
tasmādbhūmi-bhogaṃ mitraṃ śreya iti .. 07.9.34 ..
तुल्ये पुरुष-भोगे विक्रमः क्लेश-सहत्वं अनुरागः सर्व-बल-लाभो वा मित्र-कुलाद्विशेषः ॥ ०७.९.३५ ॥
tulye puruṣa-bhoge vikramaḥ kleśa-sahatvaṃ anurāgaḥ sarva-bala-lābho vā mitra-kulādviśeṣaḥ .. 07.9.35 ..
तुल्ये हिरण्य-भोगे प्रार्थित-अर्थता प्राभूत्यं अल्प-प्रयसता सातत्यं च विशेषः ॥ ०७.९.३६ ॥
tulye hiraṇya-bhoge prārthita-arthatā prābhūtyaṃ alpa-prayasatā sātatyaṃ ca viśeṣaḥ .. 07.9.36 ..
तत्रएतद्भवति ॥ ०७.९.३७ ॥
tatraetadbhavati .. 07.9.37 ..
नित्यं वश्यं लघु-उत्थानं पितृ-पैतामहं महत् । ॥ ०७.९.३८अ ब ॥
nityaṃ vaśyaṃ laghu-utthānaṃ pitṛ-paitāmahaṃ mahat . .. 07.9.38a ba ..
अद्वैध्यं चैति सम्पन्नं मित्रं षड्-गुणं उच्यते ॥ ०७.९.३८च्द् ॥
advaidhyaṃ caiti sampannaṃ mitraṃ ṣaḍ-guṇaṃ ucyate .. 07.9.38cd ..
ऋते यदर्थं प्रणयाद्रक्ष्यते यच्च रक्षति । ॥ ०७.९.३९अ ब ॥
ṛte yadarthaṃ praṇayādrakṣyate yacca rakṣati . .. 07.9.39a ba ..
पूर्व-उपचित-सम्बन्धं तन्मित्रं नित्यं उच्यते ॥ ०७.९.३९च्द् ॥
pūrva-upacita-sambandhaṃ tanmitraṃ nityaṃ ucyate .. 07.9.39cd ..
सर्व-चित्र-महा-भोगं त्रिविधं वश्यं उच्यते । ॥ ०७.९.४०अ ब ॥
sarva-citra-mahā-bhogaṃ trividhaṃ vaśyaṃ ucyate . .. 07.9.40a ba ..
एकतो-भोग्युभयतः सर्वतो-भोगि चापरं ॥ ०७.९.४०च्द् ॥
ekato-bhogyubhayataḥ sarvato-bhogi cāparaṃ .. 07.9.40cd ..
आदातृ वा दात्र्-अपि वा जीवत्यरिषु हिंसया । ॥ ०७.९.४१अ ब ॥
ādātṛ vā dātr-api vā jīvatyariṣu hiṃsayā . .. 07.9.41a ba ..
मित्रं नित्यं अवश्यं तद्-दुर्ग-अटव्य्-अपसारि च ॥ ०७.९.४१च्द् ॥
mitraṃ nityaṃ avaśyaṃ tad-durga-aṭavy-apasāri ca .. 07.9.41cd ..
अन्यतो विगृहीतं यल्लघु-व्यसनं एव वा । ॥ ०७.९.४२अ ब ॥
anyato vigṛhītaṃ yallaghu-vyasanaṃ eva vā . .. 07.9.42a ba ..
संधत्ते चौपकाराय तन्मित्रं वश्यं अध्रुवं ॥ ०७.९.४२च्द् ॥
saṃdhatte caupakārāya tanmitraṃ vaśyaṃ adhruvaṃ .. 07.9.42cd ..
एक-अर्थेनाथ सम्बद्धं उपकार्य-विकारि च । ॥ ०७.९.४३अ ब ॥
eka-arthenātha sambaddhaṃ upakārya-vikāri ca . .. 07.9.43a ba ..
मित्र-भावि भवत्येतन्मित्रं अद्वैध्यं आपदि ॥ ०७.९.४३च्द् ॥
mitra-bhāvi bhavatyetanmitraṃ advaidhyaṃ āpadi .. 07.9.43cd ..
मित्र-भावाद्ध्रुवं मित्रं शत्रु-साधारणाच्चलं । ॥ ०७.९.४४अ ब ॥
mitra-bhāvāddhruvaṃ mitraṃ śatru-sādhāraṇāccalaṃ . .. 07.9.44a ba ..
न कस्यचिदुदासीनं द्वयोरुभय-भावि तत् ॥ ०७.९.४४च्द् ॥
na kasyacidudāsīnaṃ dvayorubhaya-bhāvi tat .. 07.9.44cd ..
विजिगीषोरमित्रं यन्मित्रं अन्तर्धितां गतं । ॥ ०७.९.४५अ ब ॥
vijigīṣoramitraṃ yanmitraṃ antardhitāṃ gataṃ . .. 07.9.45a ba ..
उपकारेअनिविष्टं वाअशक्तं वाअनुपकारि तत् ॥ ०७.९.४५च्द् ॥
upakāreaniviṣṭaṃ vāaśaktaṃ vāanupakāri tat .. 07.9.45cd ..
प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धं एव वा । ॥ ०७.९.४६अ ब ॥
priyaṃ parasya vā rakṣyaṃ pūjyaṃ sambaddhaṃ eva vā . .. 07.9.46a ba ..
अनुगृह्णाति यन्मित्रं शत्रु-साधारणं हि तत् ॥ ०७.९.४६च्द् ॥
anugṛhṇāti yanmitraṃ śatru-sādhāraṇaṃ hi tat .. 07.9.46cd ..
प्रकृष्ट-भौमं संतुष्टं बलवच्चऽलसं च यत् । ॥ ०७.९.४७अ ब ॥
prakṛṣṭa-bhaumaṃ saṃtuṣṭaṃ balavacca'lasaṃ ca yat . .. 07.9.47a ba ..
उदासीनं भवत्येतद्व्यसनादवमानितं ॥ ०७.९.४७च्द् ॥
udāsīnaṃ bhavatyetadvyasanādavamānitaṃ .. 07.9.47cd ..
अरेर्नेतुश्च यद्वृद्धिं दौर्बल्यादनुवर्तते । ॥ ०७.९.४८अ ब ॥
arernetuśca yadvṛddhiṃ daurbalyādanuvartate . .. 07.9.48a ba ..
उभयस्याप्यविद्विष्टं विद्यादुभय-भावि तत् ॥ ०७.९.४८च्द् ॥
ubhayasyāpyavidviṣṭaṃ vidyādubhaya-bhāvi tat .. 07.9.48cd ..
कारण-अकारण-ध्वस्तं कारण-अकारण-आगतं । ॥ ०७.९.४९अ ब ॥
kāraṇa-akāraṇa-dhvastaṃ kāraṇa-akāraṇa-āgataṃ . .. 07.9.49a ba ..
यो मित्रं समुपेक्षेत स मृत्युं उपगूहति ॥ ०७.९.४९च्द् ॥
yo mitraṃ samupekṣeta sa mṛtyuṃ upagūhati .. 07.9.49cd ..
क्षिप्रं अल्पो लाभश्चिरान्महानिति वा "क्षिप्रं अल्पो लाभः कार्य-देश-काल-संवादकः श्रेयान्" इत्याचार्याः ॥ ०७.९.५० ॥
kṣipraṃ alpo lābhaścirānmahāniti vā "kṣipraṃ alpo lābhaḥ kārya-deśa-kāla-saṃvādakaḥ śreyān" ityācāryāḥ .. 07.9.50 ..
नैति कौटिल्यः ॥ ०७.९.५१ ॥
naiti kauṭilyaḥ .. 07.9.51 ..
चिरादविनिपाती बीज-सधर्मा महाम्ल्लाभः श्रेयान् । विपर्यये पूर्वः ॥ ०७.९.५२ ॥
cirādavinipātī bīja-sadharmā mahāmllābhaḥ śreyān . viparyaye pūrvaḥ .. 07.9.52 ..
एवं दृष्ट्वा ध्रुवे लाभे लाभ-अंशे च गुण-उदयं । ॥ ०७.९.५३अ ब ॥
evaṃ dṛṣṭvā dhruve lābhe lābha-aṃśe ca guṇa-udayaṃ . .. 07.9.53a ba ..
स्व-अर्थ-सिद्धि-परो यायात्संहितः सामवायिकैः ॥ ०७.९.५३च्द् ॥
sva-artha-siddhi-paro yāyātsaṃhitaḥ sāmavāyikaiḥ .. 07.9.53cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In