| |
|

This overlay will guide you through the buttons:

स्वाम्य्-अमात्य-जन-पद-दुर्ग-कोश-दण्ड-मित्राणि प्रकृतयः ॥ ०६.१.०१ ॥
स्वामि-अमात्य-जन-पद-दुर्ग-कोश-दण्ड-मित्राणि प्रकृतयः ॥ ०६।१।०१ ॥
svāmi-amātya-jana-pada-durga-kośa-daṇḍa-mitrāṇi prakṛtayaḥ .. 06.1.01 ..
तत्र स्वामि-सम्पत् ॥ ०६.१.०२ ॥
तत्र स्वामि-सम्पद् ॥ ०६।१।०२ ॥
tatra svāmi-sampad .. 06.1.02 ..
महा-कुलीनो दैव-बुद्धि-सत्त्व-सम्पन्नो वृद्ध-दर्शी धार्मिकः सत्य-वागविसंवादकः कृतज्ञः स्थूल-लक्षो महा-उत्साहोअदीर्घ-सूत्रः शक्य-सामन्तो दृढ-बुद्धिरक्षुद्र-परिषत्को विनय-काम इत्याभिगामिका गुणाः ॥ ०६.१.०३ ॥
महा-कुलीनः दैव-बुद्धि-सत्त्व-सम्पन्नः वृद्ध-दर्शी धार्मिकः सत्य-वाच्-अविसंवादकः कृतज्ञः स्थूल-लक्षः महा-उत्साहः अदीर्घ-सूत्रः शक्य-सामन्तः दृढ-बुद्धिः अक्षुद्र-परिषत्कः विनय-कामः इति आभिगामिकाः गुणाः ॥ ०६।१।०३ ॥
mahā-kulīnaḥ daiva-buddhi-sattva-sampannaḥ vṛddha-darśī dhārmikaḥ satya-vāc-avisaṃvādakaḥ kṛtajñaḥ sthūla-lakṣaḥ mahā-utsāhaḥ adīrgha-sūtraḥ śakya-sāmantaḥ dṛḍha-buddhiḥ akṣudra-pariṣatkaḥ vinaya-kāmaḥ iti ābhigāmikāḥ guṇāḥ .. 06.1.03 ..
शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिवेशाः प्रज्ञा-गुणाः ॥ ०६.१.०४ ॥
शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिवेशाः प्रज्ञा-गुणाः ॥ ०६।१।०४ ॥
śuśrūṣā-śravaṇa-grahaṇa-dhāraṇa-vijñāna-ūha-apoha-tattva-abhiniveśāḥ prajñā-guṇāḥ .. 06.1.04 ..
शौर्यं अमर्षः शीघ्रता दाक्ष्यं चौत्साह-गुणाः ॥ ०६.१.०५ ॥
शौर्यम् अमर्षः शीघ्र-ता दाक्ष्यम् च औत्साह-गुणाः ॥ ०६।१।०५ ॥
śauryam amarṣaḥ śīghra-tā dākṣyam ca autsāha-guṇāḥ .. 06.1.05 ..
वाग्मी प्रगल्भः स्मृति-मति-बलवानुदग्रः स्व्-अवग्रहः कृत-शिल्पोअव्यसनो दण्ड-नाय्युपकार-अपकारयोर्दृष्ट-प्रतीकारी ह्रीमानापत्-प्रकृत्योर्विनियोक्ता दीर्घ-दूर-दर्शी देश-काल-पुरुष-कार-कार्य-प्रधानः संधि-विक्रम-त्याग-सम्यम-पण-परच्-छिद्र-विभागी संवृतोअदीन-अभिहास्य-जिह्म-भ्रुकुटी-क्षणः काम-क्रोध-लोभ-स्तम्भ-चापल-उपताप-पैशुन्य-हीनः शक्लः स्मित-उदग्र-अभिभाषी वृद्ध-उपदेश-आचार इत्यात्म-सम्पत् ॥ ०६.१.०६ ॥
वाग्मी प्रगल्भः स्मृति-मति-बलवान् उदग्रः सु अवग्रहः कृत-शिल्पः अव्यसनः दण्ड-नायी-उपकार-अपकारयोः दृष्ट-प्रतीकारी ह्री-मान्-आपद्-प्रकृत्योः विनियोक्ता दीर्घ-दूर-दर्शी देश-काल-पुरुष-कार-कार्य-प्रधानः संधि-विक्रम-त्याग-सम्यम-पण-परत्-छिद्र-विभागी संवृत-उअदीन-अभिहास्य-जिह्म-भ्रुकुटी-क्षणः काम-क्रोध-लोभ-स्तम्भ-चापल-उपताप-पैशुन्य-हीनः शक्लः स्मित-उदग्र-अभिभाषी वृद्ध-उपदेश-आचारः इति आत्म-सम्पद् ॥ ०६।१।०६ ॥
vāgmī pragalbhaḥ smṛti-mati-balavān udagraḥ su avagrahaḥ kṛta-śilpaḥ avyasanaḥ daṇḍa-nāyī-upakāra-apakārayoḥ dṛṣṭa-pratīkārī hrī-mān-āpad-prakṛtyoḥ viniyoktā dīrgha-dūra-darśī deśa-kāla-puruṣa-kāra-kārya-pradhānaḥ saṃdhi-vikrama-tyāga-samyama-paṇa-parat-chidra-vibhāgī saṃvṛta-uadīna-abhihāsya-jihma-bhrukuṭī-kṣaṇaḥ kāma-krodha-lobha-stambha-cāpala-upatāpa-paiśunya-hīnaḥ śaklaḥ smita-udagra-abhibhāṣī vṛddha-upadeśa-ācāraḥ iti ātma-sampad .. 06.1.06 ..
अमात्य-सम्पदुक्ता पुरस्तात् ॥ ०६.१.०७ ॥
अमात्य-सम्पद् उक्ता पुरस्तात् ॥ ०६।१।०७ ॥
amātya-sampad uktā purastāt .. 06.1.07 ..
मध्ये चान्ते च स्थानवानात्म-धारणः पर-धारणश्चऽपदि स्व-आरक्षः स्व-आजीवः शत्रु-द्वेषी शक्य-सामन्तः पङ्क-पाषाण-उषर-विषम-कण्टक-श्रेणी-व्याल-मृग-अटवी-हीनः कान्तः सीता-खनि-द्रव्य-हस्ति-वनवान्गव्यः पौरुषेयो गुप्त-गोचरः पशुमानदेव-मातृको वारि-स्थल-पथाभ्यां उपेतः सार-चित्र-बहु-पण्यो दण्ड-कर-सहः कर्म-शील-कर्षकोअबालिश-स्वाम्य्-अवर-वर्ण-प्रायो भक्त-शुचि-मनुष्य इति जन-पद-सम्पत् ॥ ०६.१.०८ ॥
मध्ये च अन्ते च स्थानवान् आत्म-धारणः पर-धारणः च अपदि स्व-आरक्षः स्व-आजीवः शत्रु-द्वेषी शक्य-सामन्तः पङ्क-पाषाण-उषर-विषम-कण्टक-श्रेणी-व्याल-मृग-अटवी हीनः कान्तः सीता-खनि-द्रव्य-हस्ति-वनवान् गव्यः पौरुषेयः गुप्त-गोचरः पशुमान् अदेव-मातृकः वारि-स्थल-पथाभ्याम् उपेतः सार-चित्र-बहु-पण्यः दण्ड-कर-सहः कर्म-शील-कर्षकः अबालिश-स्वामि-अवर-वर्ण-प्रायः भक्त-शुचि-मनुष्यः इति जन-पद-सम्पद् ॥ ०६।१।०८ ॥
madhye ca ante ca sthānavān ātma-dhāraṇaḥ para-dhāraṇaḥ ca apadi sva-ārakṣaḥ sva-ājīvaḥ śatru-dveṣī śakya-sāmantaḥ paṅka-pāṣāṇa-uṣara-viṣama-kaṇṭaka-śreṇī-vyāla-mṛga-aṭavī hīnaḥ kāntaḥ sītā-khani-dravya-hasti-vanavān gavyaḥ pauruṣeyaḥ gupta-gocaraḥ paśumān adeva-mātṛkaḥ vāri-sthala-pathābhyām upetaḥ sāra-citra-bahu-paṇyaḥ daṇḍa-kara-sahaḥ karma-śīla-karṣakaḥ abāliśa-svāmi-avara-varṇa-prāyaḥ bhakta-śuci-manuṣyaḥ iti jana-pada-sampad .. 06.1.08 ..
दुर्ग-सम्पदुक्ता पुरस्तात् ॥ ०६.१.०९ ॥
दुर्ग-सम्पद् उक्ता पुरस्तात् ॥ ०६।१।०९ ॥
durga-sampad uktā purastāt .. 06.1.09 ..
धर्म-अधिगतः पूर्वैः स्वयं वा हेम-रूप्य-प्रायश्चित्र-स्थूल-रत्न-हिरण्यो दीर्घां अप्यापदं अनायतिं सहेतैति कोश-सम्पत् ॥ ०६.१.१० ॥
धर्म-अधिगतः पूर्वैः स्वयम् वा हेम-रूप्य-प्रायश्चित्र-स्थूल-रत्न-हिरण्यः दीर्घाम् अपि आपदम् अनायतिम् सहेत एति कोश-सम्पद् ॥ ०६।१।१० ॥
dharma-adhigataḥ pūrvaiḥ svayam vā hema-rūpya-prāyaścitra-sthūla-ratna-hiraṇyaḥ dīrghām api āpadam anāyatim saheta eti kośa-sampad .. 06.1.10 ..
पितृ-पैतामहो नित्यो वश्यस्तुष्ट-भृत-पुत्र-दारः प्रवासेष्वविसंवादितः सर्वत्राप्रतिहतो दुःख-सहो बहु-युद्धः सर्व-युद्ध-प्रहरण-विद्या-विशारदः सह-वृद्धि-क्षयिकत्वादद्वैध्यः क्षत्र-प्राय इति दण्ड-सम्पत् ॥ ०६.१.११ ॥
पितृ-पैतामहः नित्यः वश्यः तुष्ट-भृत-पुत्र-दारः प्रवासेषु अविसंवादितः सर्वत्र अप्रतिहतः दुःख-सहो बहु-युद्धः सर्व-युद्ध-प्रहरण-विद्या-विशारदः सह वृद्धि-क्षयिक-त्वात् अद्वैध्यः क्षत्र-प्रायः इति दण्ड-सम्पद् ॥ ०६।१।११ ॥
pitṛ-paitāmahaḥ nityaḥ vaśyaḥ tuṣṭa-bhṛta-putra-dāraḥ pravāseṣu avisaṃvāditaḥ sarvatra apratihataḥ duḥkha-saho bahu-yuddhaḥ sarva-yuddha-praharaṇa-vidyā-viśāradaḥ saha vṛddhi-kṣayika-tvāt advaidhyaḥ kṣatra-prāyaḥ iti daṇḍa-sampad .. 06.1.11 ..
पितृ-पैतामहं नित्यं वश्यं अद्वैध्यं महल्-लघु-समुत्थं इति मित्र-सम्पत् ॥ ०६.१.१२ ॥
पितृ-पैतामहम् नित्यम् वश्यम् अद्वैध्यम् महत्-लघु-समुत्थम् इति मित्र-सम्पद् ॥ ०६।१।१२ ॥
pitṛ-paitāmaham nityam vaśyam advaidhyam mahat-laghu-samuttham iti mitra-sampad .. 06.1.12 ..
अराज-बीजी लुब्धः क्षुद्र-परिषत्को विरक्त-प्रकृतिरन्याय-वृत्तिरयुक्तो व्यसनी निरुत्साहो दैव-प्रमाणो यत्-किंचन-कार्य-गतिरननुबन्धः क्लीबो नित्य-अपकारी चैत्यमित्र-सम्पत् ॥ ०६.१.१३ ॥
अ राज-बीजी लुब्धः क्षुद्र-परिषत्कः विरक्त-प्रकृतिः अन्याय-वृत्तिः अयुक्तः व्यसनी निरुत्साहः दैव-प्रमाणः यत् किंचन कार्य-गतिः अननुबन्धः क्लीबः नित्य-अपकारी चैत्य-मित्र-सम्पद् ॥ ०६।१।१३ ॥
a rāja-bījī lubdhaḥ kṣudra-pariṣatkaḥ virakta-prakṛtiḥ anyāya-vṛttiḥ ayuktaḥ vyasanī nirutsāhaḥ daiva-pramāṇaḥ yat kiṃcana kārya-gatiḥ ananubandhaḥ klībaḥ nitya-apakārī caitya-mitra-sampad .. 06.1.13 ..
एवं-भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति ॥ ०६.१.१४ ॥
एवं-भूतः हि शत्रुः सुखः समुच्छेत्तुम् भवति ॥ ०६।१।१४ ॥
evaṃ-bhūtaḥ hi śatruḥ sukhaḥ samucchettum bhavati .. 06.1.14 ..
अरि-वर्जाः प्रकृतयः सप्तएताः स्व-गुण-उदयाः । ॥ ०६.१.१५अ ब ॥
अरि-वर्जाः प्रकृतयः सप्तएताः स्व-गुण-उदयाः । ॥ ०६।१।१५अ ब ॥
ari-varjāḥ prakṛtayaḥ saptaetāḥ sva-guṇa-udayāḥ . .. 06.1.15a ba ..
उक्ताः प्रत्यङ्ग-भूतास्ताः प्रकृता राज-सम्पदः ॥ ०६.१.१५च्द् ॥
उक्ताः प्रत्यङ्ग-भूताः ताः प्रकृताः राज-सम्पदः ॥ ०६।१।१५च् ॥
uktāḥ pratyaṅga-bhūtāḥ tāḥ prakṛtāḥ rāja-sampadaḥ .. 06.1.15c ..
सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः । ॥ ०६.१.१६अ ब ॥
सम्पादयति असम्पन्नाः प्रकृतीः आत्मवान् नृपः । ॥ ०६।१।१६अ ब ॥
sampādayati asampannāḥ prakṛtīḥ ātmavān nṛpaḥ . .. 06.1.16a ba ..
विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान् ॥ ०६.१.१६च्द् ॥
विवृद्धाः च अनुरक्ताः च प्रकृतीः हन्ति अनात्मवान् ॥ ०६।१।१६च् ॥
vivṛddhāḥ ca anuraktāḥ ca prakṛtīḥ hanti anātmavān .. 06.1.16c ..
ततः स दुष्ट-प्रकृतिश्चातुरन्तोअप्यनात्मवान् । ॥ ०६.१.१७अ ब ॥
ततस् स दुष्ट-प्रकृतिः चातुरन्तः अपि अनात्मवान् । ॥ ०६।१।१७अ ब ॥
tatas sa duṣṭa-prakṛtiḥ cāturantaḥ api anātmavān . .. 06.1.17a ba ..
हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशं ॥ ०६.१.१७च्द् ॥
हन्यते वा प्रकृतिभिः याति वा द्विषताम् वशम् ॥ ०६।१।१७च् ॥
hanyate vā prakṛtibhiḥ yāti vā dviṣatām vaśam .. 06.1.17c ..
आत्मवांस्त्वल्प-देशोअपि युक्तः प्रकृति-सम्पदा । ॥ ०६.१.१८अ ब ॥
आत्मवान् तु अल्प-देशः अपि युक्तः प्रकृति-सम्पदा । ॥ ०६।१।१८अ ब ॥
ātmavān tu alpa-deśaḥ api yuktaḥ prakṛti-sampadā . .. 06.1.18a ba ..
नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ॥ ०६.१.१८च्द् ॥
न यज्ञः पृथिवीम् कृत्स्नाम् जयति एव न हीयते ॥ ०६।१।१८च् ॥
na yajñaḥ pṛthivīm kṛtsnām jayati eva na hīyate .. 06.1.18c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In