यदि वा पश्येत्"अमित्रो मे शक्ति-युक्तो वाग्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीरुपहनिष्यति । सिद्धि-युक्तो वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादं गमिष्यति । स विरक्त-प्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति । विग्रह-अभियुक्तो वा सर्व-संदोहेनएकस्थोअदुर्गस्थो वा स्थास्यति । स संहत-सैन्यो मित्र-दुर्ग-वियुक्तः साध्यो मे भविष्यति । बलवान्वा राजा परतः शत्रुं उच्छेत्तु-कामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यं दास्यति" । मध्यम-लिप्सायां च । इत्येवं-आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चैच्छेत् ॥ ०६.२.३८ ॥
PADACHEDA
यदि वा पश्येत्"अमित्रः मे शक्ति-युक्तः वाच्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीः उपहनिष्यति । सिद्धि-युक्तः वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादम् गमिष्यति । स विरक्त-प्रकृतिः उपक्षीणः प्रमत्तः वा साध्यः मे भविष्यति । विग्रह-अभियुक्तः वा सर्व-संदोहेन एकस्थः अ दुर्ग-स्थः वा स्थास्यति । स संहत-सैन्यः मित्र-दुर्ग-वियुक्तः साध्यः मे भविष्यति । बलवान् वा राजा परतस् शत्रुम् उच्छेत्तु-कामः तम् उच्छिद्य माम् उच्छिन्द्यात् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यम् दास्यति" । मध्यम-लिप्सायाम् च । इति एवम् आदिषु कारणेषु अमित्रस्य अपि शक्तिम् सिद्धिम् च एच्छेत् ॥ ०६।२।३८ ॥
TRANSLITERATION
yadi vā paśyet"amitraḥ me śakti-yuktaḥ vāc-daṇḍa-pāruṣya-artha-dūṣaṇaiḥ prakṛtīḥ upahaniṣyati . siddhi-yuktaḥ vā mṛgayā-dyūta-madya-strībhiḥ pramādam gamiṣyati . sa virakta-prakṛtiḥ upakṣīṇaḥ pramattaḥ vā sādhyaḥ me bhaviṣyati . vigraha-abhiyuktaḥ vā sarva-saṃdohena ekasthaḥ a durga-sthaḥ vā sthāsyati . sa saṃhata-sainyaḥ mitra-durga-viyuktaḥ sādhyaḥ me bhaviṣyati . balavān vā rājā paratas śatrum ucchettu-kāmaḥ tam ucchidya mām ucchindyāt iti balavatā prārthitasya me vipanna-karma-ārambhasya vā sāhāyyam dāsyati" . madhyama-lipsāyām ca . iti evam ādiṣu kāraṇeṣu amitrasya api śaktim siddhim ca ecchet .. 06.2.38 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.