| |
|

This overlay will guide you through the buttons:

विजिगीषुः पर-ग्रामं अवाप्तु-कामः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ॥ १३.१.०१ ॥
विजिगीषुः पर-ग्रामम् अवाप्तु-कामः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्याम् स्व-पक्षम् उद् हर्षयेत् । पर-पक्षम् च औद्वेजयेत् ॥ १३।१।०१ ॥
vijigīṣuḥ para-grāmam avāptu-kāmaḥ sarvajña-daivata-samyoga-khyāpanābhyām sva-pakṣam ud harṣayet . para-pakṣam ca audvejayet .. 13.1.01 ..
सर्वज्ञ-ख्यापनं तु गृह-गुह्य-प्रवृत्ति-ज्ञानेन प्रत्यादेशो मुख्यानाम् । कण्टक-शोधन-अपसर्प-अवगमेन प्रकाशनं राज-द्विष्ट-कारिणाम् । विज्ञाप्य-उपायन-ख्यापनं अदृष्ट-संसर्ग-विद्या-संज्ञा-आदिभिः । विदेश-प्रवृत्ति-ज्ञानं तदहरेव गृह-कपोतेन मुद्रा-सम्युक्तेन ॥ १३.१.०२ ॥
सर्वज्ञ-ख्यापनम् तु गृह-गुह्य-प्रवृत्ति-ज्ञानेन प्रत्यादेशः मुख्यानाम् । कण्टक-शोधन-अपसर्प-अवगमेन प्रकाशनम् राज-द्विष्ट-कारिणाम् । विज्ञाप्य-उपायन-ख्यापनम् अदृष्ट-संसर्ग-विद्या-संज्ञा-आदिभिः । विदेश-प्रवृत्ति-ज्ञानम् तत् अहर् एव गृह-कपोतेन मुद्रा-सम्युक्तेन ॥ १३।१।०२ ॥
sarvajña-khyāpanam tu gṛha-guhya-pravṛtti-jñānena pratyādeśaḥ mukhyānām . kaṇṭaka-śodhana-apasarpa-avagamena prakāśanam rāja-dviṣṭa-kāriṇām . vijñāpya-upāyana-khyāpanam adṛṣṭa-saṃsarga-vidyā-saṃjñā-ādibhiḥ . videśa-pravṛtti-jñānam tat ahar eva gṛha-kapotena mudrā-samyuktena .. 13.1.02 ..
दैवत-सम्योग-ख्यापनं तु सुरुङ्गा-मुखेनाग्नि-चैत्य-दैवत-प्रतिमाच्-छिद्राननुप्रविष्टैरग्नि-चैत्य-दैवत-व्यञ्जनैः सम्भाषणं पूजनं च । उदकादुत्थितैर्वा नाग-वरुण-व्यञ्जनैः सम्भाषणं पूजनं च । रात्रावन्तर्-उदके समुद्र-वालुका-कोशं प्रणिधायाग्नि-माला-दर्शनम् । शिला-शिक्य-अवगृहीते प्लवके स्थानम् । उदक-बस्तिना जरायुणा वा शिरोअवगूढ-नासः पृषत-अन्त्र-कुलीर-नक्र-शिंशुमार-उद्रवसाभिर्वा शत-पाक्यं तैलं नस्तः प्रयोगः ॥ १३.१.०३ ॥
दैवत-सम्योग-ख्यापनम् तु सुरुङ्गा-मुखेन अग्नि-चैत्य-दैवत-प्रतिमात् छिद्रात् अनुप्रविष्टैः अग्नि-चैत्य-दैवत-व्यञ्जनैः सम्भाषणम् पूजनम् च । उदकात् उत्थितैः वा नाग-वरुण-व्यञ्जनैः सम्भाषणम् पूजनम् च । रात्रौ अन्तर् उदके समुद्र-वालुका-कोशम् प्रणिधाय अग्नि-माला-दर्शनम् । शिला-शिक्य-अवगृहीते प्लवके स्थानम् । उदक-वस्तिना जरायुणा वा शिरः-अवगूढ-नासः पृषत-अन्त्र-कुलीर-नक्र-शिंशुमार-उद्र-वसाभिः वा शत-पाक्यम् तैलम् नस्तस् प्रयोगः ॥ १३।१।०३ ॥
daivata-samyoga-khyāpanam tu suruṅgā-mukhena agni-caitya-daivata-pratimāt chidrāt anupraviṣṭaiḥ agni-caitya-daivata-vyañjanaiḥ sambhāṣaṇam pūjanam ca . udakāt utthitaiḥ vā nāga-varuṇa-vyañjanaiḥ sambhāṣaṇam pūjanam ca . rātrau antar udake samudra-vālukā-kośam praṇidhāya agni-mālā-darśanam . śilā-śikya-avagṛhīte plavake sthānam . udaka-vastinā jarāyuṇā vā śiraḥ-avagūḍha-nāsaḥ pṛṣata-antra-kulīra-nakra-śiṃśumāra-udra-vasābhiḥ vā śata-pākyam tailam nastas prayogaḥ .. 13.1.03 ..
तेन रात्रि-गणश्चरति ॥ १३.१.०४ ॥
तेन रात्रि-गणः चरति ॥ १३।१।०४ ॥
tena rātri-gaṇaḥ carati .. 13.1.04 ..
इत्युदक-चरणानि ॥ १३.१.०५ ॥
इति उदक-चरणानि ॥ १३।१।०५ ॥
iti udaka-caraṇāni .. 13.1.05 ..
तैर्वरुण-नाग-कन्या-वाक्य-क्रिया सम्भाषणं च । कोप-स्थानेषु मुखादग्नि-धूम-उत्सर्गः ॥ १३.१.०६ ॥
तैः वरुण-नाग-कन्या-वाक्य-क्रिया सम्भाषणम् च । कोप-स्थानेषु मुखात् अग्नि-धूम-उत्सर्गः ॥ १३।१।०६ ॥
taiḥ varuṇa-nāga-kanyā-vākya-kriyā sambhāṣaṇam ca . kopa-sthāneṣu mukhāt agni-dhūma-utsargaḥ .. 13.1.06 ..
तदस्य स्व-विषये कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-इक्षणिक-गूढ-पुरुषाः साचिव्य-करास्तद्-दर्शिनश्च प्रकाशयेयुः ॥ १३.१.०७ ॥
तत् अस्य स्व-विषये कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-इक्षणिक-गूढ-पुरुषाः साचिव्य-कराः तद्-दर्शिनः च प्रकाशयेयुः ॥ १३।१।०७ ॥
tat asya sva-viṣaye kārtāntika-naimittika-mauhūrtika-paurāṇika-ikṣaṇika-gūḍha-puruṣāḥ sācivya-karāḥ tad-darśinaḥ ca prakāśayeyuḥ .. 13.1.07 ..
परस्य विषये दैवत-दर्शनं दिव्य-कोश-दण्ड-उत्पत्तिं चास्य ब्रूयुः ॥ १३.१.०८ ॥
परस्य विषये दैवत-दर्शनम् दिव्य-कोश-दण्ड-उत्पत्तिम् च अस्य ब्रूयुः ॥ १३।१।०८ ॥
parasya viṣaye daivata-darśanam divya-kośa-daṇḍa-utpattim ca asya brūyuḥ .. 13.1.08 ..
दैवत-प्रश्न-निमित्त-वायस-अङ्ग-विद्या-स्वप्न-मृग-पक्षि-व्याहारेषु चास्य विजयं ब्रूयुः । विपरीतं अमित्रस्य ॥ १३.१.०९ ॥
दैवत-प्रश्न-निमित्त-वायस-अङ्ग-विद्या-स्वप्न-मृग-पक्षि-व्याहारेषु च अस्य विजयम् ब्रूयुः । विपरीतम् अमित्रस्य ॥ १३।१।०९ ॥
daivata-praśna-nimitta-vāyasa-aṅga-vidyā-svapna-mṛga-pakṣi-vyāhāreṣu ca asya vijayam brūyuḥ . viparītam amitrasya .. 13.1.09 ..
सदुन्दुभिं उल्कां च परस्य नक्षत्रे दर्शयेयुः ॥ १३.१.१० ॥
स दुन्दुभिम् उल्काम् च परस्य नक्षत्रे दर्शयेयुः ॥ १३।१।१० ॥
sa dundubhim ulkām ca parasya nakṣatre darśayeyuḥ .. 13.1.10 ..
परस्य मुख्यान्मित्रत्वेनौपदिशन्तो दूत-व्यञ्जनाः स्वामि-सत्कारं ब्रूयुः । स्व-पक्ष-बल-आधानं पर-पक्ष-प्रतिघातं च ॥ १३.१.११ ॥
परस्य मुख्यान् मित्र-त्वेन औपदिशन्तः दूत-व्यञ्जनाः स्वामि-सत्कारम् ब्रूयुः । स्व-पक्ष-बल-आधानम् पर-पक्ष-प्रतिघातम् च ॥ १३।१।११ ॥
parasya mukhyān mitra-tvena aupadiśantaḥ dūta-vyañjanāḥ svāmi-satkāram brūyuḥ . sva-pakṣa-bala-ādhānam para-pakṣa-pratighātam ca .. 13.1.11 ..
तुल्य-योग-क्षेमं अमात्यानां आयुधीयानां च कथयेयुः ॥ १३.१.१२ ॥
तुल्य-योग-क्षेमम् अमात्यानाम् आयुधीयानाम् च कथयेयुः ॥ १३।१।१२ ॥
tulya-yoga-kṣemam amātyānām āyudhīyānām ca kathayeyuḥ .. 13.1.12 ..
तेषु व्यसन-अभ्युदय-अवेक्षणं अपत्य-पूजनं च प्रयुञ्जीत ॥ १३.१.१३ ॥
तेषु व्यसन-अभ्युदय-अवेक्षणम् अपत्य-पूजनम् च प्रयुञ्जीत ॥ १३।१।१३ ॥
teṣu vyasana-abhyudaya-avekṣaṇam apatya-pūjanam ca prayuñjīta .. 13.1.13 ..
तेन पर-पक्षं उत्साहयेद्यथा-उक्तं पुरस्तात् ॥ १३.१.१४ ॥
तेन पर-पक्षम् उत्साहयेत् यथा उक्तम् पुरस्तात् ॥ १३।१।१४ ॥
tena para-pakṣam utsāhayet yathā uktam purastāt .. 13.1.14 ..
भूयश्च वक्ष्यामः ॥ १३.१.१५ ॥
भूयस् च वक्ष्यामः ॥ १३।१।१५ ॥
bhūyas ca vakṣyāmaḥ .. 13.1.15 ..
साधारण-गर्दभेन दक्षान् । लकुट-शाखा-हननाभ्यां दण्ड-चारिणः । कुल-एडकेन चौद्विग्नान् । अशनि-वर्षेण विमानितान् । विदुलेनावकेशिना वायस-पिण्डेन कैतवज-मेघेनैति विहत-आशान्दुर्भग-अलंकारेण द्वेषिणाइति पूजा-फलान् । व्याघ्र-चर्मणा मृत्यु-कूटेन चौपहितान् । पीलु-विखादनेन करक-योष्ट्रया गर्दभी-क्षीरा-अभिमन्थनेनैति ध्रुव-उपकारिण इति ॥ १३.१.१६ ॥
साधारण-गर्दभेन दक्षान् । लकुट-शाखा-हननाभ्याम् दण्ड-चारिणः । कुल-एडकेन च औद्विग्नान् । अशनि-वर्षेण विमानितान् । विदुलेन अवकेशिना वायस-पिण्डेन कैतव-ज-मेघेन एति विहत-आशान् दुर्भग-अलंकारेण द्वेषिणा ऐति पूजा-फलान् । व्याघ्र-चर्मणा मृत्यु-कूटेन च औपहितान् । पीलु-विखादनेन करक-योष्ट्रया गर्दभी-क्षीरा-अभिमन्थनेन एति ध्रुव-उपकारिणः इति ॥ १३।१।१६ ॥
sādhāraṇa-gardabhena dakṣān . lakuṭa-śākhā-hananābhyām daṇḍa-cāriṇaḥ . kula-eḍakena ca audvignān . aśani-varṣeṇa vimānitān . vidulena avakeśinā vāyasa-piṇḍena kaitava-ja-meghena eti vihata-āśān durbhaga-alaṃkāreṇa dveṣiṇā aiti pūjā-phalān . vyāghra-carmaṇā mṛtyu-kūṭena ca aupahitān . pīlu-vikhādanena karaka-yoṣṭrayā gardabhī-kṣīrā-abhimanthanena eti dhruva-upakāriṇaḥ iti .. 13.1.16 ..
प्रतिपन्नानर्थ-मानाभ्यां योजयेत् ॥ १३.१.१७ ॥
प्रतिपन्न-अनर्थ-मानाभ्याम् योजयेत् ॥ १३।१।१७ ॥
pratipanna-anartha-mānābhyām yojayet .. 13.1.17 ..
द्रव्य-भक्तच्-छिद्रेषु चएनान्द्रव्य-भक्त-दानैरनुगृह्णीयात् ॥ १३.१.१८ ॥
द्रव्य-भक्त-छिद्रेषु च एनान् द्रव्य-भक्त-दानैः अनुगृह्णीयात् ॥ १३।१।१८ ॥
dravya-bhakta-chidreṣu ca enān dravya-bhakta-dānaiḥ anugṛhṇīyāt .. 13.1.18 ..
अप्रतिगृह्णतां स्त्री-कुमार-अलंकारानभिहरेयुः ॥ १३.१.१९ ॥
अ प्रतिगृह्णताम् स्त्री-कुमार-अलंकारान् अभिहरेयुः ॥ १३।१।१९ ॥
a pratigṛhṇatām strī-kumāra-alaṃkārān abhihareyuḥ .. 13.1.19 ..
दुर्भिक्ष-स्तेन-अटव्य्-उपघातेषु च पौर-जानपदानुत्साहयन्तः सत्त्रिणो ब्रूयुः "राजानं अनुग्रहं याचामहे निरनुग्रहाः परत्र गच्छामः" इति ॥ १३.१.२० ॥
दुर्भिक्ष-स्तेन-अटवी-उपघातेषु च पौर-जानपदान् उत्साहयन्तः सत्त्रिणः ब्रूयुः "राजानम् अनुग्रहम् याचामहे निरनुग्रहाः परत्र गच्छामः" इति ॥ १३।१।२० ॥
durbhikṣa-stena-aṭavī-upaghāteṣu ca paura-jānapadān utsāhayantaḥ sattriṇaḥ brūyuḥ "rājānam anugraham yācāmahe niranugrahāḥ paratra gacchāmaḥ" iti .. 13.1.20 ..
तथाइति प्रतिपन्नेषु द्रव्य-धान्यान्यपरिग्रहैः । ॥ १३.१.२१अ ब ॥
तथा इति प्रतिपन्नेषु द्रव्य-धान्य-अन्य-परिग्रहैः । ॥ १३।१।२१अ ब ॥
tathā iti pratipanneṣu dravya-dhānya-anya-parigrahaiḥ . .. 13.1.21a ba ..
साचिव्यं कार्यं इत्येतदुपजापाद्भूतं महत् ॥ १३.१.२१च्द् ॥
साचिव्यम् कार्यम् इति एतत् उपजापात् भूतम् महत् ॥ १३।१।२१च् ॥
sācivyam kāryam iti etat upajāpāt bhūtam mahat .. 13.1.21c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In