| |
|

This overlay will guide you through the buttons:

विजिगीषुः पर-ग्रामं अवाप्तु-कामः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ॥ १३.१.०१ ॥
vijigīṣuḥ para-grāmaṃ avāptu-kāmaḥ sarvajña-daivata-samyoga-khyāpanābhyāṃ sva-pakṣaṃ uddharṣayet . para-pakṣaṃ caudvejayet .. 13.1.01 ..
सर्वज्ञ-ख्यापनं तु गृह-गुह्य-प्रवृत्ति-ज्ञानेन प्रत्यादेशो मुख्यानाम् । कण्टक-शोधन-अपसर्प-अवगमेन प्रकाशनं राज-द्विष्ट-कारिणाम् । विज्ञाप्य-उपायन-ख्यापनं अदृष्ट-संसर्ग-विद्या-संज्ञा-आदिभिः । विदेश-प्रवृत्ति-ज्ञानं तदहरेव गृह-कपोतेन मुद्रा-सम्युक्तेन ॥ १३.१.०२ ॥
sarvajña-khyāpanaṃ tu gṛha-guhya-pravṛtti-jñānena pratyādeśo mukhyānām . kaṇṭaka-śodhana-apasarpa-avagamena prakāśanaṃ rāja-dviṣṭa-kāriṇām . vijñāpya-upāyana-khyāpanaṃ adṛṣṭa-saṃsarga-vidyā-saṃjñā-ādibhiḥ . videśa-pravṛtti-jñānaṃ tadahareva gṛha-kapotena mudrā-samyuktena .. 13.1.02 ..
दैवत-सम्योग-ख्यापनं तु सुरुङ्गा-मुखेनाग्नि-चैत्य-दैवत-प्रतिमाच्-छिद्राननुप्रविष्टैरग्नि-चैत्य-दैवत-व्यञ्जनैः सम्भाषणं पूजनं च । उदकादुत्थितैर्वा नाग-वरुण-व्यञ्जनैः सम्भाषणं पूजनं च । रात्रावन्तर्-उदके समुद्र-वालुका-कोशं प्रणिधायाग्नि-माला-दर्शनम् । शिला-शिक्य-अवगृहीते प्लवके स्थानम् । उदक-बस्तिना जरायुणा वा शिरोअवगूढ-नासः पृषत-अन्त्र-कुलीर-नक्र-शिंशुमार-उद्रवसाभिर्वा शत-पाक्यं तैलं नस्तः प्रयोगः ॥ १३.१.०३ ॥
daivata-samyoga-khyāpanaṃ tu suruṅgā-mukhenāgni-caitya-daivata-pratimāc-chidrānanupraviṣṭairagni-caitya-daivata-vyañjanaiḥ sambhāṣaṇaṃ pūjanaṃ ca . udakādutthitairvā nāga-varuṇa-vyañjanaiḥ sambhāṣaṇaṃ pūjanaṃ ca . rātrāvantar-udake samudra-vālukā-kośaṃ praṇidhāyāgni-mālā-darśanam . śilā-śikya-avagṛhīte plavake sthānam . udaka-bastinā jarāyuṇā vā śiroavagūḍha-nāsaḥ pṛṣata-antra-kulīra-nakra-śiṃśumāra-udravasābhirvā śata-pākyaṃ tailaṃ nastaḥ prayogaḥ .. 13.1.03 ..
तेन रात्रि-गणश्चरति ॥ १३.१.०४ ॥
tena rātri-gaṇaścarati .. 13.1.04 ..
इत्युदक-चरणानि ॥ १३.१.०५ ॥
ityudaka-caraṇāni .. 13.1.05 ..
तैर्वरुण-नाग-कन्या-वाक्य-क्रिया सम्भाषणं च । कोप-स्थानेषु मुखादग्नि-धूम-उत्सर्गः ॥ १३.१.०६ ॥
tairvaruṇa-nāga-kanyā-vākya-kriyā sambhāṣaṇaṃ ca . kopa-sthāneṣu mukhādagni-dhūma-utsargaḥ .. 13.1.06 ..
तदस्य स्व-विषये कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-इक्षणिक-गूढ-पुरुषाः साचिव्य-करास्तद्-दर्शिनश्च प्रकाशयेयुः ॥ १३.१.०७ ॥
tadasya sva-viṣaye kārtāntika-naimittika-mauhūrtika-paurāṇika-ikṣaṇika-gūḍha-puruṣāḥ sācivya-karāstad-darśinaśca prakāśayeyuḥ .. 13.1.07 ..
परस्य विषये दैवत-दर्शनं दिव्य-कोश-दण्ड-उत्पत्तिं चास्य ब्रूयुः ॥ १३.१.०८ ॥
parasya viṣaye daivata-darśanaṃ divya-kośa-daṇḍa-utpattiṃ cāsya brūyuḥ .. 13.1.08 ..
दैवत-प्रश्न-निमित्त-वायस-अङ्ग-विद्या-स्वप्न-मृग-पक्षि-व्याहारेषु चास्य विजयं ब्रूयुः । विपरीतं अमित्रस्य ॥ १३.१.०९ ॥
daivata-praśna-nimitta-vāyasa-aṅga-vidyā-svapna-mṛga-pakṣi-vyāhāreṣu cāsya vijayaṃ brūyuḥ . viparītaṃ amitrasya .. 13.1.09 ..
सदुन्दुभिं उल्कां च परस्य नक्षत्रे दर्शयेयुः ॥ १३.१.१० ॥
sadundubhiṃ ulkāṃ ca parasya nakṣatre darśayeyuḥ .. 13.1.10 ..
परस्य मुख्यान्मित्रत्वेनौपदिशन्तो दूत-व्यञ्जनाः स्वामि-सत्कारं ब्रूयुः । स्व-पक्ष-बल-आधानं पर-पक्ष-प्रतिघातं च ॥ १३.१.११ ॥
parasya mukhyānmitratvenaupadiśanto dūta-vyañjanāḥ svāmi-satkāraṃ brūyuḥ . sva-pakṣa-bala-ādhānaṃ para-pakṣa-pratighātaṃ ca .. 13.1.11 ..
तुल्य-योग-क्षेमं अमात्यानां आयुधीयानां च कथयेयुः ॥ १३.१.१२ ॥
tulya-yoga-kṣemaṃ amātyānāṃ āyudhīyānāṃ ca kathayeyuḥ .. 13.1.12 ..
तेषु व्यसन-अभ्युदय-अवेक्षणं अपत्य-पूजनं च प्रयुञ्जीत ॥ १३.१.१३ ॥
teṣu vyasana-abhyudaya-avekṣaṇaṃ apatya-pūjanaṃ ca prayuñjīta .. 13.1.13 ..
तेन पर-पक्षं उत्साहयेद्यथा-उक्तं पुरस्तात् ॥ १३.१.१४ ॥
tena para-pakṣaṃ utsāhayedyathā-uktaṃ purastāt .. 13.1.14 ..
भूयश्च वक्ष्यामः ॥ १३.१.१५ ॥
bhūyaśca vakṣyāmaḥ .. 13.1.15 ..
साधारण-गर्दभेन दक्षान् । लकुट-शाखा-हननाभ्यां दण्ड-चारिणः । कुल-एडकेन चौद्विग्नान् । अशनि-वर्षेण विमानितान् । विदुलेनावकेशिना वायस-पिण्डेन कैतवज-मेघेनैति विहत-आशान्दुर्भग-अलंकारेण द्वेषिणाइति पूजा-फलान् । व्याघ्र-चर्मणा मृत्यु-कूटेन चौपहितान् । पीलु-विखादनेन करक-योष्ट्रया गर्दभी-क्षीरा-अभिमन्थनेनैति ध्रुव-उपकारिण इति ॥ १३.१.१६ ॥
sādhāraṇa-gardabhena dakṣān . lakuṭa-śākhā-hananābhyāṃ daṇḍa-cāriṇaḥ . kula-eḍakena caudvignān . aśani-varṣeṇa vimānitān . vidulenāvakeśinā vāyasa-piṇḍena kaitavaja-meghenaiti vihata-āśāndurbhaga-alaṃkāreṇa dveṣiṇāiti pūjā-phalān . vyāghra-carmaṇā mṛtyu-kūṭena caupahitān . pīlu-vikhādanena karaka-yoṣṭrayā gardabhī-kṣīrā-abhimanthanenaiti dhruva-upakāriṇa iti .. 13.1.16 ..
प्रतिपन्नानर्थ-मानाभ्यां योजयेत् ॥ १३.१.१७ ॥
pratipannānartha-mānābhyāṃ yojayet .. 13.1.17 ..
द्रव्य-भक्तच्-छिद्रेषु चएनान्द्रव्य-भक्त-दानैरनुगृह्णीयात् ॥ १३.१.१८ ॥
dravya-bhaktac-chidreṣu caenāndravya-bhakta-dānairanugṛhṇīyāt .. 13.1.18 ..
अप्रतिगृह्णतां स्त्री-कुमार-अलंकारानभिहरेयुः ॥ १३.१.१९ ॥
apratigṛhṇatāṃ strī-kumāra-alaṃkārānabhihareyuḥ .. 13.1.19 ..
दुर्भिक्ष-स्तेन-अटव्य्-उपघातेषु च पौर-जानपदानुत्साहयन्तः सत्त्रिणो ब्रूयुः "राजानं अनुग्रहं याचामहे निरनुग्रहाः परत्र गच्छामः" इति ॥ १३.१.२० ॥
durbhikṣa-stena-aṭavy-upaghāteṣu ca paura-jānapadānutsāhayantaḥ sattriṇo brūyuḥ "rājānaṃ anugrahaṃ yācāmahe niranugrahāḥ paratra gacchāmaḥ" iti .. 13.1.20 ..
तथाइति प्रतिपन्नेषु द्रव्य-धान्यान्यपरिग्रहैः । ॥ १३.१.२१अ ब ॥
tathāiti pratipanneṣu dravya-dhānyānyaparigrahaiḥ . .. 13.1.21a ba ..
साचिव्यं कार्यं इत्येतदुपजापाद्भूतं महत् ॥ १३.१.२१च्द् ॥
sācivyaṃ kāryaṃ ityetadupajāpādbhūtaṃ mahat .. 13.1.21cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In