| |
|

This overlay will guide you through the buttons:

मुण्डो जटिलो वा पर्वत-गुह-आवासी चतुर्-वर्ष-शत-आयुर्ब्रुवाणः प्रभूत-जटिल-अन्ते-वासी नगर-अभ्याशे तिष्ठेत् ॥ १३.२.०१ ॥
मुण्डः जटिलः वा पर्वत-गुह-आवासी चतुर्-वर्ष-शत-आयुः-ब्रुवाणः प्रभूत-जटिल-अन्ते वासी नगर-अभ्याशे तिष्ठेत् ॥ १३।२।०१ ॥
muṇḍaḥ jaṭilaḥ vā parvata-guha-āvāsī catur-varṣa-śata-āyuḥ-bruvāṇaḥ prabhūta-jaṭila-ante vāsī nagara-abhyāśe tiṣṭhet .. 13.2.01 ..
शिष्याश्चास्य मूल-फल-उपगमनैरमात्यान्राजानं च भगवद्-दर्शनाय योजयेयुः ॥ १३.२.०२ ॥
शिष्याः च अस्य मूल-फल-उपगमनैः अमात्यान् राजानम् च भगवत्-दर्शनाय योजयेयुः ॥ १३।२।०२ ॥
śiṣyāḥ ca asya mūla-phala-upagamanaiḥ amātyān rājānam ca bhagavat-darśanāya yojayeyuḥ .. 13.2.02 ..
समागताश्च राज्ञा पूर्व-राज-देश-अभिज्ञानानि कथयेत् । "शते शते च वर्षाणां पूर्णेअहं अग्निं प्रविश्य पुनर्बालो भवामि । तदिह भवत्समीपे चतुर्थं अग्निं प्रवेक्ष्यामि । अवश्यं मे भवान्मानयितव्यः । त्रीन्वरान्वृणीष्ण(वृषीष्व)" इति ॥ १३.२.०३ ॥
समागताः च राज्ञा पूर्व-राज-देश-अभिज्ञानानि कथयेत् । "शते शते च वर्षाणाम् पूर्णे अहम् अग्निम् प्रविश्य पुनर् बालः भवामि । तत् इह भवत्-समीपे चतुर्थम् अग्निम् प्रवेक्ष्यामि । अवश्यम् मे भवान् मानयितव्यः । त्रीन् वरान् वृणीष्ण(वृषीष्व" इति ॥ १३।२।०३ ॥
samāgatāḥ ca rājñā pūrva-rāja-deśa-abhijñānāni kathayet . "śate śate ca varṣāṇām pūrṇe aham agnim praviśya punar bālaḥ bhavāmi . tat iha bhavat-samīpe caturtham agnim pravekṣyāmi . avaśyam me bhavān mānayitavyaḥ . trīn varān vṛṇīṣṇa(vṛṣīṣva" iti .. 13.2.03 ..
प्रतिपन्नं ब्रूयात्"सप्त-रात्रं इह सपुत्र-दारेण प्रेक्षा-प्रहवण-पूर्वं वस्तव्यम्" इति ॥ १३.२.०४ ॥
प्रतिपन्नम् ब्रूयात्"सप्त-रात्रम् इह स पुत्र-दारेण प्रेक्षा-प्रहवण-पूर्वम् वस्तव्यम्" इति ॥ १३।२।०४ ॥
pratipannam brūyāt"sapta-rātram iha sa putra-dāreṇa prekṣā-prahavaṇa-pūrvam vastavyam" iti .. 13.2.04 ..
वसन्तं अवस्कन्देत ॥ १३.२.०५ ॥
वसन्तम् अवस्कन्देत ॥ १३।२।०५ ॥
vasantam avaskandeta .. 13.2.05 ..
मुण्डो वा जटिलो वा स्थानिक-व्यञ्जनः प्रभूत-जटिल-अन्ते-वासी वस्त-शोणित-दिग्धां वेणु-शलाकां सुवर्ण-चूर्णेनावलिप्य वल्मीके निदध्यादुपजिह्विक-अनुसरण-अर्थम् । स्वर्ण-नालिकां वा ॥ १३.२.०६ ॥
मुण्डः वा जटिलः वा स्थानिक-व्यञ्जनः प्रभूत-जटिल-अन्ते वासी वेणु-शलाकाम् सुवर्ण-चूर्णेन अवलिप्य वल्मीके निदध्यात् उपजिह्विक-अनुसरण-अर्थम् । स्वर्ण-नालिकाम् वा ॥ १३।२।०६ ॥
muṇḍaḥ vā jaṭilaḥ vā sthānika-vyañjanaḥ prabhūta-jaṭila-ante vāsī veṇu-śalākām suvarṇa-cūrṇena avalipya valmīke nidadhyāt upajihvika-anusaraṇa-artham . svarṇa-nālikām vā .. 13.2.06 ..
ततः सत्त्री राज्ञः कथयेत्"असौ सिद्धः पुष्पितं निधिं जानाति" इति ॥ १३.२.०७ ॥
ततस् सत्त्री राज्ञः कथयेत्"असौ सिद्धः पुष्पितम् निधिम् जानाति" इति ॥ १३।२।०७ ॥
tatas sattrī rājñaḥ kathayet"asau siddhaḥ puṣpitam nidhim jānāti" iti .. 13.2.07 ..
स राज्ञा पृष्ठः "तथा" इति ब्रूयात् । तच्चाभिज्ञानं दर्शयेत् । भूयो वा हिरण्यं अन्तर्-आधाय ॥ १३.२.०८ ॥
स राज्ञा पृष्ठः "तथा" इति ब्रूयात् । तत् च अभिज्ञानम् दर्शयेत् । भूयः वा हिरण्यम् अन्तर् आधाय ॥ १३।२।०८ ॥
sa rājñā pṛṣṭhaḥ "tathā" iti brūyāt . tat ca abhijñānam darśayet . bhūyaḥ vā hiraṇyam antar ādhāya .. 13.2.08 ..
ब्रूयाच्चएनं "नाग-रक्षितोअयं निधिः प्रणिपात-साध्यः" इति ॥ १३.२.०९ ॥
ब्रूयात् च एनम् "नाग-रक्षितः अयम् निधिः प्रणिपात-साध्यः" इति ॥ १३।२।०९ ॥
brūyāt ca enam "nāga-rakṣitaḥ ayam nidhiḥ praṇipāta-sādhyaḥ" iti .. 13.2.09 ..
प्रतिपन्नं ब्रूयात्"सप्त-रात्रम्" इति समानं ॥ १३.२.१० ॥
प्रतिपन्नम् ब्रूयात्"सप्त-रात्रम्" इति समानम् ॥ १३।२।१० ॥
pratipannam brūyāt"sapta-rātram" iti samānam .. 13.2.10 ..
स्थानिक-व्यञ्जनं वा रात्रौ तेजन-अग्नि-युक्तं एकान्ते तिष्ठन्तं सत्त्रिणः क्रम-अभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ॥ १३.२.११ ॥
स्थानिक-व्यञ्जनम् वा रात्रौ तेजन-अग्नि-युक्तम् एकान्ते तिष्ठन्तम् सत्त्रिणः क्रम-अभीनीतम् राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ॥ १३।२।११ ॥
sthānika-vyañjanam vā rātrau tejana-agni-yuktam ekānte tiṣṭhantam sattriṇaḥ krama-abhīnītam rājñaḥ kathayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti .. 13.2.11 ..
तं राजा यं अर्थं याचेत तं अस्य करिष्यमाणः "सप्त-रात्रम्" इति समानं ॥ १३.२.१२ ॥
तम् राजा यम् अर्थम् याचेत तम् अस्य करिष्यमाणः "सप्त-रात्रम्" इति समानम् ॥ १३।२।१२ ॥
tam rājā yam artham yāceta tam asya kariṣyamāṇaḥ "sapta-rātram" iti samānam .. 13.2.12 ..
सिद्ध-व्यञ्जनो वा राजानं जम्भक-विद्याभिः प्रलोभयेत् ॥ १३.२.१३ ॥
सिद्ध-व्यञ्जनः वा राजानम् जम्भक-विद्याभिः प्रलोभयेत् ॥ १३।२।१३ ॥
siddha-vyañjanaḥ vā rājānam jambhaka-vidyābhiḥ pralobhayet .. 13.2.13 ..
तं राजाइति समानं ॥ १३.२.१४ ॥
तम् राजा ऐति समानम् ॥ १३।२।१४ ॥
tam rājā aiti samānam .. 13.2.14 ..
सिद्ध-व्यञ्जनो वा देश-देवतां अभ्यर्हितां आश्रित्य प्रहवणैरभीक्ष्णं प्रकृति-मुख्यानभिसंवास्य क्रमेण राजानं अतिसंदध्यात् ॥ १३.२.१५ ॥
सिद्ध-व्यञ्जनः वा देश-देवताम् अभ्यर्हिताम् आश्रित्य प्रहवणैः अभीक्ष्णम् प्रकृति-मुख्यान् अभिसंवास्य क्रमेण राजानम् अतिसंदध्यात् ॥ १३।२।१५ ॥
siddha-vyañjanaḥ vā deśa-devatām abhyarhitām āśritya prahavaṇaiḥ abhīkṣṇam prakṛti-mukhyān abhisaṃvāsya krameṇa rājānam atisaṃdadhyāt .. 13.2.15 ..
जटिल-व्यञ्जनं अन्तर्-उदक-वासिनं वा सर्व-श्वेतं तट-सुरुङ्गा-भूमि-गृह-अपसरणं वरुणं नाग-राजं वा सत्त्रिणः क्रम-अभिनीतं राज्ञः कथयेयुः ॥ १३.२.१६ ॥
जटिल-व्यञ्जनम् अन्तर् उदक-वासिनम् वा सर्व-श्वेतम् तट-सुरुङ्गा-भूमि-गृह-अपसरणम् वरुणम् नाग-राजम् वा सत्त्रिणः क्रम-अभिनीतम् राज्ञः कथयेयुः ॥ १३।२।१६ ॥
jaṭila-vyañjanam antar udaka-vāsinam vā sarva-śvetam taṭa-suruṅgā-bhūmi-gṛha-apasaraṇam varuṇam nāga-rājam vā sattriṇaḥ krama-abhinītam rājñaḥ kathayeyuḥ .. 13.2.16 ..
तं राजाइति समानं ॥ १३.२.१७ ॥
तम् राजा ऐति समानम् ॥ १३।२।१७ ॥
tam rājā aiti samānam .. 13.2.17 ..
जन-पद-अन्ते-वासी सिद्ध-व्यञ्जनो वा राजानं शत्रु-दर्शनाय योजयेत् ॥ १३.२.१८ ॥
जन-पद-अन्ते वासी सिद्ध-व्यञ्जनः वा राजानम् शत्रु-दर्शनाय योजयेत् ॥ १३।२।१८ ॥
jana-pada-ante vāsī siddha-vyañjanaḥ vā rājānam śatru-darśanāya yojayet .. 13.2.18 ..
प्रतिपन्नं बिम्बं कृत्वा शत्रुं आवाहयित्वा निरुद्धे देशे घातयेत् ॥ १३.२.१९ ॥
प्रतिपन्नम् बिम्बम् कृत्वा शत्रुम् आवाहयित्वा निरुद्धे देशे घातयेत् ॥ १३।२।१९ ॥
pratipannam bimbam kṛtvā śatrum āvāhayitvā niruddhe deśe ghātayet .. 13.2.19 ..
अश्व-पण्य-उपयाता वैदेहक-व्यञ्जनाः पण्य-उपायन-निमित्तं आहूय राजानं पण्य-परीक्षायां आसक्तं अश्व-व्यतिकीर्णं वा हन्युः । अश्वैश्च प्रहरेयुः ॥ १३.२.२० ॥
अश्व-पण्य-उपयाताः वैदेहक-व्यञ्जनाः पण्य-उपायन-निमित्तम् आहूय राजानम् पण्य-परीक्षायाम् आसक्तम् अश्व-व्यतिकीर्णम् वा हन्युः । अश्वैः च प्रहरेयुः ॥ १३।२।२० ॥
aśva-paṇya-upayātāḥ vaidehaka-vyañjanāḥ paṇya-upāyana-nimittam āhūya rājānam paṇya-parīkṣāyām āsaktam aśva-vyatikīrṇam vā hanyuḥ . aśvaiḥ ca prahareyuḥ .. 13.2.20 ..
नगर-अभ्याशे वा चैत्यं आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन्वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः । पूजा नो वर्तताम्" इत्यव्यक्तं ब्रूयुः ॥ १३.२.२१ ॥
नगर-अभ्याशे वा चैत्यम् आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन् वा विदुलानि धमन्तः "स्वामिनः मुख्यानाम् वा मांसानि भक्षयिष्यामः । पूजा नः वर्तताम्" इति अव्यक्तम् ब्रूयुः ॥ १३।२।२१ ॥
nagara-abhyāśe vā caityam āruhya rātrau tīkṣṇāḥ kumbheṣu nālīn vā vidulāni dhamantaḥ "svāminaḥ mukhyānām vā māṃsāni bhakṣayiṣyāmaḥ . pūjā naḥ vartatām" iti avyaktam brūyuḥ .. 13.2.21 ..
तदेषां नैमित्तिक-मौहूर्तिक-व्यञ्जनाः ख्यापयेयुः ॥ १३.२.२२ ॥
तत् एषाम् नैमित्तिक-मौहूर्तिक-व्यञ्जनाः ख्यापयेयुः ॥ १३।२।२२ ॥
tat eṣām naimittika-mauhūrtika-vyañjanāḥ khyāpayeyuḥ .. 13.2.22 ..
मङ्गल्ये वा ह्रदे तटाक-मध्ये वा रात्रौ तेजन-तैल-अभ्यक्ता नाग-रूपिणः शक्ति-मुसलान्ययोमयानि निष्पेषयन्तस्तथैव ब्रूयुः ॥ १३.२.२३ ॥
मङ्गल्ये वा ह्रदे तटाक-मध्ये वा रात्रौ तेजन-तैल-अभ्यक्ताः नाग-रूपिणः शक्ति-मुसलानि अयः-मयानि निष्पेषयन्तः तथा एव ब्रूयुः ॥ १३।२।२३ ॥
maṅgalye vā hrade taṭāka-madhye vā rātrau tejana-taila-abhyaktāḥ nāga-rūpiṇaḥ śakti-musalāni ayaḥ-mayāni niṣpeṣayantaḥ tathā eva brūyuḥ .. 13.2.23 ..
ऋक्ष-चर्म-कञ्चुकिनो वाअग्नि-धूम-उत्सर्ग-युक्ता रक्षो-रूपं वहन्तस्त्रिरपसव्यं नगरं कुर्वाणाः श्व-सृगाल-वाशित-अन्तरेषु तथैव ब्रूयुः ॥ १३.२.२४ ॥
ऋक्ष-चर्म-कञ्चुकिनः वा अअग्नि-धूम-उत्सर्ग-युक्ताः रक्षः-रूपम् वहन्तः त्रिस् अपसव्यम् नगरम् कुर्वाणाः श्व-सृगाल-वाशित-अन्तरेषु तथा एव ब्रूयुः ॥ १३।२।२४ ॥
ṛkṣa-carma-kañcukinaḥ vā aagni-dhūma-utsarga-yuktāḥ rakṣaḥ-rūpam vahantaḥ tris apasavyam nagaram kurvāṇāḥ śva-sṛgāla-vāśita-antareṣu tathā eva brūyuḥ .. 13.2.24 ..
चैत्य-दैवत-प्रतिमां वा तेजन-तैलेनाभ्र-पटलच्-छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ॥ १३.२.२५ ॥
चैत्य-दैवत-प्रतिमाम् वा तेजन-तैलेन अभ्र-पटल-छन्नेन अग्निना वा रात्रौ प्रज्वाल्य तथा एव ब्रूयुः ॥ १३।२।२५ ॥
caitya-daivata-pratimām vā tejana-tailena abhra-paṭala-channena agninā vā rātrau prajvālya tathā eva brūyuḥ .. 13.2.25 ..
तदन्ये ख्यापयेयुः ॥ १३.२.२६ ॥
तत् अन्ये ख्यापयेयुः ॥ १३।२।२६ ॥
tat anye khyāpayeyuḥ .. 13.2.26 ..
दैवत-प्रतिमानां अभ्यर्हितानां वा शोणितेन प्रस्रावं अतिमात्रं कुर्युः ॥ १३.२.२७ ॥
दैवत-प्रतिमानाम् अभ्यर्हितानाम् वा शोणितेन प्रस्रावम् अतिमात्रम् कुर्युः ॥ १३।२।२७ ॥
daivata-pratimānām abhyarhitānām vā śoṇitena prasrāvam atimātram kuryuḥ .. 13.2.27 ..
तदन्ये देव-रुधिर-संस्रावे संग्रामे पराजयं ब्रूयुः ॥ १३.२.२८ ॥
तद्-अन्ये देव-रुधिर-संस्रावे संग्रामे पराजयम् ब्रूयुः ॥ १३।२।२८ ॥
tad-anye deva-rudhira-saṃsrāve saṃgrāme parājayam brūyuḥ .. 13.2.28 ..
संधि-रात्रिषु श्मशान-प्रमुखे वा चैत्यं ऊर्ध्व-भक्षितैर्मनुष्यैः प्ररूपयेयुः ॥ १३.२.२९ ॥
संधि-रात्रिषु श्मशान-प्रमुखे वा चैत्यम् ऊर्ध्व-भक्षितैः मनुष्यैः प्ररूपयेयुः ॥ १३।२।२९ ॥
saṃdhi-rātriṣu śmaśāna-pramukhe vā caityam ūrdhva-bhakṣitaiḥ manuṣyaiḥ prarūpayeyuḥ .. 13.2.29 ..
ततो रक्षो-रूपी मनुष्यकं याचेत ॥ १३.२.३० ॥
ततस् रक्षः-रूपी मनुष्यकम् याचेत ॥ १३।२।३० ॥
tatas rakṣaḥ-rūpī manuṣyakam yāceta .. 13.2.30 ..
यश्चात्र शूर-वादिकोअन्यतमो वा द्रष्टुं आगच्छेत्तं अन्ये लोह-मुसलैर्हन्युः । यथा रक्षोभिर्हत इति ज्ञायेत ॥ १३.२.३१ ॥
यः च अत्र शूर-वादिकः अन्यतमः वा द्रष्टुम् आगच्छेत् तम् अन्ये लोह-मुसलैः हन्युः । यथा रक्षोभिः हतः इति ज्ञायेत ॥ १३।२।३१ ॥
yaḥ ca atra śūra-vādikaḥ anyatamaḥ vā draṣṭum āgacchet tam anye loha-musalaiḥ hanyuḥ . yathā rakṣobhiḥ hataḥ iti jñāyeta .. 13.2.31 ..
तदद्भुतं राज्ञस्तद्-दर्शिनः सत्त्रिणश्च कथयेयुः ॥ १३.२.३२ ॥
तत् अद्भुतम् राज्ञः तद्-दर्शिनः सत्त्रिणः च कथयेयुः ॥ १३।२।३२ ॥
tat adbhutam rājñaḥ tad-darśinaḥ sattriṇaḥ ca kathayeyuḥ .. 13.2.32 ..
ततो नैमितित्क-मौहूर्तिक-व्यञ्जनाः शान्तिं प्रायश्-चित्तं ब्रूयुः "अन्यथा महदकुशलं राज्ञो देशस्य च" इति ॥ १३.२.३३ ॥
ततस् नैमितित्क-मौहूर्तिक-व्यञ्जनाः शान्तिम् प्रायश्चित्तम् ब्रूयुः "अन्यथा महत् अकुशलम् राज्ञः देशस्य च" इति ॥ १३।२।३३ ॥
tatas naimititka-mauhūrtika-vyañjanāḥ śāntim prāyaścittam brūyuḥ "anyathā mahat akuśalam rājñaḥ deśasya ca" iti .. 13.2.33 ..
प्रतिपन्नं "एतेषु सप्त-रात्रं एक-एक-मन्त्र-बलि-होमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ॥ १३.२.३४ ॥
प्रतिपन्नम् "एतेषु सप्त-रात्रम् एक-एक-मन्त्र-बलि-होमम् स्वयम् राज्ञा कर्तव्यम्" इति ब्रूयुः ॥ १३।२।३४ ॥
pratipannam "eteṣu sapta-rātram eka-eka-mantra-bali-homam svayam rājñā kartavyam" iti brūyuḥ .. 13.2.34 ..
ततः समानं ॥ १३.२.३५ ॥
ततस् समानम् ॥ १३।२।३५ ॥
tatas samānam .. 13.2.35 ..
एतान्वा योगानात्मनि दर्शयित्वा प्रतिकुर्वीत परेषां उपदेश-अर्थं ॥ १३.२.३६ ॥
एतान् वा योगान् आत्मनि दर्शयित्वा प्रतिकुर्वीत परेषाम् उपदेश-अर्थम् ॥ १३।२।३६ ॥
etān vā yogān ātmani darśayitvā pratikurvīta pareṣām upadeśa-artham .. 13.2.36 ..
ततः प्रयोजयेद्योगान् ॥ १३.२.३७ ॥
ततस् प्रयोजयेत् योगान् ॥ १३।२।३७ ॥
tatas prayojayet yogān .. 13.2.37 ..
योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ॥ १३.२.३८ ॥
योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणम् कुर्यात् ॥ १३।२।३८ ॥
yoga-darśana-pratīkāreṇa vā kośa-abhisaṃharaṇam kuryāt .. 13.2.38 ..
हस्ति-कामं वा नाग-वन-पाला हस्तिना लक्षण्येन प्रलोभयेयुः ॥ १३.२.३९ ॥
हस्ति-कामम् वा नाग-वन-पालाः हस्तिना लक्षण्येन प्रलोभयेयुः ॥ १३।२।३९ ॥
hasti-kāmam vā nāga-vana-pālāḥ hastinā lakṣaṇyena pralobhayeyuḥ .. 13.2.39 ..
प्रतिपन्नं गहनं एक-अयनं वाअतिनीय घातयेयुः । बद्ध्वा वाअपहरेयुः ॥ १३.२.४० ॥
प्रतिपन्नम् गहनम् एक-अयनम् वा अअतिनीय घातयेयुः । बद्ध्वा वा अपहरेयुः ॥ १३।२।४० ॥
pratipannam gahanam eka-ayanam vā aatinīya ghātayeyuḥ . baddhvā vā apahareyuḥ .. 13.2.40 ..
तेन मृगया-कामो व्याख्यातः ॥ १३.२.४१ ॥
तेन मृगया-कामः व्याख्यातः ॥ १३।२।४१ ॥
tena mṛgayā-kāmaḥ vyākhyātaḥ .. 13.2.41 ..
द्रव्य-स्त्री-लोलुपं आढ्य-विधवाभिर्वा परम-रूप-यौवनाभिः स्त्रीभिर्दाय-निक्षेप-अर्थं उपनीताभिः सत्त्रिणः प्रलोभयेयुः ॥ १३.२.४२ ॥
द्रव्य-स्त्री-लोलुपम् आढ्य-विधवाभिः वा परम-रूप-यौवनाभिः स्त्रीभिः दाय-निक्षेप-अर्थम् उपनीताभिः सत्त्रिणः प्रलोभयेयुः ॥ १३।२।४२ ॥
dravya-strī-lolupam āḍhya-vidhavābhiḥ vā parama-rūpa-yauvanābhiḥ strībhiḥ dāya-nikṣepa-artham upanītābhiḥ sattriṇaḥ pralobhayeyuḥ .. 13.2.42 ..
प्रतिपन्नं रात्रौ सत्त्रच्-छन्नाः समागमे शस्त्र-रसाभ्यां घातयेयुः ॥ १३.२.४३ ॥
प्रतिपन्नम् रात्रौ सत्त्र-छन्नाः समागमे शस्त्र-रसाभ्याम् घातयेयुः ॥ १३।२।४३ ॥
pratipannam rātrau sattra-channāḥ samāgame śastra-rasābhyām ghātayeyuḥ .. 13.2.43 ..
सिद्ध-प्रव्रजित-चैत्य-स्तूप-दैवत-प्रतिमानां अभीक्ष्ण-अभिगमनेषु वा भूमि-गृह-सुरुङ्ग-आरूढ-भित्ति-प्रविष्टास्तीक्ष्णाः परं अभिहन्युः ॥ १३.२.४४ ॥
सिद्ध-प्रव्रजित-चैत्य-स्तूप-दैवत-प्रतिमानाम् अभीक्ष्ण-अभिगमनेषु वा भूमि-गृह-सुरुङ्ग-आरूढ-भित्ति-प्रविष्टाः तीक्ष्णाः परम् अभिहन्युः ॥ १३।२।४४ ॥
siddha-pravrajita-caitya-stūpa-daivata-pratimānām abhīkṣṇa-abhigamaneṣu vā bhūmi-gṛha-suruṅga-ārūḍha-bhitti-praviṣṭāḥ tīkṣṇāḥ param abhihanyuḥ .. 13.2.44 ..
येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयं । ॥ १३.२.४५अ ब ॥
येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयम् । ॥ १३।२।४५अ ब ॥
yeṣu deśeṣu yāḥ prekṣāḥ prekṣate pārthivaḥ svayam . .. 13.2.45a ba ..
यात्रा-विहारे रमते यत्र क्रीडति वाअम्भसि ॥ काक्१३.२.४५च्द् ॥
यात्रा-विहारे रमते यत्र क्रीडति वा अम्भसि ॥ काक्।२।४५च् ॥
yātrā-vihāre ramate yatra krīḍati vā ambhasi .. kāk.2.45c ..
धिग्-उक्त्य्-आदिषु सर्वेषु यज्ञ-प्रहवणेषु वा । ॥ १३.२.४६अ ब ॥
धिक् उक्ति-आदिषु सर्वेषु यज्ञ-प्रहवणेषु वा । ॥ १३।२।४६अ ब ॥
dhik ukti-ādiṣu sarveṣu yajña-prahavaṇeṣu vā . .. 13.2.46a ba ..
सूतिका-प्रेत-रोगेषु प्रीति-शोक-भयेषु वा । ॥ १३.२.४६च्द् ॥
सूतिका-प्रेत-रोगेषु प्रीति-शोक-भयेषु वा । ॥ १३।२।४६च् ॥
sūtikā-preta-rogeṣu prīti-śoka-bhayeṣu vā . .. 13.2.46c ..
प्रमादं याति यस्मिन्वा विश्वासात्स्व-जन-उत्सवे ॥ १३.२.४७अ ब ॥
प्रमादम् याति यस्मिन् वा विश्वासात् स्व-जन-उत्सवे ॥ १३।२।४७अ ब ॥
pramādam yāti yasmin vā viśvāsāt sva-jana-utsave .. 13.2.47a ba ..
यत्रास्यऽरक्षि-संचारो दुर्दिने संकुलेषु वा । ॥ १३.२.४७च्द् ॥
यत्र अस्य अरक्षि-संचारः दुर्दिने संकुलेषु वा । ॥ १३।२।४७च् ॥
yatra asya arakṣi-saṃcāraḥ durdine saṃkuleṣu vā . .. 13.2.47c ..
विप्र-स्थाने प्रदीप्ते वा प्रविष्टे निर्जनेअपि वा । ॥ १३.२.४८अ ब ॥
विप्र-स्थाने प्रदीप्ते वा प्रविष्टे निर्जने अपि वा । ॥ १३।२।४८अ ब ॥
vipra-sthāne pradīpte vā praviṣṭe nirjane api vā . .. 13.2.48a ba ..
वस्त्र-आभरण-माल्यानां फेलाभिः शयन-आसनैः ॥ १३.२.४८च्द् ॥
वस्त्र-आभरण-माल्यानाम् फेलाभिः शयन-आसनैः ॥ १३।२।४८च् ॥
vastra-ābharaṇa-mālyānām phelābhiḥ śayana-āsanaiḥ .. 13.2.48c ..
मद्य-भोजन-फेलाभिस्तूर्यैर्वाअभिगताः सह । ॥ १३.२.४९अ ब ॥
मद्य-भोजन-फेलाभिः तूर्यैः वा अभिगताः सह । ॥ १३।२।४९अ ब ॥
madya-bhojana-phelābhiḥ tūryaiḥ vā abhigatāḥ saha . .. 13.2.49a ba ..
प्रहरेयुररिं तीक्ष्णाः पूर्व-प्रणिहितैः सह ॥ १३.२.४९च्द् ॥
प्रहरेयुः अरिम् तीक्ष्णाः पूर्व-प्रणिहितैः सह ॥ १३।२।४९च् ॥
prahareyuḥ arim tīkṣṇāḥ pūrva-praṇihitaiḥ saha .. 13.2.49c ..
यथैव प्रविशेयुश्च द्विषतः सत्त्र-हेतुभिः । ॥ १३.२.५०अ ब ॥
यथा एव प्रविशेयुः च द्विषतः सत्त्र-हेतुभिः । ॥ १३।२।५०अ ब ॥
yathā eva praviśeyuḥ ca dviṣataḥ sattra-hetubhiḥ . .. 13.2.50a ba ..
तथैव चापगच्छेयुरित्युक्तं योग-वामनं ॥ १३.२.५०च्द् ॥
तथा एव च अपगच्छेयुः इति उक्तम् योग-वामनम् ॥ १३।२।५०च् ॥
tathā eva ca apagaccheyuḥ iti uktam yoga-vāmanam .. 13.2.50c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In