| |
|

This overlay will guide you through the buttons:

श्रेणी-मुख्यं आप्तं निष्पातयेत् ॥ १३.३.०१ ॥
श्रेणी-मुख्यम् आप्तम् निष्पातयेत् ॥ १३।३।०१ ॥
śreṇī-mukhyam āptam niṣpātayet .. 13.3.01 ..
स परं आश्र्त्य पक्ष-अपदेशेन स्व-विषयात्साचिव्य-कर-सहाय-उपादानं कुर्वीत ॥ १३.३.०२ ॥
स परम् आश्र्त्य पक्ष-अपदेशेन स्व-विषयात् साचिव्य-कर-सहाय-उपादानम् कुर्वीत ॥ १३।३।०२ ॥
sa param āśrtya pakṣa-apadeśena sva-viṣayāt sācivya-kara-sahāya-upādānam kurvīta .. 13.3.02 ..
कृत-अपसर्प-उपचयो वा परं अनुमान्य स्वामिनो दूष्य-ग्रामं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं दण्डं आक्रन्दं वा हत्वा परस्य प्रेषयेत् ॥ १३.३.०३ ॥
कृत-अपसर्प-उपचयः वा परम् अनुमान्य स्वामिनः दूष्य-ग्रामम् वीत-हस्ति-अश्वम् दूष्य-अमात्यम् दण्डम् आक्रन्दम् वा हत्वा परस्य प्रेषयेत् ॥ १३।३।०३ ॥
kṛta-apasarpa-upacayaḥ vā param anumānya svāminaḥ dūṣya-grāmam vīta-hasti-aśvam dūṣya-amātyam daṇḍam ākrandam vā hatvā parasya preṣayet .. 13.3.03 ..
जन-पद-एक-देशं श्रेणीं अटवीं वा सहाय-उपादान-अर्थं संश्रयेत ॥ १३.३.०४ ॥
जन-पद-एक-देशम् श्रेणीम् अटवीम् वा सहाय-उपादान-अर्थम् संश्रयेत ॥ १३।३।०४ ॥
jana-pada-eka-deśam śreṇīm aṭavīm vā sahāya-upādāna-artham saṃśrayeta .. 13.3.04 ..
विश्वासं उपगतः स्वामिनः प्रेषयेत् ॥ १३.३.०५ ॥
विश्वासम् उपगतः स्वामिनः प्रेषयेत् ॥ १३।३।०५ ॥
viśvāsam upagataḥ svāminaḥ preṣayet .. 13.3.05 ..
ततः स्वामी हस्ति-बन्धनं अटवी-घातं वाअपदिश्य गूढं एव प्रहरेत् ॥ १३.३.०६ ॥
ततस् स्वामी हस्ति-बन्धनम् अटवी-घातम् वा अपदिश्य गूढम् एव प्रहरेत् ॥ १३।३।०६ ॥
tatas svāmī hasti-bandhanam aṭavī-ghātam vā apadiśya gūḍham eva praharet .. 13.3.06 ..
एतेनामात्य-अटविका व्याख्याताः ॥ १३.३.०७ ॥
एतेन अमात्य-अटविकाः व्याख्याताः ॥ १३।३।०७ ॥
etena amātya-aṭavikāḥ vyākhyātāḥ .. 13.3.07 ..
शत्रुणा मैत्रीं कृत्वाअमात्यानवक्षिपेत् ॥ १३.३.०८ ॥
शत्रुणा मैत्रीम् कृत्वा अमात्यान् अवक्षिपेत् ॥ १३।३।०८ ॥
śatruṇā maitrīm kṛtvā amātyān avakṣipet .. 13.3.08 ..
ते तत्-शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ॥ १३.३.०९ ॥
ते तद्-शत्रोः प्रेषयेयुः "भर्तारम् नः प्रसादय" इति ॥ १३।३।०९ ॥
te tad-śatroḥ preṣayeyuḥ "bhartāram naḥ prasādaya" iti .. 13.3.09 ..
स यं दूतं प्रेषयेत् । तं उपालभेत "भर्ता ते मां अमात्यैर्भेदयति । न च पुनरिहऽगन्तव्यम्" इति ॥ १३.३.१० ॥
स यम् दूतम् प्रेषयेत् । तम् उपालभेत "भर्ता ते माम् अमात्यैः भेदयति । न च पुनर् इह अ गन्तव्यम्" इति ॥ १३।३।१० ॥
sa yam dūtam preṣayet . tam upālabheta "bhartā te mām amātyaiḥ bhedayati . na ca punar iha a gantavyam" iti .. 13.3.10 ..
अथएकं अमात्यं निष्पातयेत् ॥ १३.३.११ ॥
अथ एकम् अमात्यम् निष्पातयेत् ॥ १३।३।११ ॥
atha ekam amātyam niṣpātayet .. 13.3.11 ..
स परं आश्रित्य योग-अपसर्प-अपरक्त-दूष्यानशक्तिमतः स्तेनऽटविकानुभय-उपघातकान्वा परस्यौपहरेत् ॥ १३.३.१२ ॥
स परम् आश्रित्य योग-अपसर्प-अपरक्त-दूष्यान् अशक्तिमतः स्तेन-अटविक-अनुभय-उपघातकान् वा परस्य औपहरेत् ॥ १३।३।१२ ॥
sa param āśritya yoga-apasarpa-aparakta-dūṣyān aśaktimataḥ stena-aṭavika-anubhaya-upaghātakān vā parasya aupaharet .. 13.3.12 ..
आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातं अस्यौपहरेदन्त-पालं आटविकं दण्ड-चारिणं वा "दृढं असौ चासौ च ते शत्रुणा संधत्ते" इति ॥ १३.३.१३ ॥
आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातम् अस्य औपहरेत् अन्त-पालम् आटविकम् दण्ड-चारिणम् वा "दृढम् असौ च असौ च ते शत्रुणा संधत्ते" इति ॥ १३।३।१३ ॥
āpta-bhāva-upagataḥ pravīra-puruṣa-upaghātam asya aupaharet anta-pālam āṭavikam daṇḍa-cāriṇam vā "dṛḍham asau ca asau ca te śatruṇā saṃdhatte" iti .. 13.3.13 ..
अथ पश्चादभित्यक्त-शासनैरेनान्घातयेत् ॥ १३.३.१४ ॥
अथ पश्चात् अभित्यक्त-शासनैः एनान् घातयेत् ॥ १३।३।१४ ॥
atha paścāt abhityakta-śāsanaiḥ enān ghātayet .. 13.3.14 ..
दण्ड-बल-व्यवहारेण वा शत्रुं उद्योज्य घातयेत् ॥ १३.३.१५ ॥
दण्ड-बल-व्यवहारेण वा शत्रुम् उद्योज्य घातयेत् ॥ १३।३।१५ ॥
daṇḍa-bala-vyavahāreṇa vā śatrum udyojya ghātayet .. 13.3.15 ..
कृत्य-पक्ष-उपग्रहेण वा परस्य-अमित्रं राजानं आत्मन्यपकारयित्वाअभियुञ्जीत ॥ १३.३.१६ ॥
कृत्य-पक्ष-उपग्रहेण वा परस्य अमित्रम् राजानम् आत्मनि अपकारयित्वा अभियुञ्जीत ॥ १३।३।१६ ॥
kṛtya-pakṣa-upagraheṇa vā parasya amitram rājānam ātmani apakārayitvā abhiyuñjīta .. 13.3.16 ..
ततः परस्य प्रेषयेत्"असौ ते वैरी ममापकरोति । तं एहि सम्भूय हनिष्यावः । भूमौ हिरण्ये वा ते परिग्रहः" इति ॥ १३.३.१७ ॥
ततस् परस्य प्रेषयेत्"असौ ते वैरी मम अपकरोति । तम् एहि सम्भूय हनिष्यावः । भूमौ हिरण्ये वा ते परिग्रहः" इति ॥ १३।३।१७ ॥
tatas parasya preṣayet"asau te vairī mama apakaroti . tam ehi sambhūya haniṣyāvaḥ . bhūmau hiraṇye vā te parigrahaḥ" iti .. 13.3.17 ..
प्रतिपन्नं अभिसत्कृत्यऽगतं अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ॥ १३.३.१८ ॥
प्रतिपन्नम् अभिसत्कृत्य अ गतम् अवस्कन्देन प्रकाश-युद्धेन वा शत्रुणा घातयेत् ॥ १३।३।१८ ॥
pratipannam abhisatkṛtya a gatam avaskandena prakāśa-yuddhena vā śatruṇā ghātayet .. 13.3.18 ..
अभिविश्वासन-अर्थं भूमि-दान-पुत्र-अभिषेक-रक्षा-अपदेशेन वा ग्राहयेत् ॥ १३.३.१९ ॥
अभिविश्वासन-अर्थम् भूमि-दान-पुत्र-अभिषेक-रक्षा-अपदेशेन वा ग्राहयेत् ॥ १३।३।१९ ॥
abhiviśvāsana-artham bhūmi-dāna-putra-abhiṣeka-rakṣā-apadeśena vā grāhayet .. 13.3.19 ..
अविषह्यं उपांशु-दण्डेन वा घातयेत् ॥ १३.३.२० ॥
अविषह्यम् उपांशु दण्डेन वा घातयेत् ॥ १३।३।२० ॥
aviṣahyam upāṃśu daṇḍena vā ghātayet .. 13.3.20 ..
स चेद्दण्डं दद्यान्न स्वयं आगच्छेत्तं अस्य वैरिणा घातयेत् ॥ १३.३.२१ ॥
स चेद् दण्डम् दद्यात् न स्वयम् आगच्छेत् तम् अस्य वैरिणा घातयेत् ॥ १३।३।२१ ॥
sa ced daṇḍam dadyāt na svayam āgacchet tam asya vairiṇā ghātayet .. 13.3.21 ..
दण्डेन वा प्रयातुं इच्छेन्न विजिगीषुणा तथाअप्येनं उभयतः-सम्पीडनेन घातयेत् ॥ १३.३.२२ ॥
दण्डेन वा प्रयातुम् इच्छेत् न विजिगीषुणा तथा अपि एनम् उभयतस् सम्पीडनेन घातयेत् ॥ १३।३।२२ ॥
daṇḍena vā prayātum icchet na vijigīṣuṇā tathā api enam ubhayatas sampīḍanena ghātayet .. 13.3.22 ..
अविश्वस्तो वा प्रत्येकशो यातुं इच्छेद्राज्य-एक-देशं वा यातव्यस्यऽदातु-कामः । तथाअप्येनं वैरिणा सर्व-संदोहेन वा घातयेत् ॥ १३.३.२३ ॥
अ विश्वस्तः वा प्रत्येकशस् यातुम् इच्छेत् राज्य-एक-देशम् वा यातव्यस्य अ दातु-कामः । तथा अपि एनम् वैरिणा सर्व-संदोहेन वा घातयेत् ॥ १३।३।२३ ॥
a viśvastaḥ vā pratyekaśas yātum icchet rājya-eka-deśam vā yātavyasya a dātu-kāmaḥ . tathā api enam vairiṇā sarva-saṃdohena vā ghātayet .. 13.3.23 ..
वैरिणा वा सक्तस्य दण्ड-उपनयेन मूलं अन्यतो हारयेत् ॥ १३.३.२४ ॥
वैरिणा वा सक्तस्य दण्ड-उपनयेन मूलम् अन्यतस् हारयेत् ॥ १३।३।२४ ॥
vairiṇā vā saktasya daṇḍa-upanayena mūlam anyatas hārayet .. 13.3.24 ..
शत्रु-भूम्या वा मित्रं पणेत । मित्र-भूम्या वा शत्रुं ॥ १३.३.२५ ॥
शत्रु-भूम्या वा मित्रम् पणेत । मित्र-भूम्या वा शत्रुम् ॥ १३।३।२५ ॥
śatru-bhūmyā vā mitram paṇeta . mitra-bhūmyā vā śatrum .. 13.3.25 ..
ततः शत्रु-भूमि-लिप्सायां मित्रेणऽत्मन्यपकारयित्वाअभियुञ्जीत इति समानाः पूर्वेण सर्व एव योगाः ॥ १३.३.२६ ॥
ततस् शत्रु-भूमि-लिप्सायाम् मित्रेण आत्मनि अपकारयित्वा अभियुञ्जीत इति समानाः पूर्वेण सर्वे एव योगाः ॥ १३।३।२६ ॥
tatas śatru-bhūmi-lipsāyām mitreṇa ātmani apakārayitvā abhiyuñjīta iti samānāḥ pūrveṇa sarve eva yogāḥ .. 13.3.26 ..
शत्रुं वा मित्र-भूमि-लिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात् ॥ १३.३.२७ ॥
शत्रुम् वा मित्र-भूमि-लिप्सायाम् प्रतिपन्नम् दण्डेन अनुगृह्णीयात् ॥ १३।३।२७ ॥
śatrum vā mitra-bhūmi-lipsāyām pratipannam daṇḍena anugṛhṇīyāt .. 13.3.27 ..
ततो मित्र-गतं अतिसंदध्यात् ॥ १३.३.२८ ॥
ततस् मित्र-गतम् अतिसंदध्यात् ॥ १३।३।२८ ॥
tatas mitra-gatam atisaṃdadhyāt .. 13.3.28 ..
कृत-प्रतिविधानो वा व्यसनं आत्मनो दर्शयित्वा मित्रेणामित्रं उत्साहयित्वाआत्मानं अभियोजयेत् ॥ १३.३.२९ ॥
कृत-प्रतिविधानः वा व्यसनम् आत्मनः दर्शयित्वा मित्रेण अमित्रम् उत्साहयित्वा आत्मानम् अभियोजयेत् ॥ १३।३।२९ ॥
kṛta-pratividhānaḥ vā vyasanam ātmanaḥ darśayitvā mitreṇa amitram utsāhayitvā ātmānam abhiyojayet .. 13.3.29 ..
ततः सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ॥ १३.३.३० ॥
ततस् सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयम् कारयेत् ॥ १३।३।३० ॥
tatas sampīḍanena ghātayet . jīva-grāheṇa vā rājya-vinimayam kārayet .. 13.3.30 ..
मित्रेणऽश्रितश्चेत्शत्रुरग्राह्ये स्थातुं इच्छेत्सामन्त-आदिभिर्मूलं अस्य हारयेत् ॥ १३.३.३१ ॥
मित्रेण अश्रितः चेद् शत्रुः अग्राह्ये स्थातुम् इच्छेत् सामन्त-आदिभिः मूलम् अस्य हारयेत् ॥ १३।३।३१ ॥
mitreṇa aśritaḥ ced śatruḥ agrāhye sthātum icchet sāmanta-ādibhiḥ mūlam asya hārayet .. 13.3.31 ..
दण्डेन वा त्रातुं इछेत्तं अस्य घातयेत् ॥ १३.३.३२ ॥
दण्डेन वा त्रातुम् इच्छेत् तम् अस्य घातयेत् ॥ १३।३।३२ ॥
daṇḍena vā trātum icchet tam asya ghātayet .. 13.3.32 ..
तौ चेन्न भिद्येयातां प्रकाशं एवान्योन्य-भूम्या पणेत ॥ १३.३.३३ ॥
तौ चेद् न भिद्येयाताम् प्रकाशम् एव अन्योन्य-भूम्या पणेत ॥ १३।३।३३ ॥
tau ced na bhidyeyātām prakāśam eva anyonya-bhūmyā paṇeta .. 13.3.33 ..
ततः परस्परं मित्र-व्यञ्जना वा उभय-वेतना वा दूतान्प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रु-संहितः" इति ॥ १३.३.३४ ॥
ततस् परस्परम् मित्र-व्यञ्जनाः वा उभय-वेतनाः वा दूतान् प्रेषयेयुः "अयम् ते राजा भूमिम् लिप्सते शत्रु-संहितः" इति ॥ १३।३।३४ ॥
tatas parasparam mitra-vyañjanāḥ vā ubhaya-vetanāḥ vā dūtān preṣayeyuḥ "ayam te rājā bhūmim lipsate śatru-saṃhitaḥ" iti .. 13.3.34 ..
तयोरन्यतरो जात-आशङ्क-आरोषः । पूर्ववच्चेष्तेत ॥ १३.३.३५ ॥
तयोः अन्यतरः जात-आशङ्कः आरोषः । पूर्ववत् चेष्तेत ॥ १३।३।३५ ॥
tayoḥ anyataraḥ jāta-āśaṅkaḥ āroṣaḥ . pūrvavat ceṣteta .. 13.3.35 ..
दुर्ग-राष्ट्र-दण्ड-मुख्यान्वा कृत्य-पक्ष-हेतुभिरभिविख्याप्य प्रव्राजयेत् ॥ १३.३.३६ ॥
दुर्ग-राष्ट्र-दण्ड-मुख्यान् वा कृत्य-पक्ष-हेतुभिः अभिविख्याप्य प्रव्राजयेत् ॥ १३।३।३६ ॥
durga-rāṣṭra-daṇḍa-mukhyān vā kṛtya-pakṣa-hetubhiḥ abhivikhyāpya pravrājayet .. 13.3.36 ..
ते युद्ध-अवस्कन्द-अवरोध-व्यसनेषु शत्रुं अतिसंदध्युः ॥ १३.३.३७ ॥
ते युद्ध-अवस्कन्द-अवरोध-व्यसनेषु शत्रुम् अतिसंदध्युः ॥ १३।३।३७ ॥
te yuddha-avaskanda-avarodha-vyasaneṣu śatrum atisaṃdadhyuḥ .. 13.3.37 ..
भेदं वाअस्य स्व-वर्गेभ्यः कुर्युः ॥ १३.३.३८ ॥
भेदम् वा अअस्य स्व-वर्गेभ्यः कुर्युः ॥ १३।३।३८ ॥
bhedam vā aasya sva-vargebhyaḥ kuryuḥ .. 13.3.38 ..
अभित्यक्त-शासनैः प्रतिसमानयेयुः ॥ १३.३.३९ ॥
अभित्यक्त-शासनैः प्रतिसमानयेयुः ॥ १३।३।३९ ॥
abhityakta-śāsanaiḥ pratisamānayeyuḥ .. 13.3.39 ..
लुब्धक-व्यञ्जना वा मांस-विक्रयेण द्वाह्स्था दौवारिक-अपाश्रयाश्चोर-अभ्यागमं परस्य द्विस्त्रिरिति निवेद्य लब्ध-प्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्राम-वधेअवस्कन्दे च द्विषतो ब्रूयुः "आसन्नश्चोर-गणः । महांश्चऽक्रन्दः । प्रभूतं सैन्यं आगच्छतु" इति ॥ १३.३.४० ॥
लुब्धक-व्यञ्जनाः वा मांस-विक्रयेण द्वाह्स्थाः दौवारिक-अपाश्रयाः चोर-अभ्यागमम् परस्य द्विस् त्रिस् इति निवेद्य लब्ध-प्रत्यया भर्तुः अनीकम् द्विधा निवेश्य ग्राम-वधे अवस्कन्दे च द्विषतः ब्रूयुः "आसन्नः चोर-गणः । महान् च अक्रन्दः । प्रभूतम् सैन्यम् आगच्छतु" इति ॥ १३।३।४० ॥
lubdhaka-vyañjanāḥ vā māṃsa-vikrayeṇa dvāhsthāḥ dauvārika-apāśrayāḥ cora-abhyāgamam parasya dvis tris iti nivedya labdha-pratyayā bhartuḥ anīkam dvidhā niveśya grāma-vadhe avaskande ca dviṣataḥ brūyuḥ "āsannaḥ cora-gaṇaḥ . mahān ca akrandaḥ . prabhūtam sainyam āgacchatu" iti .. 13.3.40 ..
तदर्पयित्वा ग्राम-घात-दण्डस्य सैन्यं इतरदादाय रात्रौ दुर्ग-द्वारेषु ब्रूयुः "हतश्चोर-गणः । सिद्ध-यात्रं इदं सैन्यं आगतम् । द्वारं अपाव्रियताम्" इति ॥ १३.३.४१ ॥
तत् अर्पयित्वा ग्राम-घात-दण्डस्य सैन्यम् इतरत् आदाय रात्रौ दुर्ग-द्वारेषु ब्रूयुः "हतः चोर-गणः । सिद्ध-यात्रम् इदम् सैन्यम् आगतम् । द्वारम् अपाव्रियताम्" इति ॥ १३।३।४१ ॥
tat arpayitvā grāma-ghāta-daṇḍasya sainyam itarat ādāya rātrau durga-dvāreṣu brūyuḥ "hataḥ cora-gaṇaḥ . siddha-yātram idam sainyam āgatam . dvāram apāvriyatām" iti .. 13.3.41 ..
पूर्व-प्रणिहिता वा द्वाराणि दद्युः ॥ १३.३.४२ ॥
पूर्व-प्रणिहिता वा द्वाराणि दद्युः ॥ १३।३।४२ ॥
pūrva-praṇihitā vā dvārāṇi dadyuḥ .. 13.3.42 ..
तैः सह प्रहरेयुः ॥ १३.३.४३ ॥
तैः सह प्रहरेयुः ॥ १३।३।४३ ॥
taiḥ saha prahareyuḥ .. 13.3.43 ..
कारु-शिल्पि-पाषण्ड-कुशीलव-वैदेहक-व्यञ्जनानायुधीयान्व्वा पर-दुर्गे प्रणिदध्यात् ॥ १३.३.४४ ॥
कारु-शिल्पि-पाषण्ड-कुशीलव-वैदेहक-व्यञ्जन-अन् आयुधीय-अनु वा पर-दुर्गे प्रणिदध्यात् ॥ १३।३।४४ ॥
kāru-śilpi-pāṣaṇḍa-kuśīlava-vaidehaka-vyañjana-an āyudhīya-anu vā para-durge praṇidadhyāt .. 13.3.44 ..
तेषां गृह-पतिक-व्यञ्जनाः काष्ठ-तृण-धान्य-पण्य-शकटैः प्रहरण-आवरणान्यभिहरेयुः । देव-ध्वज-प्रतिमाभिर्वा ॥ १३.३.४५ ॥
तेषाम् गृह-पतिक-व्यञ्जनाः काष्ठ-तृण-धान्य-पण्य-शकटैः प्रहरण-आवरणानि अभिहरेयुः । देव-ध्वज-प्रतिमाभिः वा ॥ १३।३।४५ ॥
teṣām gṛha-patika-vyañjanāḥ kāṣṭha-tṛṇa-dhānya-paṇya-śakaṭaiḥ praharaṇa-āvaraṇāni abhihareyuḥ . deva-dhvaja-pratimābhiḥ vā .. 13.3.45 ..
ततस्तद्-व्यञ्जनाः प्रमत्त-वधं अवस्कन्द-प्रतिग्रहं अभिप्रहरणं पृष्ठतः शङ्ख-दुन्दुभि-शब्देन वा "प्रविष्टम्" इत्यावेदयेयुः ॥ १३.३.४६ ॥
ततस् तद्-व्यञ्जनाः प्रमत्त-वधम् अवस्कन्द-प्रतिग्रहम् अभिप्रहरणम् पृष्ठतस् शङ्ख-दुन्दुभि-शब्देन वा "प्रविष्टम्" इति आवेदयेयुः ॥ १३।३।४६ ॥
tatas tad-vyañjanāḥ pramatta-vadham avaskanda-pratigraham abhipraharaṇam pṛṣṭhatas śaṅkha-dundubhi-śabdena vā "praviṣṭam" iti āvedayeyuḥ .. 13.3.46 ..
प्राकार-द्वार-अट्टालक-दानं अनीक-भेदं घातं वा कुर्युः ॥ १३.३.४७ ॥
प्राकार-द्वार-अट्टालक-दानम् अनीक-भेदम् घातम् वा कुर्युः ॥ १३।३।४७ ॥
prākāra-dvāra-aṭṭālaka-dānam anīka-bhedam ghātam vā kuryuḥ .. 13.3.47 ..
सार्थ-गण-वासिभिरातिवाहिकैः कन्या-वाहिकैरश्व-पण्य-व्यवहारिभिरुपकरण-हारकैर्धान्य-क्रेतृ-विक्रेतृभिर्वा प्रव्रजित-लिङ्गिभिर्दूतैश्च दणड्-अतिनयनम् । संधि-कर्म-विश्वासन-अर्थं ॥ १३.३.४८ ॥
सार्थ-गण-वासिभिः आतिवाहिकैः कन्या-वाहिकैः अश्व-पण्य-व्यवहारिभिः उपकरण-हारकैः धान्य-क्रेतृ-विक्रेतृभिः वा प्रव्रजित-लिङ्गिभिः दूतैः च दणट्-अतिनयनम् । संधि-कर्म-विश्वासन-अर्थम् ॥ १३।३।४८ ॥
sārtha-gaṇa-vāsibhiḥ ātivāhikaiḥ kanyā-vāhikaiḥ aśva-paṇya-vyavahāribhiḥ upakaraṇa-hārakaiḥ dhānya-kretṛ-vikretṛbhiḥ vā pravrajita-liṅgibhiḥ dūtaiḥ ca daṇaṭ-atinayanam . saṃdhi-karma-viśvāsana-artham .. 13.3.48 ..
इति राज-अपसर्पाः ॥ १३.३.४९ ॥
इति राज-अपसर्पाः ॥ १३।३।४९ ॥
iti rāja-apasarpāḥ .. 13.3.49 ..
एत एवाटवीनां अपसर्पाः कण्टक-शोधन-उक्ताश्च ॥ १३.३.५० ॥
एते एव अटवीनाम् अपसर्पाः कण्टक-शोधन-उक्ताः च ॥ १३।३।५० ॥
ete eva aṭavīnām apasarpāḥ kaṇṭaka-śodhana-uktāḥ ca .. 13.3.50 ..
व्रजं अटव्य्-आसन्नं अपसर्पाः सार्थं वा चोरैर्घातयेयुः ॥ १३.३.५१ ॥
व्रजम् अटवी-आसन्नम् अपसर्पाः सार्थम् वा चोरैः घातयेयुः ॥ १३।३।५१ ॥
vrajam aṭavī-āsannam apasarpāḥ sārtham vā coraiḥ ghātayeyuḥ .. 13.3.51 ..
कृत-संकेतं अन्न-पानं चात्र मदन-रस-विद्धं वा कृत्वाअपगच्छेयुः ॥ १३.३.५२ ॥
कृत-संकेतम् अन्न-पानम् च अत्र मदन-रस-विद्धम् वा कृत्वा अपगच्छेयुः ॥ १३।३।५२ ॥
kṛta-saṃketam anna-pānam ca atra madana-rasa-viddham vā kṛtvā apagaccheyuḥ .. 13.3.52 ..
गो-पालक-वैदेहकाश्च ततश्चोरान्गृहीत-लोप्त्र-भारान्मदन-रस-विकार-कालेअवस्कन्दयेयुः ॥ १३.३.५३ ॥
गो-पालक-वैदेहकाः च ततस् चोरान् गृहीत-लोप्त्र-भारान् मदन-रस-विकार-काले अवस्कन्दयेयुः ॥ १३।३।५३ ॥
go-pālaka-vaidehakāḥ ca tatas corān gṛhīta-loptra-bhārān madana-rasa-vikāra-kāle avaskandayeyuḥ .. 13.3.53 ..
संकर्षण-दैवतीयो वा मुण्ड-जटिल-व्यञ्जनः प्रहवण-कर्मणा मदन-रस-योगेनातिसंदध्यात् ॥ १३.३.५४ ॥
संकर्षण-दैवतीयः वा मुण्ड-जटिल-व्यञ्जनः प्रहवण-कर्मणा मदन-रस-योगेन अतिसंदध्यात् ॥ १३।३।५४ ॥
saṃkarṣaṇa-daivatīyaḥ vā muṇḍa-jaṭila-vyañjanaḥ prahavaṇa-karmaṇā madana-rasa-yogena atisaṃdadhyāt .. 13.3.54 ..
अथावस्कन्दं दद्यात् ॥ १३.३.५५ ॥
अथ अवस्कन्दम् दद्यात् ॥ १३।३।५५ ॥
atha avaskandam dadyāt .. 13.3.55 ..
शौण्डिक-व्यञ्जनो वा दैवत-प्रेत-कार्य-उत्सव-समाजेष्वाटविकान्सुरा-विक्रय-उपायन-निमित्तं मदन-रस-योगेनातिसंदध्यात् ॥ १३.३.५६ ॥
शौण्डिक-व्यञ्जनः वा दैवत-प्रेत-कार्य-उत्सव-समाजेषु आटविकान् सुरा-विक्रय-उपायन-निमित्तम् मदन-रस-योगेन अतिसंदध्यात् ॥ १३।३।५६ ॥
śauṇḍika-vyañjanaḥ vā daivata-preta-kārya-utsava-samājeṣu āṭavikān surā-vikraya-upāyana-nimittam madana-rasa-yogena atisaṃdadhyāt .. 13.3.56 ..
अथावस्कन्दं दद्यात् ॥ १३.३.५७ ॥
अथ अवस्कन्दम् दद्यात् ॥ १३।३।५७ ॥
atha avaskandam dadyāt .. 13.3.57 ..
ग्राम-घात-प्रविष्टां वा विक्षिप्य बहुधाअटवीं । ॥ १३.३.५८अ ब ॥
ग्राम-घात-प्रविष्टाम् वा विक्षिप्य बहुधा अटवीम् । ॥ १३।३।५८अ ब ॥
grāma-ghāta-praviṣṭām vā vikṣipya bahudhā aṭavīm . .. 13.3.58a ba ..
घातयेदिति चोराणां अपसर्पाः प्रकीर्तिताः ॥ १३.३.५८च्द् ॥
घातयेत् इति चोराणाम् अपसर्पाः प्रकीर्तिताः ॥ १३।३।५८च् ॥
ghātayet iti corāṇām apasarpāḥ prakīrtitāḥ .. 13.3.58c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In