| |
|

This overlay will guide you through the buttons:

कर्शन-पूर्वं पर्युपासन-कर्म ॥ १३.४.०१ ॥
कर्शन-पूर्वम् पर्युपासन-कर्म ॥ १३।४।०१ ॥
karśana-pūrvam paryupāsana-karma .. 13.4.01 ..
जन-पदं यथा-निविष्टं अभये स्थापयेत् ॥ १३.४.०२ ॥
जन-पदम् यथा निविष्टम् अभये स्थापयेत् ॥ १३।४।०२ ॥
jana-padam yathā niviṣṭam abhaye sthāpayet .. 13.4.02 ..
उत्थितं अनुग्रह-परिहाराभ्यां निवेषयेत् । अन्यत्रापसरतः ॥ १३.४.०३ ॥
उत्थितम् अनुग्रह-परिहाराभ्याम् निवेषयेत् । अन्यत्र अपसरतः ॥ १३।४।०३ ॥
utthitam anugraha-parihārābhyām niveṣayet . anyatra apasarataḥ .. 13.4.03 ..
संग्रामादन्यस्यां भूमौ निवेशयेत् । एकस्यां वा वासयेत् ॥ १३.४.०४ ॥
संग्रामात् अन्यस्याम् भूमौ निवेशयेत् । एकस्याम् वा वासयेत् ॥ १३।४।०४ ॥
saṃgrāmāt anyasyām bhūmau niveśayet . ekasyām vā vāsayet .. 13.4.04 ..
न ह्यजनो जन-पदो राज्यं अजन-पदं वा भवतिइति कौटिल्यः ॥ १३.४.०५ ॥
न हि अजनः जन-पदः राज्यम् अजन-पदम् वा भवति इति कौटिल्यः ॥ १३।४।०५ ॥
na hi ajanaḥ jana-padaḥ rājyam ajana-padam vā bhavati iti kauṭilyaḥ .. 13.4.05 ..
विषमस्थस्य मुष्टिं सस्यं वा हन्याद् । वीवध-प्रसारौ च ॥ १३.४.०६ ॥
विषम-स्थस्य मुष्टिम् सस्यम् वा हन्यात् । वीवध-प्रसारौ च ॥ १३।४।०६ ॥
viṣama-sthasya muṣṭim sasyam vā hanyāt . vīvadha-prasārau ca .. 13.4.06 ..
प्रसार-वीवधच्-छेदान्मुष्टि-सस्य-वधादपि । ॥ १३.४.०७अ ब ॥
प्रसार-वीवधत्-छेदात् मुष्टि-सस्य-वधात् अपि । ॥ १३।४।०७अ ब ॥
prasāra-vīvadhat-chedāt muṣṭi-sasya-vadhāt api . .. 13.4.07a ba ..
वमनाद्गूढ-घाताच्च जायते प्रकृति-क्षयः ॥ १३.४.०७च्द् ॥
वमनात् गूढ-घातात् च जायते प्रकृति-क्षयः ॥ १३।४।०७च् ॥
vamanāt gūḍha-ghātāt ca jāyate prakṛti-kṣayaḥ .. 13.4.07c ..
प्रभूत-गुण-बद्ध(वद्ध)-अन्य-कुप्य-यन्त्र-शस्त्र-आवरण-विष्टिरश्मि-समग्रं मे सैन्यम् । ऋतुश्च पुरस्तात् । अपर्तुः परस्य । व्याधि-दुर्भिक्ष-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्च इति पर्युपासीत ॥ १३.४.०८ ॥
प्रभूत-गुण-बद्ध(वद्ध-अन्य-कुप्य-यन्त्र-शस्त्र-आवरण-विष्टि-रश्मि-समग्रम् मे सैन्यम् । ऋतुः च पुरस्तात् । अपर्तुः परस्य । व्याधि-दुर्भिक्ष-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदः मित्र-बल-निर्वेदः च इति पर्युपासीत ॥ १३।४।०८ ॥
prabhūta-guṇa-baddha(vaddha-anya-kupya-yantra-śastra-āvaraṇa-viṣṭi-raśmi-samagram me sainyam . ṛtuḥ ca purastāt . apartuḥ parasya . vyādhi-durbhikṣa-nicaya-rakṣā-kṣayaḥ krīta-bala-nirvedaḥ mitra-bala-nirvedaḥ ca iti paryupāsīta .. 13.4.08 ..
कृत्वा स्कन्ध-आवारस्य रक्षां वीवध-आसारयोः पथश्च । परिक्षिप्य दुर्गं खात-सालाभ्याम् । दूषयित्वाउदकम् । अवस्राव्य परिखाः सम्पूरयित्वा वा । सुरुङ्गा-बल-कुटिकाभ्यां वप्र-प्राकारौ हारयेत् । दारं च गुडेन ॥ १३.४.०९ ॥
कृत्वा स्कन्ध-आवारस्य रक्षाम् वीवध-आसारयोः पथः च । परिक्षिप्य दुर्गम् खात-सालाभ्याम् । दूषयित्वा उदकम् । अवस्राव्य परिखाः सम्पूरयित्वा वा । सुरुङ्गा-बल-कुटिकाभ्याम् वप्र-प्राकारौ हारयेत् । दारम् च गुडेन ॥ १३।४।०९ ॥
kṛtvā skandha-āvārasya rakṣām vīvadha-āsārayoḥ pathaḥ ca . parikṣipya durgam khāta-sālābhyām . dūṣayitvā udakam . avasrāvya parikhāḥ sampūrayitvā vā . suruṅgā-bala-kuṭikābhyām vapra-prākārau hārayet . dāram ca guḍena .. 13.4.09 ..
निम्नं वा पांसु-मालयाआच्छादयेत् ॥ १३.४.१० ॥
निम्नम् वा पांसु-मालया आच्छादयेत् ॥ १३।४।१० ॥
nimnam vā pāṃsu-mālayā ācchādayet .. 13.4.10 ..
बहुल-आरक्षं यन्त्रैर्घातयेत् ॥ १३.४.११ ॥
बहुलः आरक्षम् यन्त्रैः घातयेत् ॥ १३।४।११ ॥
bahulaḥ ārakṣam yantraiḥ ghātayet .. 13.4.11 ..
निष्किरादुपनिष्कृष्याश्वैश्च प्रहरेयुः ॥ १३.४.१२ ॥
निष्किरात् उपनिष्कृष्य अश्वैः च प्रहरेयुः ॥ १३।४।१२ ॥
niṣkirāt upaniṣkṛṣya aśvaiḥ ca prahareyuḥ .. 13.4.12 ..
विक्रम-अन्तरेषु च नियोग-विकल्प-समुच्चयैश्चौपायानां सिद्धिं लिप्सेत ॥ १३.४.१३ ॥
विक्रम-अन्तरेषु च नियोग-विकल्प-समुच्चयैः च औपायानाम् सिद्धिम् लिप्सेत ॥ १३।४।१३ ॥
vikrama-antareṣu ca niyoga-vikalpa-samuccayaiḥ ca aupāyānām siddhim lipseta .. 13.4.13 ..
दुर्ग-वासिनः श्येन-काक-नप्तृ-भास-शुक-सारिक-उलूक-कपोतान्ग्राहयित्वा पुच्छेष्वग्नि-योग-युक्तान्पर-दुर्गे विसृजेत् ॥ १३.४.१४ ॥
दुर्ग-वासिनः श्येन-काक-नप्तृ-भास-शुक-सारिक-उलूक-कपोतान् ग्राहयित्वा पुच्छेषु अग्नि-योग-युक्तान् पर-दुर्गे विसृजेत् ॥ १३।४।१४ ॥
durga-vāsinaḥ śyena-kāka-naptṛ-bhāsa-śuka-sārika-ulūka-kapotān grāhayitvā puccheṣu agni-yoga-yuktān para-durge visṛjet .. 13.4.14 ..
अपकृष्ट-स्कन्ध-आवारादुच्छ्रित-ध्वज-धन्व-आरक्षो वा मानुषेणाग्निना पर-दुर्गं आदीपयेत् ॥ १३.४.१५ ॥
अपकृष्ट-स्कन्ध-आवार-आदुच्छ्रित-ध्वज-धन्व-आरक्षः वा मानुषेण अग्निना पर-दुर्गम् आदीपयेत् ॥ १३।४।१५ ॥
apakṛṣṭa-skandha-āvāra-āducchrita-dhvaja-dhanva-ārakṣaḥ vā mānuṣeṇa agninā para-durgam ādīpayet .. 13.4.15 ..
गूढ-पुर्षाश्चान्तर्-दुर्ग-पालका नकुल-वानर-बिडाल-शुनां पुच्छेष्वग्नि-योगं आधाय काण्ड-निचय-रक्षा-विधान-वेश्मसु विसृजेयुः ॥ १३.४.१६ ॥
गूढ-पुर्षाः च अन्तर् दुर्ग-पालकाः नकुल-वानर-बिडाल-शुनाम् पुच्छेषु अग्नि-योगम् आधाय काण्ड-निचय-रक्षा-विधान-वेश्मसु विसृजेयुः ॥ १३।४।१६ ॥
gūḍha-purṣāḥ ca antar durga-pālakāḥ nakula-vānara-biḍāla-śunām puccheṣu agni-yogam ādhāya kāṇḍa-nicaya-rakṣā-vidhāna-veśmasu visṛjeyuḥ .. 13.4.16 ..
शुष्क-मत्स्यानां उदरेष्वग्निं आधाय वल्लूरे वा वायस-उपहारेण वयोभिर्हारयेयुः ॥ १३.४.१७ ॥
शुष्क-मत्स्यानाम् उदरेषु अग्निम् आधाय वल्लूरे वा वायस-उपहारेण वयोभिः हारयेयुः ॥ १३।४।१७ ॥
śuṣka-matsyānām udareṣu agnim ādhāya vallūre vā vāyasa-upahāreṇa vayobhiḥ hārayeyuḥ .. 13.4.17 ..
सरल-देव-दारु-पूति-तृण-गुग्गुलु-श्री-वेष्टकसर्जरसलाक्षागुलिकाः खर-उष्ट्र-अजावीनां लेण्डं चाग्नि-धारणं ॥ १३.४.१८ ॥
सरल-देव-दारु-पूति-तृण-गुग्गुलु-श्री-वेष्टक-सर्जरस-लाक्षा-गुलिकाः खर-उष्ट्र-अज-अवीनाम् लेण्डम् च अग्नि-धारणम् ॥ १३।४।१८ ॥
sarala-deva-dāru-pūti-tṛṇa-guggulu-śrī-veṣṭaka-sarjarasa-lākṣā-gulikāḥ khara-uṣṭra-aja-avīnām leṇḍam ca agni-dhāraṇam .. 13.4.18 ..
प्रियाल-चूर्णं अवल्गु-जमषी-मधु-उच्छिष्टं अश्व-खर-उष्ट्र-गो-लेण्डं इत्येष क्षेप्योअग्नि-योगः ॥ १३.४.१९ ॥
प्रियाल-चूर्णम् अवल्गु-जमषी-मधु-उच्छिष्टम् अश्व-खर-उष्ट्र-गो-लेण्डम् इति एष क्षेप्यः अग्नि-योगः ॥ १३।४।१९ ॥
priyāla-cūrṇam avalgu-jamaṣī-madhu-ucchiṣṭam aśva-khara-uṣṭra-go-leṇḍam iti eṣa kṣepyaḥ agni-yogaḥ .. 13.4.19 ..
सर्व-लोह-चूर्णं अग्नि-वर्णं वा कुम्भी-सीस-त्रपु-चूर्णं वा पारिभद्रक-पलाश-पुष्प-केश-मषी-तैल-मधु-उच्छिष्टक-श्री-वेष्टक-युक्तोअग्नि-योगो विश्वास-घाती वा ॥ १३.४.२० ॥
सर्व-लोह-चूर्णम् अग्नि-वर्णम् वा कुम्भी-सीस-त्रपु-चूर्णम् वा पारिभद्रक-पलाश-पुष्प-केश-मषी-तैल-मधु-उच्छिष्टक-श्री-वेष्टक-युक्तः अग्नि-योगः विश्वास-घाती वा ॥ १३।४।२० ॥
sarva-loha-cūrṇam agni-varṇam vā kumbhī-sīsa-trapu-cūrṇam vā pāribhadraka-palāśa-puṣpa-keśa-maṣī-taila-madhu-ucchiṣṭaka-śrī-veṣṭaka-yuktaḥ agni-yogaḥ viśvāsa-ghātī vā .. 13.4.20 ..
तेनावलिप्तः शण-त्रपुस-वल्क-वेष्टितो बाण इत्यग्नि-योगः ॥ १३.४.२१ ॥
तेन अवलिप्तः शण-त्रपुस-वल्क-वेष्टितः बाणः इति अग्नि-योगः ॥ १३।४।२१ ॥
tena avaliptaḥ śaṇa-trapusa-valka-veṣṭitaḥ bāṇaḥ iti agni-yogaḥ .. 13.4.21 ..
न त्वेव विद्यमाने पराक्रमेअग्निं अवसृजेत् ॥ १३.४.२२ ॥
न तु एव विद्यमाने पराक्रमे अग्निम् अवसृजेत् ॥ १३।४।२२ ॥
na tu eva vidyamāne parākrame agnim avasṛjet .. 13.4.22 ..
अविश्वास्यो ह्यग्निर्दैव-पीडनं च । अप्रतिसंख्यात-प्राणि-धान्य-पशु-हिरण्य-कुप्य-द्रव्य-क्षय-करः ॥ १३.४.२३ ॥
अ विश्वास्यः हि अग्निः दैव-पीडनम् च । अप्रतिसंख्यात-प्राणि-धान्य-पशु-हिरण्य-कुप्य-द्रव्य-क्षय-करः ॥ १३।४।२३ ॥
a viśvāsyaḥ hi agniḥ daiva-pīḍanam ca . apratisaṃkhyāta-prāṇi-dhānya-paśu-hiraṇya-kupya-dravya-kṣaya-karaḥ .. 13.4.23 ..
क्षीण-निचयं चावाप्तं अपि राज्यं क्षयायएव भवति (इति पर्युपासन-कर्म) ॥ १३.४.२४ ॥
क्षीण-निचयम् च अवाप्तम् अपि राज्यम् क्षयाय एव भवति (इति पर्युपासन-कर्म ॥ १३।४।२४ ॥
kṣīṇa-nicayam ca avāptam api rājyam kṣayāya eva bhavati (iti paryupāsana-karma .. 13.4.24 ..
सर्व-आरम्भ-उपकरण-विष्टि-सम्पन्नोअस्मि । व्याधितः पर उपधा-विरुद्ध-प्रकृतिरकृत-दुर्ग-कर्म-निचयो वा । निरासारः सासारो वा पुरा मित्रैः संधत्ते इत्यवमर्द-कालः ॥ १३.४.२५ ॥
सर्व-आरम्भ-उपकरण-विष्टि-सम्पन्नः अस्मि । व्याधितः परः उपधा-विरुद्ध-प्रकृतिः अकृत-दुर्ग-कर्म-निचयः वा । निरासारः स आसारः वा पुरा मित्रैः संधत्ते इति अवमर्द-कालः ॥ १३।४।२५ ॥
sarva-ārambha-upakaraṇa-viṣṭi-sampannaḥ asmi . vyādhitaḥ paraḥ upadhā-viruddha-prakṛtiḥ akṛta-durga-karma-nicayaḥ vā . nirāsāraḥ sa āsāraḥ vā purā mitraiḥ saṃdhatte iti avamarda-kālaḥ .. 13.4.25 ..
स्वयं अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा-अनीक-दर्शन-सङ्ग-सौरिक-कलहेषु नित्य-युद्ध-श्रान्त-बले बहुल-युद्ध-प्रतिविद्ध-प्रेत-पुरुषे जागरण-क्लान्त-सुप्त-जने दुर्दिने नदी-वेगे वा नीहार-सम्प्लवे वाअवमृद्नीयात् ॥ १३.४.२६ ॥
स्वयम् अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा-अनीक-दर्शन-सङ्ग-सौरिक-कलहेषु नित्य-युद्ध-श्रान्त-बले बहुल-युद्ध-प्रतिविद्ध-प्रेत-पुरुषे जागरण-क्लान्त-सुप्त-जने दुर्दिने नदी-वेगे वा नीहार-सम्प्लवे वा अवमृद्नीयात् ॥ १३।४।२६ ॥
svayam agnau jāte samutthāpite vā prahavaṇe prekṣā-anīka-darśana-saṅga-saurika-kalaheṣu nitya-yuddha-śrānta-bale bahula-yuddha-pratividdha-preta-puruṣe jāgaraṇa-klānta-supta-jane durdine nadī-vege vā nīhāra-samplave vā avamṛdnīyāt .. 13.4.26 ..
स्कन्ध-आवारं उत्सृज्य वा वन-गूढः शत्रुं निष्क्रान्तं घातयेत् ॥ १३.४.२७ ॥
स्कन्ध-आवारम् उत्सृज्य वा वन-गूढः शत्रुम् निष्क्रान्तम् घातयेत् ॥ १३।४।२७ ॥
skandha-āvāram utsṛjya vā vana-gūḍhaḥ śatrum niṣkrāntam ghātayet .. 13.4.27 ..
मित्र-आसार-मुख्य-व्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतं अभित्यक्तं प्रेषयेत् "इदं ते छिद्रम् । इमे दूष्याः" "सम्रोद्धुर्वा छिद्रम् । अयं ते कृत्य-पक्षः" इति ॥ १३.४.२८ ॥
मित्र-आसार-मुख्य-व्यञ्जनः वा सम्रुद्धेन मैत्रीम् कृत्वा दूतम् अभित्यक्तम् प्रेषयेत् "इदम् ते छिद्रम् । इमे दूष्याः" "सम्रोद्धुः वा छिद्रम् । अयम् ते कृत्य-पक्षः" इति ॥ १३।४।२८ ॥
mitra-āsāra-mukhya-vyañjanaḥ vā samruddhena maitrīm kṛtvā dūtam abhityaktam preṣayet "idam te chidram . ime dūṣyāḥ" "samroddhuḥ vā chidram . ayam te kṛtya-pakṣaḥ" iti .. 13.4.28 ..
तं प्रतिदूतं आदाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषं अभिविख्याप्य प्रवास्य अपगच्छेत् ॥ १३.४.२९ ॥
तम् प्रतिदूतम् आदाय निर्गच्छन्तम् विजिगीषुः गृहीत्वा दोषम् अभिविख्याप्य प्रवास्य अपगच्छेत् ॥ १३।४।२९ ॥
tam pratidūtam ādāya nirgacchantam vijigīṣuḥ gṛhītvā doṣam abhivikhyāpya pravāsya apagacchet .. 13.4.29 ..
ततो मित्र-आसार-व्यञ्जनो वा सम्रुद्धं ब्रूयात्"मां त्रातुं उपनिर्गच्छ । मया वा सह सम्रोद्धारं जहि" इति ॥ १३.४.३० ॥
ततस् मित्र-आसार-व्यञ्जनः वा सम्रुद्धम् ब्रूयात्"माम् त्रातुम् उपनिर्गच्छ । मया वा सह सम्रा-उद्धारम् जहि" इति ॥ १३।४।३० ॥
tatas mitra-āsāra-vyañjanaḥ vā samruddham brūyāt"mām trātum upanirgaccha . mayā vā saha samrā-uddhāram jahi" iti .. 13.4.30 ..
प्रतिपन्नं उभयतः-सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ॥ १३.४.३१ ॥
प्रतिपन्नम् उभयतस् सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयम् कारयेत् ॥ १३।४।३१ ॥
pratipannam ubhayatas sampīḍanena ghātayet . jīva-grāheṇa vā rājya-vinimayam kārayet .. 13.4.31 ..
नगरं वाअस्य प्रमृद्नीयात् ॥ १३.४.३२ ॥
नगरम् वा अअस्य प्रमृद्नीयात् ॥ १३।४।३२ ॥
nagaram vā aasya pramṛdnīyāt .. 13.4.32 ..
सार-बलं वाअस्य वमयित्वाअभिहन्यात् ॥ १३.४.३३ ॥
सार-बलम् वा अस्य वमयित्वा अभिहन्यात् ॥ १३।४।३३ ॥
sāra-balam vā asya vamayitvā abhihanyāt .. 13.4.33 ..
तेन दण्ड-उपनत-आटविका व्याख्याताः ॥ १३.४.३४ ॥
तेन दण्ड-उपनत-आटविकाः व्याख्याताः ॥ १३।४।३४ ॥
tena daṇḍa-upanata-āṭavikāḥ vyākhyātāḥ .. 13.4.34 ..
दण्ड-उपनत-आटविकयोरन्यतरो वा सम्रुद्धस्य प्रेषयेत् "अयं सम्रोद्धा व्याधितः । पार्ष्णि-ग्राहेणाभियुक्तः । छिद्रं अन्यदुत्थितम् । अन्यस्यां भूमावपयातु-कामः" इति ॥ १३.४.३५ ॥
दण्ड-उपनत-आटविकयोः अन्यतरः वा सम्रुद्धस्य प्रेषयेत् "अयम् सम्रोद्धा व्याधितः । पार्ष्णि-ग्राहेण अभियुक्तः । छिद्रम् अन्यत् उत्थितम् । अन्यस्याम् भूमौ अपयातु-कामः" इति ॥ १३।४।३५ ॥
daṇḍa-upanata-āṭavikayoḥ anyataraḥ vā samruddhasya preṣayet "ayam samroddhā vyādhitaḥ . pārṣṇi-grāheṇa abhiyuktaḥ . chidram anyat utthitam . anyasyām bhūmau apayātu-kāmaḥ" iti .. 13.4.35 ..
प्रतिपन्ने सम्रोद्धा स्कन्ध-आवारं आदीप्यापयायात् ॥ १३.४.३६ ॥
प्रतिपन्ने सम्रोद्धा स्कन्ध-आवारम् आदीप्य अपयायात् ॥ १३।४।३६ ॥
pratipanne samroddhā skandha-āvāram ādīpya apayāyāt .. 13.4.36 ..
ततः पूर्ववदाचरेत् ॥ १३.४.३७ ॥
ततस् पूर्ववत् आचरेत् ॥ १३।४।३७ ॥
tatas pūrvavat ācaret .. 13.4.37 ..
पण्य-सम्पातं वा कृत्वा पण्येनएनं रस-विद्धेनातिसंदध्यात् ॥ १३.४.३८ ॥
पण्य-सम्पातम् वा कृत्वा पण्येन एनम् रस-विद्धेन अतिसंदध्यात् ॥ १३।४।३८ ॥
paṇya-sampātam vā kṛtvā paṇyena enam rasa-viddhena atisaṃdadhyāt .. 13.4.38 ..
आसार-व्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् "मया बाह्यं अभिहतं उपनिर्गच्छाभिहन्तुम्" इति ॥ १३.४.३९ ॥
आसार-व्यञ्जनः वा सम्रुद्धस्य दूतम् प्रेषयेत् "मया बाह्यम् अभिहतम् उपनिर्गच्छ अभिहन्तुम्" इति ॥ १३।४।३९ ॥
āsāra-vyañjanaḥ vā samruddhasya dūtam preṣayet "mayā bāhyam abhihatam upanirgaccha abhihantum" iti .. 13.4.39 ..
प्रतिपन्नं पूर्ववदाचरेत् ॥ १३.४.४० ॥
प्रतिपन्नम् पूर्ववत् आचरेत् ॥ १३।४।४० ॥
pratipannam pūrvavat ācaret .. 13.4.40 ..
मित्रं बन्धुं वाअपदिश्य योग-पुरुषाः शासन-मुद्रा-हस्ताः प्रविश्य दुर्गं ग्राहयेयुः ॥ १३.४.४१ ॥
मित्रम् बन्धुम् वा अपदिश्य योग-पुरुषाः शासन-मुद्रा-हस्ताः प्रविश्य दुर्गम् ग्राहयेयुः ॥ १३।४।४१ ॥
mitram bandhum vā apadiśya yoga-puruṣāḥ śāsana-mudrā-hastāḥ praviśya durgam grāhayeyuḥ .. 13.4.41 ..
आसार-व्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् "अमुष्मिन्देशे काले च स्कन्ध-आवारं अभिहनिष्यामि । युष्माभिरपि योद्धव्यम्" इति ॥ १३.४.४२ ॥
आसार-व्यञ्ज्ञनः वा सम्रुद्धस्य प्रेषयेत् "अमुष्मिन् देशे काले च स्कन्ध-आवारम् अभिहनिष्यामि । युष्माभिः अपि योद्धव्यम्" इति ॥ १३।४।४२ ॥
āsāra-vyañjñanaḥ vā samruddhasya preṣayet "amuṣmin deśe kāle ca skandha-āvāram abhihaniṣyāmi . yuṣmābhiḥ api yoddhavyam" iti .. 13.4.42 ..
प्रतिपन्नं यथा-उक्तं अभ्याघात-संकुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत् ॥ १३.४.४३ ॥
प्रतिपन्नम् यथा उक्तम् अभ्याघात-संकुलम् दर्शयित्वा रात्रौ दुर्गात् निष्क्रान्तम् घातयेत् ॥ १३।४।४३ ॥
pratipannam yathā uktam abhyāghāta-saṃkulam darśayitvā rātrau durgāt niṣkrāntam ghātayet .. 13.4.43 ..
यद्वा मित्रं आवाहयेदाटव्विकं वा । तं उत्साहयेत्"विक्रम्य सम्रुद्धे भूमिं अस्य प्रतिपद्यस्व" इति ॥ १३.४.४४ ॥
यत् वा मित्रम् आवाहयेत् आटव्विकम् वा । तम् उत्साहयेत्"विक्रम्य सम्रुद्धे भूमिम् अस्य प्रतिपद्यस्व" इति ॥ १३।४।४४ ॥
yat vā mitram āvāhayet āṭavvikam vā . tam utsāhayet"vikramya samruddhe bhūmim asya pratipadyasva" iti .. 13.4.44 ..
विक्रान्तं प्रकृतिभिर्दूष्य-मुख्य-उपग्रहेण वा घातयेत् । स्वयं वा रसेन "मित्र-घातकोअयम्" इत्यवाप्त-अर्थः ॥ १३.४.४५ ॥
विक्रान्तम् प्रकृतिभिः दूष्य-मुख्य-उपग्रहेण वा घातयेत् । स्वयम् वा रसेन "मित्र-घातकः अयम्" इति अवाप्त-अर्थः ॥ १३।४।४५ ॥
vikrāntam prakṛtibhiḥ dūṣya-mukhya-upagraheṇa vā ghātayet . svayam vā rasena "mitra-ghātakaḥ ayam" iti avāpta-arthaḥ .. 13.4.45 ..
विक्रमितु-कामं वा मित्र-व्यञ्जनः परस्याभिशंसेत् ॥ १३.४.४६ ॥
विक्रमितु-कामम् वा मित्र-व्यञ्जनः परस्य अभिशंसेत् ॥ १३।४।४६ ॥
vikramitu-kāmam vā mitra-vyañjanaḥ parasya abhiśaṃset .. 13.4.46 ..
आप्त-भाव-उपगतः प्रवीर-पुरुषानस्यौपघातयेत् ॥ १३.४.४७ ॥
आप्त-भाव-उपगतः प्रवीर-पुरुषान् अस्य औपघातयेत् ॥ १३।४।४७ ॥
āpta-bhāva-upagataḥ pravīra-puruṣān asya aupaghātayet .. 13.4.47 ..
संधिं वा कृत्वा जन-पदं एनं निवेशयेत् ॥ १३.४.४८ ॥
संधिम् वा कृत्वा जन-पदम् एनम् निवेशयेत् ॥ १३।४।४८ ॥
saṃdhim vā kṛtvā jana-padam enam niveśayet .. 13.4.48 ..
निविष्टं अस्य जन-पदं अविज्ञातो हन्यात् ॥ १३.४.४९ ॥
निविष्टम् अस्य जन-पदम् अ विज्ञातः हन्यात् ॥ १३।४।४९ ॥
niviṣṭam asya jana-padam a vijñātaḥ hanyāt .. 13.4.49 ..
अपकारयित्वा दूष्य-आटविकेषु वा बल-एक-देशं अतिनीय दुर्गं अवस्कन्देन हारयेत् ॥ १३.४.५० ॥
अपकारयित्वा दूष्य-आटविकेषु वा बल-एक-देशम् अतिनीय दुर्गम् अवस्कन्देन हारयेत् ॥ १३।४।५० ॥
apakārayitvā dūṣya-āṭavikeṣu vā bala-eka-deśam atinīya durgam avaskandena hārayet .. 13.4.50 ..
दूष्य-अमित्र-आटविक-द्वेष्य-प्रत्यपसृताश्च कृत-अर्थ-मान-संज्ञा-चिह्नाः पर-दुर्गं अवस्कन्देयुः ॥ १३.४.५१ ॥
दूष्य-अमित्र-आटविक-द्वेष्य-प्रत्यपसृताः च कृत-अर्थ-मान-संज्ञा-चिह्नाः पर-दुर्गम् अवस्कन्देयुः ॥ १३।४।५१ ॥
dūṣya-amitra-āṭavika-dveṣya-pratyapasṛtāḥ ca kṛta-artha-māna-saṃjñā-cihnāḥ para-durgam avaskandeyuḥ .. 13.4.51 ..
पर-दुर्गं अवस्कन्द्य स्कन्ध-आवारं वा पतित-परान्-मुख-अभिपन्नं उक्त-केश-शस्त्र-भय-विरूपेभ्यश्चाभयं अयुध्यमानेभ्यश्च दद्युः ॥ १३.४.५२ ॥
पर-दुर्गम् अवस्कन्द्य स्कन्ध-आवारम् वा पतित-परात् मुख-अभिपन्नम् उक्त-केश-शस्त्र-भय-विरूपेभ्यः च अभयम् अयुध्यमानेभ्यः च दद्युः ॥ १३।४।५२ ॥
para-durgam avaskandya skandha-āvāram vā patita-parāt mukha-abhipannam ukta-keśa-śastra-bhaya-virūpebhyaḥ ca abhayam ayudhyamānebhyaḥ ca dadyuḥ .. 13.4.52 ..
पर-दुर्गं अवाप्य विशुद्ध-शत्रु-पक्षं कृत-उपांशु-दण्ड-प्रतीकारं अन्तर्-बहिश्च प्रविशेत् ॥ १३.४.५३ ॥
पर-दुर्गम् अवाप्य विशुद्ध-शत्रु-पक्षम् कृत-उपांशु-दण्ड-प्रतीकारम् अन्तर् बहिस् च प्रविशेत् ॥ १३।४।५३ ॥
para-durgam avāpya viśuddha-śatru-pakṣam kṛta-upāṃśu-daṇḍa-pratīkāram antar bahis ca praviśet .. 13.4.53 ..
एवं विजिगीषुरमित्र-भूमिं लब्ध्वा मध्यमं लिप्सेत । तत्-सिद्धावुदासीनं ॥ १३.४.५४ ॥
एवम् विजिगीषुः अमित्र-भूमिम् लब्ध्वा मध्यमम् लिप्सेत । तद्-सिद्धौ उदासीनम् ॥ १३।४।५४ ॥
evam vijigīṣuḥ amitra-bhūmim labdhvā madhyamam lipseta . tad-siddhau udāsīnam .. 13.4.54 ..
एष प्रथमो मार्गः पृथिवीं जेतुं ॥ १३.४.५५ ॥
एष प्रथमः मार्गः पृथिवीम् जेतुम् ॥ १३।४।५५ ॥
eṣa prathamaḥ mārgaḥ pṛthivīm jetum .. 13.4.55 ..
मध्यम-उदासीनयोरभावे गुण-अतिशयेनारि-प्रकृतीः साधयेत् । तत उत्तराः प्रकृतीः ॥ १३.४.५६ ॥
मध्यम-उदासीनयोः अभावे गुण-अतिशयेन आरि-प्रकृतीः साधयेत् । ततस् उत्तराः प्रकृतीः ॥ १३।४।५६ ॥
madhyama-udāsīnayoḥ abhāve guṇa-atiśayena āri-prakṛtīḥ sādhayet . tatas uttarāḥ prakṛtīḥ .. 13.4.56 ..
एष द्वितीयो मार्गः ॥ १३.४.५७ ॥
एष द्वितीयः मार्गः ॥ १३।४।५७ ॥
eṣa dvitīyaḥ mārgaḥ .. 13.4.57 ..
मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुं उभयतः-सम्पीडनेन साधयेत् ॥ १३.४.५८ ॥
मण्डलस्य अभावे शत्रुणा मित्रम् मित्रेण वा शत्रुम् उभयतस् सम्पीडनेन साधयेत् ॥ १३।४।५८ ॥
maṇḍalasya abhāve śatruṇā mitram mitreṇa vā śatrum ubhayatas sampīḍanena sādhayet .. 13.4.58 ..
एष-तृतीयो मार्गः ॥ १३.४.५९ ॥
एष तृतीयः मार्गः ॥ १३।४।५९ ॥
eṣa tṛtīyaḥ mārgaḥ .. 13.4.59 ..
शक्यं एकं वा सामन्तं साधयेत् । तेन द्वि-गुणो द्वितीयम् । त्रि-गुणस्तृतीयं ॥ १३.४.६० ॥
शक्यम् एकम् वा सामन्तम् साधयेत् । तेन द्वि-गुणः द्वितीयम् । त्रि-गुणः तृतीयम् ॥ १३।४।६० ॥
śakyam ekam vā sāmantam sādhayet . tena dvi-guṇaḥ dvitīyam . tri-guṇaḥ tṛtīyam .. 13.4.60 ..
एष चतुर्थो मार्गः पृथिवीं जेतुं ॥ १३.४.६१ ॥
एष चतुर्थः मार्गः पृथिवीम् जेतुम् ॥ १३।४।६१ ॥
eṣa caturthaḥ mārgaḥ pṛthivīm jetum .. 13.4.61 ..
जित्वा च पृथिवीं विभक्त-वर्ण-आश्रमां स्व-धर्मेण भुञ्जीत ॥ १३.४.६२ ॥
जित्वा च पृथिवीम् विभक्त-वर्ण-आश्रमाम् स्व-धर्मेण भुञ्जीत ॥ १३।४।६२ ॥
jitvā ca pṛthivīm vibhakta-varṇa-āśramām sva-dharmeṇa bhuñjīta .. 13.4.62 ..
उपजापोअपसर्पश्च वामनं पर्युपासनं । ॥ १३.४.६३अ ब ॥
उपजापः अपसर्पः च वामनम् पर्युपासनम् । ॥ १३।४।६३अ ब ॥
upajāpaḥ apasarpaḥ ca vāmanam paryupāsanam . .. 13.4.63a ba ..
अवमर्दश्च पञ्चएते दुर्ग-लम्भस्य हेतवः ॥ १३.४.६३च्द् ॥
अवमर्दः च पञ्च एते दुर्ग-लम्भस्य हेतवः ॥ १३।४।६३च् ॥
avamardaḥ ca pañca ete durga-lambhasya hetavaḥ .. 13.4.63c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In