सर्व-लोह-चूर्णं अग्नि-वर्णं वा कुम्भी-सीस-त्रपु-चूर्णं वा पारिभद्रक-पलाश-पुष्प-केश-मषी-तैल-मधु-उच्छिष्टक-श्री-वेष्टक-युक्तोअग्नि-योगो विश्वास-घाती वा ॥ १३.४.२० ॥
PADACHEDA
सर्व-लोह-चूर्णम् अग्नि-वर्णम् वा कुम्भी-सीस-त्रपु-चूर्णम् वा पारिभद्रक-पलाश-पुष्प-केश-मषी-तैल-मधु-उच्छिष्टक-श्री-वेष्टक-युक्तः अग्नि-योगः विश्वास-घाती वा ॥ १३।४।२० ॥
सर्व-आरम्भ-उपकरण-विष्टि-सम्पन्नोअस्मि । व्याधितः पर उपधा-विरुद्ध-प्रकृतिरकृत-दुर्ग-कर्म-निचयो वा । निरासारः सासारो वा पुरा मित्रैः संधत्ते इत्यवमर्द-कालः ॥ १३.४.२५ ॥
PADACHEDA
सर्व-आरम्भ-उपकरण-विष्टि-सम्पन्नः अस्मि । व्याधितः परः उपधा-विरुद्ध-प्रकृतिः अकृत-दुर्ग-कर्म-निचयः वा । निरासारः स आसारः वा पुरा मित्रैः संधत्ते इति अवमर्द-कालः ॥ १३।४।२५ ॥
स्वयं अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा-अनीक-दर्शन-सङ्ग-सौरिक-कलहेषु नित्य-युद्ध-श्रान्त-बले बहुल-युद्ध-प्रतिविद्ध-प्रेत-पुरुषे जागरण-क्लान्त-सुप्त-जने दुर्दिने नदी-वेगे वा नीहार-सम्प्लवे वाअवमृद्नीयात् ॥ १३.४.२६ ॥
PADACHEDA
स्वयम् अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा-अनीक-दर्शन-सङ्ग-सौरिक-कलहेषु नित्य-युद्ध-श्रान्त-बले बहुल-युद्ध-प्रतिविद्ध-प्रेत-पुरुषे जागरण-क्लान्त-सुप्त-जने दुर्दिने नदी-वेगे वा नीहार-सम्प्लवे वा अवमृद्नीयात् ॥ १३।४।२६ ॥
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.