| |
|

This overlay will guide you through the buttons:

द्विविधं विजिगीषोः समुत्थानं अटव्य्-आदिकं एक-ग्राम-आदिकं च ॥ १३.५.०१ ॥
द्विविधम् विजिगीषोः समुत्थानम् अटवी-आदिकम् एक-ग्राम-आदिकम् च ॥ १३।५।०१ ॥
dvividham vijigīṣoḥ samutthānam aṭavī-ādikam eka-grāma-ādikam ca .. 13.5.01 ..
त्रिविधश्चास्य लम्भः नवो । भूत-पूर्वः । पित्र्य इति ॥ १३.५.०२ ॥
त्रिविधः च अस्य लम्भः । भूत-पूर्वः । पित्र्यः इति ॥ १३।५।०२ ॥
trividhaḥ ca asya lambhaḥ . bhūta-pūrvaḥ . pitryaḥ iti .. 13.5.02 ..
नवं अवाप्य लाभं पर-दोषान्स्व-गुणैश्छादयेत् । गुणान्गुण-द्वैगुण्येन ॥ १३.५.०३ ॥
नवम् अवाप्य लाभम् पर-दोषान् स्व-गुणैः छादयेत् । गुणान् गुण-द्वैगुण्येन ॥ १३।५।०३ ॥
navam avāpya lābham para-doṣān sva-guṇaiḥ chādayet . guṇān guṇa-dvaiguṇyena .. 13.5.03 ..
स्व-धर्म-कर्म-अनुग्रह-परिहार-दान-मान-कर्मभिश्च प्रकृति-प्रिय-हितान्यनुवर्तेत ॥ १३.५.०४ ॥
स्व-धर्म-कर्म-अनुग्रह-परिहार-दान-मान-कर्मभिः च प्रकृति-प्रिय-हितानि अनुवर्तेत ॥ १३।५।०४ ॥
sva-dharma-karma-anugraha-parihāra-dāna-māna-karmabhiḥ ca prakṛti-priya-hitāni anuvarteta .. 13.5.04 ..
यथा-सम्भाषितं च कृत्य-पक्षं उपग्राहयेत् । भूयश्च कृत-प्रयासं ॥ १३.५.०५ ॥
यथा सम्भाषितम् च कृत्य-पक्षम् उपग्राहयेत् । भूयस् च कृत-प्रयासम् ॥ १३।५।०५ ॥
yathā sambhāṣitam ca kṛtya-pakṣam upagrāhayet . bhūyas ca kṛta-prayāsam .. 13.5.05 ..
अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति । प्रकृति-विरुद्ध-आचारश्च ॥ १३.५.०६ ॥
अविश्वासः हि विसंवादकः स्वेषाम् परेषाम् च भवति । प्रकृति-विरुद्ध-आचारः च ॥ १३।५।०६ ॥
aviśvāsaḥ hi visaṃvādakaḥ sveṣām pareṣām ca bhavati . prakṛti-viruddha-ācāraḥ ca .. 13.5.06 ..
तस्मात्समान-शील-वेष-भाषा-आचारतां उपगछेत् ॥ १३.५.०७ ॥
तस्मात् समान-शील-वेष-भाषा-आचार-ताम् उपगच्छेत् ॥ १३।५।०७ ॥
tasmāt samāna-śīla-veṣa-bhāṣā-ācāra-tām upagacchet .. 13.5.07 ..
देश-दैवत-स्माज-उत्सव-विहारेषु च भक्तिं अनुवर्तेत ॥ १३.५.०८ ॥
देश-दैवत-स्म आज-उत्सव-विहारेषु च भक्तिम् अनुवर्तेत ॥ १३।५।०८ ॥
deśa-daivata-sma āja-utsava-vihāreṣu ca bhaktim anuvarteta .. 13.5.08 ..
देश-ग्राम-जाति-संघ-मुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः । माहाभाग्यं भक्तिं च तेषु स्वामिनः । स्वामि-सत्कारं च विद्यमानं ॥ १३.५.०९ ॥
देश-ग्राम-जाति-संघ-मुख्येषु च अभीक्ष्णम् सत्त्रिणः परस्य अपचारम् दर्शयेयुः । माहाभाग्यम् भक्तिम् च तेषु स्वामिनः । स्वामि-सत्कारम् च विद्यमानम् ॥ १३।५।०९ ॥
deśa-grāma-jāti-saṃgha-mukhyeṣu ca abhīkṣṇam sattriṇaḥ parasya apacāram darśayeyuḥ . māhābhāgyam bhaktim ca teṣu svāminaḥ . svāmi-satkāram ca vidyamānam .. 13.5.09 ..
उचितैश्चएनान्भोग-परिहार-रक्षा-अवेक्षणैर्भुञ्जीत ॥ १३.५.१० ॥
उचितैः च एनान् भोग-परिहार-रक्षा-अवेक्षणैः भुञ्जीत ॥ १३।५।१० ॥
ucitaiḥ ca enān bhoga-parihāra-rakṣā-avekṣaṇaiḥ bhuñjīta .. 13.5.10 ..
सर्व-देवता-आश्रम-पूजनं च विद्या-वाक्य-धर्म-शूर-पुरुषाणां च भूमि-द्रव्य-दान-परिहारान्कारयेत् । सर्व-बन्धन-मोक्षणं अनुग्रहं दीन-अनाथ-व्याधितानां च ॥ १३.५.११ ॥
सर्व-देवता-आश्रम-पूजनम् च विद्या-वाक्य-धर्म-शूर-पुरुषाणाम् च भूमि-द्रव्य-दान-परिहारान् कारयेत् । सर्व-बन्धन-मोक्षणम् अनुग्रहम् दीन-अनाथ-व्याधितानाम् च ॥ १३।५।११ ॥
sarva-devatā-āśrama-pūjanam ca vidyā-vākya-dharma-śūra-puruṣāṇām ca bhūmi-dravya-dāna-parihārān kārayet . sarva-bandhana-mokṣaṇam anugraham dīna-anātha-vyādhitānām ca .. 13.5.11 ..
चातुर्मास्येष्वर्ध-मासिकं अघातम् । पौर्णमासीषु च चातूरात्रिकं राज-देश-नक्षत्रेष्वैकरात्रिकं ॥ १३.५.१२ ॥
चातुर्मास्येषु अर्ध-मासिकम् अघातम् । पौर्णमासीषु च चातूरात्रिकम् राज-देश-नक्षत्रेषु ऐकरात्रिकम् ॥ १३।५।१२ ॥
cāturmāsyeṣu ardha-māsikam aghātam . paurṇamāsīṣu ca cātūrātrikam rāja-deśa-nakṣatreṣu aikarātrikam .. 13.5.12 ..
योनि-बाल-वधं पुंस्त्व-उपघातं च प्रतिषेधयेत् ॥ १३.५.१३ ॥
योनि-बाल-वधम् पुंस्त्व-उपघातम् च प्रतिषेधयेत् ॥ १३।५।१३ ॥
yoni-bāla-vadham puṃstva-upaghātam ca pratiṣedhayet .. 13.5.13 ..
यच्च कोश-दण्ड-उपघातकं अधर्मिष्ठं वा चरित्रं मन्येत तदपनीय धर्म्य-व्यवहारं स्थापयेत् ॥ १३.५.१४ ॥
यत् च कोश-दण्ड-उपघातकम् अधर्मिष्ठम् वा चरित्रम् मन्येत तत् अपनीय धर्म्य-व्यवहारम् स्थापयेत् ॥ १३।५।१४ ॥
yat ca kośa-daṇḍa-upaghātakam adharmiṣṭham vā caritram manyeta tat apanīya dharmya-vyavahāram sthāpayet .. 13.5.14 ..
चोर-प्रकृतीनां म्लेच्छ-जातीनां च स्थान-विपर्यासं अनेकस्थं कारयेत् । दुर्ग-राष्ट्र-दण्ड-मुख्यानां च ॥ १३.५.१५ ॥
चोर-प्रकृतीनाम् म्लेच्छ-जातीनाम् च स्थान-विपर्यासम् अनेकस्थम् कारयेत् । दुर्ग-राष्ट्र-दण्ड-मुख्यानाम् च ॥ १३।५।१५ ॥
cora-prakṛtīnām mleccha-jātīnām ca sthāna-viparyāsam anekastham kārayet . durga-rāṣṭra-daṇḍa-mukhyānām ca .. 13.5.15 ..
परा-उपगृहीतानां च मन्त्रि-पुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत् ॥ १३.५.१६ ॥
परा-उपगृहीतानाम् च मन्त्रि-पुरोहितानाम् परस्य प्रत्यन्तेषु अनेकस्थम् वासम् कारयेत् ॥ १३।५।१६ ॥
parā-upagṛhītānām ca mantri-purohitānām parasya pratyanteṣu anekastham vāsam kārayet .. 13.5.16 ..
अपकार-समर्थाननुक्षियतो वा भर्तृ-विनाशं उपांशु-दण्डेन प्रशमयेत् ॥ १३.५.१७ ॥
अपकार-समर्थान् अन् अनुक्षियतः वा भर्तृ-विनाशम् उपांशु दण्डेन प्रशमयेत् ॥ १३।५।१७ ॥
apakāra-samarthān an anukṣiyataḥ vā bhartṛ-vināśam upāṃśu daṇḍena praśamayet .. 13.5.17 ..
स्व-देशीयान्वा परेण वाअपरुद्धानपवाहित-स्थानेषु स्थापयेत् ॥ १३.५.१८ ॥
स्व-देशीयान् वा परेण वा अ अपरुद्धान् अपवाहित-स्थानेषु स्थापयेत् ॥ १३।५।१८ ॥
sva-deśīyān vā pareṇa vā a aparuddhān apavāhita-sthāneṣu sthāpayet .. 13.5.18 ..
यश्च तत्-कुलीनः प्रत्यादेयं आदातुं शक्तः । प्रत्यन्त-अटवीस्थो वा प्रबाधितुं अभिजातः । तस्मै विगुणां भूमिं प्रयच्छेत् । गुणवत्याश्चतुर्-भागं वा कोश-दण्ड-दानं अवस्थाप्य । यदुपकुर्वाणः पौर-जानपदान्कोपयेत् ॥ १३.५.१९ ॥
यः च तद्-कुलीनः प्रत्यादेयम् आदातुम् शक्तः । प्रत्यन्त-अटवी-स्थः वा प्रबाधितुम् अभिजातः । तस्मै विगुणाम् भूमिम् प्रयच्छेत् । गुणवत्याः चतुर्-भागम् वा कोश-दण्ड-दानम् अवस्थाप्य । यत् उपकुर्वाणः पौर-जानपदान् कोपयेत् ॥ १३।५।१९ ॥
yaḥ ca tad-kulīnaḥ pratyādeyam ādātum śaktaḥ . pratyanta-aṭavī-sthaḥ vā prabādhitum abhijātaḥ . tasmai viguṇām bhūmim prayacchet . guṇavatyāḥ catur-bhāgam vā kośa-daṇḍa-dānam avasthāpya . yat upakurvāṇaḥ paura-jānapadān kopayet .. 13.5.19 ..
कुपितैस्तैरेनं घातयेत् ॥ १३.५.२० ॥
कुपितैः तैः एनम् घातयेत् ॥ १३।५।२० ॥
kupitaiḥ taiḥ enam ghātayet .. 13.5.20 ..
प्रकृतिभिरुपक्रुष्टं अपनयेत् । औपघातिके वा देशे निवेशयेत् इति ॥ १३.५.२१ ॥
प्रकृतिभिः उपक्रुष्टम् अपनयेत् । औपघातिके वा देशे निवेशयेत् इति ॥ १३।५।२१ ॥
prakṛtibhiḥ upakruṣṭam apanayet . aupaghātike vā deśe niveśayet iti .. 13.5.21 ..
भूत-पूर्वे येन दोषेणापवृत्तस्तं प्रकृति-दोषं छादयेत् । येन च गुणेनौपावृत्तस्तं तीव्री-कुर्यात् इति ॥ १३.५.२२ ॥
भूत-पूर्वे येन दोषेण अपवृत्तः तम् प्रकृति-दोषम् छादयेत् । येन च गुणेन औपावृत्तः तम् तीव्री-कुर्यात् इति ॥ १३।५।२२ ॥
bhūta-pūrve yena doṣeṇa apavṛttaḥ tam prakṛti-doṣam chādayet . yena ca guṇena aupāvṛttaḥ tam tīvrī-kuryāt iti .. 13.5.22 ..
पित्र्ये पितुर्दोषांश्छादयेत् । गुणांश्च प्रकाशयेत् इति ॥ १३.५.२३ ॥
पित्र्ये पितुः दोषान् छादयेत् । गुणान् च प्रकाशयेत् इति ॥ १३।५।२३ ॥
pitrye pituḥ doṣān chādayet . guṇān ca prakāśayet iti .. 13.5.23 ..
चरित्रं अकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् । ॥ १३.५.२४अ ब ॥
चरित्रम् अ कृतम् धर्म्यम् कृतम् च अन्यैः प्रवर्तयेत् । ॥ १३।५।२४अ ब ॥
caritram a kṛtam dharmyam kṛtam ca anyaiḥ pravartayet . .. 13.5.24a ba ..
प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत् ॥ १३.५.२४च्द् ॥
प्रवर्तयेत् न च अधर्म्यम् कृतम् च अन्यैः निवर्तयेत् ॥ १३।५।२४च् ॥
pravartayet na ca adharmyam kṛtam ca anyaiḥ nivartayet .. 13.5.24c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In