| |
|

This overlay will guide you through the buttons:

धर्मस्थास्त्रयस्त्रयोअमात्या जन-पद-संधि-संग्रहण-द्रोण-मुख-स्थानीयेषु व्यावहारिकानर्थान्कुर्युः ॥ ०३.१.०१ ॥
धर्मस्थाः त्रयः त्रयः अमात्याः जन-पद-संधि-संग्रहण-द्रोण-मुख-स्थानीयेषु व्यावहारिकान् अर्थान् कुर्युः ॥ ०३।१।०१ ॥
dharmasthāḥ trayaḥ trayaḥ amātyāḥ jana-pada-saṃdhi-saṃgrahaṇa-droṇa-mukha-sthānīyeṣu vyāvahārikān arthān kuryuḥ .. 03.1.01 ..
तिरोहित-अन्तर्-अगार-नक्त-अरण्य-उपध्य्-उपह्वर-कृतांश्च व्यवहारान्प्रतिषेधयेयुः ॥ ०३.१.०२ ॥
तिरोहित-अन्तर् अगार-नक्त-अरण्य-उपधि-उपह्वर-कृतान् च व्यवहारान् प्रतिषेधयेयुः ॥ ०३।१।०२ ॥
tirohita-antar agāra-nakta-araṇya-upadhi-upahvara-kṛtān ca vyavahārān pratiṣedhayeyuḥ .. 03.1.02 ..
कर्तुः कारयितुः पूर्वः साहस-दण्डः ॥ ०३.१.०३ ॥
कर्तुः कारयितुः पूर्वः साहस-दण्डः ॥ ०३।१।०३ ॥
kartuḥ kārayituḥ pūrvaḥ sāhasa-daṇḍaḥ .. 03.1.03 ..
श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डाः ॥ ०३.१.०४ ॥
श्रोतृणाम् एक-एकम् प्रत्यर्ध-दण्डाः ॥ ०३।१।०४ ॥
śrotṛṇām eka-ekam pratyardha-daṇḍāḥ .. 03.1.04 ..
श्रद्धेयानां तु द्रव्य-व्यपनयः ॥ ०३.१.०५ ॥
श्रद्धेयानाम् तु द्रव्य-व्यपनयः ॥ ०३।१।०५ ॥
śraddheyānām tu dravya-vyapanayaḥ .. 03.1.05 ..
परोक्षेणाधिक-ऋण-ग्रहणं अवक्तव्य-करा वा तिरोहिताः सिध्येयुः ॥ ०३.१.०६ ॥
परोक्षेण अधिक-ऋण-ग्रहणम् अवक्तव्य-कराः वा तिरोहिताः सिध्येयुः ॥ ०३।१।०६ ॥
parokṣeṇa adhika-ṛṇa-grahaṇam avaktavya-karāḥ vā tirohitāḥ sidhyeyuḥ .. 03.1.06 ..
दाय-निक्षेप-उपनिधि-विवाह-युक्ताः स्त्रीणां अनिष्कासिनीनां व्याधितानां चामूढ-संज्ञानां अन्तर्-अगार-कृताः सिध्येयुः ॥ ०३.१.०७ ॥
दाय-निक्षेप-उपनिधि-विवाह-युक्ताः स्त्रीणाम् अनिष्कासिनीनाम् व्याधितानाम् च अमूढ-संज्ञानाम् अन्तर् अगार-कृताः सिध्येयुः ॥ ०३।१।०७ ॥
dāya-nikṣepa-upanidhi-vivāha-yuktāḥ strīṇām aniṣkāsinīnām vyādhitānām ca amūḍha-saṃjñānām antar agāra-kṛtāḥ sidhyeyuḥ .. 03.1.07 ..
साहस-अनुप्रवेश-कलह-विवाह-राज-नियोग-युक्ताः पूर्व-रात्र-व्यवहारिणां च रात्रि-कृताः सिध्येयुः ॥ ०३.१.०८ ॥
साहस-अनुप्रवेश-कलह-विवाह-राज-नियोग-युक्ताः पूर्व-रात्र-व्यवहारिणाम् च रात्रि-कृताः सिध्येयुः ॥ ०३।१।०८ ॥
sāhasa-anupraveśa-kalaha-vivāha-rāja-niyoga-yuktāḥ pūrva-rātra-vyavahāriṇām ca rātri-kṛtāḥ sidhyeyuḥ .. 03.1.08 ..
सार्थ-व्रज-आश्रम-व्याध-चारण-मध्येष्वरण्य-चराणां अरण्य-कृताः सिध्येयुः ॥ ०३.१.०९ ॥
सार्थ-व्रज-आश्रम-व्याध-चारण-मध्येषु अरण्य-चराणाम् अरण्य-कृताः सिध्येयुः ॥ ०३।१।०९ ॥
sārtha-vraja-āśrama-vyādha-cāraṇa-madhyeṣu araṇya-carāṇām araṇya-kṛtāḥ sidhyeyuḥ .. 03.1.09 ..
गूढ-आजीविषु चौपधि-कृताः सिध्येयुः ॥ ०३.१.१० ॥
गूढ-आजीविषु च औपधि-कृताः सिध्येयुः ॥ ०३।१।१० ॥
gūḍha-ājīviṣu ca aupadhi-kṛtāḥ sidhyeyuḥ .. 03.1.10 ..
मिथः-समवाये चौपह्वर-कृताः सिध्येयुः ॥ ०३.१.११ ॥
मिथस् समवाये च औपह्वर-कृताः सिध्येयुः ॥ ०३।१।११ ॥
mithas samavāye ca aupahvara-kṛtāḥ sidhyeyuḥ .. 03.1.11 ..
अतोअन्यथा न सिध्येयुः । अपाश्रयवद्भिश्च कृताः । पितृमता पुत्रेण । पित्रा पुत्रवता । निष्कुलेन भ्रात्रा । कनिष्ठेनाविभक्त-अंशेन । पतिमत्या पुत्रवत्या च स्त्रिया । दास-आहितकाभ्याम् । अप्राप्त-अतीत-व्यवहाराभ्याम् । अभिशस्त-प्रव्रजित-न्यङ्ग-व्यसनिभिश्च । अन्यत्र निषृष्ट-व्यवहारेभ्यः ॥ ०३.१.१२ ॥
अतस् अन्यथा न सिध्येयुः । अपाश्रयवद्भिः च कृताः । पितृमता पुत्रेण । पित्रा पुत्रवता । निष्कुलेन भ्रात्रा । कनिष्ठेन अविभक्त-अंशेन । पतिमत्या पुत्रवत्या च स्त्रिया । दास-आहितकाभ्याम् । अप्राप्त-अतीत-व्यवहाराभ्याम् । अभिशस्त-प्रव्रजित-न्यङ्ग-व्यसनिभिः च । अन्यत्र निषृष्ट-व्यवहारेभ्यः ॥ ०३।१।१२ ॥
atas anyathā na sidhyeyuḥ . apāśrayavadbhiḥ ca kṛtāḥ . pitṛmatā putreṇa . pitrā putravatā . niṣkulena bhrātrā . kaniṣṭhena avibhakta-aṃśena . patimatyā putravatyā ca striyā . dāsa-āhitakābhyām . aprāpta-atīta-vyavahārābhyām . abhiśasta-pravrajita-nyaṅga-vyasanibhiḥ ca . anyatra niṣṛṣṭa-vyavahārebhyaḥ .. 03.1.12 ..
तत्रापि क्रुद्धेनऽर्तेन मत्तेन-उन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः ॥ ०३.१.१३ ॥
तत्र अपि क्रुद्धेन अर्तेन मत्तेन उन्मत्तेन अवगृहीतेन वा कृताः व्यवहाराः न सिध्येयुः ॥ ०३।१।१३ ॥
tatra api kruddhena artena mattena unmattena avagṛhītena vā kṛtāḥ vyavahārāḥ na sidhyeyuḥ .. 03.1.13 ..
कर्तृ-कारयितृ-श्रोतृऋणां पृथग्यथा-उक्ता दण्डाः ॥ ०३.१.१४ ॥
कर्तृ-कारयितृ-श्रोतृऋणाम् पृथक् यथा उक्ताः दण्डाः ॥ ०३।१।१४ ॥
kartṛ-kārayitṛ-śrotṛṛṇām pṛthak yathā uktāḥ daṇḍāḥ .. 03.1.14 ..
स्वे स्वे तु वर्गे देशे काले च स्व-करण-कृताः सम्पूर्ण-आचाराः शुद्ध-देशा दृष्ट-रूप-लक्षण-प्रमाण-गुणाः सर्व-व्यवहाराः सिध्येयुः ॥ ०३.१.१५ ॥
स्वे स्वे तु वर्गे देशे काले च स्व-करण-कृताः सम्पूर्ण-आचाराः शुद्ध-देशाः दृष्ट-रूप-लक्षण-प्रमाण-गुणाः सर्व-व्यवहाराः सिध्येयुः ॥ ०३।१।१५ ॥
sve sve tu varge deśe kāle ca sva-karaṇa-kṛtāḥ sampūrṇa-ācārāḥ śuddha-deśāḥ dṛṣṭa-rūpa-lakṣaṇa-pramāṇa-guṇāḥ sarva-vyavahārāḥ sidhyeyuḥ .. 03.1.15 ..
पश्चिमं चएषां करणं आदेश-आधिवर्जं श्रद्धेयं इति व्यवहार-स्थापना । ॥ ०३.१.१६ ॥
पश्चिमम् च एषाम् करणम् आदेश-आधि-वर्जम् श्रद्धेयम् इति व्यवहार-स्थापना । ॥ ०३।१।१६ ॥
paścimam ca eṣām karaṇam ādeśa-ādhi-varjam śraddheyam iti vyavahāra-sthāpanā . .. 03.1.16 ..
संवत्सरं ऋतुं मासं पक्षं दिवसं करणं अधिकरणं ऋणं वेदक-आवेदकयोः कृत-समर्थ-अवस्थयोर्देश-ग्राम-जाति-गोत्र-नाम-कर्माणि चाभिलिख्य वादि-प्रतिवादि-प्रश्नानर्थ-आनुपूर्व्या निवेशयेत् ॥ ०३.१.१७ ॥
संवत्सरम् ऋतुम् मासम् पक्षम् दिवसम् करणम् अधिकरणम् ऋणम् वेदक-आवेदकयोः कृत-समर्थ-अवस्थयोः देश-ग्राम-जाति-गोत्र-नाम-कर्माणि च अभिलिख्य वादि-प्रतिवादि-प्रश्न-अनर्थ-आनुपूर्व्या निवेशयेत् ॥ ०३।१।१७ ॥
saṃvatsaram ṛtum māsam pakṣam divasam karaṇam adhikaraṇam ṛṇam vedaka-āvedakayoḥ kṛta-samartha-avasthayoḥ deśa-grāma-jāti-gotra-nāma-karmāṇi ca abhilikhya vādi-prativādi-praśna-anartha-ānupūrvyā niveśayet .. 03.1.17 ..
निविष्टांश्चावेक्षेत ॥ ०३.१.१८ ॥
निविष्टान् च अवेक्षेत ॥ ०३।१।१८ ॥
niviṣṭān ca avekṣeta .. 03.1.18 ..
निबद्धं वादं उत्सृज्यान्यं वादं संक्रामति । पूर्व-उक्तं पश्चिमेनार्थेन नाभिसंधत्ते । पर-वाक्यं अनभिग्राह्यं अभिग्राह्यावतिष्ठते । प्रतिज्ञाय देशं निर्दिशैत्युक्ते न निर्दिशति । हीन-देशं अदेशं वा निर्दिशति । निर्दिष्टाद्देशादन्यं देशं उपस्थापयति । उपस्थिते देशेअर्थ-वचनं नएवं इत्यपव्ययते । साक्षिभिरवधृतं नैच्छति । ॥ ०३.१.१९ ॥
निबद्धम् वादम् उत्सृज्य अन्यम् वादम् संक्रामति । पूर्व-उक्तम् पश्चिमेन अर्थेन न अभिसंधत्ते । पर-वाक्यम् अन् अभिग्राह्यम् अभिग्राह्य अवतिष्ठते । प्रतिज्ञाय देशम् निर्दिश एति उक्ते न निर्दिशति । हीन-देशम् अदेशम् वा निर्दिशति । निर्दिष्टात् देशात् अन्यम् देशम् उपस्थापयति । उपस्थिते देशे अर्थ-वचनम् न एवम् इति अपव्ययते । साक्षिभिः अवधृतम् न एच्छति । ॥ ०३।१।१९ ॥
nibaddham vādam utsṛjya anyam vādam saṃkrāmati . pūrva-uktam paścimena arthena na abhisaṃdhatte . para-vākyam an abhigrāhyam abhigrāhya avatiṣṭhate . pratijñāya deśam nirdiśa eti ukte na nirdiśati . hīna-deśam adeśam vā nirdiśati . nirdiṣṭāt deśāt anyam deśam upasthāpayati . upasthite deśe artha-vacanam na evam iti apavyayate . sākṣibhiḥ avadhṛtam na ecchati . .. 03.1.19 ..
॥ असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते । इति परा-उक्त-हेतवः ॥
॥ अ सम्भाष्ये देशे साक्षिभिः मिथस् सम्भाषते । इति परा उक्त-हेतवः ॥
.. a sambhāṣye deśe sākṣibhiḥ mithas sambhāṣate . iti parā ukta-hetavaḥ ..
परा-उक्त-दण्डः पञ्च-बन्धः ॥ ०३.१.२० ॥
परा-उक्त-दण्डः पञ्च-बन्धः ॥ ०३।१।२० ॥
parā-ukta-daṇḍaḥ pañca-bandhaḥ .. 03.1.20 ..
स्वयं-वादि-दण्डो दश-बन्धः ॥ ०३.१.२१ ॥
स्वयम् वादि-दण्डः दश-बन्धः ॥ ०३।१।२१ ॥
svayam vādi-daṇḍaḥ daśa-bandhaḥ .. 03.1.21 ..
पुरुष-भृतिरष्ट-अंशः ॥ ०३.१.२२ ॥
पुरुष-भृतिः अष्ट-अंशः ॥ ०३।१।२२ ॥
puruṣa-bhṛtiḥ aṣṭa-aṃśaḥ .. 03.1.22 ..
पथि-भक्तं अर्घ-विशेषतः ॥ ०३.१.२३ ॥
पथि भक्तम् अर्घ-विशेषतः ॥ ०३।१।२३ ॥
pathi bhaktam argha-viśeṣataḥ .. 03.1.23 ..
तदुभयं नियम्यो दद्यात् ॥ ०३.१.२४ ॥
तत् उभयम् नियम्यः दद्यात् ॥ ०३।१।२४ ॥
tat ubhayam niyamyaḥ dadyāt .. 03.1.24 ..
अभियुक्तो न प्रत्यभियुञ्जीत । अन्यत्र कलह-साहस-सार्थ-समवायेभ्यः ॥ ०३.१.२५ ॥
अभियुक्तः न प्रत्यभियुञ्जीत । अन्यत्र कलह-साहस-सार्थ-समवायेभ्यः ॥ ०३।१।२५ ॥
abhiyuktaḥ na pratyabhiyuñjīta . anyatra kalaha-sāhasa-sārtha-samavāyebhyaḥ .. 03.1.25 ..
न चाभियुक्तेअभियोगेअस्ति ॥ ०३.१.२६ ॥
न च अभियुक्ते अभियोगे अस्ति ॥ ०३।१।२६ ॥
na ca abhiyukte abhiyoge asti .. 03.1.26 ..
अभियोक्ता चेत्प्रत्युक्तस्तद्-अहरेव न प्रतिब्रूयात्परा-उक्तः स्यात् ॥ ०३.१.२७ ॥
अभियोक्ता चेद् प्रत्युक्तः तत् अहर् एव न प्रतिब्रूयात् परा उक्तः स्यात् ॥ ०३।१।२७ ॥
abhiyoktā ced pratyuktaḥ tat ahar eva na pratibrūyāt parā uktaḥ syāt .. 03.1.27 ..
कृत-कार्य-विनिश्चयो ह्यभियोक्ता नाभियुक्तः ॥ ०३.१.२८ ॥
कृत-कार्य-विनिश्चयः हि अभियोक्ता न अभियुक्तः ॥ ०३।१।२८ ॥
kṛta-kārya-viniścayaḥ hi abhiyoktā na abhiyuktaḥ .. 03.1.28 ..
तस्याप्रतिब्रुवतस्त्रि-रात्रं सप्त-रात्रं इति ॥ ०३.१.२९ ॥
तस्य अ प्रतिब्रुवतः त्रि-रात्रम् सप्त-रात्रम् इति ॥ ०३।१।२९ ॥
tasya a pratibruvataḥ tri-rātram sapta-rātram iti .. 03.1.29 ..
अत ऊर्ध्वं त्रि-पण-अवर-अर्ध्यं द्वादश-पण-परं दण्डं कुर्यात् ॥ ०३.१.३० ॥
अतस् ऊर्ध्वम् त्रि-पण-अवर-अर्ध्यम् द्वादश-पण-परम् दण्डम् कुर्यात् ॥ ०३।१।३० ॥
atas ūrdhvam tri-paṇa-avara-ardhyam dvādaśa-paṇa-param daṇḍam kuryāt .. 03.1.30 ..
त्रि-पक्षादूर्ध्वं अप्रतिब्रुवतः परा-उक्त-दण्डं कृत्वा यान्यस्य द्रव्याणि स्युस्ततोअभियोक्तारं प्रतिपादयेद् । अन्यत्र वृत्त्य्-उपकरणेभ्यः ॥ ०३.१.३१ ॥
त्रि-पक्षात् ऊर्ध्वम् अ प्रतिब्रुवतः परा-उक्त-दण्डम् कृत्वा यानि अस्य द्रव्याणि स्युः ततस् अभियोक्तारम् प्रतिपादयेत् । अन्यत्र वृत्ति-उपकरणेभ्यः ॥ ०३।१।३१ ॥
tri-pakṣāt ūrdhvam a pratibruvataḥ parā-ukta-daṇḍam kṛtvā yāni asya dravyāṇi syuḥ tatas abhiyoktāram pratipādayet . anyatra vṛtti-upakaraṇebhyaḥ .. 03.1.31 ..
तदेव निष्पततोअभियुक्तस्य कुर्यात् ॥ ०३.१.३२ ॥
तत् एव निष्पततः अभियुक्तस्य कुर्यात् ॥ ०३।१।३२ ॥
tat eva niṣpatataḥ abhiyuktasya kuryāt .. 03.1.32 ..
अभियोक्तुर्निष्पात-सम-कालः परा-उक्त-भावः ॥ ०३.१.३३ ॥
अभियोक्तुः निष्पात-सम-कालः परा उक्त-भावः ॥ ०३।१।३३ ॥
abhiyoktuḥ niṣpāta-sama-kālaḥ parā ukta-bhāvaḥ .. 03.1.33 ..
प्रेतस्य व्यसनिनो वा साक्षि-वचनं असारं ॥ ०३.१.३४ ॥
प्रेतस्य व्यसनिनः वा साक्षि-वचनम् असारम् ॥ ०३।१।३४ ॥
pretasya vyasaninaḥ vā sākṣi-vacanam asāram .. 03.1.34 ..
अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ॥ ०३.१.३५ ॥
अभियोक्ता दण्डम् दत्त्वा कर्म कारयेत् ॥ ०३।१।३५ ॥
abhiyoktā daṇḍam dattvā karma kārayet .. 03.1.35 ..
आधिं वा स कामं प्रवेशयेत् ॥ ०३.१.३६ ॥
आधिम् वा स कामम् प्रवेशयेत् ॥ ०३।१।३६ ॥
ādhim vā sa kāmam praveśayet .. 03.1.36 ..
रक्षोघ्न-रक्षितं वा कर्मणा प्रतिपादयेद् । अन्यत्र ब्राह्मणात् ॥ ०३.१.३७ ॥
रक्षः-घ्न-रक्षितम् वा कर्मणा प्रतिपादयेत् । अन्यत्र ब्राह्मणात् ॥ ०३।१।३७ ॥
rakṣaḥ-ghna-rakṣitam vā karmaṇā pratipādayet . anyatra brāhmaṇāt .. 03.1.37 ..
चतुर्-वर्ण-आश्रमस्यायं लोकस्यऽचार-रक्षणात् । ॥ ०३.१.३८अ ब ॥
चतुर्-वर्ण-आश्रमस्य अयम् लोकस्य अ चार-रक्षणात् । ॥ ०३।१।३८अ ब ॥
catur-varṇa-āśramasya ayam lokasya a cāra-rakṣaṇāt . .. 03.1.38a ba ..
नश्यतां सर्व-धर्माणां राजा धर्म-प्रवर्तकः ॥ ०३.१.३८च्द् ॥
नश्यताम् सर्व-धर्माणाम् राजा धर्म-प्रवर्तकः ॥ ०३।१।३८च् ॥
naśyatām sarva-dharmāṇām rājā dharma-pravartakaḥ .. 03.1.38c ..
धर्मश्च व्यवहारश्च चरित्रं राज-शासनं । ॥ ०३.१.३९अ ब ॥
धर्मः च व्यवहारः च चरित्रम् राज-शासनम् । ॥ ०३।१।३९अ ब ॥
dharmaḥ ca vyavahāraḥ ca caritram rāja-śāsanam . .. 03.1.39a ba ..
विवाद-अर्थश्चतुष्पादः पश्चिमः पूर्व-बाधकः ॥ ०३.१.३९च्द् ॥
विवाद-अर्थः चतुष्पादः पश्चिमः पूर्व-बाधकः ॥ ०३।१।३९च् ॥
vivāda-arthaḥ catuṣpādaḥ paścimaḥ pūrva-bādhakaḥ .. 03.1.39c ..
तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । ॥ ०३.१.४०अ ब ॥
तत्र सत्ये स्थितः धर्मः व्यवहारः तु साक्षिषु । ॥ ०३।१।४०अ ब ॥
tatra satye sthitaḥ dharmaḥ vyavahāraḥ tu sākṣiṣu . .. 03.1.40a ba ..
चरित्रं संग्रहे पुंसां राज्ञां आज्ञा तु शासनं ॥ ०३.१.४०च्द् ॥
चरित्रम् संग्रहे पुंसाम् राज्ञाम् आज्ञा तु शासनम् ॥ ०३।१।४०च् ॥
caritram saṃgrahe puṃsām rājñām ājñā tu śāsanam .. 03.1.40c ..
राज्ञः स्व-धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । ॥ ०३.१.४१अ ब ॥
राज्ञः स्व-धर्मः स्वर्गाय प्रजाः धर्मेण रक्षितुः । ॥ ०३।१।४१अ ब ॥
rājñaḥ sva-dharmaḥ svargāya prajāḥ dharmeṇa rakṣituḥ . .. 03.1.41a ba ..
अरक्षितुर्वा क्षेप्तुर्वा मिथ्या-दण्डं अतोअन्यथा ॥ ०३.१.४१च्द् ॥
अरक्षितुः वा क्षेप्तुः वा मिथ्या दण्डम् अतोअन्यथा ॥ ०३।१।४१च् ॥
arakṣituḥ vā kṣeptuḥ vā mithyā daṇḍam atoanyathā .. 03.1.41c ..
दण्डो हि केवलो लोकं परं चैमं च रक्षति । ॥ ०३.१.४२अ ब ॥
दण्डः हि केवलः लोकम् परम् च एमम् च रक्षति । ॥ ०३।१।४२अ ब ॥
daṇḍaḥ hi kevalaḥ lokam param ca emam ca rakṣati . .. 03.1.42a ba ..
राज्ञा पुत्रे च शत्रौ च यथा-दोषं समं धृतः ॥ ०३.१.४२च्द् ॥
राज्ञा पुत्रे च शत्रौ च यथा दोषम् समम् धृतः ॥ ०३।१।४२च् ॥
rājñā putre ca śatrau ca yathā doṣam samam dhṛtaḥ .. 03.1.42c ..
अनुशासद्द्हि धर्मेण व्यवहारेण संस्थया । ॥ ०३.१.४३अ ब ॥
अनुशासत् हि धर्मेण व्यवहारेण संस्थया । ॥ ०३।१।४३अ ब ॥
anuśāsat hi dharmeṇa vyavahāreṇa saṃsthayā . .. 03.1.43a ba ..
न्यायेन च चतुर्थेन चतुर्-अन्तां वा महीं जयेत् ॥ ०३.१.४३च्द् ॥
न्यायेन च चतुर्थेन चतुर्-अन्ताम् वा महीम् जयेत् ॥ ०३।१।४३च् ॥
nyāyena ca caturthena catur-antām vā mahīm jayet .. 03.1.43c ..
संस्था या धर्म-शास्त्रेण शास्त्रं वा व्यावहारिकं । ॥ ०३.१.४४अ ब ॥
संस्था या धर्म-शास्त्रेण शास्त्रम् वा व्यावहारिकम् । ॥ ०३।१।४४अ ब ॥
saṃsthā yā dharma-śāstreṇa śāstram vā vyāvahārikam . .. 03.1.44a ba ..
यस्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत् ॥ ०३.१.४४च्द् ॥
यस्मिन् अर्थे विरुध्येत धर्मेण अर्थम् विनिर्णयेत् ॥ ०३।१।४४च् ॥
yasmin arthe virudhyeta dharmeṇa artham vinirṇayet .. 03.1.44c ..
शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् । ॥ ०३.१.४५अ ब ॥
शास्त्रम् विप्रतिपद्येत धर्मे न्यायेन केनचिद् । ॥ ०३।१।४५अ ब ॥
śāstram vipratipadyeta dharme nyāyena kenacid . .. 03.1.45a ba ..
न्यायस्तत्र प्रमाणं स्यात्तत्र पाठो हि नश्यति ॥ ०३.१.४५च्द् ॥
न्यायः तत्र प्रमाणम् स्यात् तत्र पाठः हि नश्यति ॥ ०३।१।४५च् ॥
nyāyaḥ tatra pramāṇam syāt tatra pāṭhaḥ hi naśyati .. 03.1.45c ..
दृष्ट-दोषः स्वयं-वादः स्व-पक्ष-पर-पक्षयोः । ॥ ०३.१.४६अ ब ॥
दृष्ट-दोषः स्वयंवादः स्व-पक्ष-पर-पक्षयोः । ॥ ०३।१।४६अ ब ॥
dṛṣṭa-doṣaḥ svayaṃvādaḥ sva-pakṣa-para-pakṣayoḥ . .. 03.1.46a ba ..
अनुयोग-आर्जवं हेतुः शपथश्चार्थ-साधकः ॥ ०३.१.४६च्द् ॥
अनुयोग-आर्जवम् हेतुः शपथः च अर्थ-साधकः ॥ ०३।१।४६च् ॥
anuyoga-ārjavam hetuḥ śapathaḥ ca artha-sādhakaḥ .. 03.1.46c ..
पूर्व-उत्तर-अर्थ-व्याघाते साक्षि-वक्तव्य-कारणे । ॥ ०३.१.४७अ ब ॥
पूर्व-उत्तर-अर्थ-व्याघाते साक्षि-वक्तव्य-कारणे । ॥ ०३।१।४७अ ब ॥
pūrva-uttara-artha-vyāghāte sākṣi-vaktavya-kāraṇe . .. 03.1.47a ba ..
चार-हस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः ॥ ०३.१.४७च्द् ॥
चार-हस्तात् च निष्पाते प्रदेष्टव्यः पराजयः ॥ ०३।१।४७च् ॥
cāra-hastāt ca niṣpāte pradeṣṭavyaḥ parājayaḥ .. 03.1.47c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In