| |
|

This overlay will guide you through the buttons:

धर्मस्थास्त्रयस्त्रयोअमात्या जन-पद-संधि-संग्रहण-द्रोण-मुख-स्थानीयेषु व्यावहारिकानर्थान्कुर्युः ॥ ०३.१.०१ ॥
dharmasthāstrayastrayoamātyā jana-pada-saṃdhi-saṃgrahaṇa-droṇa-mukha-sthānīyeṣu vyāvahārikānarthānkuryuḥ .. 03.1.01 ..
तिरोहित-अन्तर्-अगार-नक्त-अरण्य-उपध्य्-उपह्वर-कृतांश्च व्यवहारान्प्रतिषेधयेयुः ॥ ०३.१.०२ ॥
tirohita-antar-agāra-nakta-araṇya-upadhy-upahvara-kṛtāṃśca vyavahārānpratiṣedhayeyuḥ .. 03.1.02 ..
कर्तुः कारयितुः पूर्वः साहस-दण्डः ॥ ०३.१.०३ ॥
kartuḥ kārayituḥ pūrvaḥ sāhasa-daṇḍaḥ .. 03.1.03 ..
श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डाः ॥ ०३.१.०४ ॥
śrotṛṛṇāṃ eka-ekaṃ pratyardha-daṇḍāḥ .. 03.1.04 ..
श्रद्धेयानां तु द्रव्य-व्यपनयः ॥ ०३.१.०५ ॥
śraddheyānāṃ tu dravya-vyapanayaḥ .. 03.1.05 ..
परोक्षेणाधिक-ऋण-ग्रहणं अवक्तव्य-करा वा तिरोहिताः सिध्येयुः ॥ ०३.१.०६ ॥
parokṣeṇādhika-ṛṇa-grahaṇaṃ avaktavya-karā vā tirohitāḥ sidhyeyuḥ .. 03.1.06 ..
दाय-निक्षेप-उपनिधि-विवाह-युक्ताः स्त्रीणां अनिष्कासिनीनां व्याधितानां चामूढ-संज्ञानां अन्तर्-अगार-कृताः सिध्येयुः ॥ ०३.१.०७ ॥
dāya-nikṣepa-upanidhi-vivāha-yuktāḥ strīṇāṃ aniṣkāsinīnāṃ vyādhitānāṃ cāmūḍha-saṃjñānāṃ antar-agāra-kṛtāḥ sidhyeyuḥ .. 03.1.07 ..
साहस-अनुप्रवेश-कलह-विवाह-राज-नियोग-युक्ताः पूर्व-रात्र-व्यवहारिणां च रात्रि-कृताः सिध्येयुः ॥ ०३.१.०८ ॥
sāhasa-anupraveśa-kalaha-vivāha-rāja-niyoga-yuktāḥ pūrva-rātra-vyavahāriṇāṃ ca rātri-kṛtāḥ sidhyeyuḥ .. 03.1.08 ..
सार्थ-व्रज-आश्रम-व्याध-चारण-मध्येष्वरण्य-चराणां अरण्य-कृताः सिध्येयुः ॥ ०३.१.०९ ॥
sārtha-vraja-āśrama-vyādha-cāraṇa-madhyeṣvaraṇya-carāṇāṃ araṇya-kṛtāḥ sidhyeyuḥ .. 03.1.09 ..
गूढ-आजीविषु चौपधि-कृताः सिध्येयुः ॥ ०३.१.१० ॥
gūḍha-ājīviṣu caupadhi-kṛtāḥ sidhyeyuḥ .. 03.1.10 ..
मिथः-समवाये चौपह्वर-कृताः सिध्येयुः ॥ ०३.१.११ ॥
mithaḥ-samavāye caupahvara-kṛtāḥ sidhyeyuḥ .. 03.1.11 ..
अतोअन्यथा न सिध्येयुः । अपाश्रयवद्भिश्च कृताः । पितृमता पुत्रेण । पित्रा पुत्रवता । निष्कुलेन भ्रात्रा । कनिष्ठेनाविभक्त-अंशेन । पतिमत्या पुत्रवत्या च स्त्रिया । दास-आहितकाभ्याम् । अप्राप्त-अतीत-व्यवहाराभ्याम् । अभिशस्त-प्रव्रजित-न्यङ्ग-व्यसनिभिश्च । अन्यत्र निषृष्ट-व्यवहारेभ्यः ॥ ०३.१.१२ ॥
atoanyathā na sidhyeyuḥ . apāśrayavadbhiśca kṛtāḥ . pitṛmatā putreṇa . pitrā putravatā . niṣkulena bhrātrā . kaniṣṭhenāvibhakta-aṃśena . patimatyā putravatyā ca striyā . dāsa-āhitakābhyām . aprāpta-atīta-vyavahārābhyām . abhiśasta-pravrajita-nyaṅga-vyasanibhiśca . anyatra niṣṛṣṭa-vyavahārebhyaḥ .. 03.1.12 ..
तत्रापि क्रुद्धेनऽर्तेन मत्तेन-उन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः ॥ ०३.१.१३ ॥
tatrāpi kruddhena'rtena mattena-unmattenāvagṛhītena vā kṛtā vyavahārā na sidhyeyuḥ .. 03.1.13 ..
कर्तृ-कारयितृ-श्रोतृऋणां पृथग्यथा-उक्ता दण्डाः ॥ ०३.१.१४ ॥
kartṛ-kārayitṛ-śrotṛṛṇāṃ pṛthagyathā-uktā daṇḍāḥ .. 03.1.14 ..
स्वे स्वे तु वर्गे देशे काले च स्व-करण-कृताः सम्पूर्ण-आचाराः शुद्ध-देशा दृष्ट-रूप-लक्षण-प्रमाण-गुणाः सर्व-व्यवहाराः सिध्येयुः ॥ ०३.१.१५ ॥
sve sve tu varge deśe kāle ca sva-karaṇa-kṛtāḥ sampūrṇa-ācārāḥ śuddha-deśā dṛṣṭa-rūpa-lakṣaṇa-pramāṇa-guṇāḥ sarva-vyavahārāḥ sidhyeyuḥ .. 03.1.15 ..
पश्चिमं चएषां करणं आदेश-आधिवर्जं श्रद्धेयं इति व्यवहार-स्थापना । ॥ ०३.१.१६ ॥
paścimaṃ caeṣāṃ karaṇaṃ ādeśa-ādhivarjaṃ śraddheyaṃ iti vyavahāra-sthāpanā . .. 03.1.16 ..
संवत्सरं ऋतुं मासं पक्षं दिवसं करणं अधिकरणं ऋणं वेदक-आवेदकयोः कृत-समर्थ-अवस्थयोर्देश-ग्राम-जाति-गोत्र-नाम-कर्माणि चाभिलिख्य वादि-प्रतिवादि-प्रश्नानर्थ-आनुपूर्व्या निवेशयेत् ॥ ०३.१.१७ ॥
saṃvatsaraṃ ṛtuṃ māsaṃ pakṣaṃ divasaṃ karaṇaṃ adhikaraṇaṃ ṛṇaṃ vedaka-āvedakayoḥ kṛta-samartha-avasthayordeśa-grāma-jāti-gotra-nāma-karmāṇi cābhilikhya vādi-prativādi-praśnānartha-ānupūrvyā niveśayet .. 03.1.17 ..
निविष्टांश्चावेक्षेत ॥ ०३.१.१८ ॥
niviṣṭāṃścāvekṣeta .. 03.1.18 ..
निबद्धं वादं उत्सृज्यान्यं वादं संक्रामति । पूर्व-उक्तं पश्चिमेनार्थेन नाभिसंधत्ते । पर-वाक्यं अनभिग्राह्यं अभिग्राह्यावतिष्ठते । प्रतिज्ञाय देशं निर्दिशैत्युक्ते न निर्दिशति । हीन-देशं अदेशं वा निर्दिशति । निर्दिष्टाद्देशादन्यं देशं उपस्थापयति । उपस्थिते देशेअर्थ-वचनं नएवं इत्यपव्ययते । साक्षिभिरवधृतं नैच्छति । ॥ ०३.१.१९ ॥
nibaddhaṃ vādaṃ utsṛjyānyaṃ vādaṃ saṃkrāmati . pūrva-uktaṃ paścimenārthena nābhisaṃdhatte . para-vākyaṃ anabhigrāhyaṃ abhigrāhyāvatiṣṭhate . pratijñāya deśaṃ nirdiśaityukte na nirdiśati . hīna-deśaṃ adeśaṃ vā nirdiśati . nirdiṣṭāddeśādanyaṃ deśaṃ upasthāpayati . upasthite deśeartha-vacanaṃ naevaṃ ityapavyayate . sākṣibhiravadhṛtaṃ naicchati . .. 03.1.19 ..
॥ असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते । इति परा-उक्त-हेतवः ॥
.. asambhāṣye deśe sākṣibhirmithaḥ sambhāṣate . iti parā-ukta-hetavaḥ ..
परा-उक्त-दण्डः पञ्च-बन्धः ॥ ०३.१.२० ॥
parā-ukta-daṇḍaḥ pañca-bandhaḥ .. 03.1.20 ..
स्वयं-वादि-दण्डो दश-बन्धः ॥ ०३.१.२१ ॥
svayaṃ-vādi-daṇḍo daśa-bandhaḥ .. 03.1.21 ..
पुरुष-भृतिरष्ट-अंशः ॥ ०३.१.२२ ॥
puruṣa-bhṛtiraṣṭa-aṃśaḥ .. 03.1.22 ..
पथि-भक्तं अर्घ-विशेषतः ॥ ०३.१.२३ ॥
pathi-bhaktaṃ argha-viśeṣataḥ .. 03.1.23 ..
तदुभयं नियम्यो दद्यात् ॥ ०३.१.२४ ॥
tadubhayaṃ niyamyo dadyāt .. 03.1.24 ..
अभियुक्तो न प्रत्यभियुञ्जीत । अन्यत्र कलह-साहस-सार्थ-समवायेभ्यः ॥ ०३.१.२५ ॥
abhiyukto na pratyabhiyuñjīta . anyatra kalaha-sāhasa-sārtha-samavāyebhyaḥ .. 03.1.25 ..
न चाभियुक्तेअभियोगेअस्ति ॥ ०३.१.२६ ॥
na cābhiyukteabhiyogeasti .. 03.1.26 ..
अभियोक्ता चेत्प्रत्युक्तस्तद्-अहरेव न प्रतिब्रूयात्परा-उक्तः स्यात् ॥ ०३.१.२७ ॥
abhiyoktā cetpratyuktastad-ahareva na pratibrūyātparā-uktaḥ syāt .. 03.1.27 ..
कृत-कार्य-विनिश्चयो ह्यभियोक्ता नाभियुक्तः ॥ ०३.१.२८ ॥
kṛta-kārya-viniścayo hyabhiyoktā nābhiyuktaḥ .. 03.1.28 ..
तस्याप्रतिब्रुवतस्त्रि-रात्रं सप्त-रात्रं इति ॥ ०३.१.२९ ॥
tasyāpratibruvatastri-rātraṃ sapta-rātraṃ iti .. 03.1.29 ..
अत ऊर्ध्वं त्रि-पण-अवर-अर्ध्यं द्वादश-पण-परं दण्डं कुर्यात् ॥ ०३.१.३० ॥
ata ūrdhvaṃ tri-paṇa-avara-ardhyaṃ dvādaśa-paṇa-paraṃ daṇḍaṃ kuryāt .. 03.1.30 ..
त्रि-पक्षादूर्ध्वं अप्रतिब्रुवतः परा-उक्त-दण्डं कृत्वा यान्यस्य द्रव्याणि स्युस्ततोअभियोक्तारं प्रतिपादयेद् । अन्यत्र वृत्त्य्-उपकरणेभ्यः ॥ ०३.१.३१ ॥
tri-pakṣādūrdhvaṃ apratibruvataḥ parā-ukta-daṇḍaṃ kṛtvā yānyasya dravyāṇi syustatoabhiyoktāraṃ pratipādayed . anyatra vṛtty-upakaraṇebhyaḥ .. 03.1.31 ..
तदेव निष्पततोअभियुक्तस्य कुर्यात् ॥ ०३.१.३२ ॥
tadeva niṣpatatoabhiyuktasya kuryāt .. 03.1.32 ..
अभियोक्तुर्निष्पात-सम-कालः परा-उक्त-भावः ॥ ०३.१.३३ ॥
abhiyokturniṣpāta-sama-kālaḥ parā-ukta-bhāvaḥ .. 03.1.33 ..
प्रेतस्य व्यसनिनो वा साक्षि-वचनं असारं ॥ ०३.१.३४ ॥
pretasya vyasanino vā sākṣi-vacanaṃ asāraṃ .. 03.1.34 ..
अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ॥ ०३.१.३५ ॥
abhiyoktā daṇḍaṃ dattvā karma kārayet .. 03.1.35 ..
आधिं वा स कामं प्रवेशयेत् ॥ ०३.१.३६ ॥
ādhiṃ vā sa kāmaṃ praveśayet .. 03.1.36 ..
रक्षोघ्न-रक्षितं वा कर्मणा प्रतिपादयेद् । अन्यत्र ब्राह्मणात् ॥ ०३.१.३७ ॥
rakṣoghna-rakṣitaṃ vā karmaṇā pratipādayed . anyatra brāhmaṇāt .. 03.1.37 ..
चतुर्-वर्ण-आश्रमस्यायं लोकस्यऽचार-रक्षणात् । ॥ ०३.१.३८अ ब ॥
catur-varṇa-āśramasyāyaṃ lokasya'cāra-rakṣaṇāt . .. 03.1.38a ba ..
नश्यतां सर्व-धर्माणां राजा धर्म-प्रवर्तकः ॥ ०३.१.३८च्द् ॥
naśyatāṃ sarva-dharmāṇāṃ rājā dharma-pravartakaḥ .. 03.1.38cd ..
धर्मश्च व्यवहारश्च चरित्रं राज-शासनं । ॥ ०३.१.३९अ ब ॥
dharmaśca vyavahāraśca caritraṃ rāja-śāsanaṃ . .. 03.1.39a ba ..
विवाद-अर्थश्चतुष्पादः पश्चिमः पूर्व-बाधकः ॥ ०३.१.३९च्द् ॥
vivāda-arthaścatuṣpādaḥ paścimaḥ pūrva-bādhakaḥ .. 03.1.39cd ..
तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । ॥ ०३.१.४०अ ब ॥
tatra satye sthito dharmo vyavahārastu sākṣiṣu . .. 03.1.40a ba ..
चरित्रं संग्रहे पुंसां राज्ञां आज्ञा तु शासनं ॥ ०३.१.४०च्द् ॥
caritraṃ saṃgrahe puṃsāṃ rājñāṃ ājñā tu śāsanaṃ .. 03.1.40cd ..
राज्ञः स्व-धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । ॥ ०३.१.४१अ ब ॥
rājñaḥ sva-dharmaḥ svargāya prajā dharmeṇa rakṣituḥ . .. 03.1.41a ba ..
अरक्षितुर्वा क्षेप्तुर्वा मिथ्या-दण्डं अतोअन्यथा ॥ ०३.१.४१च्द् ॥
arakṣiturvā kṣepturvā mithyā-daṇḍaṃ atoanyathā .. 03.1.41cd ..
दण्डो हि केवलो लोकं परं चैमं च रक्षति । ॥ ०३.१.४२अ ब ॥
daṇḍo hi kevalo lokaṃ paraṃ caimaṃ ca rakṣati . .. 03.1.42a ba ..
राज्ञा पुत्रे च शत्रौ च यथा-दोषं समं धृतः ॥ ०३.१.४२च्द् ॥
rājñā putre ca śatrau ca yathā-doṣaṃ samaṃ dhṛtaḥ .. 03.1.42cd ..
अनुशासद्द्हि धर्मेण व्यवहारेण संस्थया । ॥ ०३.१.४३अ ब ॥
anuśāsadd_hi dharmeṇa vyavahāreṇa saṃsthayā . .. 03.1.43a ba ..
न्यायेन च चतुर्थेन चतुर्-अन्तां वा महीं जयेत् ॥ ०३.१.४३च्द् ॥
nyāyena ca caturthena catur-antāṃ vā mahīṃ jayet .. 03.1.43cd ..
संस्था या धर्म-शास्त्रेण शास्त्रं वा व्यावहारिकं । ॥ ०३.१.४४अ ब ॥
saṃsthā yā dharma-śāstreṇa śāstraṃ vā vyāvahārikaṃ . .. 03.1.44a ba ..
यस्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत् ॥ ०३.१.४४च्द् ॥
yasminnarthe virudhyeta dharmeṇārthaṃ vinirṇayet .. 03.1.44cd ..
शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् । ॥ ०३.१.४५अ ब ॥
śāstraṃ vipratipadyeta dharme nyāyena kenacit . .. 03.1.45a ba ..
न्यायस्तत्र प्रमाणं स्यात्तत्र पाठो हि नश्यति ॥ ०३.१.४५च्द् ॥
nyāyastatra pramāṇaṃ syāttatra pāṭho hi naśyati .. 03.1.45cd ..
दृष्ट-दोषः स्वयं-वादः स्व-पक्ष-पर-पक्षयोः । ॥ ०३.१.४६अ ब ॥
dṛṣṭa-doṣaḥ svayaṃ-vādaḥ sva-pakṣa-para-pakṣayoḥ . .. 03.1.46a ba ..
अनुयोग-आर्जवं हेतुः शपथश्चार्थ-साधकः ॥ ०३.१.४६च्द् ॥
anuyoga-ārjavaṃ hetuḥ śapathaścārtha-sādhakaḥ .. 03.1.46cd ..
पूर्व-उत्तर-अर्थ-व्याघाते साक्षि-वक्तव्य-कारणे । ॥ ०३.१.४७अ ब ॥
pūrva-uttara-artha-vyāghāte sākṣi-vaktavya-kāraṇe . .. 03.1.47a ba ..
चार-हस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः ॥ ०३.१.४७च्द् ॥
cāra-hastācca niṣpāte pradeṣṭavyaḥ parājayaḥ .. 03.1.47cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In