| |
|

This overlay will guide you through the buttons:

कर्म-उदक-मार्गं उचितं रुन्धतः कुर्वतोअनुचितं वा पूर्वः साहस-दण्डः । सेतु-कूप-पुण्य-स्थान-चैत्य-देव-आयतनानि च पर-भूमौ निवेशयतः ॥ ०३.१०.०१ ॥
कर्म-उदक-मार्गम् उचितम् रुन्धतः कुर्वतः अनुचितम् वा पूर्वः साहस-दण्डः । सेतु-कूप-पुण्य-स्थान-चैत्य-देव-आयतनानि च पर-भूमौ निवेशयतः ॥ ०३।१०।०१ ॥
karma-udaka-mārgam ucitam rundhataḥ kurvataḥ anucitam vā pūrvaḥ sāhasa-daṇḍaḥ . setu-kūpa-puṇya-sthāna-caitya-deva-āyatanāni ca para-bhūmau niveśayataḥ .. 03.10.01 ..
पूर्व-अनुवृत्तं धर्म-सेतुं आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहस-दण्डः । श्रोतृऋणां उत्तमः । अन्यत्र भग्न-उत्सृष्टात् ॥ ०३.१०.०२ ॥
पूर्व-अनुवृत्तम् धर्म-सेतुम् आधानम् विक्रयम् वा नयतः नाययतः वा मध्यमः साहस-दण्डः । श्रोतृऋणाम् उत्तमः । अन्यत्र भग्न-उत्सृष्टात् ॥ ०३।१०।०२ ॥
pūrva-anuvṛttam dharma-setum ādhānam vikrayam vā nayataḥ nāyayataḥ vā madhyamaḥ sāhasa-daṇḍaḥ . śrotṛṛṇām uttamaḥ . anyatra bhagna-utsṛṣṭāt .. 03.10.02 ..
स्वाम्यभावे ग्रामाः पुण्य-शीला वा प्रतिकुर्युः ॥ ०३.१०.०३ ॥
स्वामि-अभावे ग्रामाः पुण्य-शीलाः वा प्रतिकुर्युः ॥ ०३।१०।०३ ॥
svāmi-abhāve grāmāḥ puṇya-śīlāḥ vā pratikuryuḥ .. 03.10.03 ..
पथि-प्रमाणं दुर्ग-निवेशे व्याख्यातं ॥ ०३.१०.०४ ॥
पथि प्रमाणम् दुर्ग-निवेशे व्याख्यातम् ॥ ०३।१०।०४ ॥
pathi pramāṇam durga-niveśe vyākhyātam .. 03.10.04 ..
क्षुद्र-पशु-मनुष्य-पथं रुन्धतो द्वादश-पणो दण्डः । महा-पशु-पथं चतुर्-विंशति-पणः । हस्ति-क्षेत्र-पथं चतुष्-पञ्चाशत्-पणः । सेतु-वन-पथं षट्-शतः । श्मशान-ग्राम-पथं द्विशतः । द्रोण-मुख-पथं पञ्च-शतः । स्थानीय-राष्ट्र-विवीत-पथं साहस्रः ॥ ०३.१०.०५ ॥
क्षुद्र-पशु-मनुष्य-पथम् रुन्धतः द्वादश-पणः दण्डः । महा-पशु-पथम् चतुर्-विंशति-पणः । हस्ति-क्षेत्र-पथम् चतुष्पञ्चाशत्-पणः । सेतु-वन-पथम् षष्-शतः । श्मशान-ग्राम-पथम् द्विशतः । द्रोण-मुख-पथम् पञ्च-शतः । स्थानीय-राष्ट्र-विवीत-पथम् साहस्रः ॥ ०३।१०।०५ ॥
kṣudra-paśu-manuṣya-patham rundhataḥ dvādaśa-paṇaḥ daṇḍaḥ . mahā-paśu-patham catur-viṃśati-paṇaḥ . hasti-kṣetra-patham catuṣpañcāśat-paṇaḥ . setu-vana-patham ṣaṣ-śataḥ . śmaśāna-grāma-patham dviśataḥ . droṇa-mukha-patham pañca-śataḥ . sthānīya-rāṣṭra-vivīta-patham sāhasraḥ .. 03.10.05 ..
अतिकर्षणे चएषां दण्ड-चतुर्था दण्डाः ॥ ०३.१०.०६ ॥
अतिकर्षणे च एषाम् दण्ड-चतुर्थाः दण्डाः ॥ ०३।१०।०६ ॥
atikarṣaṇe ca eṣām daṇḍa-caturthāḥ daṇḍāḥ .. 03.10.06 ..
कर्षणे पूर्व-उक्ताः ॥ ०३.१०.०७ ॥
कर्षणे पूर्व-उक्ताः ॥ ०३।१०।०७ ॥
karṣaṇe pūrva-uktāḥ .. 03.10.07 ..
क्षेत्रिकस्याक्षिपतः क्षेत्रं उपवासस्य वा त्यजतो बीज-काले द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ॥ ०३.१०.०८ ॥
क्षेत्रिकस्य आक्षिपतः क्षेत्रम् उपवासस्य वा त्यजतः बीज-काले द्वादश-पणः दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ॥ ०३।१०।०८ ॥
kṣetrikasya ākṣipataḥ kṣetram upavāsasya vā tyajataḥ bīja-kāle dvādaśa-paṇaḥ daṇḍaḥ . anyatra doṣa-upanipāta-aviṣahyebhyaḥ .. 03.10.08 ..
करदाः करदेष्वाधानं विक्रयं वा कुर्युः । ब्रह्म-देयिका ब्रह्म-देयिकेषु ॥ ०३.१०.०९ ॥
कर-दाः कर-देषु आधानम् विक्रयम् वा कुर्युः । ब्रह्म-देयिका ब्रह्म-देयिकेषु ॥ ०३।१०।०९ ॥
kara-dāḥ kara-deṣu ādhānam vikrayam vā kuryuḥ . brahma-deyikā brahma-deyikeṣu .. 03.10.09 ..
अन्यथा पूर्वः साहस-दण्डः ॥ ०३.१०.१० ॥
अन्यथा पूर्वः साहस-दण्डः ॥ ०३।१०।१० ॥
anyathā pūrvaḥ sāhasa-daṇḍaḥ .. 03.10.10 ..
करदस्य वाअकरद-ग्रामं प्रविशतः ॥ ०३.१०.११ ॥
करदस्य वा अकरद-ग्रामम् प्रविशतः ॥ ०३।१०।११ ॥
karadasya vā akarada-grāmam praviśataḥ .. 03.10.11 ..
करदं तु प्रविशतः सर्व-द्रव्येषु प्राकाम्यं स्यात् । अन्यत्रागारात् ॥ ०३.१०.१२ ॥
कर-दम् तु प्रविशतः सर्व-द्रव्येषु प्राकाम्यम् स्यात् । अन्यत्र आगारात् ॥ ०३।१०।१२ ॥
kara-dam tu praviśataḥ sarva-dravyeṣu prākāmyam syāt . anyatra āgārāt .. 03.10.12 ..
तदप्यस्मै दद्यात् ॥ ०३.१०.१३ ॥
तत् अपि अस्मै दद्यात् ॥ ०३।१०।१३ ॥
tat api asmai dadyāt .. 03.10.13 ..
अनादेयं अकृषतोअन्यः पञ्च-वर्षाण्युपभुज्य प्रयास-निष्क्रयेण दद्यात् ॥ ०३.१०.१४ ॥
अन् आदेयम् अ कृषतः अन्यः पञ्च वर्षाणि उपभुज्य प्रयास-निष्क्रयेण दद्यात् ॥ ०३।१०।१४ ॥
an ādeyam a kṛṣataḥ anyaḥ pañca varṣāṇi upabhujya prayāsa-niṣkrayeṇa dadyāt .. 03.10.14 ..
अकरदाः परत्र वसन्तो भोगं उपजीवेयुः ॥ ०३.१०.१५ ॥
अ कर-दाः परत्र वसन्तः भोगम् उपजीवेयुः ॥ ०३।१०।१५ ॥
a kara-dāḥ paratra vasantaḥ bhogam upajīveyuḥ .. 03.10.15 ..
ग्राम-अर्थेन ग्रामिकं व्रजन्तं उपवासाः पर्यायेणानुगच्छेयुः ॥ ०३.१०.१६ ॥
ग्राम-अर्थेन ग्रामिकम् व्रजन्तम् उपवासाः पर्यायेण अनुगच्छेयुः ॥ ०३।१०।१६ ॥
grāma-arthena grāmikam vrajantam upavāsāḥ paryāyeṇa anugaccheyuḥ .. 03.10.16 ..
अननुगच्छन्तः पण-अर्ध-पणिकं योजनं दद्युः ॥ ०३.१०.१७ ॥
अन् अनुगच्छन्तः पण-अर्ध-पणिकम् योजनम् दद्युः ॥ ०३।१०।१७ ॥
an anugacchantaḥ paṇa-ardha-paṇikam yojanam dadyuḥ .. 03.10.17 ..
ग्रामिकस्य ग्रामादस्तेन-पारदारिकं निरस्यतश्चतुर्-विंशति-पणो दण्डः । ग्रामस्यौत्तमः ॥ ०३.१०.१८ ॥
ग्रामिकस्य ग्रामात् अस्तेन पारदारिकम् निरस्यतः चतुर्-विंशति-पणः दण्डः । ग्रामस्य औत्तमः ॥ ०३।१०।१८ ॥
grāmikasya grāmāt astena pāradārikam nirasyataḥ catur-viṃśati-paṇaḥ daṇḍaḥ . grāmasya auttamaḥ .. 03.10.18 ..
निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः ॥ ०३.१०.१९ ॥
निरस्तस्य प्रवेशः हि अभिगमेन व्याख्यातः ॥ ०३।१०।१९ ॥
nirastasya praveśaḥ hi abhigamena vyākhyātaḥ .. 03.10.19 ..
स्तम्भैः समन्ततो ग्रामाद्धनुः-शत-अपकृष्टं उपसालं कारयेत् ॥ ०३.१०.२० ॥
स्तम्भैः समन्ततः ग्रामात् धनुः-शत-अपकृष्टम् उपसालम् कारयेत् ॥ ०३।१०।२० ॥
stambhaiḥ samantataḥ grāmāt dhanuḥ-śata-apakṛṣṭam upasālam kārayet .. 03.10.20 ..
पशु-प्रचार-अर्थं विवीतं आलवनेनौपजीवेयुः ॥ ०३.१०.२१ ॥
पशु-प्रचार-अर्थम् विवीतम् आलवनेन उपजीवेयुः ॥ ०३।१०।२१ ॥
paśu-pracāra-artham vivītam ālavanena upajīveyuḥ .. 03.10.21 ..
विवीतं भक्षयित्वाअपसृतानां उष्ट्र-महिषाणां पादिकं रूपं गृह्णीयुः । गव-अश्व-खराणां चार्ध-पादिकम् । क्षुद्र-पशूनां षोडश-भागिकं ॥ ०३.१०.२२ ॥
विवीतम् भक्षयित्वा अपसृतानाम् उष्ट्र-महिषाणाम् पादिकम् रूपम् गृह्णीयुः । गव-अश्व-खराणाम् च अर्ध-पादिकम् । क्षुद्र-पशूनाम् षोडश-भागिकम् ॥ ०३।१०।२२ ॥
vivītam bhakṣayitvā apasṛtānām uṣṭra-mahiṣāṇām pādikam rūpam gṛhṇīyuḥ . gava-aśva-kharāṇām ca ardha-pādikam . kṣudra-paśūnām ṣoḍaśa-bhāgikam .. 03.10.22 ..
भक्षयित्वा निषण्णानां एत एव द्वि-गुणा दण्डाः । परिवसतां चतुर्-गुणाः ॥ ०३.१०.२३ ॥
भक्षयित्वा निषण्णानाम् एते एव द्वि-गुणाः दण्डाः । परिवसताम् चतुर्-गुणाः ॥ ०३।१०।२३ ॥
bhakṣayitvā niṣaṇṇānām ete eva dvi-guṇāḥ daṇḍāḥ . parivasatām catur-guṇāḥ .. 03.10.23 ..
ग्राम-देव-वृषा वाअनिर्दश-अहा वा धेनुरुक्षाणो गो-वृषाश्चादण्ड्याः ॥ ०३.१०.२४ ॥
ग्राम-देव-वृषाः वा अ अनिः दश-अहाः वा धेनुः उक्षाणः गो-वृषाः च अ दण्ड्याः ॥ ०३।१०।२४ ॥
grāma-deva-vṛṣāḥ vā a aniḥ daśa-ahāḥ vā dhenuḥ ukṣāṇaḥ go-vṛṣāḥ ca a daṇḍyāḥ .. 03.10.24 ..
सस्य-भक्षणे सस्य-उपघातं निष्पत्तितः परिसंख्याय द्वि-गुणं दापयेत् ॥ ०३.१०.२५ ॥
सस्य-भक्षणे सस्य-उपघातम् निष्पत्तितः परिसंख्याय द्वि-गुणम् दापयेत् ॥ ०३।१०।२५ ॥
sasya-bhakṣaṇe sasya-upaghātam niṣpattitaḥ parisaṃkhyāya dvi-guṇam dāpayet .. 03.10.25 ..
स्वामिनश्चानिवेद्य चारयतो द्वादश-पणो दण्दः । प्रमुञ्चतश्चतुर्-विंशति-पणः ॥ ०३.१०.२६ ॥
स्वामिनः च अ निवेद्य चारयतः द्वादश-पणः दण्दः । प्रमुञ्चतः चतुर्-विंशति-पणः ॥ ०३।१०।२६ ॥
svāminaḥ ca a nivedya cārayataḥ dvādaśa-paṇaḥ daṇdaḥ . pramuñcataḥ catur-viṃśati-paṇaḥ .. 03.10.26 ..
पालिनां अर्ध-दण्डाः ॥ ०३.१०.२७ ॥
पालिनाम् अर्ध-दण्डाः ॥ ०३।१०।२७ ॥
pālinām ardha-daṇḍāḥ .. 03.10.27 ..
तदेव षण्ड-भक्षणे कुर्यात् ॥ ०३.१०.२८ ॥
तत् एव षण्ड-भक्षणे कुर्यात् ॥ ०३।१०।२८ ॥
tat eva ṣaṇḍa-bhakṣaṇe kuryāt .. 03.10.28 ..
वाट-भेदे द्वि-गुणः वेश्म-खल-वलय-गतानां च धान्यानां भक्षणे ॥ ०३.१०.२९ ॥
वाट-भेदे द्वि-गुणः वेश्म-खल-वलय-गतानाम् च धान्यानाम् भक्षणे ॥ ०३।१०।२९ ॥
vāṭa-bhede dvi-guṇaḥ veśma-khala-valaya-gatānām ca dhānyānām bhakṣaṇe .. 03.10.29 ..
हिंसा-प्रतीकारं कुर्यात् ॥ ०३.१०.३० ॥
हिंसा-प्रतीकारम् कुर्यात् ॥ ०३।१०।३० ॥
hiṃsā-pratīkāram kuryāt .. 03.10.30 ..
अभय-वन-मृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथाअवध्यास्तथा प्रतिषेद्धव्याः ॥ ०३.१०.३१ ॥
अभय-वन-मृगाः परिगृहीताः वा भक्षयन्तः स्वामिनः निवेद्य यथा अवध्याः तथा प्रतिषेद्धव्याः ॥ ०३।१०।३१ ॥
abhaya-vana-mṛgāḥ parigṛhītāḥ vā bhakṣayantaḥ svāminaḥ nivedya yathā avadhyāḥ tathā pratiṣeddhavyāḥ .. 03.10.31 ..
पशवो रश्मि-प्रतोदाभ्यां वारयितव्याः ॥ ०३.१०.३२ ॥
पशवः रश्मि-प्रतोदाभ्याम् वारयितव्याः ॥ ०३।१०।३२ ॥
paśavaḥ raśmi-pratodābhyām vārayitavyāḥ .. 03.10.32 ..
तेषां अन्यथा हिंसायां दण्ड-पारुष्य-दण्डाः ॥ ०३.१०.३३ ॥
तेषाम् अन्यथा हिंसायाम् दण्ड-पारुष्य-दण्डाः ॥ ०३।१०।३३ ॥
teṣām anyathā hiṃsāyām daṇḍa-pāruṣya-daṇḍāḥ .. 03.10.33 ..
प्रार्थयमाना दृष्ट-अपराधा वा सर्व-उपायैर्नियन्तव्याः इति क्षेत्र-पथ-हिंसा । ॥ ०३.१०.३४ ॥
प्रार्थयमानाः दृष्ट-अपराधाः वा सर्व-उपायैः नियन्तव्याः इति क्षेत्र-पथ-हिंसा । ॥ ०३।१०।३४ ॥
prārthayamānāḥ dṛṣṭa-aparādhāḥ vā sarva-upāyaiḥ niyantavyāḥ iti kṣetra-patha-hiṃsā . .. 03.10.34 ..
कर्षकस्य ग्रामं अभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत् ॥ ०३.१०.३५ ॥
कर्षकस्य ग्रामम् अभ्युपेत्य अ कुर्वतः ग्रामे एव अत्ययम् हरेत् ॥ ०३।१०।३५ ॥
karṣakasya grāmam abhyupetya a kurvataḥ grāme eva atyayam haret .. 03.10.35 ..
कर्म-अकरणे कर्म-वेतन-द्वि-गुणम् । हिरण्य-अदाने प्रत्यंश-द्वि-गुणम् । भक्ष्य-पेय-अदाने च प्रहवणेषु द्वि-गुणं अंशं दद्यात् ॥ ०३.१०.३६ ॥
कर्म-अकरणे कर्म-वेतन-द्वि-गुणम् । हिरण्य-अदाने प्रत्यंश-द्वि-गुणम् । भक्ष्य-पेय-अदाने च प्रहवणेषु द्वि-गुणम् अंशम् दद्यात् ॥ ०३।१०।३६ ॥
karma-akaraṇe karma-vetana-dvi-guṇam . hiraṇya-adāne pratyaṃśa-dvi-guṇam . bhakṣya-peya-adāne ca prahavaṇeṣu dvi-guṇam aṃśam dadyāt .. 03.10.36 ..
प्रेक्षायां अनंशदः । सस्व-जनो न प्रेक्षेत ॥ ०३.१०.३७ ॥
प्रेक्षायाम् अन् अंश-दः । स स्व-जनः न प्रेक्षेत ॥ ०३।१०।३७ ॥
prekṣāyām an aṃśa-daḥ . sa sva-janaḥ na prekṣeta .. 03.10.37 ..
प्रच्छन्न-श्रवण-ईक्षणे च सर्व-हिते च कर्मणि निग्रहेण द्वि-गुणं अंशं दद्यात् ॥ ०३.१०.३८ ॥
प्रच्छन्न-श्रवण-ईक्षणे च सर्व-हिते च कर्मणि निग्रहेण द्विगुणम् अंशम् दद्यात् ॥ ०३।१०।३८ ॥
pracchanna-śravaṇa-īkṣaṇe ca sarva-hite ca karmaṇi nigraheṇa dviguṇam aṃśam dadyāt .. 03.10.38 ..
सर्व-हितं एकस्य ब्रुवतः कुर्युराज्ञां ॥ ०३.१०.३९ ॥
सर्व-हितम् एकस्य ब्रुवतः कुर्युः आज्ञाम् ॥ ०३।१०।३९ ॥
sarva-hitam ekasya bruvataḥ kuryuḥ ājñām .. 03.10.39 ..
अकरणे द्वादश-पणो दण्डः ॥ ०३.१०.४० ॥
अकरणे द्वादश-पणः दण्डः ॥ ०३।१०।४० ॥
akaraṇe dvādaśa-paṇaḥ daṇḍaḥ .. 03.10.40 ..
तं चेत्सम्भूय वा हन्युः पृथगेषां अपराध-द्वि-गुणो दण्डः ॥ ०३.१०.४१ ॥
तम् चेद् सम्भूय वा हन्युः पृथक् एषाम् अपराध-द्वि-गुणः दण्डः ॥ ०३।१०।४१ ॥
tam ced sambhūya vā hanyuḥ pṛthak eṣām aparādha-dvi-guṇaḥ daṇḍaḥ .. 03.10.41 ..
उपहन्तृषु विशिष्टः ॥ ०३.१०.४२ ॥
उपहन्तृषु विशिष्टः ॥ ०३।१०।४२ ॥
upahantṛṣu viśiṣṭaḥ .. 03.10.42 ..
ब्राह्मणश्चएषां ज्यैष्ठ्यं नियम्येत ॥ ०३.१०.४३ ॥
ब्राह्मणः च एषाम् ज्यैष्ठ्यम् नियम्येत ॥ ०३।१०।४३ ॥
brāhmaṇaḥ ca eṣām jyaiṣṭhyam niyamyeta .. 03.10.43 ..
प्रहवणेषु चएषां ब्राह्मणा नाकामाः कुर्युः । अंशं च लभेरन् ॥ ०३.१०.४४ ॥
प्रहवणेषु च एषाम् ब्राह्मणाः न अकामाः कुर्युः । अंशम् च लभेरन् ॥ ०३।१०।४४ ॥
prahavaṇeṣu ca eṣām brāhmaṇāḥ na akāmāḥ kuryuḥ . aṃśam ca labheran .. 03.10.44 ..
तेन देश-जाति-कुल-संघानां समयस्यानपाकर्म व्याख्यातं ॥ ०३.१०.४५ ॥
तेन देश-जाति-कुल-संघानाम् समयस्य अनपाकर्म व्याख्यातम् ॥ ०३।१०।४५ ॥
tena deśa-jāti-kula-saṃghānām samayasya anapākarma vyākhyātam .. 03.10.45 ..
राजा देश-हितान्सेतून्कुर्वतां पथि संक्रमान् । ॥ ०३.१०.४६अ ब ॥
राजा देश-हितान् सेतून् कुर्वताम् पथि संक्रमान् । ॥ ०३।१०।४६अ ब ॥
rājā deśa-hitān setūn kurvatām pathi saṃkramān . .. 03.10.46a ba ..
ग्राम-शोभाश्च रक्षाश्च तेषां प्रिय-हितं चरेत् ॥ ०३.१०.४६च्द् ॥
ग्राम-शोभाः च रक्षाः च तेषाम् प्रिय-हितम् चरेत् ॥ ०३।१०।४६च् ॥
grāma-śobhāḥ ca rakṣāḥ ca teṣām priya-hitam caret .. 03.10.46c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In