| |
|

This overlay will guide you through the buttons:

सपाद-पणा धर्म्या मास-वृद्धिः पण-शतस्य । पञ्च-पणा व्यावहारिकी । दश-पणा कान्तारगाणाम् । विंशति-पणा सामुद्राणां ॥ ०३.११.०१ ॥
सपाद-पणा धर्म्या मास-वृद्धिः पण-शतस्य । पञ्च-पणा व्यावहारिकी । दश-पणा कान्तारगाणाम् । विंशति-पणा सामुद्राणाम् ॥ ०३।११।०१ ॥
sapāda-paṇā dharmyā māsa-vṛddhiḥ paṇa-śatasya . pañca-paṇā vyāvahārikī . daśa-paṇā kāntāragāṇām . viṃśati-paṇā sāmudrāṇām .. 03.11.01 ..
ततः परं कर्तुः कारयितुश्च पूर्वः साहस-दण्डः । श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डः ॥ ०३.११.०२ ॥
ततस् परम् कर्तुः कारयितुः च पूर्वः साहस-दण्डः । श्रोतृणाम् एक-एकम् प्रत्यर्ध-दण्डः ॥ ०३।११।०२ ॥
tatas param kartuḥ kārayituḥ ca pūrvaḥ sāhasa-daṇḍaḥ . śrotṛṇām eka-ekam pratyardha-daṇḍaḥ .. 03.11.02 ..
राजन्ययोग-क्षेम-आवहे तु धनिक-धारणिकयोश्चरित्रं अवेक्षेत ॥ ०३.११.०३ ॥
राजन्य-योग-क्षेम-आवहे तु धनिक-धारणिकयोः चरित्रम् अवेक्षेत ॥ ०३।११।०३ ॥
rājanya-yoga-kṣema-āvahe tu dhanika-dhāraṇikayoḥ caritram avekṣeta .. 03.11.03 ..
धान्य-वृद्धिः सस्य-निष्पत्तावुपार्धा । परं मूल्य-कृता वर्धेत ॥ ०३.११.०४ ॥
धान्य-वृद्धिः सस्य-निष्पत्तौ उपार्धा । परम् मूल्य-कृता वर्धेत ॥ ०३।११।०४ ॥
dhānya-vṛddhiḥ sasya-niṣpattau upārdhā . param mūlya-kṛtā vardheta .. 03.11.04 ..
प्रक्षेप-वृद्धिरुदयादर्धं सम्निधान-सन्ना वार्षिकी देया ॥ ०३.११.०५ ॥
प्रक्षेप-वृद्धिः उदयात् अर्धम् सम्निधान-सन्ना वार्षिकी देया ॥ ०३।११।०५ ॥
prakṣepa-vṛddhiḥ udayāt ardham samnidhāna-sannā vārṣikī deyā .. 03.11.05 ..
चिर-प्रवासः स्तम्भ-प्रविष्टो वा मूल्य-द्वि-गुणं दद्यात् ॥ ०३.११.०६ ॥
चिर-प्रवासः स्तम्भ-प्रविष्टः वा मूल्य-द्वि-गुणम् दद्यात् ॥ ०३।११।०६ ॥
cira-pravāsaḥ stambha-praviṣṭaḥ vā mūlya-dvi-guṇam dadyāt .. 03.11.06 ..
अकृत्वा वृद्धिं साधयतो वर्धयतो वा । मूल्यं वा वृद्धिं आरोप्य श्रावयतो बन्ध-चतुर्-गुणो दण्डः ॥ ०३.११.०७ ॥
अ कृत्वा वृद्धिम् साधयतः वर्धयतः वा । मूल्यम् वा वृद्धिम् आरोप्य श्रावयतः बन्ध-चतुर्-गुणः दण्डः ॥ ०३।११।०७ ॥
a kṛtvā vṛddhim sādhayataḥ vardhayataḥ vā . mūlyam vā vṛddhim āropya śrāvayataḥ bandha-catur-guṇaḥ daṇḍaḥ .. 03.11.07 ..
तुच्छ-श्रावणायां अभूत-चतुर्-गुणः ॥ ०३.११.०८ ॥
तुच्छ-श्रावणायाम् अभूत-चतुर्-गुणः ॥ ०३।११।०८ ॥
tuccha-śrāvaṇāyām abhūta-catur-guṇaḥ .. 03.11.08 ..
तस्य त्रि-भागं आदाता दद्यात् । शेषं प्रदाता ॥ ०३.११.०९ ॥
तस्य त्रि-भागम् आदाता दद्यात् । शेषम् प्रदाता ॥ ०३।११।०९ ॥
tasya tri-bhāgam ādātā dadyāt . śeṣam pradātā .. 03.11.09 ..
दीर्घ-सत्त्र-व्याधि-गुरु-कुल-उपरुद्धं बालं असारं वा नऋणं अनुवर्धेत ॥ ०३.११.१० ॥
दीर्घ-सत्त्र-व्याधि-गुरु-कुल-उपरुद्धम् बालम् असारम् वा न ऋणम् अनुवर्धेत ॥ ०३।११।१० ॥
dīrgha-sattra-vyādhi-guru-kula-uparuddham bālam asāram vā na ṛṇam anuvardheta .. 03.11.10 ..
मुच्यमानं ऋणं अप्रतिगृह्णतो द्वादश-पणो दण्डः ॥ ०३.११.११ ॥
मुच्यमानम् ऋणम् अ प्रतिगृह्णतः द्वादश-पणः दण्डः ॥ ०३।११।११ ॥
mucyamānam ṛṇam a pratigṛhṇataḥ dvādaśa-paṇaḥ daṇḍaḥ .. 03.11.11 ..
कारण-अपदेशेन निवृत्त-वृद्धिकं अन्यत्र तिष्ठेत् ॥ ०३.११.१२ ॥
कारण-अपदेशेन निवृत्त-वृद्धिकम् अन्यत्र तिष्ठेत् ॥ ०३।११।१२ ॥
kāraṇa-apadeśena nivṛtta-vṛddhikam anyatra tiṣṭhet .. 03.11.12 ..
दश-वर्ष-उपेक्षितं ऋणं अप्रतिग्राह्यम् । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ॥ ०३.११.१३ ॥
दश-वर्ष-उपेक्षितम् ऋणम् अ प्रतिग्राह्यम् । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ॥ ०३।११।१३ ॥
daśa-varṣa-upekṣitam ṛṇam a pratigrāhyam . anyatra bāla-vṛddha-vyādhita-vyasani-proṣita-deśa-tyāga-rājya-vibhramebhyaḥ .. 03.11.13 ..
प्रेतस्य पुत्राः कुसीदं दद्युः । दायादा वा रिक्थ-हराः । सह-ग्राहिणः । प्रतिभुवो वा ॥ ०३.११.१४ ॥
प्रेतस्य पुत्राः कुसीदम् दद्युः । दायादाः वा रिक्थ-हराः । सह ग्राहिणः । प्रतिभुवः वा ॥ ०३।११।१४ ॥
pretasya putrāḥ kusīdam dadyuḥ . dāyādāḥ vā riktha-harāḥ . saha grāhiṇaḥ . pratibhuvaḥ vā .. 03.11.14 ..
न प्रातिभाव्यं अन्यत् ॥ ०३.११.१५ ॥
न प्रातिभाव्यम् अन्यत् ॥ ०३।११।१५ ॥
na prātibhāvyam anyat .. 03.11.15 ..
असारं बाल-प्रातिभाव्यं ॥ ०३.११.१६ ॥
असारम् बाल-प्रातिभाव्यम् ॥ ०३।११।१६ ॥
asāram bāla-prātibhāvyam .. 03.11.16 ..
असंख्यात-देश-कालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः ॥ ०३.११.१७ ॥
असंख्यात-देश-कालम् तु पुत्राः पौत्राः दायादाः वा रिक्थम् हरमाणाः दद्युः ॥ ०३।११।१७ ॥
asaṃkhyāta-deśa-kālam tu putrāḥ pautrāḥ dāyādāḥ vā riktham haramāṇāḥ dadyuḥ .. 03.11.17 ..
जीवित-विवाह-भूमि-प्रातिभाव्यं असंख्यात-देश-कालं तु पुत्राः पौत्रा वा वहेयुः ॥ ०३.११.१८ ॥
जीवित-विवाह-भूमि-प्रातिभाव्यम् असंख्यात-देश-कालम् तु पुत्राः पौत्राः वा वहेयुः ॥ ०३।११।१८ ॥
jīvita-vivāha-bhūmi-prātibhāvyam asaṃkhyāta-deśa-kālam tu putrāḥ pautrāḥ vā vaheyuḥ .. 03.11.18 ..
नानाऋण-समवाये तु नएकं द्वौ युगपदभिवदेयाताम् । अन्यत्र प्रतिष्ठमानात् ॥ ०३.११.१९ ॥
नाना ऋण-समवाये तु न एकम् द्वौ युगपद् अभिवदेयाताम् । अन्यत्र प्रतिष्ठमानात् ॥ ०३।११।१९ ॥
nānā ṛṇa-samavāye tu na ekam dvau yugapad abhivadeyātām . anyatra pratiṣṭhamānāt .. 03.11.19 ..
तत्रापि गृहीत-आनुपूर्व्या राज-श्रोत्रिय-द्रव्यं वा पूर्वं प्रतिपादयेत् ॥ ०३.११.२० ॥
तत्र अपि गृहीत-आनुपूर्व्या राज-श्रोत्रिय-द्रव्यम् वा पूर्वम् प्रतिपादयेत् ॥ ०३।११।२० ॥
tatra api gṛhīta-ānupūrvyā rāja-śrotriya-dravyam vā pūrvam pratipādayet .. 03.11.20 ..
दम्पत्योः पिता-पुत्रयोः भ्रातृऋणां चाविभक्तानां परस्पर--कृतं ऋणं असाध्यं ॥ ०३.११.२१ ॥
दम्पत्योः पिता-पुत्रयोः भ्रातृणाम् च अविभक्तानाम् परस्पर-कृतम् ऋणम् असाध्यम् ॥ ०३।११।२१ ॥
dampatyoḥ pitā-putrayoḥ bhrātṛṇām ca avibhaktānām paraspara-kṛtam ṛṇam asādhyam .. 03.11.21 ..
अग्राह्याः कर्म-कालेषु कर्षका राज-पुरुषाश्च ॥ ०३.११.२२ ॥
अग्राह्याः कर्म-कालेषु कर्षकाः राज-पुरुषाः च ॥ ०३।११।२२ ॥
agrāhyāḥ karma-kāleṣu karṣakāḥ rāja-puruṣāḥ ca .. 03.11.22 ..
स्त्री चाप्रतिश्राविणी पति-कृतं ऋणम् । अन्यत्र गो-पालक-अर्ध-सीतिकेभ्यः ॥ ०३.११.२३ ॥
स्त्री च अ प्रतिश्राविणी पति-कृतम् ऋणम् । अन्यत्र गो-पालक-अर्ध-सीतिकेभ्यः ॥ ०३।११।२३ ॥
strī ca a pratiśrāviṇī pati-kṛtam ṛṇam . anyatra go-pālaka-ardha-sītikebhyaḥ .. 03.11.23 ..
पतिस्तु ग्राह्यः स्त्री-कृतं ऋणम् । अप्रति-विधाय प्रोषित इति ॥ ०३.११.२४ ॥
पतिः तु ग्राह्यः स्त्री-कृतम् ऋणम् । अ प्रति विधाय प्रोषितः इति ॥ ०३।११।२४ ॥
patiḥ tu grāhyaḥ strī-kṛtam ṛṇam . a prati vidhāya proṣitaḥ iti .. 03.11.24 ..
सम्प्रतिपत्तावुत्तमः ॥ ०३.११.२५ ॥
सम्प्रतिपत्तौ उत्तमः ॥ ०३।११।२५ ॥
sampratipattau uttamaḥ .. 03.11.25 ..
अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोअनुमता वा त्रयोअवर-अर्ध्याः ॥ ०३.११.२६ ॥
तु साक्षिणः प्रमाणम् प्रात्ययिकाः शुचयः अनुमताः वा ॥ ०३।११।२६ ॥
tu sākṣiṇaḥ pramāṇam prātyayikāḥ śucayaḥ anumatāḥ vā .. 03.11.26 ..
पक्ष-अनुमतौ वा द्वौ । ऋणं प्रति न त्वेवएकः ॥ ०३.११.२७ ॥
पक्ष-अनुमतौ वा द्वौ । ऋणम् प्रति न तु एव एकः ॥ ०३।११।२७ ॥
pakṣa-anumatau vā dvau . ṛṇam prati na tu eva ekaḥ .. 03.11.27 ..
प्रतिषिद्धाः स्याल-सहाय-अन्वर्थि-धनिक-धारणिक-वैरि-न्यङ्ग-धृत-दण्डाः । पूर्वे चाव्यवहार्याः ॥ ०३.११.२८ ॥
प्रतिषिद्धाः स्याल-सहाय-अन्वर्थि-धनिक-धारणिक-वैरि-न्यङ्ग-धृत-दण्डाः । पूर्वे च अव्यवहार्याः ॥ ०३।११।२८ ॥
pratiṣiddhāḥ syāla-sahāya-anvarthi-dhanika-dhāraṇika-vairi-nyaṅga-dhṛta-daṇḍāḥ . pūrve ca avyavahāryāḥ .. 03.11.28 ..
राज-श्रोत्रिय-ग्राम-भृतक-कुष्ठि-व्रणिनः पतित-चण्डाल-कुत्सित-कर्माणोअन्ध-बधिर-मूक-अहं-वादिनः स्त्री-राज-पुरुषाश्च । अन्यत्र स्व-वर्गेभ्यः ॥ ०३.११.२९ ॥
राज-श्रोत्रिय-ग्राम-भृतक-कुष्ठि-व्रणिनः पतित-चण्डाल-कुत्सित-कर्माणः अन्ध-बधिर-मूक-अहं वादिनः स्त्री-राज-पुरुषाः च । अन्यत्र स्व-वर्गेभ्यः ॥ ०३।११।२९ ॥
rāja-śrotriya-grāma-bhṛtaka-kuṣṭhi-vraṇinaḥ patita-caṇḍāla-kutsita-karmāṇaḥ andha-badhira-mūka-ahaṃ vādinaḥ strī-rāja-puruṣāḥ ca . anyatra sva-vargebhyaḥ .. 03.11.29 ..
पारुष्य-स्तेय-संग्रहणेषु तु वैरि-स्याल-सहाय-वर्जाः ॥ ०३.११.३० ॥
पारुष्य-स्तेय-संग्रहणेषु तु वैरि-स्याल-सहाय-वर्जाः ॥ ०३।११।३० ॥
pāruṣya-steya-saṃgrahaṇeṣu tu vairi-syāla-sahāya-varjāḥ .. 03.11.30 ..
रहस्य-व्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद्राज-तापस-वर्जं ॥ ०३.११.३१ ॥
रहस्य-व्यवहारेषु एका स्त्री पुरुषः उपश्रोता उपद्रष्टा वा साक्षी स्यात् राज-तापस-वर्जम् ॥ ०३।११।३१ ॥
rahasya-vyavahāreṣu ekā strī puruṣaḥ upaśrotā upadraṣṭā vā sākṣī syāt rāja-tāpasa-varjam .. 03.11.31 ..
स्वामिनो भृत्यानां ऋत्विग्-आचार्याः शिष्याणां माता-पितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः । तेसां इतरे वा ॥ ०३.११.३२ ॥
स्वामिनः भृत्यानाम् ऋत्विज्-आचार्याः शिष्याणाम् माता-पितरौ पुत्राणाम् च अनिग्रहेण साक्ष्यम् कुर्युः । तेसाम् इतरे वा ॥ ०३।११।३२ ॥
svāminaḥ bhṛtyānām ṛtvij-ācāryāḥ śiṣyāṇām mātā-pitarau putrāṇām ca anigraheṇa sākṣyam kuryuḥ . tesām itare vā .. 03.11.32 ..
परस्पर-अभियोगे चएषां उत्तमाः परा-उक्ता दश-बन्धं दद्युः । अवराः पञ्च-बन्धं इति साक्ष्य्-अधिकारः ॥ ०३.११.३३ ॥
परस्पर-अभियोगे च एषाम् उत्तमाः परा उक्ताः दश-बन्धम् दद्युः । अवराः पञ्च-बन्धम् इति साक्षि-अधिकारः ॥ ०३।११।३३ ॥
paraspara-abhiyoge ca eṣām uttamāḥ parā uktāḥ daśa-bandham dadyuḥ . avarāḥ pañca-bandham iti sākṣi-adhikāraḥ .. 03.11.33 ..
ब्राह्मण-उद-कुम्भ-अग्नि-सकाशे साक्षिणः परिगृह्णीयात् ॥ ०३.११.३४ ॥
ब्राह्मण-उद-कुम्भ-अग्नि-सकाशे साक्षिणः परिगृह्णीयात् ॥ ०३।११।३४ ॥
brāhmaṇa-uda-kumbha-agni-sakāśe sākṣiṇaḥ parigṛhṇīyāt .. 03.11.34 ..
तत्र ब्राह्मणं ब्रूयात्"सत्यं ब्रूहि" इति ॥ ०३.११.३५ ॥
तत्र ब्राह्मणम् ब्रूयात्"सत्यम् ब्रूहि" इति ॥ ०३।११।३५ ॥
tatra brāhmaṇam brūyāt"satyam brūhi" iti .. 03.11.35 ..
राजन्यं वैश्यं वा "मा तवैष्टा-पूर्त-फलम् । कपाल-हस्तः शत्रु-कुलं भिक्षा-अर्थी गच्छेः" इति ॥ ०३.११.३६ ॥
राजन्यम् वैश्यम् वा "मा तव ऐष्टा-पूर्त-फलम् । कपाल-हस्तः शत्रु-कुलम् भिक्षा-अर्थी गच्छेः" इति ॥ ०३।११।३६ ॥
rājanyam vaiśyam vā "mā tava aiṣṭā-pūrta-phalam . kapāla-hastaḥ śatru-kulam bhikṣā-arthī gaccheḥ" iti .. 03.11.36 ..
शूद्रं "जन्म-मरण-अन्तरे यद्वः पुण्य-फलं तद्राजानं गच्छेद् । राज्ञश्च किल्बिषं युष्मानन्यथा-वादे । दण्डश्चानुबद्धः । पश्चादपि ज्ञायेत यथा-दृष्ट-श्रुतम् । एक-मन्त्राः सत्यं उपहरत" इति ॥ ०३.११.३७ ॥
शूद्रम् "जन्म-मरण-अन्तरे यत् वः पुण्य-फलम् तत् राजानम् गच्छेत् । राज्ञः च किल्बिषम् युष्मान् अन्यथा वादे । दण्डः च अनुबद्धः । पश्चात् अपि ज्ञायेत यथा दृष्ट-श्रुतम् । एक-मन्त्राः सत्यम् उपहरत" इति ॥ ०३।११।३७ ॥
śūdram "janma-maraṇa-antare yat vaḥ puṇya-phalam tat rājānam gacchet . rājñaḥ ca kilbiṣam yuṣmān anyathā vāde . daṇḍaḥ ca anubaddhaḥ . paścāt api jñāyeta yathā dṛṣṭa-śrutam . eka-mantrāḥ satyam upaharata" iti .. 03.11.37 ..
अनुपहरतां सप्त-रात्रादूर्ध्वं द्वादश-पणो दण्डः । त्रि-पक्षादूर्ध्वं अभियोगं दद्युः ॥ ०३.११.३८ ॥
अन् उपहरताम् सप्त-रात्रात् ऊर्ध्वम् द्वादश-पणः दण्डः । त्रि-पक्षात् ऊर्ध्वम् अभियोगम् दद्युः ॥ ०३।११।३८ ॥
an upaharatām sapta-rātrāt ūrdhvam dvādaśa-paṇaḥ daṇḍaḥ . tri-pakṣāt ūrdhvam abhiyogam dadyuḥ .. 03.11.38 ..
साक्षि-भेदे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः । मध्यं वा गृह्णीयुः ॥ ०३.११.३९ ॥
साक्षि-भेदे यतस् बहवः शुचयः अनुमताः वा ततस् नियच्छेयुः । मध्यम् वा गृह्णीयुः ॥ ०३।११।३९ ॥
sākṣi-bhede yatas bahavaḥ śucayaḥ anumatāḥ vā tatas niyaccheyuḥ . madhyam vā gṛhṇīyuḥ .. 03.11.39 ..
तद्वा द्रव्यं राजा हरेत् ॥ ०३.११.४० ॥
तत् वा द्रव्यम् राजा हरेत् ॥ ०३।११।४० ॥
tat vā dravyam rājā haret .. 03.11.40 ..
साक्षिणश्चेदभियोगादूनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात् ॥ ०३.११.४१ ॥
साक्षिणः चेद् अभियोगात् ऊनम् ब्रूयुः अतिरिक्तस्य अभियोक्ता बन्धम् दद्यात् ॥ ०३।११।४१ ॥
sākṣiṇaḥ ced abhiyogāt ūnam brūyuḥ atiriktasya abhiyoktā bandham dadyāt .. 03.11.41 ..
अतिरिक्तं वा ब्रूयुस्तद्-अतिरिक्तं राजा हरेत् ॥ ०३.११.४२ ॥
अतिरिक्तम् वा ब्रूयुः तद्-अतिरिक्तम् राजा हरेत् ॥ ०३।११।४२ ॥
atiriktam vā brūyuḥ tad-atiriktam rājā haret .. 03.11.42 ..
बालिश्यादभियोक्तुर्वा दुह्श्रुतं दुर्लिखितं प्रेत-अभिनिवेशं वा समीक्ष्य साक्षि-प्रत्ययं एव स्यात् ॥ ०३.११.४३ ॥
बालिश्यात् अभियोक्तुः वा दुह्श्रुतम् दुर्लिखितम् प्रेत-अभिनिवेशम् वा समीक्ष्य साक्षि-प्रत्ययम् एव स्यात् ॥ ०३।११।४३ ॥
bāliśyāt abhiyoktuḥ vā duhśrutam durlikhitam preta-abhiniveśam vā samīkṣya sākṣi-pratyayam eva syāt .. 03.11.43 ..
साक्षि-बालिष्येष्वेव पृथग्-अनुयोगे देश-काल-कार्याणां पूर्व-मध्यम-उत्तमा दण्डाः इत्यौशनसाः ॥ ०३.११.४४ ॥
साक्षि-बालिष्येषु एव पृथक् अनुयोगे देश-काल-कार्याणाम् पूर्व-मध्यम-उत्तमाः दण्डाः इति औशनसाः ॥ ०३।११।४४ ॥
sākṣi-bāliṣyeṣu eva pṛthak anuyoge deśa-kāla-kāryāṇām pūrva-madhyama-uttamāḥ daṇḍāḥ iti auśanasāḥ .. 03.11.44 ..
कूट-साक्षिणो यं अर्थं अभूतं कुर्युर्भूतं वा नाशयेयुस्तद्दश-गुणं दण्डं दद्युः इति मानवाः ॥ ०३.११.४५ ॥
कूट-साक्षिणः यम् अर्थम् अभूतम् कुर्युः भूतम् वा नाशयेयुः तद्-दश-गुणम् दण्डम् दद्युः इति मानवाः ॥ ०३।११।४५ ॥
kūṭa-sākṣiṇaḥ yam artham abhūtam kuryuḥ bhūtam vā nāśayeyuḥ tad-daśa-guṇam daṇḍam dadyuḥ iti mānavāḥ .. 03.11.45 ..
बालिश्याद्वा विसंवादयतां चित्रो घातः इति बार्हस्पत्याः ॥ ०३.११.४६ ॥
बालिश्यात् वा विसंवादयताम् चित्रः घातः इति बार्हस्पत्याः ॥ ०३।११।४६ ॥
bāliśyāt vā visaṃvādayatām citraḥ ghātaḥ iti bārhaspatyāḥ .. 03.11.46 ..
नैति कौटिल्यः ॥ ०३.११.४७ ॥
न एति कौटिल्यः ॥ ०३।११।४७ ॥
na eti kauṭilyaḥ .. 03.11.47 ..
ध्रुवं हि साक्षिभिः श्रोतव्यं ॥ ०३.११.४८ ॥
ध्रुवम् हि साक्षिभिः श्रोतव्यम् ॥ ०३।११।४८ ॥
dhruvam hi sākṣibhiḥ śrotavyam .. 03.11.48 ..
अशृण्वतां चतुर्-विंशति-पणो दण्डः । ततोअर्धं अब्रुवाणानां ॥ ०३.११.४९ ॥
अ शृण्वताम् चतुर्-विंशति-पणः दण्डः । ततोअर्धम् अ ब्रुवाणानाम् ॥ ०३।११।४९ ॥
a śṛṇvatām catur-viṃśati-paṇaḥ daṇḍaḥ . tatoardham a bruvāṇānām .. 03.11.49 ..
देश-काल-अविदूरस्थान्साक्षिणः प्रतिपादयेत् । ॥ ०३.११.५०अ ब ॥
देश-काल-अविदूर-स्थान् साक्षिणः प्रतिपादयेत् । ॥ ०३।११।५०अ ब ॥
deśa-kāla-avidūra-sthān sākṣiṇaḥ pratipādayet . .. 03.11.50a ba ..
दूरस्थानप्रसारान्वा स्वामि-वाक्येन साधयेत् ॥ ०३.११.५०च्द् ॥
दूर-स्थान-प्रसारान् वा स्वामि-वाक्येन साधयेत् ॥ ०३।११।५०च् ॥
dūra-sthāna-prasārān vā svāmi-vākyena sādhayet .. 03.11.50c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In