| |
|

This overlay will guide you through the buttons:

सपाद-पणा धर्म्या मास-वृद्धिः पण-शतस्य । पञ्च-पणा व्यावहारिकी । दश-पणा कान्तारगाणाम् । विंशति-पणा सामुद्राणां ॥ ०३.११.०१ ॥
sapāda-paṇā dharmyā māsa-vṛddhiḥ paṇa-śatasya . pañca-paṇā vyāvahārikī . daśa-paṇā kāntāragāṇām . viṃśati-paṇā sāmudrāṇāṃ .. 03.11.01 ..
ततः परं कर्तुः कारयितुश्च पूर्वः साहस-दण्डः । श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डः ॥ ०३.११.०२ ॥
tataḥ paraṃ kartuḥ kārayituśca pūrvaḥ sāhasa-daṇḍaḥ . śrotṛṛṇāṃ eka-ekaṃ pratyardha-daṇḍaḥ .. 03.11.02 ..
राजन्ययोग-क्षेम-आवहे तु धनिक-धारणिकयोश्चरित्रं अवेक्षेत ॥ ०३.११.०३ ॥
rājanyayoga-kṣema-āvahe tu dhanika-dhāraṇikayoścaritraṃ avekṣeta .. 03.11.03 ..
धान्य-वृद्धिः सस्य-निष्पत्तावुपार्धा । परं मूल्य-कृता वर्धेत ॥ ०३.११.०४ ॥
dhānya-vṛddhiḥ sasya-niṣpattāvupārdhā . paraṃ mūlya-kṛtā vardheta .. 03.11.04 ..
प्रक्षेप-वृद्धिरुदयादर्धं सम्निधान-सन्ना वार्षिकी देया ॥ ०३.११.०५ ॥
prakṣepa-vṛddhirudayādardhaṃ samnidhāna-sannā vārṣikī deyā .. 03.11.05 ..
चिर-प्रवासः स्तम्भ-प्रविष्टो वा मूल्य-द्वि-गुणं दद्यात् ॥ ०३.११.०६ ॥
cira-pravāsaḥ stambha-praviṣṭo vā mūlya-dvi-guṇaṃ dadyāt .. 03.11.06 ..
अकृत्वा वृद्धिं साधयतो वर्धयतो वा । मूल्यं वा वृद्धिं आरोप्य श्रावयतो बन्ध-चतुर्-गुणो दण्डः ॥ ०३.११.०७ ॥
akṛtvā vṛddhiṃ sādhayato vardhayato vā . mūlyaṃ vā vṛddhiṃ āropya śrāvayato bandha-catur-guṇo daṇḍaḥ .. 03.11.07 ..
तुच्छ-श्रावणायां अभूत-चतुर्-गुणः ॥ ०३.११.०८ ॥
tuccha-śrāvaṇāyāṃ abhūta-catur-guṇaḥ .. 03.11.08 ..
तस्य त्रि-भागं आदाता दद्यात् । शेषं प्रदाता ॥ ०३.११.०९ ॥
tasya tri-bhāgaṃ ādātā dadyāt . śeṣaṃ pradātā .. 03.11.09 ..
दीर्घ-सत्त्र-व्याधि-गुरु-कुल-उपरुद्धं बालं असारं वा नऋणं अनुवर्धेत ॥ ०३.११.१० ॥
dīrgha-sattra-vyādhi-guru-kula-uparuddhaṃ bālaṃ asāraṃ vā naṛṇaṃ anuvardheta .. 03.11.10 ..
मुच्यमानं ऋणं अप्रतिगृह्णतो द्वादश-पणो दण्डः ॥ ०३.११.११ ॥
mucyamānaṃ ṛṇaṃ apratigṛhṇato dvādaśa-paṇo daṇḍaḥ .. 03.11.11 ..
कारण-अपदेशेन निवृत्त-वृद्धिकं अन्यत्र तिष्ठेत् ॥ ०३.११.१२ ॥
kāraṇa-apadeśena nivṛtta-vṛddhikaṃ anyatra tiṣṭhet .. 03.11.12 ..
दश-वर्ष-उपेक्षितं ऋणं अप्रतिग्राह्यम् । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ॥ ०३.११.१३ ॥
daśa-varṣa-upekṣitaṃ ṛṇaṃ apratigrāhyam . anyatra bāla-vṛddha-vyādhita-vyasani-proṣita-deśa-tyāga-rājya-vibhramebhyaḥ .. 03.11.13 ..
प्रेतस्य पुत्राः कुसीदं दद्युः । दायादा वा रिक्थ-हराः । सह-ग्राहिणः । प्रतिभुवो वा ॥ ०३.११.१४ ॥
pretasya putrāḥ kusīdaṃ dadyuḥ . dāyādā vā riktha-harāḥ . saha-grāhiṇaḥ . pratibhuvo vā .. 03.11.14 ..
न प्रातिभाव्यं अन्यत् ॥ ०३.११.१५ ॥
na prātibhāvyaṃ anyat .. 03.11.15 ..
असारं बाल-प्रातिभाव्यं ॥ ०३.११.१६ ॥
asāraṃ bāla-prātibhāvyaṃ .. 03.11.16 ..
असंख्यात-देश-कालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः ॥ ०३.११.१७ ॥
asaṃkhyāta-deśa-kālaṃ tu putrāḥ pautrā dāyādā vā rikthaṃ haramāṇā dadyuḥ .. 03.11.17 ..
जीवित-विवाह-भूमि-प्रातिभाव्यं असंख्यात-देश-कालं तु पुत्राः पौत्रा वा वहेयुः ॥ ०३.११.१८ ॥
jīvita-vivāha-bhūmi-prātibhāvyaṃ asaṃkhyāta-deśa-kālaṃ tu putrāḥ pautrā vā vaheyuḥ .. 03.11.18 ..
नानाऋण-समवाये तु नएकं द्वौ युगपदभिवदेयाताम् । अन्यत्र प्रतिष्ठमानात् ॥ ०३.११.१९ ॥
nānāṛṇa-samavāye tu naekaṃ dvau yugapadabhivadeyātām . anyatra pratiṣṭhamānāt .. 03.11.19 ..
तत्रापि गृहीत-आनुपूर्व्या राज-श्रोत्रिय-द्रव्यं वा पूर्वं प्रतिपादयेत् ॥ ०३.११.२० ॥
tatrāpi gṛhīta-ānupūrvyā rāja-śrotriya-dravyaṃ vā pūrvaṃ pratipādayet .. 03.11.20 ..
दम्पत्योः पिता-पुत्रयोः भ्रातृऋणां चाविभक्तानां परस्पर--कृतं ऋणं असाध्यं ॥ ०३.११.२१ ॥
dampatyoḥ pitā-putrayoḥ bhrātṛṛṇāṃ cāvibhaktānāṃ paraspara--kṛtaṃ ṛṇaṃ asādhyaṃ .. 03.11.21 ..
अग्राह्याः कर्म-कालेषु कर्षका राज-पुरुषाश्च ॥ ०३.११.२२ ॥
agrāhyāḥ karma-kāleṣu karṣakā rāja-puruṣāśca .. 03.11.22 ..
स्त्री चाप्रतिश्राविणी पति-कृतं ऋणम् । अन्यत्र गो-पालक-अर्ध-सीतिकेभ्यः ॥ ०३.११.२३ ॥
strī cāpratiśrāviṇī pati-kṛtaṃ ṛṇam . anyatra go-pālaka-ardha-sītikebhyaḥ .. 03.11.23 ..
पतिस्तु ग्राह्यः स्त्री-कृतं ऋणम् । अप्रति-विधाय प्रोषित इति ॥ ०३.११.२४ ॥
patistu grāhyaḥ strī-kṛtaṃ ṛṇam . aprati-vidhāya proṣita iti .. 03.11.24 ..
सम्प्रतिपत्तावुत्तमः ॥ ०३.११.२५ ॥
sampratipattāvuttamaḥ .. 03.11.25 ..
अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोअनुमता वा त्रयोअवर-अर्ध्याः ॥ ०३.११.२६ ॥
asmapratipattau tu sākṣiṇaḥ pramāṇaṃ prātyayikāḥ śucayoanumatā vā trayoavara-ardhyāḥ .. 03.11.26 ..
पक्ष-अनुमतौ वा द्वौ । ऋणं प्रति न त्वेवएकः ॥ ०३.११.२७ ॥
pakṣa-anumatau vā dvau . ṛṇaṃ prati na tvevaekaḥ .. 03.11.27 ..
प्रतिषिद्धाः स्याल-सहाय-अन्वर्थि-धनिक-धारणिक-वैरि-न्यङ्ग-धृत-दण्डाः । पूर्वे चाव्यवहार्याः ॥ ०३.११.२८ ॥
pratiṣiddhāḥ syāla-sahāya-anvarthi-dhanika-dhāraṇika-vairi-nyaṅga-dhṛta-daṇḍāḥ . pūrve cāvyavahāryāḥ .. 03.11.28 ..
राज-श्रोत्रिय-ग्राम-भृतक-कुष्ठि-व्रणिनः पतित-चण्डाल-कुत्सित-कर्माणोअन्ध-बधिर-मूक-अहं-वादिनः स्त्री-राज-पुरुषाश्च । अन्यत्र स्व-वर्गेभ्यः ॥ ०३.११.२९ ॥
rāja-śrotriya-grāma-bhṛtaka-kuṣṭhi-vraṇinaḥ patita-caṇḍāla-kutsita-karmāṇoandha-badhira-mūka-ahaṃ-vādinaḥ strī-rāja-puruṣāśca . anyatra sva-vargebhyaḥ .. 03.11.29 ..
पारुष्य-स्तेय-संग्रहणेषु तु वैरि-स्याल-सहाय-वर्जाः ॥ ०३.११.३० ॥
pāruṣya-steya-saṃgrahaṇeṣu tu vairi-syāla-sahāya-varjāḥ .. 03.11.30 ..
रहस्य-व्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद्राज-तापस-वर्जं ॥ ०३.११.३१ ॥
rahasya-vyavahāreṣvekā strī puruṣa upaśrotā upadraṣṭā vā sākṣī syādrāja-tāpasa-varjaṃ .. 03.11.31 ..
स्वामिनो भृत्यानां ऋत्विग्-आचार्याः शिष्याणां माता-पितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः । तेसां इतरे वा ॥ ०३.११.३२ ॥
svāmino bhṛtyānāṃ ṛtvig-ācāryāḥ śiṣyāṇāṃ mātā-pitarau putrāṇāṃ cānigraheṇa sākṣyaṃ kuryuḥ . tesāṃ itare vā .. 03.11.32 ..
परस्पर-अभियोगे चएषां उत्तमाः परा-उक्ता दश-बन्धं दद्युः । अवराः पञ्च-बन्धं इति साक्ष्य्-अधिकारः ॥ ०३.११.३३ ॥
paraspara-abhiyoge caeṣāṃ uttamāḥ parā-uktā daśa-bandhaṃ dadyuḥ . avarāḥ pañca-bandhaṃ iti sākṣy-adhikāraḥ .. 03.11.33 ..
ब्राह्मण-उद-कुम्भ-अग्नि-सकाशे साक्षिणः परिगृह्णीयात् ॥ ०३.११.३४ ॥
brāhmaṇa-uda-kumbha-agni-sakāśe sākṣiṇaḥ parigṛhṇīyāt .. 03.11.34 ..
तत्र ब्राह्मणं ब्रूयात्"सत्यं ब्रूहि" इति ॥ ०३.११.३५ ॥
tatra brāhmaṇaṃ brūyāt"satyaṃ brūhi" iti .. 03.11.35 ..
राजन्यं वैश्यं वा "मा तवैष्टा-पूर्त-फलम् । कपाल-हस्तः शत्रु-कुलं भिक्षा-अर्थी गच्छेः" इति ॥ ०३.११.३६ ॥
rājanyaṃ vaiśyaṃ vā "mā tavaiṣṭā-pūrta-phalam . kapāla-hastaḥ śatru-kulaṃ bhikṣā-arthī gaccheḥ" iti .. 03.11.36 ..
शूद्रं "जन्म-मरण-अन्तरे यद्वः पुण्य-फलं तद्राजानं गच्छेद् । राज्ञश्च किल्बिषं युष्मानन्यथा-वादे । दण्डश्चानुबद्धः । पश्चादपि ज्ञायेत यथा-दृष्ट-श्रुतम् । एक-मन्त्राः सत्यं उपहरत" इति ॥ ०३.११.३७ ॥
śūdraṃ "janma-maraṇa-antare yadvaḥ puṇya-phalaṃ tadrājānaṃ gacched . rājñaśca kilbiṣaṃ yuṣmānanyathā-vāde . daṇḍaścānubaddhaḥ . paścādapi jñāyeta yathā-dṛṣṭa-śrutam . eka-mantrāḥ satyaṃ upaharata" iti .. 03.11.37 ..
अनुपहरतां सप्त-रात्रादूर्ध्वं द्वादश-पणो दण्डः । त्रि-पक्षादूर्ध्वं अभियोगं दद्युः ॥ ०३.११.३८ ॥
anupaharatāṃ sapta-rātrādūrdhvaṃ dvādaśa-paṇo daṇḍaḥ . tri-pakṣādūrdhvaṃ abhiyogaṃ dadyuḥ .. 03.11.38 ..
साक्षि-भेदे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः । मध्यं वा गृह्णीयुः ॥ ०३.११.३९ ॥
sākṣi-bhede yato bahavaḥ śucayoanumatā vā tato niyaccheyuḥ . madhyaṃ vā gṛhṇīyuḥ .. 03.11.39 ..
तद्वा द्रव्यं राजा हरेत् ॥ ०३.११.४० ॥
tadvā dravyaṃ rājā haret .. 03.11.40 ..
साक्षिणश्चेदभियोगादूनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात् ॥ ०३.११.४१ ॥
sākṣiṇaścedabhiyogādūnaṃ brūyuratiriktasyābhiyoktā bandhaṃ dadyāt .. 03.11.41 ..
अतिरिक्तं वा ब्रूयुस्तद्-अतिरिक्तं राजा हरेत् ॥ ०३.११.४२ ॥
atiriktaṃ vā brūyustad-atiriktaṃ rājā haret .. 03.11.42 ..
बालिश्यादभियोक्तुर्वा दुह्श्रुतं दुर्लिखितं प्रेत-अभिनिवेशं वा समीक्ष्य साक्षि-प्रत्ययं एव स्यात् ॥ ०३.११.४३ ॥
bāliśyādabhiyokturvā duhśrutaṃ durlikhitaṃ preta-abhiniveśaṃ vā samīkṣya sākṣi-pratyayaṃ eva syāt .. 03.11.43 ..
साक्षि-बालिष्येष्वेव पृथग्-अनुयोगे देश-काल-कार्याणां पूर्व-मध्यम-उत्तमा दण्डाः इत्यौशनसाः ॥ ०३.११.४४ ॥
sākṣi-bāliṣyeṣveva pṛthag-anuyoge deśa-kāla-kāryāṇāṃ pūrva-madhyama-uttamā daṇḍāḥ ityauśanasāḥ .. 03.11.44 ..
कूट-साक्षिणो यं अर्थं अभूतं कुर्युर्भूतं वा नाशयेयुस्तद्दश-गुणं दण्डं दद्युः इति मानवाः ॥ ०३.११.४५ ॥
kūṭa-sākṣiṇo yaṃ arthaṃ abhūtaṃ kuryurbhūtaṃ vā nāśayeyustaddaśa-guṇaṃ daṇḍaṃ dadyuḥ iti mānavāḥ .. 03.11.45 ..
बालिश्याद्वा विसंवादयतां चित्रो घातः इति बार्हस्पत्याः ॥ ०३.११.४६ ॥
bāliśyādvā visaṃvādayatāṃ citro ghātaḥ iti bārhaspatyāḥ .. 03.11.46 ..
नैति कौटिल्यः ॥ ०३.११.४७ ॥
naiti kauṭilyaḥ .. 03.11.47 ..
ध्रुवं हि साक्षिभिः श्रोतव्यं ॥ ०३.११.४८ ॥
dhruvaṃ hi sākṣibhiḥ śrotavyaṃ .. 03.11.48 ..
अशृण्वतां चतुर्-विंशति-पणो दण्डः । ततोअर्धं अब्रुवाणानां ॥ ०३.११.४९ ॥
aśṛṇvatāṃ catur-viṃśati-paṇo daṇḍaḥ . tatoardhaṃ abruvāṇānāṃ .. 03.11.49 ..
देश-काल-अविदूरस्थान्साक्षिणः प्रतिपादयेत् । ॥ ०३.११.५०अ ब ॥
deśa-kāla-avidūrasthānsākṣiṇaḥ pratipādayet . .. 03.11.50a ba ..
दूरस्थानप्रसारान्वा स्वामि-वाक्येन साधयेत् ॥ ०३.११.५०च्द् ॥
dūrasthānaprasārānvā svāmi-vākyena sādhayet .. 03.11.50cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In