| |
|

This overlay will guide you through the buttons:

उपनिधिरृणेन व्याख्यातः ॥ ०३.१२.०१ ॥
उपनिधिः ऋणेन व्याख्यातः ॥ ०३।१२।०१ ॥
upanidhiḥ ṛṇena vyākhyātaḥ .. 03.12.01 ..
पर-चक्र-आटविकाभ्यां दुर्ग-राष्ट्र-विलोपे वा । प्रतिरोधकैर्वा ग्राम-सार्थ-व्रज-विलोपे । चक्र-युक्त-नाशे वा । ग्राम-मध्य-अग्न्य्-उदक-आबाधे ज्वाला-वेग-उपरुद्धे वा । नावि निमग्नायां मुषितायां वा स्वयं उपरूढो नौपनिधिं अभ्यावहेत् ॥ ०३.१२.०२ ॥
पर-चक्र-आटविकाभ्याम् दुर्ग-राष्ट्र-विलोपे वा । प्रतिरोधकैः वा ग्राम-सार्थ-व्रज-विलोपे । चक्र-युक्त-नाशे वा । ग्राम-मध्य-अग्नि-उदक-आबाधे ज्वाला-वेग-उपरुद्धे वा । नावि निमग्नायाम् मुषितायाम् वा स्वयम् उपरूढः न औपनिधिम् अभ्यावहेत् ॥ ०३।१२।०२ ॥
para-cakra-āṭavikābhyām durga-rāṣṭra-vilope vā . pratirodhakaiḥ vā grāma-sārtha-vraja-vilope . cakra-yukta-nāśe vā . grāma-madhya-agni-udaka-ābādhe jvālā-vega-uparuddhe vā . nāvi nimagnāyām muṣitāyām vā svayam uparūḍhaḥ na aupanidhim abhyāvahet .. 03.12.02 ..
उपनिधि-भोक्ता देश-काल-अनुरूपं भोग-वेतनं दद्यात् । द्वादश-पणं च दण्डं ॥ ०३.१२.०३ ॥
उपनिधि-भोक्ता देश-काल-अनुरूपम् भोग-वेतनम् दद्यात् । द्वादश-पणम् च दण्डम् ॥ ०३।१२।०३ ॥
upanidhi-bhoktā deśa-kāla-anurūpam bhoga-vetanam dadyāt . dvādaśa-paṇam ca daṇḍam .. 03.12.03 ..
उपभोग-निमित्तं नष्टं विनष्टं वाअभ्यावहेत् । चतुर्-विंशति-पणश्च दण्डः । अन्यथा वा निष्पतने ॥ ०३.१२.०४ ॥
उपभोग-निमित्तम् नष्टम् विनष्टम् वा अभ्यावहेत् । चतुर्-विंशति-विंशति-पणः च दण्डः । अन्यथा वा निष्पतने ॥ ०३।१२।०४ ॥
upabhoga-nimittam naṣṭam vinaṣṭam vā abhyāvahet . catur-viṃśati-viṃśati-paṇaḥ ca daṇḍaḥ . anyathā vā niṣpatane .. 03.12.04 ..
प्रेतं व्यसन-गतं वा नौपनिधिं अभ्यावहेत् ॥ ०३.१२.०५ ॥
प्रेतम् व्यसन-गतम् वा न औपनिधिम् अभ्यावहेत् ॥ ०३।१२।०५ ॥
pretam vyasana-gatam vā na aupanidhim abhyāvahet .. 03.12.05 ..
आधान-विक्रय-अपव्ययनेषु चास्य चतुर्-गुण-पञ्च-बन्धो दण्डः ॥ ०३.१२.०६ ॥
आधान-विक्रय-अपव्ययनेषु च अस्य चतुर्गुण-पञ्च-बन्धः दण्डः ॥ ०३।१२।०६ ॥
ādhāna-vikraya-apavyayaneṣu ca asya caturguṇa-pañca-bandhaḥ daṇḍaḥ .. 03.12.06 ..
परिवर्तने निष्पातने वा मूल्य-समः ॥ ०३.१२.०७ ॥
परिवर्तने निष्पातने वा मूल्य-समः ॥ ०३।१२।०७ ॥
parivartane niṣpātane vā mūlya-samaḥ .. 03.12.07 ..
तेनऽधि-प्रणाश-उपभोग-विक्रय-आधान-अपहारा व्याख्याताः ॥ ०३.१२.०८ ॥
तेन अधि प्रणाश-उपभोग-विक्रय-आधान-अपहाराः व्याख्याताः ॥ ०३।१२।०८ ॥
tena adhi praṇāśa-upabhoga-vikraya-ādhāna-apahārāḥ vyākhyātāḥ .. 03.12.08 ..
नऽधिः सौपकारः सीदेत् । न चास्य मूल्यं वर्धेत । अन्यत्र निसर्गात् ॥ ०३.१२.०९ ॥
न अधिः सौपकारः सीदेत् । न च अस्य मूल्यम् वर्धेत । अन्यत्र निसर्गात् ॥ ०३।१२।०९ ॥
na adhiḥ saupakāraḥ sīdet . na ca asya mūlyam vardheta . anyatra nisargāt .. 03.12.09 ..
निरुपकारः सीदेत् । मूल्यं चास्य वर्धेत ॥ ०३.१२.१० ॥
निरुपकारः सीदेत् । मूल्यम् च अस्य वर्धेत ॥ ०३।१२।१० ॥
nirupakāraḥ sīdet . mūlyam ca asya vardheta .. 03.12.10 ..
उपस्थितस्यऽधिं अप्रयच्छतो द्वादशण्पणो दण्डः ॥ ०३.१२.११ ॥
उपस्थितस्य अधिम् अ प्रयच्छतः द्वादश-पणः दण्डः ॥ ०३।१२।११ ॥
upasthitasya adhim a prayacchataḥ dvādaśa-paṇaḥ daṇḍaḥ .. 03.12.11 ..
प्रयोजक-असम्निधाने वा ग्राम-वृद्धेषु स्थापयित्वा निष्क्रयं आधिं प्रतिपद्येत ॥ ०३.१२.१२ ॥
प्रयोजक-असंनिधाने वा ग्राम-वृद्धेषु स्थापयित्वा निष्क्रयम् आधिम् प्रतिपद्येत ॥ ०३।१२।१२ ॥
prayojaka-asaṃnidhāne vā grāma-vṛddheṣu sthāpayitvā niṣkrayam ādhim pratipadyeta .. 03.12.12 ..
निवृत्त-वृद्धिको वाआधिस्तत्-काल-कृत-मूल्यस्तत्रएवावतिष्ठेत । अनाश-विनाश-करण-अधिष्ठितो वा ॥ ०३.१२.१३ ॥
निवृत्त-वृद्धिकः वा आधिः तद्-काल-कृत-मूल्यः तत्र एव अवतिष्ठेत । अनाश-विनाश-करण-अधिष्ठितः वा ॥ ०३।१२।१३ ॥
nivṛtta-vṛddhikaḥ vā ādhiḥ tad-kāla-kṛta-mūlyaḥ tatra eva avatiṣṭheta . anāśa-vināśa-karaṇa-adhiṣṭhitaḥ vā .. 03.12.13 ..
धारणिक-असम्निधाने वा विनाश-भयादुद्गत-अर्घं धर्मस्थ-अनुज्ञातो विक्रीणीत । आधि-पाल-प्रत्ययो वा ॥ ०३.१२.१४ ॥
धारणिक-असम्निधाने वा विनाश-भयात् उद्गत-अर्घम् धर्मस्थ-अनुज्ञातः विक्रीणीत । आधि-पाल-प्रत्ययः वा ॥ ०३।१२।१४ ॥
dhāraṇika-asamnidhāne vā vināśa-bhayāt udgata-argham dharmastha-anujñātaḥ vikrīṇīta . ādhi-pāla-pratyayaḥ vā .. 03.12.14 ..
स्थावरस्तु प्रयास-भोग्यः फल-भोग्यो वा प्रक्षेप-वृद्धि-मूल्य-शुद्धं आजीवं अमूल्य-क्षयेणौपनयेत् ॥ ०३.१२.१५ ॥
स्थावरः तु प्रयास-भोग्यः फल-भोग्यः वा प्रक्षेप-वृद्धि-मूल्य-शुद्धम् आजीवम् अमूल्य-क्षयेण औपनयेत् ॥ ०३।१२।१५ ॥
sthāvaraḥ tu prayāsa-bhogyaḥ phala-bhogyaḥ vā prakṣepa-vṛddhi-mūlya-śuddham ājīvam amūlya-kṣayeṇa aupanayet .. 03.12.15 ..
अनिसृष्ट-उपभोक्ता मूल्य-शुद्धं आजीवं बन्धं च दद्यात् ॥ ०३.१२.१६ ॥
अनिसृष्ट-उपभोक्ता मूल्य-शुद्धम् आजीवम् बन्धम् च दद्यात् ॥ ०३।१२।१६ ॥
anisṛṣṭa-upabhoktā mūlya-śuddham ājīvam bandham ca dadyāt .. 03.12.16 ..
शेषं उपनिधिना व्याख्यातं ॥ ०३.१२.१७ ॥
शेषम् उपनिधिना व्याख्यातम् ॥ ०३।१२।१७ ॥
śeṣam upanidhinā vyākhyātam .. 03.12.17 ..
एतेनऽदेशोअन्वाधिश्च व्याख्यातौ ॥ ०३.१२.१८ ॥
एतेन अ देशः अन्वाधिः च व्याख्यातौ ॥ ०३।१२।१८ ॥
etena a deśaḥ anvādhiḥ ca vyākhyātau .. 03.12.18 ..
सार्थेनान्वाधि-हस्तो वा प्रदिष्टां भूमिं अप्राप्तश्चोरैर्भग्न-उत्सृष्टो वा नान्वाधिं अभ्यावहेत् ॥ ०३.१२.१९ ॥
सार्थेन अन्वाधि-हस्तः वा प्रदिष्टाम् भूमिम् अप्राप्तः चोरैः भग्न-उत्सृष्टः वा न अन्वाधिम् अभ्यावहेत् ॥ ०३।१२।१९ ॥
sārthena anvādhi-hastaḥ vā pradiṣṭām bhūmim aprāptaḥ coraiḥ bhagna-utsṛṣṭaḥ vā na anvādhim abhyāvahet .. 03.12.19 ..
अन्तरे वा मृतस्य दायादोअपि नाभ्यावहेत् ॥ ०३.१२.२० ॥
अन्तरे वा मृतस्य दायादः अपि न अभ्यावहेत् ॥ ०३।१२।२० ॥
antare vā mṛtasya dāyādaḥ api na abhyāvahet .. 03.12.20 ..
शेषं उपनिधिना व्यकह्यातं ॥ ०३.१२.२१ ॥
शेषम् उपनिधिना ॥ ०३।१२।२१ ॥
śeṣam upanidhinā .. 03.12.21 ..
याचितकं अवक्रीतकं वा यथा-विधं गृह्णीयुस्तथा-विधं एवार्पयेयुः ॥ ०३.१२.२२ ॥
याचितकम् अवक्रीतकम् वा यथा-विधम् गृह्णीयुः तथा-विधम् एव अर्पयेयुः ॥ ०३।१२।२२ ॥
yācitakam avakrītakam vā yathā-vidham gṛhṇīyuḥ tathā-vidham eva arpayeyuḥ .. 03.12.22 ..
भ्रेष-उपनिपाताभ्यां देश-काल-उपरोधि दत्तं नष्टं विनष्टं वा नाभ्यावहेयुः ॥ ०३.१२.२३ ॥
भ्रेष-उपनिपाताभ्याम् देश-काल-उपरोधि दत्तम् नष्टम् विनष्टम् वा न अभ्यावहेयुः ॥ ०३।१२।२३ ॥
bhreṣa-upanipātābhyām deśa-kāla-uparodhi dattam naṣṭam vinaṣṭam vā na abhyāvaheyuḥ .. 03.12.23 ..
शेषं उपनिधिना व्याख्यातं ॥ ०३.१२.२४ ॥
शेषम् उपनिधिना व्याख्यातम् ॥ ०३।१२।२४ ॥
śeṣam upanidhinā vyākhyātam .. 03.12.24 ..
वैयावृत्य-विक्रयस्तु वैयावृत्य-करा यथा-देश-कालं विक्रीणानाः पण्यं यथा-जातं मूल्यं उदयं च दद्युः ॥ ०३.१२.२५ ॥
वैयावृत्य-विक्रयः तु वैयावृत्य-कराः यथा देश-कालम् विक्रीणानाः पण्यम् यथा जातम् मूल्यम् उदयम् च दद्युः ॥ ०३।१२।२५ ॥
vaiyāvṛtya-vikrayaḥ tu vaiyāvṛtya-karāḥ yathā deśa-kālam vikrīṇānāḥ paṇyam yathā jātam mūlyam udayam ca dadyuḥ .. 03.12.25 ..
देश-काल-अतिपातने वा परिहीणं सम्प्रदान-कालिकेनार्घेण मूल्यं उदयं च दद्युः ॥ ०३.१२.२६ ॥
देश-काल-अतिपातने वा परिहीणम् सम्प्रदान-कालिकेन अर्घेण मूल्यम् उदयम् च दद्युः ॥ ०३।१२।२६ ॥
deśa-kāla-atipātane vā parihīṇam sampradāna-kālikena argheṇa mūlyam udayam ca dadyuḥ .. 03.12.26 ..
यथा-सम्भाषितं वा विक्रीणाना नौदयं अधिगच्छेयुः । मूल्यं एव दद्युः ॥ ०३.१२.२७ ॥
यथा सम्भाषितम् वा विक्रीणानाः न औदयम् अधिगच्छेयुः । मूल्यम् एव दद्युः ॥ ०३।१२।२७ ॥
yathā sambhāṣitam vā vikrīṇānāḥ na audayam adhigaccheyuḥ . mūlyam eva dadyuḥ .. 03.12.27 ..
अर्घ-पतने वा परिहीणं यथा-परिहीणं मूल्यं ऊनं दद्युः ॥ ०३.१२.२८ ॥
अर्घ-पतने वा परिहीणम् यथा परिहीणम् मूल्यम् ऊनम् दद्युः ॥ ०३।१२।२८ ॥
argha-patane vā parihīṇam yathā parihīṇam mūlyam ūnam dadyuḥ .. 03.12.28 ..
सांव्यवहारिकेषु वा प्रात्ययिकेष्वराज-वाच्येषु भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यं अपि न दद्युः ॥ ०३.१२.२९ ॥
सांव्यवहारिकेषु वा प्रात्ययिकेषु अ राज-वाच्येषु भ्रेष-उपनिपाताभ्याम् नष्टम् विनष्टम् वा मूल्यम् अपि न दद्युः ॥ ०३।१२।२९ ॥
sāṃvyavahārikeṣu vā prātyayikeṣu a rāja-vācyeṣu bhreṣa-upanipātābhyām naṣṭam vinaṣṭam vā mūlyam api na dadyuḥ .. 03.12.29 ..
देश-काल-अन्तरितानां तु पण्यानां क्षय-व्यय-विशुद्धं मूल्यं उदयं च दद्युः । पण्य-समवायानां च प्रत्यंशं ॥ ०३.१२.३० ॥
देश-काल-अन्तरितानाम् तु पण्यानाम् क्षय-व्यय-विशुद्धम् मूल्यम् उदयम् च दद्युः । पण्य-समवायानाम् च प्रत्यंशम् ॥ ०३।१२।३० ॥
deśa-kāla-antaritānām tu paṇyānām kṣaya-vyaya-viśuddham mūlyam udayam ca dadyuḥ . paṇya-samavāyānām ca pratyaṃśam .. 03.12.30 ..
शेषं उपनिधिना व्याख्यातं ॥ ०३.१२.३१ ॥
शेषम् उपनिधिना व्याख्यातम् ॥ ०३।१२।३१ ॥
śeṣam upanidhinā vyākhyātam .. 03.12.31 ..
एतेन वैयावृत्य-विक्रयो व्याख्यातः ॥ ०३.१२.३२ ॥
एतेन वैयावृत्य-विक्रयः व्याख्यातः ॥ ०३।१२।३२ ॥
etena vaiyāvṛtya-vikrayaḥ vyākhyātaḥ .. 03.12.32 ..
निक्षेपश्चौपनिधिना ॥ ०३.१२.३३ ॥
निक्षेपः च औपनिधिना ॥ ०३।१२।३३ ॥
nikṣepaḥ ca aupanidhinā .. 03.12.33 ..
तं अन्येन निक्ष्पितं अन्यस्यार्पयतो हीयेत ॥ ०३.१२.३४ ॥
तम् अन्येन निक्ष्पितम् अन्यस्य अर्पयतः हीयेत ॥ ०३।१२।३४ ॥
tam anyena nikṣpitam anyasya arpayataḥ hīyeta .. 03.12.34 ..
निक्षेप-अपहारे पूर्व-अपदानं निक्षेप्तारश्च प्रमाणं ॥ ०३.१२.३५ ॥
निक्षेप-अपहारे पूर्व-अपदानम् निक्षेप्तारः च प्रमाणम् ॥ ०३।१२।३५ ॥
nikṣepa-apahāre pūrva-apadānam nikṣeptāraḥ ca pramāṇam .. 03.12.35 ..
अशुचयो हि कारवः ॥ ०३.१२.३६ ॥
अशुचयः हि कारवः ॥ ०३।१२।३६ ॥
aśucayaḥ hi kāravaḥ .. 03.12.36 ..
नएषां करण-पूर्वो निक्षेप-धर्मः ॥ ०३.१२.३७ ॥
न एषाम् करण-पूर्वः निक्षेप-धर्मः ॥ ०३।१२।३७ ॥
na eṣām karaṇa-pūrvaḥ nikṣepa-dharmaḥ .. 03.12.37 ..
करण-हीनं निक्षेपं अपव्ययमानं गूढ-भित्ति-न्यस्तान्साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत् । वन-अन्ते वा मद्य-प्रहवण-विश्वासेन ॥ ०३.१२.३८ ॥
करण-हीनम् निक्षेपम् अपव्यय-मानम् गूढ-भित्ति-न्यस्तान् साक्षिणः निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत् । वन-अन्ते वा मद्य-प्रहवण-विश्वासेन ॥ ०३।१२।३८ ॥
karaṇa-hīnam nikṣepam apavyaya-mānam gūḍha-bhitti-nyastān sākṣiṇaḥ nikṣeptā rahasi praṇipātena prajñāpayet . vana-ante vā madya-prahavaṇa-viśvāsena .. 03.12.38 ..
रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित्कृत-लक्षणं द्रव्यं अस्य हस्ते निक्षिप्यापगच्छेत् ॥ ०३.१२.३९ ॥
रहसि वृद्धः व्याधितः वा वैदेहकः कश्चिद् कृत-लक्षणम् द्रव्यम् अस्य हस्ते निक्षिप्य अपगच्छेत् ॥ ०३।१२।३९ ॥
rahasi vṛddhaḥ vyādhitaḥ vā vaidehakaḥ kaścid kṛta-lakṣaṇam dravyam asya haste nikṣipya apagacchet .. 03.12.39 ..
तस्य प्रतिदेशेन पुत्रो भ्राता वाअभिगम्य निक्षेपं याचेत ॥ ०३.१२.४० ॥
तस्य प्रतिदेशेन पुत्रः भ्राता वा अ अभिगम्य निक्षेपम् याचेत ॥ ०३।१२।४० ॥
tasya pratideśena putraḥ bhrātā vā a abhigamya nikṣepam yāceta .. 03.12.40 ..
दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ॥ ०३.१२.४१ ॥
दाने शुचिः । अन्यथा निक्षेपम् स्तेय-दण्डम् च दद्यात् ॥ ०३।१२।४१ ॥
dāne śuciḥ . anyathā nikṣepam steya-daṇḍam ca dadyāt .. 03.12.41 ..
प्रव्रज्या-अभिमुखो वा श्रद्धेयः कश्चित्कृत-लक्षणं द्रव्यं अस्य हस्ते निक्षिप्य प्रतिष्ठेत ॥ ०३.१२.४२ ॥
प्रव्रज्या-अभिमुखः वा श्रद्धेयः कश्चिद् कृत-लक्षणम् द्रव्यम् अस्य हस्ते निक्षिप्य प्रतिष्ठेत ॥ ०३।१२।४२ ॥
pravrajyā-abhimukhaḥ vā śraddheyaḥ kaścid kṛta-lakṣaṇam dravyam asya haste nikṣipya pratiṣṭheta .. 03.12.42 ..
ततः काल-अन्तर-आगतो याचेत ॥ ०३.१२.४३ ॥
ततस् काल-अन्तर-आगतः याचेत ॥ ०३।१२।४३ ॥
tatas kāla-antara-āgataḥ yāceta .. 03.12.43 ..
दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ॥ ०३.१२.४४ ॥
दाने शुचिः । अन्यथा निक्षेपम् स्तेय-दण्डम् च दद्यात् ॥ ०३।१२।४४ ॥
dāne śuciḥ . anyathā nikṣepam steya-daṇḍam ca dadyāt .. 03.12.44 ..
कृत-लक्षणेन वा द्रव्येण प्रत्यानयेदेनं ॥ ०३.१२.४५ ॥
कृत-लक्षणेन वा द्रव्येण प्रत्यानयेत् एनम् ॥ ०३।१२।४५ ॥
kṛta-lakṣaṇena vā dravyeṇa pratyānayet enam .. 03.12.45 ..
बालिश-जातीयो वा रात्रौ राज-दायिका-क्षण-भीतः सारं अस्य हस्ते निक्षिप्यापगच्छेत् ॥ ०३.१२.४६ ॥
बालिश-जातीयः वा रात्रौ राज-दायिका-क्षण-भीतः सारम् अस्य हस्ते निक्षिप्य अपगच्छेत् ॥ ०३।१२।४६ ॥
bāliśa-jātīyaḥ vā rātrau rāja-dāyikā-kṣaṇa-bhītaḥ sāram asya haste nikṣipya apagacchet .. 03.12.46 ..
स एनं बन्धन-अगार-गतो याचेत ॥ ०३.१२.४७ ॥
सः एनम् बन्धन-अगार-गतः याचेत ॥ ०३।१२।४७ ॥
saḥ enam bandhana-agāra-gataḥ yāceta .. 03.12.47 ..
दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ॥ ०३.१२.४८ ॥
दाने शुचिः । अन्यथा निक्षेपम् स्तेय-दण्डम् च दद्यात् ॥ ०३।१२।४८ ॥
dāne śuciḥ . anyathā nikṣepam steya-daṇḍam ca dadyāt .. 03.12.48 ..
अभिज्ञानेन चास्य गृहे जनं उभयं याचेत ॥ ०३.१२.४९ ॥
अभिज्ञानेन च अस्य गृहे जनम् उभयम् याचेत ॥ ०३।१२।४९ ॥
abhijñānena ca asya gṛhe janam ubhayam yāceta .. 03.12.49 ..
अन्यतर्त-आदाने यथा-उक्तं पुरस्तात् ॥ ०३.१२.५० ॥
अन्यतर्त आदाने यथा उक्तम् पुरस्तात् ॥ ०३।१२।५० ॥
anyatarta ādāne yathā uktam purastāt .. 03.12.50 ..
द्रव्य-भोगानां आगमं चास्यानुयुञ्जीत । तस्य चार्थस्य व्यवहार-उपलिङ्गनम् । अभियोक्तुश्चार्थ-सामर्थ्यं ॥ ०३.१२.५१ ॥
द्रव्य-भोगानाम् आगमम् च अस्य अनुयुञ्जीत । तस्य च अर्थस्य व्यवहार-उपलिङ्गनम् । अभियोक्तुः च अर्थ-सामर्थ्यम् ॥ ०३।१२।५१ ॥
dravya-bhogānām āgamam ca asya anuyuñjīta . tasya ca arthasya vyavahāra-upaliṅganam . abhiyoktuḥ ca artha-sāmarthyam .. 03.12.51 ..
एतेन मिथः-समवायो व्याख्यातः ॥ ०३.१२.५२ ॥
एतेन मिथस् समवायः व्याख्यातः ॥ ०३।१२।५२ ॥
etena mithas samavāyaḥ vyākhyātaḥ .. 03.12.52 ..
तस्मात्साक्षिमदच्छन्नं कुर्यात्सम्यग्-विभाषितं । ॥ ०३.१२.५३अ ब ॥
तस्मात् साक्षि-मद-छन्नम् कुर्यात् सम्यक् विभाषितम् । ॥ ०३।१२।५३अ ब ॥
tasmāt sākṣi-mada-channam kuryāt samyak vibhāṣitam . .. 03.12.53a ba ..
स्वे परे वा जने कार्यं देश-काल-अग्र-वर्णतः ॥ ०३.१२.५३च्द् ॥
स्वे परस्मिन् वा जने कार्यम् देश-काल-अग्र-वर्णतः ॥ ०३।१२।५३च् ॥
sve parasmin vā jane kāryam deśa-kāla-agra-varṇataḥ .. 03.12.53c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In