| |
|

This overlay will guide you through the buttons:

गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ॥ ०३.१४.०१ ॥
गृहीत्वा वेतनम् कर्म अ कुर्वतः भृतकस्य द्वादश-पणः दण्डः । संरोधः च करणात् ॥ ०३।१४।०१ ॥
gṛhītvā vetanam karma a kurvataḥ bhṛtakasya dvādaśa-paṇaḥ daṇḍaḥ . saṃrodhaḥ ca karaṇāt .. 03.14.01 ..
अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वाअनुशयं लभेत । परेण वा कारयितुं ॥ ०३.१४.०२ ॥
अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वा अनुशयम् लभेत । परेण वा कारयितुम् ॥ ०३।१४।०२ ॥
aśaktaḥ kutsite karmaṇi vyādhau vyasane vā anuśayam labheta . pareṇa vā kārayitum .. 03.14.02 ..
तस्य-व्यय-कर्मणा लभेत भर्ता वा कारयितुं ॥ ०३.१४.०३ ॥
तस्य व्यय-कर्मणा लभेत भर्ता वा कारयितुम् ॥ ०३।१४।०३ ॥
tasya vyaya-karmaṇā labheta bhartā vā kārayitum .. 03.14.03 ..
नान्यस्त्वया कारयितव्यो । मया वा नान्यस्य कर्तव्यम् इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादश-पणो दण्डः ॥ ०३.१४.०४ ॥
न अन्यः त्वया कारयितव्यः । मया वा न अन्यस्य कर्तव्यम् इति अवरोधे भर्तुः अ कारयतः भृतकस्य अ कुर्वतः वा द्वादश-पणः दण्डः ॥ ०३।१४।०४ ॥
na anyaḥ tvayā kārayitavyaḥ . mayā vā na anyasya kartavyam iti avarodhe bhartuḥ a kārayataḥ bhṛtakasya a kurvataḥ vā dvādaśa-paṇaḥ daṇḍaḥ .. 03.14.04 ..
कर्म-निष्ठापने भर्तुरन्यत्र गृहीत-वेतनो नासकामः कुर्यात् ॥ ०३.१४.०५ ॥
कर्म-निष्ठापने भर्तुः अन्यत्र गृहीत-वेतनः न अ स कामः कुर्यात् ॥ ०३।१४।०५ ॥
karma-niṣṭhāpane bhartuḥ anyatra gṛhīta-vetanaḥ na a sa kāmaḥ kuryāt .. 03.14.05 ..
उपस्थितं अकारयतः कृतं एव विद्याद् इत्याचार्याः ॥ ०३.१४.०६ ॥
उपस्थितम् अ कारयतः कृतम् एव विद्यात् इति आचार्याः ॥ ०३।१४।०६ ॥
upasthitam a kārayataḥ kṛtam eva vidyāt iti ācāryāḥ .. 03.14.06 ..
नैति कौटिल्यः ॥ ०३.१४.०७ ॥
न एति कौटिल्यः ॥ ०३।१४।०७ ॥
na eti kauṭilyaḥ .. 03.14.07 ..
कृतस्य वेतनं नाकृतस्यास्ति ॥ ०३.१४.०८ ॥
कृतस्य वेतनम् न अकृतस्य अस्ति ॥ ०३।१४।०८ ॥
kṛtasya vetanam na akṛtasya asti .. 03.14.08 ..
स चेदल्पं अपि कारयित्वा न कारयेत्कृतं एवास्य विद्यात् ॥ ०३.१४.०९ ॥
स चेद् अल्पम् अपि कारयित्वा न कारयेत् कृतम् एव अस्य विद्यात् ॥ ०३।१४।०९ ॥
sa ced alpam api kārayitvā na kārayet kṛtam eva asya vidyāt .. 03.14.09 ..
देश-काल-अतिपातनेन कर्मणां अन्यथा-करणे वा नासकामः कृतं अनुमन्येत ॥ ०३.१४.१० ॥
देश-काल-अतिपातनेन कर्मणाम् अन्यथा करणे वा न अ स कामः कृतम् अनुमन्येत ॥ ०३।१४।१० ॥
deśa-kāla-atipātanena karmaṇām anyathā karaṇe vā na a sa kāmaḥ kṛtam anumanyeta .. 03.14.10 ..
सम्भाषितादधिक-क्रियायां प्रयासं न मोघं कुर्यात् ॥ ०३.१४.११ ॥
सम्भाषितात् अधिक-क्रियायाम् प्रयासम् न मोघम् कुर्यात् ॥ ०३।१४।११ ॥
sambhāṣitāt adhika-kriyāyām prayāsam na mogham kuryāt .. 03.14.11 ..
तेन संघ-भृता व्याख्याताः ॥ ०३.१४.१२ ॥
तेन संघ-भृताः व्याख्याताः ॥ ०३।१४।१२ ॥
tena saṃgha-bhṛtāḥ vyākhyātāḥ .. 03.14.12 ..
तेषां आधिः सप्त-रात्रं आसीत ॥ ०३.१४.१३ ॥
तेषाम् आधिः सप्त-रात्रम् आसीत ॥ ०३।१४।१३ ॥
teṣām ādhiḥ sapta-rātram āsīta .. 03.14.13 ..
ततोअन्यं उपस्थापयेत् । कर्म-निष्पाकं च ॥ ०३.१४.१४ ॥
ततस् अन्यम् उपस्थापयेत् । कर्म-निष्पाकम् च ॥ ०३।१४।१४ ॥
tatas anyam upasthāpayet . karma-niṣpākam ca .. 03.14.14 ..
न चानिवेद्य भर्तुः संघः कंचित्परिहरेदुपनयेद्वा ॥ ०३.१४.१५ ॥
न च अ निवेद्य भर्तुः संघः कंचिद् परिहरेत् उपनयेत् वा ॥ ०३।१४।१५ ॥
na ca a nivedya bhartuḥ saṃghaḥ kaṃcid pariharet upanayet vā .. 03.14.15 ..
तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ॥ ०३.१४.१६ ॥
तस्य अतिक्रमे चतुर्-विंशति-पणः दण्डः ॥ ०३।१४।१६ ॥
tasya atikrame catur-viṃśati-paṇaḥ daṇḍaḥ .. 03.14.16 ..
संघेन परिहृतस्यार्ध-दण्डः इति भृतक-अधिकारः ॥ ०३.१४.१७ ॥
संघेन परिहृतस्य अर्ध-दण्डः इति भृतक-अधिकारः ॥ ०३।१४।१७ ॥
saṃghena parihṛtasya ardha-daṇḍaḥ iti bhṛtaka-adhikāraḥ .. 03.14.17 ..
संघ-भृताः सम्भूय-समुत्थातारो वा यथा-सम्भाषितं वेतनं समं वा विभजेरन् ॥ ०३.१४.१८ ॥
संघ-भृताः सम्भूय समुत्थातारः वा यथा सम्भाषितम् वेतनम् समम् वा विभजेरन् ॥ ०३।१४।१८ ॥
saṃgha-bhṛtāḥ sambhūya samutthātāraḥ vā yathā sambhāṣitam vetanam samam vā vibhajeran .. 03.14.18 ..
कर्षण-वैदेहका वा सस्य-पण्य-आरम्भ-पर्यवसान-अन्तरे सन्नस्य यथा-कृतस्य कर्मणः प्रत्यंशं दद्युः ॥ ०३.१४.१९ ॥
कर्षण-वैदेहकाः वा सस्य-पण्य-आरम्भ-पर्यवसान-अन्तरे सन्नस्य यथा कृतस्य कर्मणः प्रत्यंशम् दद्युः ॥ ०३।१४।१९ ॥
karṣaṇa-vaidehakāḥ vā sasya-paṇya-ārambha-paryavasāna-antare sannasya yathā kṛtasya karmaṇaḥ pratyaṃśam dadyuḥ .. 03.14.19 ..
पुरुष-उपस्थाने समग्रं अंशं दद्युः ॥ ०३.१४.२० ॥
पुरुष-उपस्थाने समग्रम् अंशम् दद्युः ॥ ०३।१४।२० ॥
puruṣa-upasthāne samagram aṃśam dadyuḥ .. 03.14.20 ..
संसिद्धे तुउद्धृत-पण्ये सन्नस्य तदानीं एव प्रत्यंशं दद्युः ॥ ०३.१४.२१ ॥
संसिद्धे तु उद्धृत-पण्ये सन्नस्य तदानीम् एव प्रत्यंशम् दद्युः ॥ ०३।१४।२१ ॥
saṃsiddhe tu uddhṛta-paṇye sannasya tadānīm eva pratyaṃśam dadyuḥ .. 03.14.21 ..
सामान्या हि पथि-सिद्धिश्चासिद्धिश्च ॥ ०३.१४.२२ ॥
सामान्या हि पथि सिद्धिः च असिद्धिः च ॥ ०३।१४।२२ ॥
sāmānyā hi pathi siddhiḥ ca asiddhiḥ ca .. 03.14.22 ..
प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादश-पणो दण्डः ॥ ०३.१४.२३ ॥
प्रक्रान्ते तु कर्मणि स्वस्थस्य अपक्रामतः द्वादश-पणः दण्डः ॥ ०३।१४।२३ ॥
prakrānte tu karmaṇi svasthasya apakrāmataḥ dvādaśa-paṇaḥ daṇḍaḥ .. 03.14.23 ..
न च प्राकाम्यं अपक्रमणे ॥ ०३.१४.२४ ॥
न च प्राकाम्यम् अपक्रमणे ॥ ०३।१४।२४ ॥
na ca prākāmyam apakramaṇe .. 03.14.24 ..
चोरं त्वभय-पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद् । दद्यात्प्रत्यंशं अभयं च ॥ ०३.१४.२५ ॥
चोरम् तु अभय-पूर्वम् कर्मणः प्रत्यंशेन ग्राहयेत् । दद्यात् प्रत्यंशम् अभयम् च ॥ ०३।१४।२५ ॥
coram tu abhaya-pūrvam karmaṇaḥ pratyaṃśena grāhayet . dadyāt pratyaṃśam abhayam ca .. 03.14.25 ..
पुनः-स्तेये प्रवासनम् । अन्यत्र-गमने च ॥ ०३.१४.२६ ॥
पुनर् स्तेये प्रवासनम् । अन्यत्र गमने च ॥ ०३।१४।२६ ॥
punar steye pravāsanam . anyatra gamane ca .. 03.14.26 ..
महा-अपराधे तु दूष्यवदाचरेत् ॥ ०३.१४.२७ ॥
महा-अपराधे तु दूष्य-वत् आचरेत् ॥ ०३।१४।२७ ॥
mahā-aparādhe tu dūṣya-vat ācaret .. 03.14.27 ..
याजकाः स्वा-प्रचार-द्रव्य-वर्जं यथा-सम्भाषितं वेतनं समं वा विभजेरन् ॥ ०३.१४.२८ ॥
याजकाः स्वा प्रचार-द्रव्य-वर्जम् यथा सम्भाषितम् वेतनम् समम् वा विभजेरन् ॥ ०३।१४।२८ ॥
yājakāḥ svā pracāra-dravya-varjam yathā sambhāṣitam vetanam samam vā vibhajeran .. 03.14.28 ..
अग्निष्टोम-आदिषु च क्रतुषु दीक्षणादूर्ध्वं तृतीयं अंशं । मध्यम-उपसद ऊर्ध्वं अर्धं अंशं । सुत्ये प्रातः-सवनादूर्ध्वं पाद-ऊनं अंशं ॥ ०३.१४.२९ ॥
अग्निष्टोम-आदिषु च क्रतुषु दीक्षणात् ऊर्ध्वम् तृतीयम् अंशम् । मध्यम-उपसदः ऊर्ध्वम् अर्धम् अंशम् । सुत्ये प्रातःसवनात् ऊर्ध्वम् पाद-ऊनम् अंशम् ॥ ०३।१४।२९ ॥
agniṣṭoma-ādiṣu ca kratuṣu dīkṣaṇāt ūrdhvam tṛtīyam aṃśam . madhyama-upasadaḥ ūrdhvam ardham aṃśam . sutye prātaḥsavanāt ūrdhvam pāda-ūnam aṃśam .. 03.14.29 ..
माध्यन्दिनात्सवनादूर्ध्वं समग्रं अंशं लभेत ॥ ०३.१४.३० ॥
माध्यन्दिनात् सवनात् ऊर्ध्वम् समग्रम् अंशम् लभेत ॥ ०३।१४।३० ॥
mādhyandināt savanāt ūrdhvam samagram aṃśam labheta .. 03.14.30 ..
नीता हि दक्षिणा भवन्ति ॥ ०३.१४.३१ ॥
नीताः हि दक्षिणाः भवन्ति ॥ ०३।१४।३१ ॥
nītāḥ hi dakṣiṇāḥ bhavanti .. 03.14.31 ..
बृहस्पति-सव-वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ॥ ०३.१४.३२ ॥
बृहस्पति-सव-वर्जम् प्रतिसवनम् हि दक्षिणाः दीयन्ते ॥ ०३।१४।३२ ॥
bṛhaspati-sava-varjam pratisavanam hi dakṣiṇāḥ dīyante .. 03.14.32 ..
तेनाहर्-गण-दक्षिणा व्याख्याताः ॥ ०३.१४.३३ ॥
तेन अहर्-गण-दक्षिणाः व्याख्याताः ॥ ०३।१४।३३ ॥
tena ahar-gaṇa-dakṣiṇāḥ vyākhyātāḥ .. 03.14.33 ..
सनानां आ-दश-अहो-रात्रात्शेष-भृताः कर्म कुर्युः । अन्ये वा स्व-प्रत्ययाः ॥ ०३.१४.३४ ॥
आ दश-अहर्-रात्रात् शेष-भृताः कर्म कुर्युः । अन्ये वा स्व-प्रत्ययाः ॥ ०३।१४।३४ ॥
ā daśa-ahar-rātrāt śeṣa-bhṛtāḥ karma kuryuḥ . anye vā sva-pratyayāḥ .. 03.14.34 ..
कर्मण्यसमाप्ते तु यजमानः सीदेद् । ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ॥ ०३.१४.३५ ॥
कर्मणि अ समाप्ते तु यजमानः सीदेत् । ऋत्विजः कर्म समापय्य दक्षिणाम् हरेयुः ॥ ०३।१४।३५ ॥
karmaṇi a samāpte tu yajamānaḥ sīdet . ṛtvijaḥ karma samāpayya dakṣiṇām hareyuḥ .. 03.14.35 ..
असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस-दण्डः ॥ ०३.१४.३६ ॥
अ समाप्ते तु कर्मणि याज्यम् याजकम् वा त्यजतः पूर्वः साहस-दण्डः ॥ ०३।१४।३६ ॥
a samāpte tu karmaṇi yājyam yājakam vā tyajataḥ pūrvaḥ sāhasa-daṇḍaḥ .. 03.14.36 ..
अनाहित-अग्निः शत-गुरु-यज्वा च सहस्रगुः । ॥ ०३.१४.३७अ ब ॥
अनाहित-अग्निः शत-गुरु-यज्वा च सहस्रगुः । ॥ ०३।१४।३७अ ब ॥
anāhita-agniḥ śata-guru-yajvā ca sahasraguḥ . .. 03.14.37a ba ..
सुरापो वृषली-भर्ता ब्रह्महा गुरु-तल्पगः ॥ ०३.१४.३७च्द् ॥
॥ ०३।१४।३७च् ॥
.. 03.14.37c ..
असत्-प्रतिग्रहे युक्तः स्तेनः कुत्सित-याजकः । ॥ ०३.१४.३८अ ब ॥
असत्-प्रतिग्रहे युक्तः स्तेनः कुत्सित-याजकः । ॥ ०३।१४।३८अ ब ॥
asat-pratigrahe yuktaḥ stenaḥ kutsita-yājakaḥ . .. 03.14.38a ba ..
अदोषस्त्यक्तुं अन्योन्यं कर्म-संकर-निश्चयात् ॥ ०३.१४.३८च्द् ॥
अदोषः त्यक्तुम् अन्योन्यम् कर्म-संकर-निश्चयात् ॥ ०३।१४।३८च् ॥
adoṣaḥ tyaktum anyonyam karma-saṃkara-niścayāt .. 03.14.38c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In