| |
|

This overlay will guide you through the buttons:

साहसं अन्वयवत्प्रसभ-कर्म ॥ ०३.१७.०१ ॥
साहसम् अन्वयवत्-प्रसभ-कर्म ॥ ०३।१७।०१ ॥
sāhasam anvayavat-prasabha-karma .. 03.17.01 ..
निरन्वये स्तेयम् । अपव्ययने च ॥ ०३.१७.०२ ॥
निरन्वये स्तेयम् । अपव्ययने च ॥ ०३।१७।०२ ॥
niranvaye steyam . apavyayane ca .. 03.17.02 ..
रत्न-सार-फल्गु-कुप्यानां साहसे मूल्य-समो दण्डः इति मानवाः ॥ ०३.१७.०३ ॥
रत्न-सार-फल्गु-कुप्यानाम् साहसे मूल्य-समः दण्डः इति मानवाः ॥ ०३।१७।०३ ॥
ratna-sāra-phalgu-kupyānām sāhase mūlya-samaḥ daṇḍaḥ iti mānavāḥ .. 03.17.03 ..
मूल्य-द्वि-गुणः इत्यौशनसाः ॥ ०३.१७.०४ ॥
मूल्य-द्वि-गुणः इति औशनसाः ॥ ०३।१७।०४ ॥
mūlya-dvi-guṇaḥ iti auśanasāḥ .. 03.17.04 ..
यथा-अपराध इति कौटिल्यः ॥ ०३.१७.०५ ॥
यथा अपराधे इति कौटिल्यः ॥ ०३।१७।०५ ॥
yathā aparādhe iti kauṭilyaḥ .. 03.17.05 ..
पुष्प-फल-शाक-मूल-कन्द-पक्व-अन्न-चर्म-वेणु-मृद्-भाण्ड-आदीनां क्षुद्रक-द्रव्याणां द्वाद्श-पण-अवरश्चतुर्विंशति-पण-परो दण्डः ॥ ०३.१७.०६ ॥
पुष्प-फल-शाक-मूल-कन्द-पक्व-अन्न-चर्म-वेणु-मृद्-भाण्ड-आदीनाम् क्षुद्रक-द्रव्याणाम् द्वाद्श-पण-अवरः चतुर्विंशति-पण-परः दण्डः ॥ ०३।१७।०६ ॥
puṣpa-phala-śāka-mūla-kanda-pakva-anna-carma-veṇu-mṛd-bhāṇḍa-ādīnām kṣudraka-dravyāṇām dvādśa-paṇa-avaraḥ caturviṃśati-paṇa-paraḥ daṇḍaḥ .. 03.17.06 ..
काल-आयस-काष्ठ-रज्जु-द्रव्य-क्षुद्र-पशु-पट-आदीनां स्थूलक-द्रव्याणां चतुर्विंशति-पण-अवरोअष्ट-चत्वारिंशत्-पण-परो दण्डः ॥ ०३.१७.०७ ॥
काल-आयस-काष्ठ-रज्जु-द्रव्य-क्षुद्र-पशु-पट-आदीनाम् स्थूलक-द्रव्याणाम् चतुर्विंशति-पण-अवरः अष्ट-चत्वारिंशत्-पण-परः दण्डः ॥ ०३।१७।०७ ॥
kāla-āyasa-kāṣṭha-rajju-dravya-kṣudra-paśu-paṭa-ādīnām sthūlaka-dravyāṇām caturviṃśati-paṇa-avaraḥ aṣṭa-catvāriṃśat-paṇa-paraḥ daṇḍaḥ .. 03.17.07 ..
ताम्र-वृत्त-कंस-काच-दन्त-भाण्ड-आदीनां स्थूलक-द्रव्याणां अष्ट-चत्वारिंशत्-पण-अवरः षण्-णवति-परः पूर्वः साहस-दण्डः ॥ ०३.१७.०८ ॥
ताम्र-वृत्त-कंस-काच-दन्त-भाण्ड-आदीनाम् स्थूलक-द्रव्याणाम् अष्ट-चत्वारिंशत्-पण-अवरः षण्-णवति-परः पूर्वः साहस-दण्डः ॥ ०३।१७।०८ ॥
tāmra-vṛtta-kaṃsa-kāca-danta-bhāṇḍa-ādīnām sthūlaka-dravyāṇām aṣṭa-catvāriṃśat-paṇa-avaraḥ ṣaṇ-ṇavati-paraḥ pūrvaḥ sāhasa-daṇḍaḥ .. 03.17.08 ..
महा-पशु-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-सूक्ष्म-वस्त्र-आदीनां स्थूलक-द्रव्याणां द्विशत-अवरः पञ्च-शत-परो मध्यमः साहस-दण्डः ॥ ०३.१७.०९ ॥
महा-पशु-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-सूक्ष्म-वस्त्र-आदीनाम् स्थूलक-द्रव्याणाम् द्विशत-अवरः पञ्च-शत-परः मध्यमः साहस-दण्डः ॥ ०३।१७।०९ ॥
mahā-paśu-manuṣya-kṣetra-gṛha-hiraṇya-suvarṇa-sūkṣma-vastra-ādīnām sthūlaka-dravyāṇām dviśata-avaraḥ pañca-śata-paraḥ madhyamaḥ sāhasa-daṇḍaḥ .. 03.17.09 ..
स्त्रियं पुरुषं वाअभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्च-शत-अवरः सहस्र-पर उत्तमः साहस-दण्डः इत्याचार्याः ॥ ०३.१७.१० ॥
स्त्रियम् पुरुषम् वा अभिषह्य बध्नतः बन्धयतः बन्धम् वा मोक्षयतः पञ्च-शत-अवरः सहस्र-परः उत्तमः साहस-दण्डः इति आचार्याः ॥ ०३।१७।१० ॥
striyam puruṣam vā abhiṣahya badhnataḥ bandhayataḥ bandham vā mokṣayataḥ pañca-śata-avaraḥ sahasra-paraḥ uttamaḥ sāhasa-daṇḍaḥ iti ācāryāḥ .. 03.17.10 ..
यः साहसं "प्रतिपत्ता" इति कारयति स द्वि-गुणं दद्यात् ॥ ०३.१७.११ ॥
यः साहसम् "प्रतिपत्ता" इति कारयति स द्वि-गुणम् दद्यात् ॥ ०३।१७।११ ॥
yaḥ sāhasam "pratipattā" iti kārayati sa dvi-guṇam dadyāt .. 03.17.11 ..
यावद्द्हिरण्यं उपयोक्ष्यते तावद्दास्यामि इति स चतुर्-गुणं दण्डं दद्यात् ॥ ०३.१७.१२ ॥
यावत् हिरण्यम् उपयोक्ष्यते तावत् दास्यामि इति स चतुर्-गुणम् दण्डम् दद्यात् ॥ ०३।१७।१२ ॥
yāvat hiraṇyam upayokṣyate tāvat dāsyāmi iti sa catur-guṇam daṇḍam dadyāt .. 03.17.12 ..
यः "एतावद्द्हिरण्यं दास्यामि" इति प्रमाणं उद्दिश्य कारयति स यथा-उक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ॥ ०३.१७.१३ ॥
यः "एतावत् हिरण्यम् दास्यामि" इति प्रमाणम् उद्दिश्य कारयति स यथा उक्तम् हिरण्यम् दण्डम् च दद्यात्" इति बार्हस्पत्याः ॥ ०३।१७।१३ ॥
yaḥ "etāvat hiraṇyam dāsyāmi" iti pramāṇam uddiśya kārayati sa yathā uktam hiraṇyam daṇḍam ca dadyāt" iti bārhaspatyāḥ .. 03.17.13 ..
स चेत्कोपं मदं मोहं वाअपदिशेद्यथा-उक्तवद्दण्डं एनं कुर्यादिति कौटिल्यः ॥ ०३.१७.१४ ॥
स चेद् कोपम् मदम् मोहम् वा अपदिशेत् यथा उक्त-वत् दण्डम् एनम् कुर्यात् इति कौटिल्यः ॥ ०३।१७।१४ ॥
sa ced kopam madam moham vā apadiśet yathā ukta-vat daṇḍam enam kuryāt iti kauṭilyaḥ .. 03.17.14 ..
दण्ड-कर्मसु सर्वेषु रूपं अष्ट-पणं शतं । ॥ ०३.१७.१५अ ब ॥
दण्ड-कर्मसु सर्वेषु रूपम् अष्ट-पणम् शतम् । ॥ ०३।१७।१५अ ब ॥
daṇḍa-karmasu sarveṣu rūpam aṣṭa-paṇam śatam . .. 03.17.15a ba ..
शतात्परेषु व्याजीं च विद्यात्पञ्च-पणं शतं ॥ ०३.१७.१५च्द् ॥
शतात् परेषु व्याजीम् च विद्यात् पञ्च-पणम् शतम् ॥ ०३।१७।१५च् ॥
śatāt pareṣu vyājīm ca vidyāt pañca-paṇam śatam .. 03.17.15c ..
प्रजानां दोष-बाहुल्याद्राज्ञां वा भाव-दोषतः । ॥ ०३.१७.१६अ ब ॥
प्रजानाम् दोष-बाहुल्यात् राज्ञाम् वा भाव-दोषतः । ॥ ०३।१७।१६अ ब ॥
prajānām doṣa-bāhulyāt rājñām vā bhāva-doṣataḥ . .. 03.17.16a ba ..
रूप-व्याज्यावधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता ॥ ०३.१७.१६च्द् ॥
रूप-व्याज्य-अवधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता ॥ ०३।१७।१६च् ॥
rūpa-vyājya-avadharmiṣṭhe dharmyā tu prakṛtiḥ smṛtā .. 03.17.16c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In