| |
|

This overlay will guide you through the buttons:

वाक्-पारुष्यं उपवादः कुत्सनं अभिभर्त्सनं इति ॥ ०३.१८.०१ ॥
vāk-pāruṣyaṃ upavādaḥ kutsanaṃ abhibhartsanaṃ iti .. 03.18.01 ..
शरीर-प्रकृति-श्रुत-वृत्ति-जन-पदानां शरीर-उपवादे काण-खञ्ज-आदिभिः सत्ये त्रि-पणो दण्डः । मिथ्या-उपवादे षट्-पणो दण्डः ॥ ०३.१८.०२ ॥
śarīra-prakṛti-śruta-vṛtti-jana-padānāṃ śarīra-upavāde kāṇa-khañja-ādibhiḥ satye tri-paṇo daṇḍaḥ . mithyā-upavāde ṣaṭ-paṇo daṇḍaḥ .. 03.18.02 ..
शोभन-अक्षिमन्तः इति काण-खञ्ज-आदीनां स्तुति-निन्दायां द्वादश-पणो दण्डः ॥ ०३.१८.०३ ॥
śobhana-akṣimantaḥ iti kāṇa-khañja-ādīnāṃ stuti-nindāyāṃ dvādaśa-paṇo daṇḍaḥ .. 03.18.03 ..
कुष्ठ-उन्माद-क्लैब्य-आदिभिः कुत्सायां च सत्य-मिथ्या-स्तुति-निन्दासु द्वादश-पण-उत्तरा दण्डास्तुल्येषु ॥ ०३.१८.०४ ॥
kuṣṭha-unmāda-klaibya-ādibhiḥ kutsāyāṃ ca satya-mithyā-stuti-nindāsu dvādaśa-paṇa-uttarā daṇḍāstulyeṣu .. 03.18.04 ..
विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ॥ ०३.१८.०५ ॥
viśiṣṭeṣu dvi-guṇāḥ . hīneṣvardha-daṇḍāḥ . para-strīṣu dvi-guṇāḥ . pramāda-mada-moha-ādibhirardha-daṇḍāḥ .. 03.18.05 ..
कुष्ठ-उन्मादयोश्चिकित्सकाः संनिकृष्टा पुमांसश्च प्रमाणं । क्लीब-भावे स्त्रियो मूत्र-फेनोअप्सु विष्ठा-निमज्जनं च ॥ ०३.१८.०६ ॥
kuṣṭha-unmādayościkitsakāḥ saṃnikṛṣṭā pumāṃsaśca pramāṇaṃ . klība-bhāve striyo mūtra-phenoapsu viṣṭhā-nimajjanaṃ ca .. 03.18.06 ..
प्रकृत्य्-उपवादे ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-अन्त-अवसायिनां अपरेण पूर्वस्य त्रि-पण-उत्तरा दण्डाः । पूर्वेणापरस्य द्वि-पण-अधराः । कुब्राह्मण-आदिभिश्च कुत्सायां ॥ ०३.१८.०७ ॥
prakṛty-upavāde brāhmaṇa-kṣatriya-vaiśya-śūdra-anta-avasāyināṃ apareṇa pūrvasya tri-paṇa-uttarā daṇḍāḥ . pūrveṇāparasya dvi-paṇa-adharāḥ . kubrāhmaṇa-ādibhiśca kutsāyāṃ .. 03.18.07 ..
तेन श्रुत-उपवादो वाग्-जीवनानां । कारु-कुशीलवानां वृत्त्य्-उपवादः । प्राज्जूणक-गान्धार-आदीनां च जन-पद-उपवादा व्याख्याताः ॥ ०३.१८.०८ ॥
tena śruta-upavādo vāg-jīvanānāṃ . kāru-kuśīlavānāṃ vṛtty-upavādaḥ . prājjūṇaka-gāndhāra-ādīnāṃ ca jana-pada-upavādā vyākhyātāḥ .. 03.18.08 ..
यः परं "एवं त्वां करिष्यामि" इति करणेनाभिभर्त्सयेद् । अकरणे यस्तस्य करणे दण्डस्ततोअर्ध-दण्डं दद्यात् ॥ ०३.१८.०९ ॥
yaḥ paraṃ "evaṃ tvāṃ kariṣyāmi" iti karaṇenābhibhartsayed . akaraṇe yastasya karaṇe daṇḍastatoardha-daṇḍaṃ dadyāt .. 03.18.09 ..
अशक्तः कोपं मदं मोहं वाअपदिशेद्द्वादश-पणं दण्डं दद्यात् ॥ ०३.१८.१० ॥
aśaktaḥ kopaṃ madaṃ mohaṃ vāapadiśeddvādaśa-paṇaṃ daṇḍaṃ dadyāt .. 03.18.10 ..
जात-वैर-आशयः शक्तश्चापकर्तुं यावज्-जीविक-अवस्थं दद्यात् ॥ ०३.१८.११ ॥
jāta-vaira-āśayaḥ śaktaścāpakartuṃ yāvaj-jīvika-avasthaṃ dadyāt .. 03.18.11 ..
स्व-देश-ग्रामयोः पूर्वं मध्यमं जाति-संघयोः । ॥ ०३.१८.१२अ ब ॥
sva-deśa-grāmayoḥ pūrvaṃ madhyamaṃ jāti-saṃghayoḥ . .. 03.18.12a ba ..
आक्रोशाद्देव-चैत्यानां उत्तमं दण्डं अर्हति ॥ ०३.१८.१२च्द् ॥
ākrośāddeva-caityānāṃ uttamaṃ daṇḍaṃ arhati .. 03.18.12cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In