| |
|

This overlay will guide you through the buttons:

दण्ड-पारुष्यं स्पर्शनं अवगूर्णं प्रहतं इति ॥ ०३.१९.०१ ॥
दण्ड-पारुष्यम् स्पर्शनम् अवगूर्णम् प्रहतम् इति ॥ ०३।१९।०१ ॥
daṇḍa-pāruṣyam sparśanam avagūrṇam prahatam iti .. 03.19.01 ..
नाभेरधः-कायं हस्त-पङ्क-भस्म-पांसुभिरिति स्पृशतस्त्रि-पणो दण्डः । तैरेवामेध्यैः पाद-ष्ठीविकाभ्यां च षट्-पणः । छर्दि-मूत्र-पुरीष-आदिभिर्द्वादश-पणः ॥ ०३.१९.०२ ॥
नाभेः अधस् कायम् हस्त-पङ्क-भस्म-पांसुभिः इति स्पृशतः त्रि-पणः दण्डः । तैः एव अमेध्यैः पाद-ष्ठीविकाभ्याम् च षष्-पणः । छर्दि-मूत्र-पुरीष-आदिभिः द्वादश-पणः ॥ ०३।१९।०२ ॥
nābheḥ adhas kāyam hasta-paṅka-bhasma-pāṃsubhiḥ iti spṛśataḥ tri-paṇaḥ daṇḍaḥ . taiḥ eva amedhyaiḥ pāda-ṣṭhīvikābhyām ca ṣaṣ-paṇaḥ . chardi-mūtra-purīṣa-ādibhiḥ dvādaśa-paṇaḥ .. 03.19.02 ..
नाभेरुपरि द्वि-गुणाः । शिरसि चतुर्-गुणाः समेषु ॥ ०३.१९.०३ ॥
नाभेः उपरि द्वि-गुणाः । शिरसि चतुर्-गुणाः समेषु ॥ ०३।१९।०३ ॥
nābheḥ upari dvi-guṇāḥ . śirasi catur-guṇāḥ sameṣu .. 03.19.03 ..
विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ॥ ०३.१९.०४ ॥
विशिष्टेषु द्वि-गुणाः । हीनेषु अर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिः अर्ध-दण्डाः ॥ ०३।१९।०४ ॥
viśiṣṭeṣu dvi-guṇāḥ . hīneṣu ardha-daṇḍāḥ . para-strīṣu dvi-guṇāḥ . pramāda-mada-moha-ādibhiḥ ardha-daṇḍāḥ .. 03.19.04 ..
पाद-वस्त्र-हस्त-केश-अवलम्बनेषु षट्-पण-उत्तरा दण्डाः ॥ ०३.१९.०५ ॥
पाद-वस्त्र-हस्त-केश-अवलम्बनेषु षष्-पण-उत्तराः दण्डाः ॥ ०३।१९।०५ ॥
pāda-vastra-hasta-keśa-avalambaneṣu ṣaṣ-paṇa-uttarāḥ daṇḍāḥ .. 03.19.05 ..
पीडन-आवेष्टन-अञ्चन-प्रकर्षण-अध्यासनेषु पूर्वः साहस-दण्डः ॥ ०३.१९.०६ ॥
पीडन-आवेष्टन-अञ्चन-प्रकर्षण-अध्यासनेषु पूर्वः साहस-दण्डः ॥ ०३।१९।०६ ॥
pīḍana-āveṣṭana-añcana-prakarṣaṇa-adhyāsaneṣu pūrvaḥ sāhasa-daṇḍaḥ .. 03.19.06 ..
पातयित्वाअपक्रामतोअर्ध-दण्डः ॥ ०३.१९.०७ ॥
पातयित्वा अपक्रामतः अर्ध-दण्डः ॥ ०३।१९।०७ ॥
pātayitvā apakrāmataḥ ardha-daṇḍaḥ .. 03.19.07 ..
शूद्रो येनाङ्गेन ब्राह्मणं अभिहन्यात्तदस्यच्छेदयेत् ॥ ०३.१९.०८ ॥
शूद्रः येन अङ्गेन ब्राह्मणम् अभिहन्यात् तत् अस्य छेदयेत् ॥ ०३।१९।०८ ॥
śūdraḥ yena aṅgena brāhmaṇam abhihanyāt tat asya chedayet .. 03.19.08 ..
अवगूर्णे निष्क्रयः । स्पर्शेअर्ध-दण्डः ॥ ०३.१९.०९ ॥
अवगूर्णे निष्क्रयः । स्पर्शे अर्ध-दण्डः ॥ ०३।१९।०९ ॥
avagūrṇe niṣkrayaḥ . sparśe ardha-daṇḍaḥ .. 03.19.09 ..
तेन चण्डाल-अशुचयो व्याख्यातः ॥ ०३.१९.१० ॥
तेन चण्डाल-अशुचयः व्याख्यातः ॥ ०३।१९।१० ॥
tena caṇḍāla-aśucayaḥ vyākhyātaḥ .. 03.19.10 ..
हस्तेनावगूर्णे त्रि-पण-अवरो द्वादश-पण-परो दण्डः । पादेन द्वि-गुणः । दुःख-उत्पादनेन द्रव्येण पूर्वः साहस-दण्डः । प्राण-आबाधिकेन मध्यमः ॥ ०३.१९.११ ॥
हस्तेन अवगूर्णे त्रि-पण-अवरः द्वादश-पण-परः दण्डः । पादेन द्वि-गुणः । दुःख-उत्पादनेन द्रव्येण पूर्वः साहस-दण्डः । प्राण-आबाधिकेन मध्यमः ॥ ०३।१९।११ ॥
hastena avagūrṇe tri-paṇa-avaraḥ dvādaśa-paṇa-paraḥ daṇḍaḥ . pādena dvi-guṇaḥ . duḥkha-utpādanena dravyeṇa pūrvaḥ sāhasa-daṇḍaḥ . prāṇa-ābādhikena madhyamaḥ .. 03.19.11 ..
काष्ठ-लोष्ट-पाषाण-लोह-दण्ड-रज्जु-द्रव्याणां अन्यतमेन दुःखं अशोणितं उत्पादयतश्चतुर्विंशति-पणो दण्डः । शोणित-उत्पादने द्वि-गुणः । अन्यत्र दुष्ट-शोणितात् ॥ ०३.१९.१२ ॥
काष्ठ-लोष्ट-पाषाण-लोह-दण्ड-रज्जु-द्रव्याणाम् अन्यतमेन दुःखम् अ शोणितम् उत्पादयतः चतुर्विंशति-पणः दण्डः । शोणित-उत्पादने द्वि-गुणः । अन्यत्र दुष्ट-शोणितात् ॥ ०३।१९।१२ ॥
kāṣṭha-loṣṭa-pāṣāṇa-loha-daṇḍa-rajju-dravyāṇām anyatamena duḥkham a śoṇitam utpādayataḥ caturviṃśati-paṇaḥ daṇḍaḥ . śoṇita-utpādane dvi-guṇaḥ . anyatra duṣṭa-śoṇitāt .. 03.19.12 ..
मृत-कल्पं अशोणितं घ्नतो हस्त-पाद-पारञ्चिकं वा कुर्वतः पूर्वः साहस-दण्डः । पाणि-पाद-दन्त-भङ्गे कर्ण-नास-आच्छेदने व्रण-विदारणे च्च । अन्यत्र दुष्ट-व्रणेभ्यः ॥ ०३.१९.१३ ॥
मृत-कल्पम् अ शोणितम् घ्नतः हस्त-पाद-पारञ्चिकम् वा कुर्वतः पूर्वः साहस-दण्डः । पाणि-पाद-दन्त-भङ्गे कर्ण-नास-आच्छेदने व्रण-विदारणे च्च । अन्यत्र दुष्ट-व्रणेभ्यः ॥ ०३।१९।१३ ॥
mṛta-kalpam a śoṇitam ghnataḥ hasta-pāda-pārañcikam vā kurvataḥ pūrvaḥ sāhasa-daṇḍaḥ . pāṇi-pāda-danta-bhaṅge karṇa-nāsa-ācchedane vraṇa-vidāraṇe cca . anyatra duṣṭa-vraṇebhyaḥ .. 03.19.13 ..
सक्थि-ग्रीव-आभञ्जने नेत्र-भेदने वा वाक्य-चेष्टा-भोजन-उपरोधेषु च मध्यमः साहस-दण्डः समुत्थान-व्ययश्च ॥ ०३.१९.१४ ॥
सक्थि-ग्रीव-आभञ्जने नेत्र-भेदने वा वाक्य-चेष्टा-भोजन-उपरोधेषु च मध्यमः साहस-दण्डः समुत्थान-व्ययः च ॥ ०३।१९।१४ ॥
sakthi-grīva-ābhañjane netra-bhedane vā vākya-ceṣṭā-bhojana-uparodheṣu ca madhyamaḥ sāhasa-daṇḍaḥ samutthāna-vyayaḥ ca .. 03.19.14 ..
विपत्तौ कण्टक-शोधनाय नीयेत ॥ ०३.१९.१५ ॥
विपत्तौ कण्टक-शोधनाय नीयेत ॥ ०३।१९।१५ ॥
vipattau kaṇṭaka-śodhanāya nīyeta .. 03.19.15 ..
महा-जनस्यएकं घ्नतः प्रत्येकं द्वि-गुणो दण्डः ॥ ०३.१९.१६ ॥
महा-जनस्य एकम् घ्नतः प्रत्येकम् द्वि-गुणः दण्डः ॥ ०३।१९।१६ ॥
mahā-janasya ekam ghnataḥ pratyekam dvi-guṇaḥ daṇḍaḥ .. 03.19.16 ..
पर्युषितः कलहोअनुप्रवेशो वा नाभियोज्यः इत्याचार्याः ॥ ०३.१९.१७ ॥
पर्युषितः कलहः अनुप्रवेशः वा न अभियोज्यः इति आचार्याः ॥ ०३।१९।१७ ॥
paryuṣitaḥ kalahaḥ anupraveśaḥ vā na abhiyojyaḥ iti ācāryāḥ .. 03.19.17 ..
नास्त्यपकारिणो मोक्ष इति कौटिल्यः ॥ ०३.१९.१८ ॥
न अस्ति अपकारिणः मोक्षः इति कौटिल्यः ॥ ०३।१९।१८ ॥
na asti apakāriṇaḥ mokṣaḥ iti kauṭilyaḥ .. 03.19.18 ..
कलहे पूर्व-आगतो जयति । अक्षममाणो हि प्रधावति इत्याचार्याः ॥ ०३.१९.१९ ॥
कलहे पूर्व-आगतः जयति । अक्षममाणः हि प्रधावति इति आचार्याः ॥ ०३।१९।१९ ॥
kalahe pūrva-āgataḥ jayati . akṣamamāṇaḥ hi pradhāvati iti ācāryāḥ .. 03.19.19 ..
नैति कौटिल्यः ॥ ०३.१९.२० ॥
न एति कौटिल्यः ॥ ०३।१९।२० ॥
na eti kauṭilyaḥ .. 03.19.20 ..
पूर्वं पश्चाद्वाअभिगतस्य साक्षिणः प्रमाणम् । असाक्षिके घातः कलह-उपलिङ्गनं वा ॥ ०३.१९.२१ ॥
पूर्वम् पश्चात् वा अभिगतस्य साक्षिणः प्रमाणम् । असाक्षिके घातः कलह-उपलिङ्गनम् वा ॥ ०३।१९।२१ ॥
pūrvam paścāt vā abhigatasya sākṣiṇaḥ pramāṇam . asākṣike ghātaḥ kalaha-upaliṅganam vā .. 03.19.21 ..
घात-अभियोगं अप्रतिब्रुवतस्तदहरेव पश्चात्-कारः ॥ ०३.१९.२२ ॥
घात-अभियोगम् अ प्रतिब्रुवतः तत् अहर् एव पश्चात् कारः ॥ ०३।१९।२२ ॥
ghāta-abhiyogam a pratibruvataḥ tat ahar eva paścāt kāraḥ .. 03.19.22 ..
कलहे द्रव्यं अपहरतो दश-पणो दण्डः । क्षुद्रक-द्रव्य-हिंसायां तच्च तावच्च दण्डः । स्थूलक-द्रव्य-हिंसायां तच्च द्वि-गुणश्च दण्डः । वस्त्र-आभरण-हिरण्य-सुवर्ण-भाण्ड-हिंसायां तच्च पूर्वश्च साहस-दण्डः ॥ ०३.१९.२३ ॥
कलहे द्रव्यम् अपहरतः दश-पणः दण्डः । क्षुद्रक-द्रव्य-हिंसायाम् तत् च तावत् च दण्डः । स्थूलक-द्रव्य-हिंसायाम् तद्-च द्वि-गुणः च दण्डः । वस्त्र-आभरण-हिरण्य-सुवर्ण-भाण्ड-हिंसायाम् तद्-च पूर्वः च साहस-दण्डः ॥ ०३।१९।२३ ॥
kalahe dravyam apaharataḥ daśa-paṇaḥ daṇḍaḥ . kṣudraka-dravya-hiṃsāyām tat ca tāvat ca daṇḍaḥ . sthūlaka-dravya-hiṃsāyām tad-ca dvi-guṇaḥ ca daṇḍaḥ . vastra-ābharaṇa-hiraṇya-suvarṇa-bhāṇḍa-hiṃsāyām tad-ca pūrvaḥ ca sāhasa-daṇḍaḥ .. 03.19.23 ..
पर-कुड्यं अभिघातेन क्षोभयतस्त्रि-पणो दण्डः । छेदन-भेदने षट्-पणः । प्रतीकारश्च ॥ ०३.१९.२४ ॥
पर-कुड्यम् अभिघातेन क्षोभयतः त्रि-पणः दण्डः । छेदन-भेदने षष्-पणः । प्रतीकारः च ॥ ०३।१९।२४ ॥
para-kuḍyam abhighātena kṣobhayataḥ tri-paṇaḥ daṇḍaḥ . chedana-bhedane ṣaṣ-paṇaḥ . pratīkāraḥ ca .. 03.19.24 ..
दुःख-उत्पादनं द्रव्यं अन्य-वेश्मनि प्रक्षिपतो द्वादश-पणो दण्डः । प्राण-आबाधिकं पूर्वः साहस-दण्डः ॥ ०३.१९.२५ ॥
दुःख-उत्पादनम् द्रव्यम् अन्य-वेश्मनि प्रक्षिपतः द्वादश-पणः दण्डः । प्राण-आबाधिकम् पूर्वः साहस-दण्डः ॥ ०३।१९।२५ ॥
duḥkha-utpādanam dravyam anya-veśmani prakṣipataḥ dvādaśa-paṇaḥ daṇḍaḥ . prāṇa-ābādhikam pūrvaḥ sāhasa-daṇḍaḥ .. 03.19.25 ..
क्षुद्र-पशूनां काष्ठ-आदिभिर्दुःख-उत्पादने पणो द्वि-गुणो वा दण्डः । शोणित-उत्पादने द्वि-गुणः ॥ ०३.१९.२६ ॥
क्षुद्र-पशूनाम् काष्ठ-आदिभिः दुःख-उत्पादने पणः द्विगुणः वा दण्डः । शोणित-उत्पादने द्वि-गुणः ॥ ०३।१९।२६ ॥
kṣudra-paśūnām kāṣṭha-ādibhiḥ duḥkha-utpādane paṇaḥ dviguṇaḥ vā daṇḍaḥ . śoṇita-utpādane dvi-guṇaḥ .. 03.19.26 ..
महा-पशूनां एतेष्वेव स्थानेष्व्द्वि-गुणो दण्डः समुत्थान-व्ययश्च ॥ ०३.१९.२७ ॥
महा-पशूनाम् एतेषु एव स्थानेषु द्विगुणः दण्डः समुत्थान-व्ययः च ॥ ०३।१९।२७ ॥
mahā-paśūnām eteṣu eva sthāneṣu dviguṇaḥ daṇḍaḥ samutthāna-vyayaḥ ca .. 03.19.27 ..
पुर-उपवन-वनस्पतीनां पुष्प-फलच्-छायावतां प्ररोहच्-छेदने षट्-पणः । क्षुद्र-शाखाच्-छेदने द्वादश-पणः । पीन-शाखाच्-च्छेदने चतुर्-विंशति-पणः । स्कन्ध-वधे पूर्वः साहस-दण्डः । समुच्छित्तौ मध्यमः ॥ ०३.१९.२८ ॥
पुर-उपवन-वनस्पतीनाम् पुष्प-फलत्-छायावताम् प्ररोहत्-छेदने षष्-पणः । क्षुद्र-शाखात् छेदने द्वादश-पणः । पीन-शाखात् छेदने चतुर्-विंशति-पणः । स्कन्ध-वधे पूर्वः साहस-दण्डः । समुच्छित्तौ मध्यमः ॥ ०३।१९।२८ ॥
pura-upavana-vanaspatīnām puṣpa-phalat-chāyāvatām prarohat-chedane ṣaṣ-paṇaḥ . kṣudra-śākhāt chedane dvādaśa-paṇaḥ . pīna-śākhāt chedane catur-viṃśati-paṇaḥ . skandha-vadhe pūrvaḥ sāhasa-daṇḍaḥ . samucchittau madhyamaḥ .. 03.19.28 ..
पुष्प-फलच्-छायावद्-गुल्म-लतास्वर्ध-दण्डाः । पुण्य-स्थान-तपो-वन-श्मशान-द्रुमेषु च ॥ ०३.१९.२९ ॥
पुष्प-फलत्-छायावत्-गुल्म-लतासु अर्ध-दण्डाः । पुण्य-स्थान-तपः-वन-श्मशान-द्रुमेषु च ॥ ०३।१९।२९ ॥
puṣpa-phalat-chāyāvat-gulma-latāsu ardha-daṇḍāḥ . puṇya-sthāna-tapaḥ-vana-śmaśāna-drumeṣu ca .. 03.19.29 ..
सीम-वृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च । ॥ ०३.१९.३०अ ब ॥
सीम-वृक्षेषु चैत्येषु द्रुमेषु आलक्षितेषु च । ॥ ०३।१९।३०अ ब ॥
sīma-vṛkṣeṣu caityeṣu drumeṣu ālakṣiteṣu ca . .. 03.19.30a ba ..
त एव द्वि-गुणा दण्डाः कार्या राज-वनेषु च ॥ ०३.१९.३०च्द् ॥
ते एव द्वि-गुणाः दण्डाः कार्याः राज-वनेषु च ॥ ०३।१९।३०च् ॥
te eva dvi-guṇāḥ daṇḍāḥ kāryāḥ rāja-vaneṣu ca .. 03.19.30c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In