| |
|

This overlay will guide you through the buttons:

दण्ड-पारुष्यं स्पर्शनं अवगूर्णं प्रहतं इति ॥ ०३.१९.०१ ॥
daṇḍa-pāruṣyaṃ sparśanaṃ avagūrṇaṃ prahataṃ iti .. 03.19.01 ..
नाभेरधः-कायं हस्त-पङ्क-भस्म-पांसुभिरिति स्पृशतस्त्रि-पणो दण्डः । तैरेवामेध्यैः पाद-ष्ठीविकाभ्यां च षट्-पणः । छर्दि-मूत्र-पुरीष-आदिभिर्द्वादश-पणः ॥ ०३.१९.०२ ॥
nābheradhaḥ-kāyaṃ hasta-paṅka-bhasma-pāṃsubhiriti spṛśatastri-paṇo daṇḍaḥ . tairevāmedhyaiḥ pāda-ṣṭhīvikābhyāṃ ca ṣaṭ-paṇaḥ . chardi-mūtra-purīṣa-ādibhirdvādaśa-paṇaḥ .. 03.19.02 ..
नाभेरुपरि द्वि-गुणाः । शिरसि चतुर्-गुणाः समेषु ॥ ०३.१९.०३ ॥
nābherupari dvi-guṇāḥ . śirasi catur-guṇāḥ sameṣu .. 03.19.03 ..
विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ॥ ०३.१९.०४ ॥
viśiṣṭeṣu dvi-guṇāḥ . hīneṣvardha-daṇḍāḥ . para-strīṣu dvi-guṇāḥ . pramāda-mada-moha-ādibhirardha-daṇḍāḥ .. 03.19.04 ..
पाद-वस्त्र-हस्त-केश-अवलम्बनेषु षट्-पण-उत्तरा दण्डाः ॥ ०३.१९.०५ ॥
pāda-vastra-hasta-keśa-avalambaneṣu ṣaṭ-paṇa-uttarā daṇḍāḥ .. 03.19.05 ..
पीडन-आवेष्टन-अञ्चन-प्रकर्षण-अध्यासनेषु पूर्वः साहस-दण्डः ॥ ०३.१९.०६ ॥
pīḍana-āveṣṭana-añcana-prakarṣaṇa-adhyāsaneṣu pūrvaḥ sāhasa-daṇḍaḥ .. 03.19.06 ..
पातयित्वाअपक्रामतोअर्ध-दण्डः ॥ ०३.१९.०७ ॥
pātayitvāapakrāmatoardha-daṇḍaḥ .. 03.19.07 ..
शूद्रो येनाङ्गेन ब्राह्मणं अभिहन्यात्तदस्यच्छेदयेत् ॥ ०३.१९.०८ ॥
śūdro yenāṅgena brāhmaṇaṃ abhihanyāttadasyacchedayet .. 03.19.08 ..
अवगूर्णे निष्क्रयः । स्पर्शेअर्ध-दण्डः ॥ ०३.१९.०९ ॥
avagūrṇe niṣkrayaḥ . sparśeardha-daṇḍaḥ .. 03.19.09 ..
तेन चण्डाल-अशुचयो व्याख्यातः ॥ ०३.१९.१० ॥
tena caṇḍāla-aśucayo vyākhyātaḥ .. 03.19.10 ..
हस्तेनावगूर्णे त्रि-पण-अवरो द्वादश-पण-परो दण्डः । पादेन द्वि-गुणः । दुःख-उत्पादनेन द्रव्येण पूर्वः साहस-दण्डः । प्राण-आबाधिकेन मध्यमः ॥ ०३.१९.११ ॥
hastenāvagūrṇe tri-paṇa-avaro dvādaśa-paṇa-paro daṇḍaḥ . pādena dvi-guṇaḥ . duḥkha-utpādanena dravyeṇa pūrvaḥ sāhasa-daṇḍaḥ . prāṇa-ābādhikena madhyamaḥ .. 03.19.11 ..
काष्ठ-लोष्ट-पाषाण-लोह-दण्ड-रज्जु-द्रव्याणां अन्यतमेन दुःखं अशोणितं उत्पादयतश्चतुर्विंशति-पणो दण्डः । शोणित-उत्पादने द्वि-गुणः । अन्यत्र दुष्ट-शोणितात् ॥ ०३.१९.१२ ॥
kāṣṭha-loṣṭa-pāṣāṇa-loha-daṇḍa-rajju-dravyāṇāṃ anyatamena duḥkhaṃ aśoṇitaṃ utpādayataścaturviṃśati-paṇo daṇḍaḥ . śoṇita-utpādane dvi-guṇaḥ . anyatra duṣṭa-śoṇitāt .. 03.19.12 ..
मृत-कल्पं अशोणितं घ्नतो हस्त-पाद-पारञ्चिकं वा कुर्वतः पूर्वः साहस-दण्डः । पाणि-पाद-दन्त-भङ्गे कर्ण-नास-आच्छेदने व्रण-विदारणे च्च । अन्यत्र दुष्ट-व्रणेभ्यः ॥ ०३.१९.१३ ॥
mṛta-kalpaṃ aśoṇitaṃ ghnato hasta-pāda-pārañcikaṃ vā kurvataḥ pūrvaḥ sāhasa-daṇḍaḥ . pāṇi-pāda-danta-bhaṅge karṇa-nāsa-ācchedane vraṇa-vidāraṇe cca . anyatra duṣṭa-vraṇebhyaḥ .. 03.19.13 ..
सक्थि-ग्रीव-आभञ्जने नेत्र-भेदने वा वाक्य-चेष्टा-भोजन-उपरोधेषु च मध्यमः साहस-दण्डः समुत्थान-व्ययश्च ॥ ०३.१९.१४ ॥
sakthi-grīva-ābhañjane netra-bhedane vā vākya-ceṣṭā-bhojana-uparodheṣu ca madhyamaḥ sāhasa-daṇḍaḥ samutthāna-vyayaśca .. 03.19.14 ..
विपत्तौ कण्टक-शोधनाय नीयेत ॥ ०३.१९.१५ ॥
vipattau kaṇṭaka-śodhanāya nīyeta .. 03.19.15 ..
महा-जनस्यएकं घ्नतः प्रत्येकं द्वि-गुणो दण्डः ॥ ०३.१९.१६ ॥
mahā-janasyaekaṃ ghnataḥ pratyekaṃ dvi-guṇo daṇḍaḥ .. 03.19.16 ..
पर्युषितः कलहोअनुप्रवेशो वा नाभियोज्यः इत्याचार्याः ॥ ०३.१९.१७ ॥
paryuṣitaḥ kalahoanupraveśo vā nābhiyojyaḥ ityācāryāḥ .. 03.19.17 ..
नास्त्यपकारिणो मोक्ष इति कौटिल्यः ॥ ०३.१९.१८ ॥
nāstyapakāriṇo mokṣa iti kauṭilyaḥ .. 03.19.18 ..
कलहे पूर्व-आगतो जयति । अक्षममाणो हि प्रधावति इत्याचार्याः ॥ ०३.१९.१९ ॥
kalahe pūrva-āgato jayati . akṣamamāṇo hi pradhāvati ityācāryāḥ .. 03.19.19 ..
नैति कौटिल्यः ॥ ०३.१९.२० ॥
naiti kauṭilyaḥ .. 03.19.20 ..
पूर्वं पश्चाद्वाअभिगतस्य साक्षिणः प्रमाणम् । असाक्षिके घातः कलह-उपलिङ्गनं वा ॥ ०३.१९.२१ ॥
pūrvaṃ paścādvāabhigatasya sākṣiṇaḥ pramāṇam . asākṣike ghātaḥ kalaha-upaliṅganaṃ vā .. 03.19.21 ..
घात-अभियोगं अप्रतिब्रुवतस्तदहरेव पश्चात्-कारः ॥ ०३.१९.२२ ॥
ghāta-abhiyogaṃ apratibruvatastadahareva paścāt-kāraḥ .. 03.19.22 ..
कलहे द्रव्यं अपहरतो दश-पणो दण्डः । क्षुद्रक-द्रव्य-हिंसायां तच्च तावच्च दण्डः । स्थूलक-द्रव्य-हिंसायां तच्च द्वि-गुणश्च दण्डः । वस्त्र-आभरण-हिरण्य-सुवर्ण-भाण्ड-हिंसायां तच्च पूर्वश्च साहस-दण्डः ॥ ०३.१९.२३ ॥
kalahe dravyaṃ apaharato daśa-paṇo daṇḍaḥ . kṣudraka-dravya-hiṃsāyāṃ tacca tāvacca daṇḍaḥ . sthūlaka-dravya-hiṃsāyāṃ tacca dvi-guṇaśca daṇḍaḥ . vastra-ābharaṇa-hiraṇya-suvarṇa-bhāṇḍa-hiṃsāyāṃ tacca pūrvaśca sāhasa-daṇḍaḥ .. 03.19.23 ..
पर-कुड्यं अभिघातेन क्षोभयतस्त्रि-पणो दण्डः । छेदन-भेदने षट्-पणः । प्रतीकारश्च ॥ ०३.१९.२४ ॥
para-kuḍyaṃ abhighātena kṣobhayatastri-paṇo daṇḍaḥ . chedana-bhedane ṣaṭ-paṇaḥ . pratīkāraśca .. 03.19.24 ..
दुःख-उत्पादनं द्रव्यं अन्य-वेश्मनि प्रक्षिपतो द्वादश-पणो दण्डः । प्राण-आबाधिकं पूर्वः साहस-दण्डः ॥ ०३.१९.२५ ॥
duḥkha-utpādanaṃ dravyaṃ anya-veśmani prakṣipato dvādaśa-paṇo daṇḍaḥ . prāṇa-ābādhikaṃ pūrvaḥ sāhasa-daṇḍaḥ .. 03.19.25 ..
क्षुद्र-पशूनां काष्ठ-आदिभिर्दुःख-उत्पादने पणो द्वि-गुणो वा दण्डः । शोणित-उत्पादने द्वि-गुणः ॥ ०३.१९.२६ ॥
kṣudra-paśūnāṃ kāṣṭha-ādibhirduḥkha-utpādane paṇo dvi-guṇo vā daṇḍaḥ . śoṇita-utpādane dvi-guṇaḥ .. 03.19.26 ..
महा-पशूनां एतेष्वेव स्थानेष्व्द्वि-गुणो दण्डः समुत्थान-व्ययश्च ॥ ०३.१९.२७ ॥
mahā-paśūnāṃ eteṣveva sthāneṣvdvi-guṇo daṇḍaḥ samutthāna-vyayaśca .. 03.19.27 ..
पुर-उपवन-वनस्पतीनां पुष्प-फलच्-छायावतां प्ररोहच्-छेदने षट्-पणः । क्षुद्र-शाखाच्-छेदने द्वादश-पणः । पीन-शाखाच्-च्छेदने चतुर्-विंशति-पणः । स्कन्ध-वधे पूर्वः साहस-दण्डः । समुच्छित्तौ मध्यमः ॥ ०३.१९.२८ ॥
pura-upavana-vanaspatīnāṃ puṣpa-phalac-chāyāvatāṃ prarohac-chedane ṣaṭ-paṇaḥ . kṣudra-śākhāc-chedane dvādaśa-paṇaḥ . pīna-śākhāc-cchedane catur-viṃśati-paṇaḥ . skandha-vadhe pūrvaḥ sāhasa-daṇḍaḥ . samucchittau madhyamaḥ .. 03.19.28 ..
पुष्प-फलच्-छायावद्-गुल्म-लतास्वर्ध-दण्डाः । पुण्य-स्थान-तपो-वन-श्मशान-द्रुमेषु च ॥ ०३.१९.२९ ॥
puṣpa-phalac-chāyāvad-gulma-latāsvardha-daṇḍāḥ . puṇya-sthāna-tapo-vana-śmaśāna-drumeṣu ca .. 03.19.29 ..
सीम-वृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च । ॥ ०३.१९.३०अ ब ॥
sīma-vṛkṣeṣu caityeṣu drumeṣvālakṣiteṣu ca . .. 03.19.30a ba ..
त एव द्वि-गुणा दण्डाः कार्या राज-वनेषु च ॥ ०३.१९.३०च्द् ॥
ta eva dvi-guṇā daṇḍāḥ kāryā rāja-vaneṣu ca .. 03.19.30cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In