| |
|

This overlay will guide you through the buttons:

विवाह-पूर्वो व्यवहारः ॥ ०३.२.०१ ॥
विवाह-पूर्वः व्यवहारः ॥ ०३।२।०१ ॥
vivāha-pūrvaḥ vyavahāraḥ .. 03.2.01 ..
कन्या-दानं कन्यां अलंकृत्य ब्राह्मो विवाहः ॥ ०३.२.०२ ॥
कन्या-दानम् कन्याम् अलंकृत्य ब्राह्मः विवाहः ॥ ०३।२।०२ ॥
kanyā-dānam kanyām alaṃkṛtya brāhmaḥ vivāhaḥ .. 03.2.02 ..
सह-धर्म-चर्या प्राजापत्यः ॥ ०३.२.०३ ॥
सह धर्म-चर्या प्राजापत्यः ॥ ०३।२।०३ ॥
saha dharma-caryā prājāpatyaḥ .. 03.2.03 ..
गो-मिथुन-आदानादार्षः ॥ ०३.२.०४ ॥
गो मिथुन-आदानात् आर्षः ॥ ०३।२।०४ ॥
go mithuna-ādānāt ārṣaḥ .. 03.2.04 ..
अन्तर्-वेद्यां ऋत्विजे दानाद्दैवः ॥ ०३.२.०५ ॥
अन्तर् वेद्याम् ऋत्विजे दानात् दैवः ॥ ०३।२।०५ ॥
antar vedyām ṛtvije dānāt daivaḥ .. 03.2.05 ..
मिथः-समवायाद्गान्धर्वः ॥ ०३.२.०६ ॥
मिथस् समवायात् गान्धर्वः ॥ ०३।२।०६ ॥
mithas samavāyāt gāndharvaḥ .. 03.2.06 ..
शुल्क-आदानादासुरः ॥ ०३.२.०७ ॥
शुल्क-आदानात् आसुरः ॥ ०३।२।०७ ॥
śulka-ādānāt āsuraḥ .. 03.2.07 ..
प्रसह्य-आदानाद्राक्षसः ॥ ०३.२.०८ ॥
प्रसह्य आदानात् राक्षसः ॥ ०३।२।०८ ॥
prasahya ādānāt rākṣasaḥ .. 03.2.08 ..
सुप्त-मत्त-आदानात्पैशाचः ॥ ०३.२.०९ ॥
सुप्त-मत्त-आदानात् पैशाचः ॥ ०३।२।०९ ॥
supta-matta-ādānāt paiśācaḥ .. 03.2.09 ..
पितृ-प्रमाणाश्चत्वारः पूर्वे धर्म्याः । माता-पितृ-प्रमाणाः शेषाः ॥ ०३.२.१० ॥
पितृ-प्रमाणाः चत्वारः पूर्वे धर्म्याः । माता-पितृ-प्रमाणाः शेषाः ॥ ०३।२।१० ॥
pitṛ-pramāṇāḥ catvāraḥ pūrve dharmyāḥ . mātā-pitṛ-pramāṇāḥ śeṣāḥ .. 03.2.10 ..
तौ हि शुल्क-हरौ दुहितुः । अन्यतर-अभावेअन्यतरो वा ॥ ०३.२.११ ॥
तौ हि शुल्क-हरौ दुहितुः । अन्यतर-अभावे अन्यतरः वा ॥ ०३।२।११ ॥
tau hi śulka-harau duhituḥ . anyatara-abhāve anyataraḥ vā .. 03.2.11 ..
द्वितीयं शुल्कं स्त्री हरेत ॥ ०३.२.१२ ॥
द्वितीयम् शुल्कम् स्त्री हरेत ॥ ०३।२।१२ ॥
dvitīyam śulkam strī hareta .. 03.2.12 ..
सर्वेषां प्रीत्य्-आरोपणं अप्रतिषिद्धं इति विवाह-धर्मः । ॥ ०३.२.१३ ॥
सर्वेषाम् प्रीति-आरोपणम् अप्रतिषिद्धम् इति विवाह-धर्मः । ॥ ०३।२।१३ ॥
sarveṣām prīti-āropaṇam apratiṣiddham iti vivāha-dharmaḥ . .. 03.2.13 ..
वृत्तिराबन्ध्यं वा स्त्री-धनं ॥ ०३.२.१४ ॥
वृत्तिः आबन्ध्यम् वा स्त्री-धनम् ॥ ०३।२।१४ ॥
vṛttiḥ ābandhyam vā strī-dhanam .. 03.2.14 ..
पर-द्वि-साहस्रा स्थाप्या वृत्तिः । आबन्ध्य-अनियमः ॥ ०३.२.१५ ॥
पर-द्वि-साहस्रा स्थाप्या वृत्तिः । आबन्ध्य-अनियमः ॥ ०३।२।१५ ॥
para-dvi-sāhasrā sthāpyā vṛttiḥ . ābandhya-aniyamaḥ .. 03.2.15 ..
तदात्म-पुत्र-स्नुषा-भर्मणि प्रवास-अप्रतिविधाने च भार्याया भोक्तुं अदोषः । प्रतिरोधक-व्याधि-दुर्भिक्ष-भय-प्रतीकारे धर्म-कार्ये च पत्युः । सम्भूय वा दम्पत्योर्मिथुनं प्रजातयोः ॥ ०३.२.१६ ॥
तद्-आत्म-पुत्र-स्नुषा-भर्मणि प्रवास-अप्रतिविधाने च भार्यायाः भोक्तुम् अदोषः । प्रतिरोधक-व्याधि-दुर्भिक्ष-भय-प्रतीकारे धर्म-कार्ये च पत्युः । सम्भूय वा दम्पत्योः मिथुनम् प्रजातयोः ॥ ०३।२।१६ ॥
tad-ātma-putra-snuṣā-bharmaṇi pravāsa-apratividhāne ca bhāryāyāḥ bhoktum adoṣaḥ . pratirodhaka-vyādhi-durbhikṣa-bhaya-pratīkāre dharma-kārye ca patyuḥ . sambhūya vā dampatyoḥ mithunam prajātayoḥ .. 03.2.16 ..
त्रि-वर्ष-उपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत ॥ ०३.२.१७ ॥
त्रि-वर्ष-उपभुक्तम् च धर्मिष्ठेषु विवाहेषु न अनुयुञ्जीत ॥ ०३।२।१७ ॥
tri-varṣa-upabhuktam ca dharmiṣṭheṣu vivāheṣu na anuyuñjīta .. 03.2.17 ..
गान्धर्व-आसुर-उपभुक्तं सवृद्धिकं उभयं दाप्येत । राक्षस-पैशाच-उपभुक्तं स्तेयं दद्यात् ॥ ०३.२.१८ ॥
गान्धर्व-आसुर-उपभुक्तम् स वृद्धिकम् उभयम् दाप्येत । राक्षस-पैशाच-उपभुक्तम् स्तेयम् दद्यात् ॥ ०३।२।१८ ॥
gāndharva-āsura-upabhuktam sa vṛddhikam ubhayam dāpyeta . rākṣasa-paiśāca-upabhuktam steyam dadyāt .. 03.2.18 ..
मृते भर्तरि धर्म-कामा तदानीं एव स्थाप्यऽभरणं शुल्क-शेषं च लभेत ॥ ०३.२.१९ ॥
मृते भर्तरि धर्म-कामा तदानीम् एव स्थाप्य अभरणम् शुल्क-शेषम् च लभेत ॥ ०३।२।१९ ॥
mṛte bhartari dharma-kāmā tadānīm eva sthāpya abharaṇam śulka-śeṣam ca labheta .. 03.2.19 ..
लब्ध्वा वा विन्दमाना सवृद्धिकं उभयं दाप्येत ॥ ०३.२.२० ॥
लब्ध्वा वा विन्दमाना स वृद्धिकम् उभयम् दाप्येत ॥ ०३।२।२० ॥
labdhvā vā vindamānā sa vṛddhikam ubhayam dāpyeta .. 03.2.20 ..
कुटुम्ब-कामा तु श्वशुर-पति-दत्तं निवेश-काले लभेत ॥ ०३.२.२१ ॥
कुटुम्ब-कामा तु श्वशुर-पति-दत्तम् निवेश-काले लभेत ॥ ०३।२।२१ ॥
kuṭumba-kāmā tu śvaśura-pati-dattam niveśa-kāle labheta .. 03.2.21 ..
निवेश-कालं हि दीर्घ-प्रवासे व्याख्यास्यामः ॥ ०३.२.२२ ॥
निवेश-कालम् हि दीर्घ-प्रवासे व्याख्यास्यामः ॥ ०३।२।२२ ॥
niveśa-kālam hi dīrgha-pravāse vyākhyāsyāmaḥ .. 03.2.22 ..
श्वशुर-प्रातिलोम्येन वा निविष्टा श्वशुर-पति-दत्तं जीयेत ॥ ०३.२.२३ ॥
श्वशुर-प्रातिलोम्येन वा निविष्टा श्वशुर-पति-दत्तम् जीयेत ॥ ०३।२।२३ ॥
śvaśura-prātilomyena vā niviṣṭā śvaśura-pati-dattam jīyeta .. 03.2.23 ..
ज्ञाति-हस्ताद्-अभिमृष्टाया ज्ञातयो यथा-गृहीतं दद्युः ॥ ०३.२.२४ ॥
ज्ञाति-हस्तात् अभिमृष्टायाः ज्ञातयः यथा गृहीतम् दद्युः ॥ ०३।२।२४ ॥
jñāti-hastāt abhimṛṣṭāyāḥ jñātayaḥ yathā gṛhītam dadyuḥ .. 03.2.24 ..
न्याय-उपगतायाः प्रतिपत्ता स्त्री-धनं गोपयेत् ॥ ०३.२.२५ ॥
न्याय-उपगतायाः प्रतिपत्ता स्त्री-धनम् गोपयेत् ॥ ०३।२।२५ ॥
nyāya-upagatāyāḥ pratipattā strī-dhanam gopayet .. 03.2.25 ..
पति-दायं विन्दमाना जीयेत ॥ ०३.२.२६ ॥
पति-दायम् विन्दमाना जीयेत ॥ ०३।२।२६ ॥
pati-dāyam vindamānā jīyeta .. 03.2.26 ..
धर्म-कामा भुञ्जीत ॥ ०३.२.२७ ॥
धर्म-कामा भुञ्जीत ॥ ०३।२।२७ ॥
dharma-kāmā bhuñjīta .. 03.2.27 ..
पुत्रवती विन्दमाना स्त्री-धनं जीयेत ॥ ०३.२.२८ ॥
पुत्रवती विन्दमाना स्त्री-धनम् जीयेत ॥ ०३।२।२८ ॥
putravatī vindamānā strī-dhanam jīyeta .. 03.2.28 ..
तत्तु स्त्री-धनं पुत्रा हरेयुः ॥ ०३.२.२९ ॥
तत् तु स्त्री-धनम् पुत्राः हरेयुः ॥ ०३।२।२९ ॥
tat tu strī-dhanam putrāḥ hareyuḥ .. 03.2.29 ..
पुत्र-भरण-अर्थं वा विन्दमाना पुत्र-अर्थं स्फाती-कुर्यात् ॥ ०३.२.३० ॥
पुत्र-भरण-अर्थम् वा विन्दमाना पुत्र-अर्थम् स्फाती-कुर्यात् ॥ ०३।२।३० ॥
putra-bharaṇa-artham vā vindamānā putra-artham sphātī-kuryāt .. 03.2.30 ..
बहु-पुरुष-प्रजानां पुत्राणां यथा-पितृ-दत्तं स्त्री-धनं अवस्थापयेत् ॥ ०३.२.३१ ॥
बहु-पुरुष-प्रजानाम् पुत्राणाम् यथा पितृ-दत्तम् स्त्री-धनम् अवस्थापयेत् ॥ ०३।२।३१ ॥
bahu-puruṣa-prajānām putrāṇām yathā pitṛ-dattam strī-dhanam avasthāpayet .. 03.2.31 ..
काम-करणीयं अपि स्त्री-धनं विन्दमाना पुत्र-संस्थं कुर्यात् ॥ ०३.२.३२ ॥
काम-करणीयम् अपि स्त्री-धनम् विन्दमाना पुत्र-संस्थम् कुर्यात् ॥ ०३।२।३२ ॥
kāma-karaṇīyam api strī-dhanam vindamānā putra-saṃstham kuryāt .. 03.2.32 ..
अपुत्रा पति-शयनं पालयन्ती गुरु-समीपे स्त्री-धनं आयुः-क्षयाद्भुञ्जीत ॥ ०३.२.३३ ॥
अपुत्रा पति-शयनम् पालयन्ती गुरु-समीपे स्त्री-धनम् आयुः-क्षयात् भुञ्जीत ॥ ०३।२।३३ ॥
aputrā pati-śayanam pālayantī guru-samīpe strī-dhanam āyuḥ-kṣayāt bhuñjīta .. 03.2.33 ..
आपद्-अर्थं हि स्त्री-धनं ॥ ०३.२.३४ ॥
आपद्-अर्थम् हि स्त्री-धनम् ॥ ०३।२।३४ ॥
āpad-artham hi strī-dhanam .. 03.2.34 ..
ऊर्ध्वं दायादं गच्छेत् ॥ ०३.२.३५ ॥
ऊर्ध्वम् दायादम् गच्छेत् ॥ ०३।२।३५ ॥
ūrdhvam dāyādam gacchet .. 03.2.35 ..
जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्री-धनं विभजेरन् । अपुत्राया दुहितरः । तद्-अभावे भर्ता ॥ ०३.२.३६ ॥
जीवति भर्तरि मृतायाः पुत्राः दुहितरः च स्त्री-धनम् विभजेरन् । अपुत्रायाः दुहितरः । तद्-अभावे भर्ता ॥ ०३।२।३६ ॥
jīvati bhartari mṛtāyāḥ putrāḥ duhitaraḥ ca strī-dhanam vibhajeran . aputrāyāḥ duhitaraḥ . tad-abhāve bhartā .. 03.2.36 ..
शुल्कं अन्वाधेयं अन्यद्वा बन्धुभिर्दत्तं बान्धवा हरेयुः इति स्त्री-धन-कल्पः । ॥ ०३.२.३७ ॥
शुल्कम् अन्वाधेयम् अन्यत् वा बन्धुभिः दत्तम् बान्धवाः हरेयुः इति स्त्री-धन-कल्पः । ॥ ०३।२।३७ ॥
śulkam anvādheyam anyat vā bandhubhiḥ dattam bāndhavāḥ hareyuḥ iti strī-dhana-kalpaḥ . .. 03.2.37 ..
वर्षाण्यष्टावप्रजायमानां अपुत्रां वन्ध्यां चऽकाङ्क्षेत । दश निन्दुम् । द्वादश कन्या-प्रसविनीं ॥ ०३.२.३८ ॥
वर्षाणि अष्टौ अ प्रजायमानाम् अपुत्राम् वन्ध्याम् च आकाङ्क्षेत । दश निन्दुम् । द्वादश कन्या-प्रसविनीम् ॥ ०३।२।३८ ॥
varṣāṇi aṣṭau a prajāyamānām aputrām vandhyām ca ākāṅkṣeta . daśa nindum . dvādaśa kanyā-prasavinīm .. 03.2.38 ..
ततः पुत्र-अर्थी द्वितीयां विन्देत ॥ ०३.२.३९ ॥
ततस् पुत्र-अर्थी द्वितीयाम् विन्देत ॥ ०३।२।३९ ॥
tatas putra-arthī dvitīyām vindeta .. 03.2.39 ..
तस्यातिक्रमे शुल्कं स्त्री-धनं अर्धं चऽधिवेदनिकं दद्यात् । चतुर्-विंशति-पण-परं च दण्डं ॥ ०३.२.४० ॥
तस्य अतिक्रमे शुल्कम् स्त्री-धनम् अर्धम् च आधिवेदनिकम् दद्यात् । चतुर्-विंशति-पण-परम् च दण्डम् ॥ ०३।२।४० ॥
tasya atikrame śulkam strī-dhanam ardham ca ādhivedanikam dadyāt . catur-viṃśati-paṇa-param ca daṇḍam .. 03.2.40 ..
शुल्कं स्त्री-धनं अशुल्क-स्त्री-धनायास्तत्-प्रमाणं आधिवेदनिकं अनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत ॥ ०३.२.४१ ॥
शुल्कम् स्त्री-धनम् अशुल्क-स्त्री-धनायाः तद्-प्रमाणम् आधिवेदनिकम् अनुरूपाम् च वृत्तिम् दत्त्वा बह्वीः अपि विन्देत ॥ ०३।२।४१ ॥
śulkam strī-dhanam aśulka-strī-dhanāyāḥ tad-pramāṇam ādhivedanikam anurūpām ca vṛttim dattvā bahvīḥ api vindeta .. 03.2.41 ..
पुत्र-अर्था हि स्त्रियः ॥ ०३.२.४२ ॥
पुत्र-अर्थाः हि स्त्रियः ॥ ०३।२।४२ ॥
putra-arthāḥ hi striyaḥ .. 03.2.42 ..
तीर्थ-समवाये चऽसां यथा-विवाहं पूर्व-ऊढां जीवत्-पुत्रां वा पूर्वं गच्छेत् ॥ ०३.२.४३ ॥
तीर्थ-समवाये च असाम् यथा विवाहम् पूर्व-ऊढाम् जीवत्-पुत्राम् वा पूर्वम् गच्छेत् ॥ ०३।२।४३ ॥
tīrtha-samavāye ca asām yathā vivāham pūrva-ūḍhām jīvat-putrām vā pūrvam gacchet .. 03.2.43 ..
तीर्थ-गूहन-आगमने षण्-णवतिर्दण्डः ॥ ०३.२.४४ ॥
तीर्थ-गूहन-आगमने षष्-णवतिः दण्डः ॥ ०३।२।४४ ॥
tīrtha-gūhana-āgamane ṣaṣ-ṇavatiḥ daṇḍaḥ .. 03.2.44 ..
पुत्रवतीं धर्म-कामां वन्ध्यां निन्दुं नीरजस्कां वा नाकामां उपेयात् ॥ ०३.२.४५ ॥
पुत्रवतीम् धर्म-कामाम् वन्ध्याम् निन्दुम् नीरजस्काम् वा न अकामाम् उपेयात् ॥ ०३।२।४५ ॥
putravatīm dharma-kāmām vandhyām nindum nīrajaskām vā na akāmām upeyāt .. 03.2.45 ..
न चाकामः पुरुषः कुष्ठिनीं उन्मत्तां वा गच्छेत् ॥ ०३.२.४६ ॥
न च अकामः पुरुषः कुष्ठिनीम् उन्मत्ताम् वा गच्छेत् ॥ ०३।२।४६ ॥
na ca akāmaḥ puruṣaḥ kuṣṭhinīm unmattām vā gacchet .. 03.2.46 ..
स्त्री तु पुत्र-अर्थं एवं-भूतं वाउपगच्छेत् ॥ ०३.२.४७ ॥
स्त्री तु पुत्र-अर्थम् एवंभूतम् वा औपगच्छेत् ॥ ०३।२।४७ ॥
strī tu putra-artham evaṃbhūtam vā aupagacchet .. 03.2.47 ..
नीचत्वं पर-देशं वा प्रस्थितो राज-किल्बिषी । ॥ ०३.२.४८अ ब ॥
नीचत्वम् पर-देशम् वा प्रस्थितः राज-किल्बिषी । ॥ ०३।२।४८अ ब ॥
nīcatvam para-deśam vā prasthitaḥ rāja-kilbiṣī . .. 03.2.48a ba ..
प्राण-अभिहन्ता पतितस्त्याज्यः क्लीबोअपि वा पतिः ॥ ०३.२.४८च्द् ॥
प्राण-अभिहन्ता पतितः त्याज्यः क्लीबः अपि वा पतिः ॥ ०३।२।४८च् ॥
prāṇa-abhihantā patitaḥ tyājyaḥ klībaḥ api vā patiḥ .. 03.2.48c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In