| |
|

This overlay will guide you through the buttons:

द्वादश-वर्षा स्त्री प्राप्त-व्यवहारा भवति । षोडश-वर्षः पुमान् ॥ ०३.३.०१ ॥
द्वादश-वर्षा स्त्री प्राप्त-व्यवहारा भवति । षोडश-वर्षः पुमान् ॥ ०३।३।०१ ॥
dvādaśa-varṣā strī prāpta-vyavahārā bhavati . ṣoḍaśa-varṣaḥ pumān .. 03.3.01 ..
अत ऊर्ध्वं अशुश्रूषायां द्वादश-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः इति शुश्रूषा । ॥ ०३.३.०२ ॥
अतस् ऊर्ध्वम् अ शुश्रूषायाम् द्वादश-पणः स्त्रियाः दण्डः । पुंसः द्वि-गुणः इति शुश्रूषा । ॥ ०३।३।०२ ॥
atas ūrdhvam a śuśrūṣāyām dvādaśa-paṇaḥ striyāḥ daṇḍaḥ . puṃsaḥ dvi-guṇaḥ iti śuśrūṣā . .. 03.3.02 ..
भर्मण्यायां अनिर्दिष्ट-कालायां ग्रास-आच्छादनं वाअधिकं यथा-पुरुष-परिवापं सविशेषं दद्यात् ॥ ०३.३.०३ ॥
भर्मण्यायाम् अनिर्दिष्ट-कालायाम् ग्रास-आच्छादनम् वा अअधिकम् यथा पुरुष-परिवापम् स विशेषम् दद्यात् ॥ ०३।३।०३ ॥
bharmaṇyāyām anirdiṣṭa-kālāyām grāsa-ācchādanam vā aadhikam yathā puruṣa-parivāpam sa viśeṣam dadyāt .. 03.3.03 ..
निर्दिष्ट-कालायां तदेव संख्याय बन्धं च दद्यात् ॥ ०३.३.०४ ॥
निर्दिष्ट-कालायाम् तत् एव संख्याय बन्धम् च दद्यात् ॥ ०३।३।०४ ॥
nirdiṣṭa-kālāyām tat eva saṃkhyāya bandham ca dadyāt .. 03.3.04 ..
शुल्क-स्त्री-धन-आधिवेदनिकानां अनादाने च ॥ ०३.३.०५ ॥
शुल्क-स्त्री-धन-आधिवेदनिकानाम् अनादाने च ॥ ०३।३।०५ ॥
śulka-strī-dhana-ādhivedanikānām anādāne ca .. 03.3.05 ..
श्वशुर-कुल-प्रविष्टायां विभक्तायां वा नाभियोज्यः पतिः इति भर्म । ॥ ०३.३.०६ ॥
श्वशुर-कुल-प्रविष्टायाम् विभक्तायाम् वा न अभियोज्यः पतिः इति भर्म । ॥ ०३।३।०६ ॥
śvaśura-kula-praviṣṭāyām vibhaktāyām vā na abhiyojyaḥ patiḥ iti bharma . .. 03.3.06 ..
नष्टे "विनष्टे" "न्यङ्गे" "अपितृके" "अमातृके" इत्यनिर्देशेन विनय-ग्राहणं ॥ ०३.३.०७ ॥
नष्टे "विनष्टे" "न्यङ्गे" "अ पितृके" "अ मातृके" इति अनिर्देशेन विनय-ग्राहणम् ॥ ०३।३।०७ ॥
naṣṭe "vinaṣṭe" "nyaṅge" "a pitṛke" "a mātṛke" iti anirdeśena vinaya-grāhaṇam .. 03.3.07 ..
वेणु-दल-रज्जु-हस्तानां अन्यतमेन वा पृष्ठे त्रिराघातः ॥ ०३.३.०८ ॥
वेणु-दल-रज्जु-हस्तानाम् अन्यतमेन वा पृष्ठे त्रिस् आघातः ॥ ०३।३।०८ ॥
veṇu-dala-rajju-hastānām anyatamena vā pṛṣṭhe tris āghātaḥ .. 03.3.08 ..
तस्यातिक्रमे वाग्-दण्ड-पारुष्य-दण्डाभ्यां अर्ध-दण्डाः ॥ ०३.३.०९ ॥
तस्य अतिक्रमे वाच्-दण्ड-पारुष्य-दण्डाभ्याम् अर्ध-दण्डाः ॥ ०३।३।०९ ॥
tasya atikrame vāc-daṇḍa-pāruṣya-daṇḍābhyām ardha-daṇḍāḥ .. 03.3.09 ..
तदेव स्त्रिया भर्तरि प्रसिद्ध-दोषायाः ॥ ०३.३.१० ॥
तत् एव स्त्रियाः भर्तरि प्रसिद्ध-दोषायाः ॥ ०३।३।१० ॥
tat eva striyāḥ bhartari prasiddha-doṣāyāḥ .. 03.3.10 ..
ईर्ष्यया बाह्य-विहारेषु द्वारेष्वत्ययो यथा-निर्दिष्टः इति पारुष्यं । ॥ ०३.३.११ ॥
ईर्ष्यया बाह्य-विहारेषु द्वारेषु अत्ययः यथा निर्दिष्टः इति पारुष्यम् । ॥ ०३।३।११ ॥
īrṣyayā bāhya-vihāreṣu dvāreṣu atyayaḥ yathā nirdiṣṭaḥ iti pāruṣyam . .. 03.3.11 ..
भर्तारं द्विषती स्त्री सप्त-आर्तवान्यमण्डयमाना तदानीं एव स्थाप्यऽभरणं निधाय भर्तारं अन्यया सह शयानं अनुशयीत ॥ ०३.३.१२ ॥
भर्तारम् द्विषती स्त्री सप्त आर्तवानि अ मण्डयमाना तदानीम् एव स्थाप्य अभरणम् निधाय भर्तारम् अन्यया सह शयानम् अनुशयीत ॥ ०३।३।१२ ॥
bhartāram dviṣatī strī sapta ārtavāni a maṇḍayamānā tadānīm eva sthāpya abharaṇam nidhāya bhartāram anyayā saha śayānam anuśayīta .. 03.3.12 ..
भिक्षुक्य्-अन्वाधि-ज्ञाति-कुलानां अन्यतमे वा भर्ता द्विषन्स्त्रियं एकां अनुशयीत ॥ ०३.३.१३ ॥
भिक्षुकी-अन्वाधि-ज्ञाति-कुलानाम् अन्यतमे वा भर्ता द्विषन् स्त्रियम् एकाम् अनुशयीत ॥ ०३।३।१३ ॥
bhikṣukī-anvādhi-jñāti-kulānām anyatame vā bhartā dviṣan striyam ekām anuśayīta .. 03.3.13 ..
दृष्ट-लिङ्गे मैथुन-अपहारे सवर्ण-अपसर्प-उपगमे वा मिथ्या-वादी द्वादश-पणं दद्यात् ॥ ०३.३.१४ ॥
दृष्ट-लिङ्गे मैथुन-अपहारे सवर्ण-अपसर्प-उपगमे वा मिथ्या वादी द्वादश-पणम् दद्यात् ॥ ०३।३।१४ ॥
dṛṣṭa-liṅge maithuna-apahāre savarṇa-apasarpa-upagame vā mithyā vādī dvādaśa-paṇam dadyāt .. 03.3.14 ..
अमोक्ष्या भर्तुरकामस्य द्विषती भार्या । भार्यायाश्च भर्ता ॥ ०३.३.१५ ॥
अ मोक्ष्या भर्तुः अ कामस्य द्विषती भार्या । भार्यायाः च भर्ता ॥ ०३।३।१५ ॥
a mokṣyā bhartuḥ a kāmasya dviṣatī bhāryā . bhāryāyāḥ ca bhartā .. 03.3.15 ..
परस्परं-द्वेषान्मोक्षः ॥ ०३.३.१६ ॥
परस्परम् द्वेषात् मोक्षः ॥ ०३।३।१६ ॥
parasparam dveṣāt mokṣaḥ .. 03.3.16 ..
स्त्री-विप्रकाराद्वा पुरुषश्चेन्मोक्षं इच्छेद्यथा-गृहीतं अस्यै दद्यात् ॥ ०३.३.१७ ॥
स्त्री-विप्रकारात् वा पुरुषः चेद् मोक्षम् इच्छेत् यथा गृहीतम् अस्यै दद्यात् ॥ ०३।३।१७ ॥
strī-viprakārāt vā puruṣaḥ ced mokṣam icchet yathā gṛhītam asyai dadyāt .. 03.3.17 ..
पुरुष-विप्रकाराद्वा स्त्री चेन्मोक्षं इच्छेन्नास्यै यथा-गृहीतं दद्यात् ॥ ०३.३.१८ ॥
पुरुष-विप्रकारात् वा स्त्री चेद् मोक्षम् इच्छेत् न अस्यै यथा गृहीतम् दद्यात् ॥ ०३।३।१८ ॥
puruṣa-viprakārāt vā strī ced mokṣam icchet na asyai yathā gṛhītam dadyāt .. 03.3.18 ..
अमोक्षो धर्म-विवाहानां इति द्वेषः । ॥ ०३.३.१९ ॥
अमोक्षः धर्म-विवाहानाम् इति द्वेषः । ॥ ०३।३।१९ ॥
amokṣaḥ dharma-vivāhānām iti dveṣaḥ . .. 03.3.19 ..
प्रतिषिद्धा स्त्री दर्प-मद्य-क्रीडायां त्रि-पणं दण्डं दद्यात् ॥ ०३.३.२० ॥
प्रतिषिद्धा स्त्री दर्प-मद्य-क्रीडायाम् त्रि-पणम् दण्डम् दद्यात् ॥ ०३।३।२० ॥
pratiṣiddhā strī darpa-madya-krīḍāyām tri-paṇam daṇḍam dadyāt .. 03.3.20 ..
दिवा स्त्री-प्रेक्षा-विहार-गमने षट्-पणो दण्डः । पुरुष-प्रेक्षा-विहार-गमने द्वादश-पणः ॥ ०३.३.२१ ॥
दिवा स्त्री-प्रेक्षा-विहार-गमने षष्-पणः दण्डः । पुरुष-प्रेक्षा-विहार-गमने द्वादश-पणः ॥ ०३।३।२१ ॥
divā strī-prekṣā-vihāra-gamane ṣaṣ-paṇaḥ daṇḍaḥ . puruṣa-prekṣā-vihāra-gamane dvādaśa-paṇaḥ .. 03.3.21 ..
रात्रौ द्वि-गुणः ॥ ०३.३.२२ ॥
रात्रौ द्वि-गुणः ॥ ०३।३।२२ ॥
rātrau dvi-guṇaḥ .. 03.3.22 ..
सुप्त-मत्त-प्रव्रजने भर्तुरदाने च द्वारस्य द्वादश-पणः ॥ ०३.३.२३ ॥
सुप्त-मत्त-प्रव्रजने भर्तुः अदाने च द्वारस्य द्वादश-पणः ॥ ०३।३।२३ ॥
supta-matta-pravrajane bhartuḥ adāne ca dvārasya dvādaśa-paṇaḥ .. 03.3.23 ..
रात्रौ निष्कसने द्वि-गुणः ॥ ०३.३.२४ ॥
रात्रौ निष्कसने द्वि-गुणः ॥ ०३।३।२४ ॥
rātrau niṣkasane dvi-guṇaḥ .. 03.3.24 ..
स्त्री-पुंसयोर्मैथुन-अर्थेनाङ्ग-विचेष्टायां रहोअश्लील-सम्भाषायां वा चतुर्-विंशति-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः ॥ ०३.३.२५ ॥
स्त्री-पुंसयोः मैथुन-अर्थेन अङ्ग-विचेष्टायाम् रहः-अश्लील-सम्भाषायाम् वा चतुर्-विंशति-पणः स्त्रियाः दण्डः । पुंसः द्वि-गुणः ॥ ०३।३।२५ ॥
strī-puṃsayoḥ maithuna-arthena aṅga-viceṣṭāyām rahaḥ-aślīla-sambhāṣāyām vā catur-viṃśati-paṇaḥ striyāḥ daṇḍaḥ . puṃsaḥ dvi-guṇaḥ .. 03.3.25 ..
केश-नीवि-दन्त-नख-आलम्बनेषु पूर्वः साहस-दण्डः । पुंसो द्वि-गुणः ॥ ०३.३.२६ ॥
केश-नीवि-दन्त-नख-आलम्बनेषु पूर्वः साहस-दण्डः । पुंसः द्वि-गुणः ॥ ०३।३।२६ ॥
keśa-nīvi-danta-nakha-ālambaneṣu pūrvaḥ sāhasa-daṇḍaḥ . puṃsaḥ dvi-guṇaḥ .. 03.3.26 ..
शङ्कित-स्थाने सम्भाषायां च पण-स्थाने शिफा-दण्डः ॥ ०३.३.२७ ॥
शङ्कित-स्थाने सम्भाषायाम् च पण-स्थाने शिफा-दण्डः ॥ ०३।३।२७ ॥
śaṅkita-sthāne sambhāṣāyām ca paṇa-sthāne śiphā-daṇḍaḥ .. 03.3.27 ..
स्त्रीणां ग्राम-मध्ये चण्डालः पक्ष-अन्तरे पञ्च-शिफा दद्यात् ॥ ०३.३.२८ ॥
स्त्रीणाम् ग्राम-मध्ये चण्डालः पक्ष-अन्तरे पञ्च-शिफाः दद्यात् ॥ ०३।३।२८ ॥
strīṇām grāma-madhye caṇḍālaḥ pakṣa-antare pañca-śiphāḥ dadyāt .. 03.3.28 ..
पणिकं वा प्रहारं मोक्षयेत् इत्यतीचारः । ॥ ०३.३.२९ ॥
पणिकम् वा प्रहारम् मोक्षयेत् इति अतीचारः । ॥ ०३।३।२९ ॥
paṇikam vā prahāram mokṣayet iti atīcāraḥ . .. 03.3.29 ..
प्रतिषिद्धयोः स्त्री-पुंसयोरन्योन्य-उपकारे क्षुद्रक-द्रव्याणां द्वादश-पणो दण्डः । स्थूलक-द्रव्याणां चतुर्-विंशति-पणः । हिरण्य-सुवर्णयोश्चतुष्-पञ्चाशत्-पणः स्त्रिया दण्डः । पुंसोर्द्वि-गुणः ॥ ०३.३.३० ॥
प्रतिषिद्धयोः स्त्री-पुंसयोः अन्योन्य-उपकारे क्षुद्रक-द्रव्याणाम् द्वादश-पणः दण्डः । स्थूलक-द्रव्याणाम् चतुर्-विंशति-पणः । हिरण्य-सुवर्णयोः चतुष्पञ्चाशत्-पणः स्त्रियाः दण्डः । पुंसोः द्वि-गुणः ॥ ०३।३।३० ॥
pratiṣiddhayoḥ strī-puṃsayoḥ anyonya-upakāre kṣudraka-dravyāṇām dvādaśa-paṇaḥ daṇḍaḥ . sthūlaka-dravyāṇām catur-viṃśati-paṇaḥ . hiraṇya-suvarṇayoḥ catuṣpañcāśat-paṇaḥ striyāḥ daṇḍaḥ . puṃsoḥ dvi-guṇaḥ .. 03.3.30 ..
त एवागम्ययोरर्ध-दण्डाः । तथा प्रतिषिद्ध-पुरुष-व्यवहारेषु च इति प्रतिषेधः । ॥ ०३.३.३१ ॥
ते एव अगम्ययोः अर्ध-दण्डाः । तथा प्रतिषिद्ध-पुरुष-व्यवहारेषु च इति प्रतिषेधः । ॥ ०३।३।३१ ॥
te eva agamyayoḥ ardha-daṇḍāḥ . tathā pratiṣiddha-puruṣa-vyavahāreṣu ca iti pratiṣedhaḥ . .. 03.3.31 ..
राज-द्विष्ट-अतिचाराभ्यां आत्म-अपक्रमणेन च । ॥ ०३.३.३२अ ब ॥
राज-द्विष्ट-अतिचाराभ्याम् आत्म-अपक्रमणेन च । ॥ ०३।३।३२अ ब ॥
rāja-dviṣṭa-aticārābhyām ātma-apakramaṇena ca . .. 03.3.32a ba ..
स्त्री-धन-आनीत-शुल्कानां अस्वाम्यं जायते स्त्रियाः ॥ ०३.३.३२च्द् ॥
स्त्री-धन-आनीत-शुल्कानाम् अस्वाम्यम् जायते स्त्रियाः ॥ ०३।३।३२च् ॥
strī-dhana-ānīta-śulkānām asvāmyam jāyate striyāḥ .. 03.3.32c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In