| |
|

This overlay will guide you through the buttons:

द्वादश-वर्षा स्त्री प्राप्त-व्यवहारा भवति । षोडश-वर्षः पुमान् ॥ ०३.३.०१ ॥
dvādaśa-varṣā strī prāpta-vyavahārā bhavati . ṣoḍaśa-varṣaḥ pumān .. 03.3.01 ..
अत ऊर्ध्वं अशुश्रूषायां द्वादश-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः इति शुश्रूषा । ॥ ०३.३.०२ ॥
ata ūrdhvaṃ aśuśrūṣāyāṃ dvādaśa-paṇaḥ striyā daṇḍaḥ . puṃso dvi-guṇaḥ iti śuśrūṣā . .. 03.3.02 ..
भर्मण्यायां अनिर्दिष्ट-कालायां ग्रास-आच्छादनं वाअधिकं यथा-पुरुष-परिवापं सविशेषं दद्यात् ॥ ०३.३.०३ ॥
bharmaṇyāyāṃ anirdiṣṭa-kālāyāṃ grāsa-ācchādanaṃ vāadhikaṃ yathā-puruṣa-parivāpaṃ saviśeṣaṃ dadyāt .. 03.3.03 ..
निर्दिष्ट-कालायां तदेव संख्याय बन्धं च दद्यात् ॥ ०३.३.०४ ॥
nirdiṣṭa-kālāyāṃ tadeva saṃkhyāya bandhaṃ ca dadyāt .. 03.3.04 ..
शुल्क-स्त्री-धन-आधिवेदनिकानां अनादाने च ॥ ०३.३.०५ ॥
śulka-strī-dhana-ādhivedanikānāṃ anādāne ca .. 03.3.05 ..
श्वशुर-कुल-प्रविष्टायां विभक्तायां वा नाभियोज्यः पतिः इति भर्म । ॥ ०३.३.०६ ॥
śvaśura-kula-praviṣṭāyāṃ vibhaktāyāṃ vā nābhiyojyaḥ patiḥ iti bharma . .. 03.3.06 ..
नष्टे "विनष्टे" "न्यङ्गे" "अपितृके" "अमातृके" इत्यनिर्देशेन विनय-ग्राहणं ॥ ०३.३.०७ ॥
naṣṭe "vinaṣṭe" "nyaṅge" "apitṛke" "amātṛke" ityanirdeśena vinaya-grāhaṇaṃ .. 03.3.07 ..
वेणु-दल-रज्जु-हस्तानां अन्यतमेन वा पृष्ठे त्रिराघातः ॥ ०३.३.०८ ॥
veṇu-dala-rajju-hastānāṃ anyatamena vā pṛṣṭhe trirāghātaḥ .. 03.3.08 ..
तस्यातिक्रमे वाग्-दण्ड-पारुष्य-दण्डाभ्यां अर्ध-दण्डाः ॥ ०३.३.०९ ॥
tasyātikrame vāg-daṇḍa-pāruṣya-daṇḍābhyāṃ ardha-daṇḍāḥ .. 03.3.09 ..
तदेव स्त्रिया भर्तरि प्रसिद्ध-दोषायाः ॥ ०३.३.१० ॥
tadeva striyā bhartari prasiddha-doṣāyāḥ .. 03.3.10 ..
ईर्ष्यया बाह्य-विहारेषु द्वारेष्वत्ययो यथा-निर्दिष्टः इति पारुष्यं । ॥ ०३.३.११ ॥
īrṣyayā bāhya-vihāreṣu dvāreṣvatyayo yathā-nirdiṣṭaḥ iti pāruṣyaṃ . .. 03.3.11 ..
भर्तारं द्विषती स्त्री सप्त-आर्तवान्यमण्डयमाना तदानीं एव स्थाप्यऽभरणं निधाय भर्तारं अन्यया सह शयानं अनुशयीत ॥ ०३.३.१२ ॥
bhartāraṃ dviṣatī strī sapta-ārtavānyamaṇḍayamānā tadānīṃ eva sthāpya'bharaṇaṃ nidhāya bhartāraṃ anyayā saha śayānaṃ anuśayīta .. 03.3.12 ..
भिक्षुक्य्-अन्वाधि-ज्ञाति-कुलानां अन्यतमे वा भर्ता द्विषन्स्त्रियं एकां अनुशयीत ॥ ०३.३.१३ ॥
bhikṣuky-anvādhi-jñāti-kulānāṃ anyatame vā bhartā dviṣanstriyaṃ ekāṃ anuśayīta .. 03.3.13 ..
दृष्ट-लिङ्गे मैथुन-अपहारे सवर्ण-अपसर्प-उपगमे वा मिथ्या-वादी द्वादश-पणं दद्यात् ॥ ०३.३.१४ ॥
dṛṣṭa-liṅge maithuna-apahāre savarṇa-apasarpa-upagame vā mithyā-vādī dvādaśa-paṇaṃ dadyāt .. 03.3.14 ..
अमोक्ष्या भर्तुरकामस्य द्विषती भार्या । भार्यायाश्च भर्ता ॥ ०३.३.१५ ॥
amokṣyā bharturakāmasya dviṣatī bhāryā . bhāryāyāśca bhartā .. 03.3.15 ..
परस्परं-द्वेषान्मोक्षः ॥ ०३.३.१६ ॥
parasparaṃ-dveṣānmokṣaḥ .. 03.3.16 ..
स्त्री-विप्रकाराद्वा पुरुषश्चेन्मोक्षं इच्छेद्यथा-गृहीतं अस्यै दद्यात् ॥ ०३.३.१७ ॥
strī-viprakārādvā puruṣaścenmokṣaṃ icchedyathā-gṛhītaṃ asyai dadyāt .. 03.3.17 ..
पुरुष-विप्रकाराद्वा स्त्री चेन्मोक्षं इच्छेन्नास्यै यथा-गृहीतं दद्यात् ॥ ०३.३.१८ ॥
puruṣa-viprakārādvā strī cenmokṣaṃ icchennāsyai yathā-gṛhītaṃ dadyāt .. 03.3.18 ..
अमोक्षो धर्म-विवाहानां इति द्वेषः । ॥ ०३.३.१९ ॥
amokṣo dharma-vivāhānāṃ iti dveṣaḥ . .. 03.3.19 ..
प्रतिषिद्धा स्त्री दर्प-मद्य-क्रीडायां त्रि-पणं दण्डं दद्यात् ॥ ०३.३.२० ॥
pratiṣiddhā strī darpa-madya-krīḍāyāṃ tri-paṇaṃ daṇḍaṃ dadyāt .. 03.3.20 ..
दिवा स्त्री-प्रेक्षा-विहार-गमने षट्-पणो दण्डः । पुरुष-प्रेक्षा-विहार-गमने द्वादश-पणः ॥ ०३.३.२१ ॥
divā strī-prekṣā-vihāra-gamane ṣaṭ-paṇo daṇḍaḥ . puruṣa-prekṣā-vihāra-gamane dvādaśa-paṇaḥ .. 03.3.21 ..
रात्रौ द्वि-गुणः ॥ ०३.३.२२ ॥
rātrau dvi-guṇaḥ .. 03.3.22 ..
सुप्त-मत्त-प्रव्रजने भर्तुरदाने च द्वारस्य द्वादश-पणः ॥ ०३.३.२३ ॥
supta-matta-pravrajane bharturadāne ca dvārasya dvādaśa-paṇaḥ .. 03.3.23 ..
रात्रौ निष्कसने द्वि-गुणः ॥ ०३.३.२४ ॥
rātrau niṣkasane dvi-guṇaḥ .. 03.3.24 ..
स्त्री-पुंसयोर्मैथुन-अर्थेनाङ्ग-विचेष्टायां रहोअश्लील-सम्भाषायां वा चतुर्-विंशति-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः ॥ ०३.३.२५ ॥
strī-puṃsayormaithuna-arthenāṅga-viceṣṭāyāṃ rahoaślīla-sambhāṣāyāṃ vā catur-viṃśati-paṇaḥ striyā daṇḍaḥ . puṃso dvi-guṇaḥ .. 03.3.25 ..
केश-नीवि-दन्त-नख-आलम्बनेषु पूर्वः साहस-दण्डः । पुंसो द्वि-गुणः ॥ ०३.३.२६ ॥
keśa-nīvi-danta-nakha-ālambaneṣu pūrvaḥ sāhasa-daṇḍaḥ . puṃso dvi-guṇaḥ .. 03.3.26 ..
शङ्कित-स्थाने सम्भाषायां च पण-स्थाने शिफा-दण्डः ॥ ०३.३.२७ ॥
śaṅkita-sthāne sambhāṣāyāṃ ca paṇa-sthāne śiphā-daṇḍaḥ .. 03.3.27 ..
स्त्रीणां ग्राम-मध्ये चण्डालः पक्ष-अन्तरे पञ्च-शिफा दद्यात् ॥ ०३.३.२८ ॥
strīṇāṃ grāma-madhye caṇḍālaḥ pakṣa-antare pañca-śiphā dadyāt .. 03.3.28 ..
पणिकं वा प्रहारं मोक्षयेत् इत्यतीचारः । ॥ ०३.३.२९ ॥
paṇikaṃ vā prahāraṃ mokṣayet ityatīcāraḥ . .. 03.3.29 ..
प्रतिषिद्धयोः स्त्री-पुंसयोरन्योन्य-उपकारे क्षुद्रक-द्रव्याणां द्वादश-पणो दण्डः । स्थूलक-द्रव्याणां चतुर्-विंशति-पणः । हिरण्य-सुवर्णयोश्चतुष्-पञ्चाशत्-पणः स्त्रिया दण्डः । पुंसोर्द्वि-गुणः ॥ ०३.३.३० ॥
pratiṣiddhayoḥ strī-puṃsayoranyonya-upakāre kṣudraka-dravyāṇāṃ dvādaśa-paṇo daṇḍaḥ . sthūlaka-dravyāṇāṃ catur-viṃśati-paṇaḥ . hiraṇya-suvarṇayoścatuṣ-pañcāśat-paṇaḥ striyā daṇḍaḥ . puṃsordvi-guṇaḥ .. 03.3.30 ..
त एवागम्ययोरर्ध-दण्डाः । तथा प्रतिषिद्ध-पुरुष-व्यवहारेषु च इति प्रतिषेधः । ॥ ०३.३.३१ ॥
ta evāgamyayorardha-daṇḍāḥ . tathā pratiṣiddha-puruṣa-vyavahāreṣu ca iti pratiṣedhaḥ . .. 03.3.31 ..
राज-द्विष्ट-अतिचाराभ्यां आत्म-अपक्रमणेन च । ॥ ०३.३.३२अ ब ॥
rāja-dviṣṭa-aticārābhyāṃ ātma-apakramaṇena ca . .. 03.3.32a ba ..
स्त्री-धन-आनीत-शुल्कानां अस्वाम्यं जायते स्त्रियाः ॥ ०३.३.३२च्द् ॥
strī-dhana-ānīta-śulkānāṃ asvāmyaṃ jāyate striyāḥ .. 03.3.32cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In