| |
|

This overlay will guide you through the buttons:

पति-कुलान्निष्पतितायाः स्त्रियाः षट्-पणो दण्डः । अन्यत्र विप्रकारात् ॥ ०३.४.०१ ॥
पति-कुलात् निष्पतितायाः स्त्रियाः षष्-पणः दण्डः । अन्यत्र विप्रकारात् ॥ ०३।४।०१ ॥
pati-kulāt niṣpatitāyāḥ striyāḥ ṣaṣ-paṇaḥ daṇḍaḥ . anyatra viprakārāt .. 03.4.01 ..
प्रतिषिद्धायां द्वादश-पणः ॥ ०३.४.०२ ॥
प्रतिषिद्धायाम् द्वादश-पणः ॥ ०३।४।०२ ॥
pratiṣiddhāyām dvādaśa-paṇaḥ .. 03.4.02 ..
प्रतिवेश-गृह-अतिगतायाः षट्-पणः ॥ ०३.४.०३ ॥
प्रतिवेश-गृह-अतिगतायाः षष्-पणः ॥ ०३।४।०३ ॥
prativeśa-gṛha-atigatāyāḥ ṣaṣ-paṇaḥ .. 03.4.03 ..
प्रातिवेशिक-भिक्षुक-वैदेहकानां अवकाश-भिक्षा-पण्य-दाने द्वादश-पणो दण्डः ॥ ०३.४.०४ ॥
प्रातिवेशिक-भिक्षुक-वैदेहकानाम् अवकाश-भिक्षा-पण्य-दाने द्वादश-पणः दण्डः ॥ ०३।४।०४ ॥
prātiveśika-bhikṣuka-vaidehakānām avakāśa-bhikṣā-paṇya-dāne dvādaśa-paṇaḥ daṇḍaḥ .. 03.4.04 ..
प्रतिषिद्धानां पूर्वः साहस-दण्डः ॥ ०३.४.०५ ॥
प्रतिषिद्धानाम् पूर्वः साहस-दण्डः ॥ ०३।४।०५ ॥
pratiṣiddhānām pūrvaḥ sāhasa-daṇḍaḥ .. 03.4.05 ..
पर-गृह-अतिगतायाश्चतुर्-विंशति-पणः ॥ ०३.४.०६ ॥
पर-गृह-अतिगतायाः चतुर्-विंशति-पणः ॥ ०३।४।०६ ॥
para-gṛha-atigatāyāḥ catur-viṃśati-paṇaḥ .. 03.4.06 ..
पर-भार्या-अवकाश-दाने शत्यो दण्डः । अन्यत्रऽपद्भ्यः ॥ ०३.४.०७ ॥
पर-भार्या-अवकाश-दाने शत्यः दण्डः । अन्यत्र अ पद्भ्यः ॥ ०३।४।०७ ॥
para-bhāryā-avakāśa-dāne śatyaḥ daṇḍaḥ . anyatra a padbhyaḥ .. 03.4.07 ..
वारण-अज्ञानयोर्निर्दोषः ॥ ०३.४.०८ ॥
वारण-अज्ञानयोः निर्दोषः ॥ ०३।४।०८ ॥
vāraṇa-ajñānayoḥ nirdoṣaḥ .. 03.4.08 ..
पति-विप्रकारात्पति-ज्ञाति-सुख-अवस्थ-ग्रामिक-अन्वाधि-भिक्षुकी-ज्ञाति-कुलानां अन्यतमं अपुरुषं गन्तुं अदोषः इति आचार्याः ॥ ०३.४.०९ ॥
पति-विप्रकारात् पति-ज्ञाति-सुख-अवस्थ-ग्रामिक-अन्वाधि-भिक्षुकी-ज्ञाति-कुलानाम् अन्यतमम् अपुरुषम् गन्तुम् अदोषः इति आचार्याः ॥ ०३।४।०९ ॥
pati-viprakārāt pati-jñāti-sukha-avastha-grāmika-anvādhi-bhikṣukī-jñāti-kulānām anyatamam apuruṣam gantum adoṣaḥ iti ācāryāḥ .. 03.4.09 ..
सपुरुषं वा ज्ञाति-कुलं ॥ ०३.४.१० ॥
स पुरुषम् वा ज्ञाति-कुलम् ॥ ०३।४।१० ॥
sa puruṣam vā jñāti-kulam .. 03.4.10 ..
कुतो हि साध्वी-जनस्यच्छलं ॥ ०३.४.११ ॥
कुतस् हि साध्वी-जनस्य अ छलम् ॥ ०३।४।११ ॥
kutas hi sādhvī-janasya a chalam .. 03.4.11 ..
सुखं एतदवबोद्धुम् । इति कौटिल्यः ॥ ०३.४.१२ ॥
सुखम् एतत् अवबोद्धुम् । इति कौटिल्यः ॥ ०३।४।१२ ॥
sukham etat avaboddhum . iti kauṭilyaḥ .. 03.4.12 ..
प्रेत-व्याधि-व्यसन-गर्भ-निमित्तं अप्रतिषिद्धं एव ज्ञाति-कुल-गमनं ॥ ०३.४.१३ ॥
प्रेत-व्याधि-व्यसन-गर्भ-निमित्तम् अप्रतिषिद्धम् एव ज्ञाति-कुल-गमनम् ॥ ०३।४।१३ ॥
preta-vyādhi-vyasana-garbha-nimittam apratiṣiddham eva jñāti-kula-gamanam .. 03.4.13 ..
तन्-निमित्तं वारयतो द्वादश-पणो दण्डः ॥ ०३.४.१४ ॥
तद्-निमित्तम् वारयतः द्वादश-पणः दण्डः ॥ ०३।४।१४ ॥
tad-nimittam vārayataḥ dvādaśa-paṇaḥ daṇḍaḥ .. 03.4.14 ..
तत्रापि गूहमाना स्त्री-धनं जीयेत । ज्ञातयो वा छादयन्तः शुल्क-शेषं इति निष्पतनं । ॥ ०३.४.१५ ॥
तत्र अपि गूहमाना स्त्री-धनम् जीयेत । ज्ञातयः वा छादयन्तः शुल्क-शेषम् इति निष्पतनम् । ॥ ०३।४।१५ ॥
tatra api gūhamānā strī-dhanam jīyeta . jñātayaḥ vā chādayantaḥ śulka-śeṣam iti niṣpatanam . .. 03.4.15 ..
पति-कुलान्निष्पत्य ग्राम-अन्तर-गमने द्वादश-पणो दण्डः स्थाप्या-आभरण-लोपश्च ॥ ०३.४.१६ ॥
पति-कुलात् निष्पत्य ग्राम-अन्तर-गमने द्वादश-पणः दण्डः स्थाप्या-आभरण-लोपः च ॥ ०३।४।१६ ॥
pati-kulāt niṣpatya grāma-antara-gamane dvādaśa-paṇaḥ daṇḍaḥ sthāpyā-ābharaṇa-lopaḥ ca .. 03.4.16 ..
गम्येन वा पुंसा सह प्रस्थाने चतुर्-विंशति-पणः सर्व-धर्म-लोपश्च । अन्यत्र भर्म-दान-तीर्थ-गमनाभ्यां ॥ ०३.४.१७ ॥
गम्येन वा पुंसा सह प्रस्थाने चतुर्-विंशति-पणः सर्व-धर्म-लोपः च । अन्यत्र भर्म-दान-तीर्थ-गमनाभ्याम् ॥ ०३।४।१७ ॥
gamyena vā puṃsā saha prasthāne catur-viṃśati-paṇaḥ sarva-dharma-lopaḥ ca . anyatra bharma-dāna-tīrtha-gamanābhyām .. 03.4.17 ..
पुंसः पूर्वः साहस-दण्डः तुल्य-श्रेयसोः । पापीयसो मध्यमः ॥ ०३.४.१८ ॥
पुंसः पूर्वः साहस-दण्डः तुल्य-श्रेयसोः । पापीयसः मध्यमः ॥ ०३।४।१८ ॥
puṃsaḥ pūrvaḥ sāhasa-daṇḍaḥ tulya-śreyasoḥ . pāpīyasaḥ madhyamaḥ .. 03.4.18 ..
बन्धुर्-अदण्ड्यः ॥ ०३.४.१९ ॥
बन्धुः अ दण्ड्यः ॥ ०३।४।१९ ॥
bandhuḥ a daṇḍyaḥ .. 03.4.19 ..
प्रतिषेधेअर्ध-दण्डाः ॥ ०३.४.२० ॥
प्रतिषेधेअर्ध-दण्डाः ॥ ०३।४।२० ॥
pratiṣedheardha-daṇḍāḥ .. 03.4.20 ..
पथि व्यन्तरे गूढ-देश-अभिगमने मैथुन-अर्थेन शङ्कित-प्रतिषिद्धायां वा पथ्य्-अनुसरणे संग्रहणं विद्यात् ॥ ०३.४.२१ ॥
पथि व्यन्तरे गूढ-देश-अभिगमने मैथुन-अर्थेन शङ्कित-प्रतिषिद्धायाम् वा पथि अनुसरणे संग्रहणम् विद्यात् ॥ ०३।४।२१ ॥
pathi vyantare gūḍha-deśa-abhigamane maithuna-arthena śaṅkita-pratiṣiddhāyām vā pathi anusaraṇe saṃgrahaṇam vidyāt .. 03.4.21 ..
ताल-अवचर-चारण-मत्स्य-बन्धक-लुब्धक-गो-पालक-शौण्डिकानां अन्येषां च प्रसृष्ट-स्त्रीकाणां पथ्य्-अनुसरणं अदोषः ॥ ०३.४.२२ ॥
ताल-अवचर-चारण-मत्स्य-बन्धक-लुब्धक-गो-पालक-शौण्डिकानाम् अन्येषाम् च प्रसृष्ट-स्त्रीकाणाम् पथि अनुसरणम् अदोषः ॥ ०३।४।२२ ॥
tāla-avacara-cāraṇa-matsya-bandhaka-lubdhaka-go-pālaka-śauṇḍikānām anyeṣām ca prasṛṣṭa-strīkāṇām pathi anusaraṇam adoṣaḥ .. 03.4.22 ..
प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास्त एवार्ध-दण्डाः इति पथ्य्-अनुसरणं । ॥ ०३.४.२३ ॥
प्रतिषिद्धे वा नयतः पुंसः स्त्रियः वा गच्छन्त्याः ते एव अर्ध-दण्डाः इति पथि अनुसरणम् । ॥ ०३।४।२३ ॥
pratiṣiddhe vā nayataḥ puṃsaḥ striyaḥ vā gacchantyāḥ te eva ardha-daṇḍāḥ iti pathi anusaraṇam . .. 03.4.23 ..
ह्रस्व-प्रवासिनां शूद्र-वैश्य-क्षत्रिय-ब्राह्मणानां भार्याः संवत्सर-उत्तरं कालं आकाङ्क्षेरनप्रजाताः । संवत्सर-अधिकं प्रजाताः ॥ ०३.४.२४ ॥
ह्रस्व-प्रवासिनाम् शूद्र-वैश्य-क्षत्रिय-ब्राह्मणानाम् भार्याः संवत्सर-उत्तरम् कालम् आकाङ्क्षेरन् अप्रजाताः । संवत्सर-अधिकम् प्रजाताः ॥ ०३।४।२४ ॥
hrasva-pravāsinām śūdra-vaiśya-kṣatriya-brāhmaṇānām bhāryāḥ saṃvatsara-uttaram kālam ākāṅkṣeran aprajātāḥ . saṃvatsara-adhikam prajātāḥ .. 03.4.24 ..
प्रतिविहिता द्वि-गुणं कालं ॥ ०३.४.२५ ॥
प्रतिविहिताः द्वि-गुणम् कालम् ॥ ०३।४।२५ ॥
prativihitāḥ dvi-guṇam kālam .. 03.4.25 ..
अप्रतिविहिताः सुख-अवस्था बिभृयुः । परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः ॥ ०३.४.२६ ॥
अप्रतिविहिताः सुख-अवस्था बिभृयुः । परम् चत्वारि वर्षाणि अष्टौ वा ज्ञातयः ॥ ०३।४।२६ ॥
aprativihitāḥ sukha-avasthā bibhṛyuḥ . param catvāri varṣāṇi aṣṭau vā jñātayaḥ .. 03.4.26 ..
ततो यथा-दत्तं आदाय प्रमुञ्चेयुः ॥ ०३.४.२७ ॥
ततस् यथा दत्तम् आदाय प्रमुञ्चेयुः ॥ ०३।४।२७ ॥
tatas yathā dattam ādāya pramuñceyuḥ .. 03.4.27 ..
ब्राह्मणं अधीयानं दश-वर्षाण्यप्रजाता । द्वादश प्रजाता । राज-पुरुषं आयुः-क्षयादाकाङ्क्षेत ॥ ०३.४.२८ ॥
ब्राह्मणम् अधीयानम् दश वर्षाणि अप्रजाता । द्वादश प्रजाता । राज-पुरुषम् आयुः-क्षयात् आकाङ्क्षेत ॥ ०३।४।२८ ॥
brāhmaṇam adhīyānam daśa varṣāṇi aprajātā . dvādaśa prajātā . rāja-puruṣam āyuḥ-kṣayāt ākāṅkṣeta .. 03.4.28 ..
सवर्णतश्च प्रजाता नापवादं लभेत ॥ ०३.४.२९ ॥
सवर्णतः च प्रजाता न अपवादम् लभेत ॥ ०३।४।२९ ॥
savarṇataḥ ca prajātā na apavādam labheta .. 03.4.29 ..
कुटुम्ब-ऋद्धि-लोपे वा सुख-अवस्थैर्विमुक्ता यथा-इष्टं विन्देत । जीवित-अर्थं आपद्-गता वा ॥ ०३.४.३० ॥
कुटुम्ब-ऋद्धि-लोपे वा सुख-अवस्थैः विमुक्ता यथा इष्टम् विन्देत । जीवित-अर्थम् आपद्-गता वा ॥ ०३।४।३० ॥
kuṭumba-ṛddhi-lope vā sukha-avasthaiḥ vimuktā yathā iṣṭam vindeta . jīvita-artham āpad-gatā vā .. 03.4.30 ..
धर्म-विवाहात्कुमारी परिग्रहीतारं अनाख्याय प्रोषितं अश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं श्रूयमाणं ॥ ०३.४.३१ ॥
धर्म-विवाहात् कुमारी परिग्रहीतारम् अन् आख्याय प्रोषितम् अ श्रूयमाणम् सप्त तीर्थानि आकाङ्क्षेत । संवत्सरम् श्रूयमाणम् ॥ ०३।४।३१ ॥
dharma-vivāhāt kumārī parigrahītāram an ākhyāya proṣitam a śrūyamāṇam sapta tīrthāni ākāṅkṣeta . saṃvatsaram śrūyamāṇam .. 03.4.31 ..
आख्याय प्रोषितं अश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत । दश श्रूयमाणं ॥ ०३.४.३२ ॥
आख्याय प्रोषितम् अ श्रूयमाणम् पञ्च तीर्थानि आकाङ्क्षेत । दश श्रूयमाणम् ॥ ०३।४।३२ ॥
ākhyāya proṣitam a śrūyamāṇam pañca tīrthāni ākāṅkṣeta . daśa śrūyamāṇam .. 03.4.32 ..
एक-देश-दत्त-शुल्कं त्रीणि तीर्थान्यश्रूयमाणम् । श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत ॥ ०३.४.३३ ॥
एक-देश-दत्त-शुल्कम् त्रीणि तीर्थानि अ श्रूयमाणम् । श्रूयमाणम् सप्त तीर्थानि आकाङ्क्षेत ॥ ०३।४।३३ ॥
eka-deśa-datta-śulkam trīṇi tīrthāni a śrūyamāṇam . śrūyamāṇam sapta tīrthāni ākāṅkṣeta .. 03.4.33 ..
दत्त-शुल्कं पञ्च तीर्थान्यश्रूयमाणम् । दश श्रूयमाणं ॥ ०३.४.३४ ॥
दत्त-शुल्कम् पञ्च तीर्थानि अ श्रूयमाणम् । दश श्रूयमाणम् ॥ ०३।४।३४ ॥
datta-śulkam pañca tīrthāni a śrūyamāṇam . daśa śrūyamāṇam .. 03.4.34 ..
ततः परं धर्मस्थैर्विसृष्टा यथा-इष्टं विन्देत ॥ ०३.४.३५ ॥
ततस् परम् धर्मस्थैः विसृष्टा यथा इष्टम् विन्देत ॥ ०३।४।३५ ॥
tatas param dharmasthaiḥ visṛṣṭā yathā iṣṭam vindeta .. 03.4.35 ..
तीर्थ-उपरोधो हि धर्म-वध इति कौटिल्यः इति ह्रस्व-प्रवासः ॥ ०३.४.३६ ॥
तीर्थ-उपरोधः हि धर्म-वधः इति कौटिल्यः इति ह्रस्व-प्रवासः ॥ ०३।४।३६ ॥
tīrtha-uparodhaḥ hi dharma-vadhaḥ iti kauṭilyaḥ iti hrasva-pravāsaḥ .. 03.4.36 ..
दीर्घ-प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं प्रजाता ॥ ०३.४.३७ ॥
दीर्घ-प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थानि आकाङ्क्षेत । संवत्सरम् प्रजाता ॥ ०३।४।३७ ॥
dīrgha-pravāsinaḥ pravrajitasya pretasya vā bhāryā sapta tīrthāni ākāṅkṣeta . saṃvatsaram prajātā .. 03.4.37 ..
ततः पति-सोदर्यं गच्छेत् ॥ ०३.४.३८ ॥
ततस् पति-सोदर्यम् गच्छेत् ॥ ०३।४।३८ ॥
tatas pati-sodaryam gacchet .. 03.4.38 ..
बहुषु प्रत्यासन्नं धार्मिकं भर्म-समर्थं कनिष्ठं अभार्यं वा ॥ ०३.४.३९ ॥
बहुषु प्रत्यासन्नम् धार्मिकम् भर्म-समर्थम् कनिष्ठम् अभार्यम् वा ॥ ०३।४।३९ ॥
bahuṣu pratyāsannam dhārmikam bharma-samartham kaniṣṭham abhāryam vā .. 03.4.39 ..
तद्-अभावेअप्यसोदर्यं सपिण्डं कुल्यं वाआसन्नं ॥ ०३.४.४० ॥
तद्-अभावे अपि असोदर्यम् सपिण्डम् कुल्यम् वा आसन्नम् ॥ ०३।४।४० ॥
tad-abhāve api asodaryam sapiṇḍam kulyam vā āsannam .. 03.4.40 ..
एतेषां एष एव क्रमः ॥ ०३.४.४१ ॥
एतेषाम् एषः एव क्रमः ॥ ०३।४।४१ ॥
eteṣām eṣaḥ eva kramaḥ .. 03.4.41 ..
एतानुत्क्रम्य दायादान्वेदने जार-कर्मणि । ॥ ०३.४.४२अ ब ॥
एतान् उत्क्रम्य दायादान् वेदने जार-कर्मणि । ॥ ०३।४।४२अ ब ॥
etān utkramya dāyādān vedane jāra-karmaṇi . .. 03.4.42a ba ..
जार-स्त्री-दातृ-वेत्तारः सम्प्राप्ताः संग्रह-अत्ययं ॥ ०३.४.४२च्द् ॥
जार-स्त्री-दातृ-वेत्तारः सम्प्राप्ताः संग्रह-अत्ययम् ॥ ०३।४।४२च् ॥
jāra-strī-dātṛ-vettāraḥ samprāptāḥ saṃgraha-atyayam .. 03.4.42c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In