| |
|

This overlay will guide you through the buttons:

एक-स्त्री-पुत्राणां ज्येष्ठ-अंशः ब्राह्मणानां अजाः । क्षत्रियाणां अश्वाः । वैश्यानां गावः । शूद्राणां अवयः ॥ ०३.६.०१ ॥
एक-स्त्री-पुत्राणाम् ज्येष्ठ-अंशः ब्राह्मणानाम् अजाः । क्षत्रियाणाम् अश्वाः । वैश्यानाम् गावः । शूद्राणाम् अवयः ॥ ०३।६।०१ ॥
eka-strī-putrāṇām jyeṣṭha-aṃśaḥ brāhmaṇānām ajāḥ . kṣatriyāṇām aśvāḥ . vaiśyānām gāvaḥ . śūdrāṇām avayaḥ .. 03.6.01 ..
काण-लङ्गास्तेषां मध्यम-अंशः । भिन्न-वर्णाः कनिष्ठ-अंशः ॥ ०३.६.०२ ॥
काण-लङ्गाः तेषाम् मध्यम-अंशः । भिन्न-वर्णाः कनिष्ठ-अंशः ॥ ०३।६।०२ ॥
kāṇa-laṅgāḥ teṣām madhyama-aṃśaḥ . bhinna-varṇāḥ kaniṣṭha-aṃśaḥ .. 03.6.02 ..
चतुष्पद-अभावे रत्न-वर्जानां दशानां भागं द्रव्याणां एकं ज्येष्ठो हरेत् ॥ ०३.६.०३ ॥
चतुष्पद-अभावे रत्न-वर्जानाम् दशानाम् भागम् द्रव्याणाम् एकम् ज्येष्ठः हरेत् ॥ ०३।६।०३ ॥
catuṣpada-abhāve ratna-varjānām daśānām bhāgam dravyāṇām ekam jyeṣṭhaḥ haret .. 03.6.03 ..
प्रतिमुक्त-स्वधा-पाशो हि भवति ॥ ०३.६.०४ ॥
प्रतिमुक्त-स्वधा-पाशः हि भवति ॥ ०३।६।०४ ॥
pratimukta-svadhā-pāśaḥ hi bhavati .. 03.6.04 ..
इत्यौशनसो विभागः ॥ ०३.६.०५ ॥
इति औशनसः विभागः ॥ ०३।६।०५ ॥
iti auśanasaḥ vibhāgaḥ .. 03.6.05 ..
पितुः परिवापाद्यानं आभरणं च ज्येष्ठ-अंशः । शयन-आसनं भुक्त-कांस्यं च मध्यम-अंशः । कृष्णं धान्य-आयसं गृह-परिवापो गो-शकटं च कनिष्ठ-अंशः ॥ ०३.६.०६ ॥
पितुः परिवाप-अद्यानम् आभरणम् च ज्येष्ठ-अंशः । शयन-आसनम् भुक्त-कांस्यम् च मध्यम-अंशः । कृष्णम् धान्य-आयसम् गृह-परिवापः गो-शकटम् च कनिष्ठ-अंशः ॥ ०३।६।०६ ॥
pituḥ parivāpa-adyānam ābharaṇam ca jyeṣṭha-aṃśaḥ . śayana-āsanam bhukta-kāṃsyam ca madhyama-aṃśaḥ . kṛṣṇam dhānya-āyasam gṛha-parivāpaḥ go-śakaṭam ca kaniṣṭha-aṃśaḥ .. 03.6.06 ..
शेष-द्रव्याणां एक-द्रव्यस्य वा समो विभागः ॥ ०३.६.०७ ॥
शेष-द्रव्याणाम् एक-द्रव्यस्य वा समः विभागः ॥ ०३।६।०७ ॥
śeṣa-dravyāṇām eka-dravyasya vā samaḥ vibhāgaḥ .. 03.6.07 ..
अदायादा भगिन्यः । मातुः परिवापाद्भुक्त-कांस्य-आभरण-भागिन्यः ॥ ०३.६.०८ ॥
अ दायादाः भगिन्यः । मातुः परिवापात् भुक्त-कांस्य-आभरण-भागिन्यः ॥ ०३।६।०८ ॥
a dāyādāḥ bhaginyaḥ . mātuḥ parivāpāt bhukta-kāṃsya-ābharaṇa-bhāginyaḥ .. 03.6.08 ..
मानुष-हीनो ज्येष्ठस्तृतीयं अंशं ज्येष्ठ-अंशाल्लभेत । चतुर्थं अन्याय-वृत्तिः । निवृत्त-धर्म-कार्यो वा ॥ ०३.६.०९ ॥
मानुष-हीनः ज्येष्ठः तृतीयम् अंशम् ज्येष्ठ-अंशात् लभेत । चतुर्थम् अन्याय-वृत्तिः । निवृत्त-धर्म-कार्यः वा ॥ ०३।६।०९ ॥
mānuṣa-hīnaḥ jyeṣṭhaḥ tṛtīyam aṃśam jyeṣṭha-aṃśāt labheta . caturtham anyāya-vṛttiḥ . nivṛtta-dharma-kāryaḥ vā .. 03.6.09 ..
काम-आचारः सर्वं जीयेत ॥ ०३.६.१० ॥
काम-आचारः सर्वम् जीयेत ॥ ०३।६।१० ॥
kāma-ācāraḥ sarvam jīyeta .. 03.6.10 ..
तेन मध्यम-कनिष्ठौ व्याख्यातौ ॥ ०३.६.११ ॥
तेन मध्यम-कनिष्ठौ व्याख्यातौ ॥ ०३।६।११ ॥
tena madhyama-kaniṣṭhau vyākhyātau .. 03.6.11 ..
तयोर्मानुष-उपेतो ज्येष्ठ-अंशादर्धं लभेत ॥ ०३.६.१२ ॥
तयोः मानुष-उपेतः ज्येष्ठ-अंशात् अर्धम् लभेत ॥ ०३।६।१२ ॥
tayoḥ mānuṣa-upetaḥ jyeṣṭha-aṃśāt ardham labheta .. 03.6.12 ..
नाना-स्त्री-पुत्राणां तु संस्कृत-असंस्कृतयोः कन्या-कृत-क्षतयोरभावे च एकस्याः पुत्रयोर्यमयोर्वा पूर्व-जन्मना ज्येष्ठ-भावः ॥ ०३.६.१३ ॥
नाना स्त्री-पुत्राणाम् तु संस्कृत-असंस्कृतयोः कन्या-कृत-क्षतयोः अभावे च एकस्याः पुत्रयोः यमयोः वा पूर्व-जन्मना ज्येष्ठ-भावः ॥ ०३।६।१३ ॥
nānā strī-putrāṇām tu saṃskṛta-asaṃskṛtayoḥ kanyā-kṛta-kṣatayoḥ abhāve ca ekasyāḥ putrayoḥ yamayoḥ vā pūrva-janmanā jyeṣṭha-bhāvaḥ .. 03.6.13 ..
सूत-मागध-व्रात्य-रथ-काराणां ऐश्वर्यतो विभागः ॥ ०३.६.१४ ॥
सूत-मागध-व्रात्य-रथ-काराणाम् ऐश्वर्यतः विभागः ॥ ०३।६।१४ ॥
sūta-māgadha-vrātya-ratha-kārāṇām aiśvaryataḥ vibhāgaḥ .. 03.6.14 ..
शेषास्तं उपजीवेयुः ॥ ०३.६.१५ ॥
शेषाः तम् उपजीवेयुः ॥ ०३।६।१५ ॥
śeṣāḥ tam upajīveyuḥ .. 03.6.15 ..
अनीश्वराः सम-विभागाः ॥ ०३.६.१६ ॥
अनीश्वराः सम-विभागाः ॥ ०३।६।१६ ॥
anīśvarāḥ sama-vibhāgāḥ .. 03.6.16 ..
चातुर्वर्ण्य-पुत्राणां ब्राह्मणी-पुत्रश्चतुरोअंशान्हरेत् । क्षत्रिया-पुत्र-स्त्रीनंशान् । वैश्या-पुत्रो द्वावंशौ । एकं शूद्रा-पुत्रः ॥ ०३.६.१७ ॥
चातुर्वर्ण्य-पुत्राणाम् ब्राह्मणी-पुत्रः चतुरः अंशान् हरेत् । क्षत्रिया-पुत्र-स्त्रीन् अंशान् । वैश्या-पुत्रः द्वौ अंशौ । एकम् शूद्रा-पुत्रः ॥ ०३।६।१७ ॥
cāturvarṇya-putrāṇām brāhmaṇī-putraḥ caturaḥ aṃśān haret . kṣatriyā-putra-strīn aṃśān . vaiśyā-putraḥ dvau aṃśau . ekam śūdrā-putraḥ .. 03.6.17 ..
तेन त्रि-वर्ण-द्वि-वर्ण-पुत्र-विभागः क्षत्रिय-वैश्ययोर्व्याख्यातः ॥ ०३.६.१८ ॥
तेन त्रि-वर्ण-द्वि-वर्ण-पुत्र-विभागः क्षत्रिय-वैश्ययोः व्याख्यातः ॥ ०३।६।१८ ॥
tena tri-varṇa-dvi-varṇa-putra-vibhāgaḥ kṣatriya-vaiśyayoḥ vyākhyātaḥ .. 03.6.18 ..
ब्राह्मणस्यानन्तरा-पुत्रस्तुल्य-अंशः ॥ ०३.६.१९ ॥
ब्राह्मणस्य अनन्तरा-पुत्रः तुल्य-अंशः ॥ ०३।६।१९ ॥
brāhmaṇasya anantarā-putraḥ tulya-aṃśaḥ .. 03.6.19 ..
क्षत्रिय-वैश्ययोरर्ध-अंशः तुल्य-अंशो वा मानुष-उपेतः ॥ ०३.६.२० ॥
क्षत्रिय-वैश्ययोः अर्ध-अंशः तुल्य-अंशः वा मानुष-उपेतः ॥ ०३।६।२० ॥
kṣatriya-vaiśyayoḥ ardha-aṃśaḥ tulya-aṃśaḥ vā mānuṣa-upetaḥ .. 03.6.20 ..
तुल्य-अतुल्ययोरेक-पुत्रः सर्वं हरेत् । बन्धूंश्च बिभृयात् ॥ ०३.६.२१ ॥
तुल्य-अतुल्ययोः एक-पुत्रः सर्वम् हरेत् । बन्धून् च बिभृयात् ॥ ०३।६।२१ ॥
tulya-atulyayoḥ eka-putraḥ sarvam haret . bandhūn ca bibhṛyāt .. 03.6.21 ..
ब्राह्मणानां तु पारशवस्तृतीयं अंशं लभेत । द्वावंशौ सपिण्डः कुल्यो वाआसन्नः । स्वधा-दान-हेतोः ॥ ०३.६.२२ ॥
ब्राह्मणानाम् तु पारशवः तृतीयम् अंशम् लभेत । द्वौ अंशौ सपिण्डः कुल्यः वा आसन्नः । स्वधा-दान-हेतोः ॥ ०३।६।२२ ॥
brāhmaṇānām tu pāraśavaḥ tṛtīyam aṃśam labheta . dvau aṃśau sapiṇḍaḥ kulyaḥ vā āsannaḥ . svadhā-dāna-hetoḥ .. 03.6.22 ..
तद्-अभावे पितुराचार्योअन्तेवासी वा ॥ ०३.६.२३ ॥
तद्-अभावे पितुः आचार्यः अन्तेवासी वा ॥ ०३।६।२३ ॥
tad-abhāve pituḥ ācāryaḥ antevāsī vā .. 03.6.23 ..
क्षेत्रे वा जनयेदस्य नियुक्तः क्षेत्रजं सुतं । ॥ ०३.६.२४अ ब ॥
क्षेत्रे वा जनयेत् अस्य नियुक्तः क्षेत्रजम् सुतम् । ॥ ०३।६।२४अ ब ॥
kṣetre vā janayet asya niyuktaḥ kṣetrajam sutam . .. 03.6.24a ba ..
मातृ-बन्धुः सगोत्रो वा तस्मै तत्प्रदिशेद्धनं ॥ ०३.६.२४च्द् ॥
मातृ-बन्धुः सगोत्रः वा तस्मै तत् प्रदिशेत् धनम् ॥ ०३।६।२४च् ॥
mātṛ-bandhuḥ sagotraḥ vā tasmai tat pradiśet dhanam .. 03.6.24c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In