| |
|

This overlay will guide you through the buttons:

एक-स्त्री-पुत्राणां ज्येष्ठ-अंशः ब्राह्मणानां अजाः । क्षत्रियाणां अश्वाः । वैश्यानां गावः । शूद्राणां अवयः ॥ ०३.६.०१ ॥
eka-strī-putrāṇāṃ jyeṣṭha-aṃśaḥ brāhmaṇānāṃ ajāḥ . kṣatriyāṇāṃ aśvāḥ . vaiśyānāṃ gāvaḥ . śūdrāṇāṃ avayaḥ .. 03.6.01 ..
काण-लङ्गास्तेषां मध्यम-अंशः । भिन्न-वर्णाः कनिष्ठ-अंशः ॥ ०३.६.०२ ॥
kāṇa-laṅgāsteṣāṃ madhyama-aṃśaḥ . bhinna-varṇāḥ kaniṣṭha-aṃśaḥ .. 03.6.02 ..
चतुष्पद-अभावे रत्न-वर्जानां दशानां भागं द्रव्याणां एकं ज्येष्ठो हरेत् ॥ ०३.६.०३ ॥
catuṣpada-abhāve ratna-varjānāṃ daśānāṃ bhāgaṃ dravyāṇāṃ ekaṃ jyeṣṭho haret .. 03.6.03 ..
प्रतिमुक्त-स्वधा-पाशो हि भवति ॥ ०३.६.०४ ॥
pratimukta-svadhā-pāśo hi bhavati .. 03.6.04 ..
इत्यौशनसो विभागः ॥ ०३.६.०५ ॥
ityauśanaso vibhāgaḥ .. 03.6.05 ..
पितुः परिवापाद्यानं आभरणं च ज्येष्ठ-अंशः । शयन-आसनं भुक्त-कांस्यं च मध्यम-अंशः । कृष्णं धान्य-आयसं गृह-परिवापो गो-शकटं च कनिष्ठ-अंशः ॥ ०३.६.०६ ॥
pituḥ parivāpādyānaṃ ābharaṇaṃ ca jyeṣṭha-aṃśaḥ . śayana-āsanaṃ bhukta-kāṃsyaṃ ca madhyama-aṃśaḥ . kṛṣṇaṃ dhānya-āyasaṃ gṛha-parivāpo go-śakaṭaṃ ca kaniṣṭha-aṃśaḥ .. 03.6.06 ..
शेष-द्रव्याणां एक-द्रव्यस्य वा समो विभागः ॥ ०३.६.०७ ॥
śeṣa-dravyāṇāṃ eka-dravyasya vā samo vibhāgaḥ .. 03.6.07 ..
अदायादा भगिन्यः । मातुः परिवापाद्भुक्त-कांस्य-आभरण-भागिन्यः ॥ ०३.६.०८ ॥
adāyādā bhaginyaḥ . mātuḥ parivāpādbhukta-kāṃsya-ābharaṇa-bhāginyaḥ .. 03.6.08 ..
मानुष-हीनो ज्येष्ठस्तृतीयं अंशं ज्येष्ठ-अंशाल्लभेत । चतुर्थं अन्याय-वृत्तिः । निवृत्त-धर्म-कार्यो वा ॥ ०३.६.०९ ॥
mānuṣa-hīno jyeṣṭhastṛtīyaṃ aṃśaṃ jyeṣṭha-aṃśāllabheta . caturthaṃ anyāya-vṛttiḥ . nivṛtta-dharma-kāryo vā .. 03.6.09 ..
काम-आचारः सर्वं जीयेत ॥ ०३.६.१० ॥
kāma-ācāraḥ sarvaṃ jīyeta .. 03.6.10 ..
तेन मध्यम-कनिष्ठौ व्याख्यातौ ॥ ०३.६.११ ॥
tena madhyama-kaniṣṭhau vyākhyātau .. 03.6.11 ..
तयोर्मानुष-उपेतो ज्येष्ठ-अंशादर्धं लभेत ॥ ०३.६.१२ ॥
tayormānuṣa-upeto jyeṣṭha-aṃśādardhaṃ labheta .. 03.6.12 ..
नाना-स्त्री-पुत्राणां तु संस्कृत-असंस्कृतयोः कन्या-कृत-क्षतयोरभावे च एकस्याः पुत्रयोर्यमयोर्वा पूर्व-जन्मना ज्येष्ठ-भावः ॥ ०३.६.१३ ॥
nānā-strī-putrāṇāṃ tu saṃskṛta-asaṃskṛtayoḥ kanyā-kṛta-kṣatayorabhāve ca ekasyāḥ putrayoryamayorvā pūrva-janmanā jyeṣṭha-bhāvaḥ .. 03.6.13 ..
सूत-मागध-व्रात्य-रथ-काराणां ऐश्वर्यतो विभागः ॥ ०३.६.१४ ॥
sūta-māgadha-vrātya-ratha-kārāṇāṃ aiśvaryato vibhāgaḥ .. 03.6.14 ..
शेषास्तं उपजीवेयुः ॥ ०३.६.१५ ॥
śeṣāstaṃ upajīveyuḥ .. 03.6.15 ..
अनीश्वराः सम-विभागाः ॥ ०३.६.१६ ॥
anīśvarāḥ sama-vibhāgāḥ .. 03.6.16 ..
चातुर्वर्ण्य-पुत्राणां ब्राह्मणी-पुत्रश्चतुरोअंशान्हरेत् । क्षत्रिया-पुत्र-स्त्रीनंशान् । वैश्या-पुत्रो द्वावंशौ । एकं शूद्रा-पुत्रः ॥ ०३.६.१७ ॥
cāturvarṇya-putrāṇāṃ brāhmaṇī-putraścaturoaṃśānharet . kṣatriyā-putra-strīnaṃśān . vaiśyā-putro dvāvaṃśau . ekaṃ śūdrā-putraḥ .. 03.6.17 ..
तेन त्रि-वर्ण-द्वि-वर्ण-पुत्र-विभागः क्षत्रिय-वैश्ययोर्व्याख्यातः ॥ ०३.६.१८ ॥
tena tri-varṇa-dvi-varṇa-putra-vibhāgaḥ kṣatriya-vaiśyayorvyākhyātaḥ .. 03.6.18 ..
ब्राह्मणस्यानन्तरा-पुत्रस्तुल्य-अंशः ॥ ०३.६.१९ ॥
brāhmaṇasyānantarā-putrastulya-aṃśaḥ .. 03.6.19 ..
क्षत्रिय-वैश्ययोरर्ध-अंशः तुल्य-अंशो वा मानुष-उपेतः ॥ ०३.६.२० ॥
kṣatriya-vaiśyayorardha-aṃśaḥ tulya-aṃśo vā mānuṣa-upetaḥ .. 03.6.20 ..
तुल्य-अतुल्ययोरेक-पुत्रः सर्वं हरेत् । बन्धूंश्च बिभृयात् ॥ ०३.६.२१ ॥
tulya-atulyayoreka-putraḥ sarvaṃ haret . bandhūṃśca bibhṛyāt .. 03.6.21 ..
ब्राह्मणानां तु पारशवस्तृतीयं अंशं लभेत । द्वावंशौ सपिण्डः कुल्यो वाआसन्नः । स्वधा-दान-हेतोः ॥ ०३.६.२२ ॥
brāhmaṇānāṃ tu pāraśavastṛtīyaṃ aṃśaṃ labheta . dvāvaṃśau sapiṇḍaḥ kulyo vāāsannaḥ . svadhā-dāna-hetoḥ .. 03.6.22 ..
तद्-अभावे पितुराचार्योअन्तेवासी वा ॥ ०३.६.२३ ॥
tad-abhāve piturācāryoantevāsī vā .. 03.6.23 ..
क्षेत्रे वा जनयेदस्य नियुक्तः क्षेत्रजं सुतं । ॥ ०३.६.२४अ ब ॥
kṣetre vā janayedasya niyuktaḥ kṣetrajaṃ sutaṃ . .. 03.6.24a ba ..
मातृ-बन्धुः सगोत्रो वा तस्मै तत्प्रदिशेद्धनं ॥ ०३.६.२४च्द् ॥
mātṛ-bandhuḥ sagotro vā tasmai tatpradiśeddhanaṃ .. 03.6.24cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In