| |
|

This overlay will guide you through the buttons:

पर-परिग्रहे बीजं उत्सृष्टं क्षेत्रिणः इत्याचार्याः ॥ ०३.७.०१ ॥
पर-परिग्रहे बीजम् उत्सृष्टम् क्षेत्रिणः इति आचार्याः ॥ ०३।७।०१ ॥
para-parigrahe bījam utsṛṣṭam kṣetriṇaḥ iti ācāryāḥ .. 03.7.01 ..
माता भस्त्रा । यस्य रेतस्तस्यापत्यम् इत्यपरे ॥ ०३.७.०२ ॥
माता भस्त्रा । यस्य रेतः तस्य अपत्यम् इति अपरे ॥ ०३।७।०२ ॥
mātā bhastrā . yasya retaḥ tasya apatyam iti apare .. 03.7.02 ..
विद्यमानं उभयं इति कौटिल्यः ॥ ०३.७.०३ ॥
विद्यमानम् उभयम् इति कौटिल्यः ॥ ०३।७।०३ ॥
vidyamānam ubhayam iti kauṭilyaḥ .. 03.7.03 ..
स्वयं-जातः कृत-क्रियायां औरसः ॥ ०३.७.०४ ॥
स्वयम् जातः कृत-क्रियायाम् औरसः ॥ ०३।७।०४ ॥
svayam jātaḥ kṛta-kriyāyām aurasaḥ .. 03.7.04 ..
तेन तुल्यः पुत्रिका-पुत्रः ॥ ०३.७.०५ ॥
तेन तुल्यः पुत्रिका-पुत्रः ॥ ०३।७।०५ ॥
tena tulyaḥ putrikā-putraḥ .. 03.7.05 ..
सगोत्रेणान्य-गोत्रेण वा नियुक्तेन क्षेत्र-जातः क्षेत्रजः पुत्रः ॥ ०३.७.०६ ॥
सगोत्रेण अन्य-गोत्रेण वा नियुक्तेन क्षेत्र-जातः क्षेत्रजः पुत्रः ॥ ०३।७।०६ ॥
sagotreṇa anya-gotreṇa vā niyuktena kṣetra-jātaḥ kṣetrajaḥ putraḥ .. 03.7.06 ..
जनयितुरसत्यन्यस्मिन्पुत्रे स एव द्वि-पितृको द्वि-गोत्रो वा द्वयोरपि स्वधा-रिक्थ-भाग्भवति ॥ ०३.७.०७ ॥
जनयितुः असति अन्यस्मिन् पुत्रे सः एव द्वि-पितृकः द्वि-गोत्रः वा द्वयोः अपि स्वधा-रिक्थ-भाज् भवति ॥ ०३।७।०७ ॥
janayituḥ asati anyasmin putre saḥ eva dvi-pitṛkaḥ dvi-gotraḥ vā dvayoḥ api svadhā-riktha-bhāj bhavati .. 03.7.07 ..
तत्-सधर्मा बन्धूनां गृहे गूढ-जातस्तु गूढजः ॥ ०३.७.०८ ॥
तद्-सधर्मा बन्धूनाम् गृहे गूढ-जातः तु गूढजः ॥ ०३।७।०८ ॥
tad-sadharmā bandhūnām gṛhe gūḍha-jātaḥ tu gūḍhajaḥ .. 03.7.08 ..
बन्धुनाउत्सृष्टोअपविद्धः संस्कर्तुः पुत्रः ॥ ०३.७.०९ ॥
बन्धुना अ उत्सृष्टः अ अपविद्धः संस्कर्तुः पुत्रः ॥ ०३।७।०९ ॥
bandhunā a utsṛṣṭaḥ a apaviddhaḥ saṃskartuḥ putraḥ .. 03.7.09 ..
कन्या-गर्भः कानीनः ॥ ०३.७.१० ॥
कन्या-गर्भः कानीनः ॥ ०३।७।१० ॥
kanyā-garbhaḥ kānīnaḥ .. 03.7.10 ..
सगर्भ-ऊढायाः सह-ऊढः ॥ ०३.७.११ ॥
सगर्भ-ऊढायाः सह ऊढः ॥ ०३।७।११ ॥
sagarbha-ūḍhāyāḥ saha ūḍhaḥ .. 03.7.11 ..
पुनर्-भूतायाः पौनर्भवः ॥ ०३.७.१२ ॥
पुनर् भूतायाः पौनर्भवः ॥ ०३।७।१२ ॥
punar bhūtāyāḥ paunarbhavaḥ .. 03.7.12 ..
स्वयं-जातः पितुर्बन्धूनां च दायादः ॥ ०३.७.१३ ॥
स्वयम् जातः पितुः बन्धूनाम् च दायादः ॥ ०३।७।१३ ॥
svayam jātaḥ pituḥ bandhūnām ca dāyādaḥ .. 03.7.13 ..
पर-जातः संस्कर्तुरेव न बन्धूनां ॥ ०३.७.१४ ॥
पर-जातः संस्कर्तुः एव न बन्धूनाम् ॥ ०३।७।१४ ॥
para-jātaḥ saṃskartuḥ eva na bandhūnām .. 03.7.14 ..
तत्-सधर्मा माता-पितृभ्यां अद्भिर्मुक्तो दत्तः ॥ ०३.७.१५ ॥
तद्-सधर्मा माता-पितृभ्याम् अद्भिः मुक्तः दत्तः ॥ ०३।७।१५ ॥
tad-sadharmā mātā-pitṛbhyām adbhiḥ muktaḥ dattaḥ .. 03.7.15 ..
स्वयं बन्धुभिर्वा पुत्र-भाव-उपगत उपगतः ॥ ०३.७.१६ ॥
स्वयम् बन्धुभिः वा पुत्र-भाव-उपगतः उपगतः ॥ ०३।७।१६ ॥
svayam bandhubhiḥ vā putra-bhāva-upagataḥ upagataḥ .. 03.7.16 ..
पुत्रत्वेअधिकृतः कृतकः ॥ ०३.७.१७ ॥
पुत्र-त्वे अधिकृतः कृतकः ॥ ०३।७।१७ ॥
putra-tve adhikṛtaḥ kṛtakaḥ .. 03.7.17 ..
परिक्रीतः क्रीतः इति । ॥ ०३.७.१८ ॥
परिक्रीतः क्रीतः इति । ॥ ०३।७।१८ ॥
parikrītaḥ krītaḥ iti . .. 03.7.18 ..
औरसे तुउत्पन्ने सवर्णास्तृतीय-अंश-हराः । असवर्णा ग्रास-आच्छादन-भागिनः ॥ ०३.७.१९ ॥
औरसे तु उत्पन्ने सवर्णाः तृतीय-अंश-हराः । असवर्णाः ग्रास-आच्छादन-भागिनः ॥ ०३।७।१९ ॥
aurase tu utpanne savarṇāḥ tṛtīya-aṃśa-harāḥ . asavarṇāḥ grāsa-ācchādana-bhāginaḥ .. 03.7.19 ..
ब्राह्मण-क्षत्रिययोरनन्तरा-पुत्राः सवर्णाः । एक-अन्तरा असवर्णाः ॥ ०३.७.२० ॥
ब्राह्मण-क्षत्रिययोः अनन्तरा-पुत्राः सवर्णाः । एक-अन्तराः असवर्णाः ॥ ०३।७।२० ॥
brāhmaṇa-kṣatriyayoḥ anantarā-putrāḥ savarṇāḥ . eka-antarāḥ asavarṇāḥ .. 03.7.20 ..
ब्राह्मणस्य वैश्यायां अम्बष्ठः । शूद्रायां निषादः पारशवो वा ॥ ०३.७.२१ ॥
ब्राह्मणस्य वैश्यायाम् अम्बष्ठः । शूद्रायाम् निषादः पारशवः वा ॥ ०३।७।२१ ॥
brāhmaṇasya vaiśyāyām ambaṣṭhaḥ . śūdrāyām niṣādaḥ pāraśavaḥ vā .. 03.7.21 ..
क्षत्रियस्य शूद्रायां उग्रः ॥ ०३.७.२२ ॥
क्षत्रियस्य शूद्रायाम् उग्रः ॥ ०३।७।२२ ॥
kṣatriyasya śūdrāyām ugraḥ .. 03.7.22 ..
शूद्र एव वैश्यस्य ॥ ०३.७.२३ ॥
शूद्रः एव वैश्यस्य ॥ ०३।७।२३ ॥
śūdraḥ eva vaiśyasya .. 03.7.23 ..
सवर्णासु चएषां अचरित-व्रतेभ्यो जाता व्रात्याः ॥ ०३.७.२४ ॥
सवर्णासु च एषाम् अ चरित-व्रतेभ्यः जाताः व्रात्याः ॥ ०३।७।२४ ॥
savarṇāsu ca eṣām a carita-vratebhyaḥ jātāḥ vrātyāḥ .. 03.7.24 ..
इत्यनुलोमाः ॥ ०३.७.२५ ॥
इति अनुलोमाः ॥ ०३।७।२५ ॥
iti anulomāḥ .. 03.7.25 ..
शूद्रादायोगव-क्षत्त-चण्डालाः ॥ ०३.७.२६ ॥
शूद्र-आदायोगव-क्षत्त-चण्डालाः ॥ ०३।७।२६ ॥
śūdra-ādāyogava-kṣatta-caṇḍālāḥ .. 03.7.26 ..
वैश्यान्मागध-वैदेहकौ ॥ ०३.७.२७ ॥
वैश्यात् मागध-वैदेहकौ ॥ ०३।७।२७ ॥
vaiśyāt māgadha-vaidehakau .. 03.7.27 ..
क्षत्रियात्सूतः ॥ ०३.७.२८ ॥
क्षत्रियात् सूतः ॥ ०३।७।२८ ॥
kṣatriyāt sūtaḥ .. 03.7.28 ..
पौराणिकस्त्वन्यः सूतो मागधश्च । ब्रह्म-क्षत्राद्विशेषः ॥ ०३.७.२९ ॥
पौराणिकः तु अन्यः सूतः मागधः च । ब्रह्म-क्षत्रात् विशेषः ॥ ०३।७।२९ ॥
paurāṇikaḥ tu anyaḥ sūtaḥ māgadhaḥ ca . brahma-kṣatrāt viśeṣaḥ .. 03.7.29 ..
त एते प्रतिलोमाः स्वधर्म-अतिक्रमाद्राज्ञः सम्भवन्ति ॥ ०३.७.३० ॥
ते एते प्रतिलोमाः स्वधर्म-अतिक्रमात् राज्ञः सम्भवन्ति ॥ ०३।७।३० ॥
te ete pratilomāḥ svadharma-atikramāt rājñaḥ sambhavanti .. 03.7.30 ..
उग्रान्नैषाद्यां कुक्कुटः । विपर्यये पुल्कसः ॥ ०३.७.३१ ॥
उग्रात् नैषाद्याम् कुक्कुटः । विपर्यये पुल्कसः ॥ ०३।७।३१ ॥
ugrāt naiṣādyām kukkuṭaḥ . viparyaye pulkasaḥ .. 03.7.31 ..
वैदेहिकायां अम्बष्ठाद्वैणः । विपर्यये कुशीलवः ॥ ०३.७.३२ ॥
वैदेहिकायाम् अम्बष्ठात् वैणः । विपर्यये कुशीलवः ॥ ०३।७।३२ ॥
vaidehikāyām ambaṣṭhāt vaiṇaḥ . viparyaye kuśīlavaḥ .. 03.7.32 ..
क्षत्तायां उग्रात्श्व-पाकः ॥ ०३.७.३३ ॥
क्षत्तायाम् उग्रात्श्व-पाकः ॥ ०३।७।३३ ॥
kṣattāyām ugrātśva-pākaḥ .. 03.7.33 ..
इत्येतेअन्ये चान्तरालाः ॥ ०३.७.३४ ॥
इति एते अन्ये च अन्तरालाः ॥ ०३।७।३४ ॥
iti ete anye ca antarālāḥ .. 03.7.34 ..
कर्मणा वैश्यो रथ-कारः ॥ ०३.७.३५ ॥
कर्मणा वैश्यः रथ-कारः ॥ ०३।७।३५ ॥
karmaṇā vaiśyaḥ ratha-kāraḥ .. 03.7.35 ..
तेषां स्व-योनौ विवाहः । पूर्व-अपर-गामित्वं वृत्त-अनुवृत्तं च ॥ ०३.७.३६ ॥
तेषाम् स्व-योनौ विवाहः । पूर्व-अपर-गामि-त्वम् वृत्त-अनुवृत्तम् च ॥ ०३।७।३६ ॥
teṣām sva-yonau vivāhaḥ . pūrva-apara-gāmi-tvam vṛtta-anuvṛttam ca .. 03.7.36 ..
शूद्र-सधर्माणो वा । अन्यत्र चण्डालेभ्यः ॥ ०३.७.३७ ॥
शूद्र-सधर्माणः वा । अन्यत्र चण्डालेभ्यः ॥ ०३।७।३७ ॥
śūdra-sadharmāṇaḥ vā . anyatra caṇḍālebhyaḥ .. 03.7.37 ..
केवलं एवं वर्तमानः स्वर्गं आप्नोति राजा । नरकं अन्यथा ॥ ०३.७.३८ ॥
केवलम् एवम् वर्तमानः स्वर्गम् आप्नोति राजा । नरकम् अन्यथा ॥ ०३।७।३८ ॥
kevalam evam vartamānaḥ svargam āpnoti rājā . narakam anyathā .. 03.7.38 ..
सर्वेषां अन्तरालानां समो विभागः ॥ ०३.७.३९ ॥
सर्वेषाम् अन्तरालानाम् समः विभागः ॥ ०३।७।३९ ॥
sarveṣām antarālānām samaḥ vibhāgaḥ .. 03.7.39 ..
देशस्य जात्याः संघस्य धर्मो ग्रामस्य वाअपि यः । ॥ ०३.७.४०अ ब ॥
देशस्य जात्याः संघस्य धर्मः ग्रामस्य वा अपि यः । ॥ ०३।७।४०अ ब ॥
deśasya jātyāḥ saṃghasya dharmaḥ grāmasya vā api yaḥ . .. 03.7.40a ba ..
उचितस्तस्य तेनएव दाय-धर्मं प्रकल्पयेत् ॥ ०३.७.४०च्द् ॥
उचितः तस्य तेन एव दाय-धर्मम् प्रकल्पयेत् ॥ ०३।७।४०च् ॥
ucitaḥ tasya tena eva dāya-dharmam prakalpayet .. 03.7.40c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In