| |
|

This overlay will guide you through the buttons:

सामन्त-प्रत्यया वास्तु-विवादाः ॥ ०३.८.०१ ॥
सामन्त-प्रत्ययाः वास्तु-विवादाः ॥ ०३।८।०१ ॥
sāmanta-pratyayāḥ vāstu-vivādāḥ .. 03.8.01 ..
गृहं क्षेत्रं आरामः सेतु-बन्धस्तटाकं आधारो वा वास्तुः ॥ ०३.८.०२ ॥
गृहम् क्षेत्रम् आरामः सेतु-बन्धः तटाकम् आधारः वा वास्तुः ॥ ०३।८।०२ ॥
gṛham kṣetram ārāmaḥ setu-bandhaḥ taṭākam ādhāraḥ vā vāstuḥ .. 03.8.02 ..
कर्ण-कील-आयस-सम्बन्धोअनुगृहं सेतुः ॥ ०३.८.०३ ॥
कर्ण-कील-आयस-सम्बन्धः अनुगृहम् सेतुः ॥ ०३।८।०३ ॥
karṇa-kīla-āyasa-sambandhaḥ anugṛham setuḥ .. 03.8.03 ..
यथा-सेतु-भोगं वेश्म कारयेत् ॥ ०३.८.०४ ॥
यथा सेतु-भोगम् वेश्म कारयेत् ॥ ०३।८।०४ ॥
yathā setu-bhogam veśma kārayet .. 03.8.04 ..
अभूतं वा पर-कुड्यादपक्रम्य द्वावरत्नी त्रिपदीं वा देश-बन्धं कारयेत् ॥ ०३.८.०५ ॥
अभूतम् वा पर-कुड्यात् अपक्रम्य द्वौ अरत्नी त्रिपदीम् वा देश-बन्धम् कारयेत् ॥ ०३।८।०५ ॥
abhūtam vā para-kuḍyāt apakramya dvau aratnī tripadīm vā deśa-bandham kārayet .. 03.8.05 ..
अवस्करं भ्रमं उद-पानं वा न गृह-उचितादन्यत्र । अन्यत्र सूतिका-कूपादा-निर्दश-अहादिति ॥ ०३.८.०६ ॥
अवस्करम् भ्रमम् उद-पानम् वा न गृह-उचितात् अन्यत्र । अन्यत्र सूतिका-कूप-आदा-निर्दश-अहात् इति ॥ ०३।८।०६ ॥
avaskaram bhramam uda-pānam vā na gṛha-ucitāt anyatra . anyatra sūtikā-kūpa-ādā-nirdaśa-ahāt iti .. 03.8.06 ..
तस्यातिक्रमे पूर्वः साहस-दण्डः ॥ ०३.८.०७ ॥
तस्य अतिक्रमे पूर्वः साहस-दण्डः ॥ ०३।८।०७ ॥
tasya atikrame pūrvaḥ sāhasa-daṇḍaḥ .. 03.8.07 ..
तेनैन्धनावघातन-कृतं कल्याण-कृत्येष्वाचाम-उदक-मार्गाश्च व्याख्याताः ॥ ०३.८.०८ ॥
तेन एन्धन-अवघातन-कृतम् कल्याण-कृत्येषु आचाम-उदक-मार्गाः च व्याख्याताः ॥ ०३।८।०८ ॥
tena endhana-avaghātana-kṛtam kalyāṇa-kṛtyeṣu ācāma-udaka-mārgāḥ ca vyākhyātāḥ .. 03.8.08 ..
त्रिपदी-प्रतिक्रान्तं अध्यर्धं अरत्निं वा गाढ-प्रसृतं उदक-मार्गं प्रस्रवण-प्रपातं वा कारयेत् ॥ ०३.८.०९ ॥
त्रिपदी-प्रतिक्रान्तम् अध्यर्धम् अरत्निम् वा गाढ-प्रसृतम् उदक-मार्गम् प्रस्रवण-प्रपातम् वा कारयेत् ॥ ०३।८।०९ ॥
tripadī-pratikrāntam adhyardham aratnim vā gāḍha-prasṛtam udaka-mārgam prasravaṇa-prapātam vā kārayet .. 03.8.09 ..
तस्यातिक्रमे चतुष्-पञ्चाशत्-पणो दण्डः ॥ ०३.८.१० ॥
तस्य अतिक्रमे चतुष्पञ्चाशत्-पणः दण्डः ॥ ०३।८।१० ॥
tasya atikrame catuṣpañcāśat-paṇaḥ daṇḍaḥ .. 03.8.10 ..
एकपदी-प्रतिक्रान्तं अरत्निं वा चक्रि-चतुष्पद-स्थानं अग्निष्ठं उदन्-जर-स्थानं रोचनीं कुट्टनीं वा कारयेत् ॥ ०३.८.११ ॥
एकपदी-प्रतिक्रान्तम् अरत्निम् वा चक्रि-चतुष्पद-स्थानम् अग्निष्ठम् उदन्-जर-स्थानम् रोचनीम् कुट्टनीम् वा कारयेत् ॥ ०३।८।११ ॥
ekapadī-pratikrāntam aratnim vā cakri-catuṣpada-sthānam agniṣṭham udan-jara-sthānam rocanīm kuṭṭanīm vā kārayet .. 03.8.11 ..
तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ॥ ०३.८.१२ ॥
तस्य अतिक्रमे चतुर्-विंशति-पणः दण्डः ॥ ०३।८।१२ ॥
tasya atikrame catur-viṃśati-paṇaḥ daṇḍaḥ .. 03.8.12 ..
सर्व-वास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा ॥ ०३.८.१३ ॥
सर्व-वास्तुकयोः प्राक्षिप्तकयोः वा शालयोः किष्कुः अन्तरिका त्रिपदी वा ॥ ०३।८।१३ ॥
sarva-vāstukayoḥ prākṣiptakayoḥ vā śālayoḥ kiṣkuḥ antarikā tripadī vā .. 03.8.13 ..
तयोश्चतुर्-अङ्गुलं नीप्र-अन्तरम्<नीव्र-अन्तरम्?> समारूढकं वा ॥ ०३.८.१४ ॥
तयोः चतुर्-अङ्गुलम् नीप्र-अन्तरम्<नीव्र-अन्तरम्?> समारूढकम् वा ॥ ०३।८।१४ ॥
tayoḥ catur-aṅgulam nīpra-antaram<nīvra-antaram?> samārūḍhakam vā .. 03.8.14 ..
किष्कु-मात्रं आणि-द्वारं अन्तरिकायां खण्ड-फुल्ल-अर्थं असम्पातं कारयेत् ॥ ०३.८.१५ ॥
किष्कु-मात्रम् आणि-द्वारम् अन्तरिकायाम् खण्ड-फुल्ल-अर्थम् अ सम्पातम् कारयेत् ॥ ०३।८।१५ ॥
kiṣku-mātram āṇi-dvāram antarikāyām khaṇḍa-phulla-artham a sampātam kārayet .. 03.8.15 ..
प्रकाश-अर्थं अल्पं ऊर्ध्वं वात-अयनं कारयेत् ॥ ०३.८.१६ ॥
प्रकाश-अर्थम् अल्पम् ऊर्ध्वम् वात-अयनम् कारयेत् ॥ ०३।८।१६ ॥
prakāśa-artham alpam ūrdhvam vāta-ayanam kārayet .. 03.8.16 ..
तद्-अवसिते वेश्मनिच्छादयेत् ॥ ०३.८.१७ ॥
तद्-अवसिते वेश्मनि छादयेत् ॥ ०३।८।१७ ॥
tad-avasite veśmani chādayet .. 03.8.17 ..
सम्भूय वा गृह-स्वामिनो यथा-इष्टं कारयेयुः । अनिष्टं वारयेयुः ॥ ०३.८.१८ ॥
सम्भूय वा गृह-स्वामिनः यथा इष्टम् कारयेयुः । अनिष्टम् वारयेयुः ॥ ०३।८।१८ ॥
sambhūya vā gṛha-svāminaḥ yathā iṣṭam kārayeyuḥ . aniṣṭam vārayeyuḥ .. 03.8.18 ..
वान-लट्याश्चऊर्ध्वं आवार्य-भागं कट-प्रच्छन्नं अवमर्श-भित्तिं वा कारयेद्वर्ष-आबाध-भयात् ॥ ०३.८.१९ ॥
आवार्य-भागम् कट-प्रच्छन्नम् अवमर्श-भित्तिम् वा कारयेत् वर्ष-आबाध-भयात् ॥ ०३।८।१९ ॥
āvārya-bhāgam kaṭa-pracchannam avamarśa-bhittim vā kārayet varṣa-ābādha-bhayāt .. 03.8.19 ..
तस्यातिक्रमे पूर्वः साहस-दण्डः । प्रतिलोम-द्वार-वात-अयन-बाधायां च । अन्यत्र राज-मार्ग-रथ्याभ्यः ॥ ०३.८.२० ॥
तस्य अतिक्रमे पूर्वः साहस-दण्डः । प्रतिलोम-द्वार-वात-अयन-बाधायाम् च । अन्यत्र राज-मार्ग-रथ्याभ्यः ॥ ०३।८।२० ॥
tasya atikrame pūrvaḥ sāhasa-daṇḍaḥ . pratiloma-dvāra-vāta-ayana-bādhāyām ca . anyatra rāja-mārga-rathyābhyaḥ .. 03.8.20 ..
खात-सोपान-प्रणाली-निश्रेण्य्-अवस्कर-भागैर्बहिर्-बाधायां भोग-निग्रहे च ॥ ०३.८.२१ ॥
खात-सोपान-प्रणाली-निश्रेणी-अवस्कर-भागैः बहिस् बाधायाम् भोग-निग्रहे च ॥ ०३।८।२१ ॥
khāta-sopāna-praṇālī-niśreṇī-avaskara-bhāgaiḥ bahis bādhāyām bhoga-nigrahe ca .. 03.8.21 ..
पर-कुड्यं उदकेनौपघ्नतो द्वादश-पणो दण्डः । मूत्र-पुरीष-उपघाते द्वि-गुणः ॥ ०३.८.२२ ॥
पर-कुड्यम् उदकेन औपघ्नतः द्वादश-पणः दण्डः । मूत्र-पुरीष-उपघाते द्वि-गुणः ॥ ०३।८।२२ ॥
para-kuḍyam udakena aupaghnataḥ dvādaśa-paṇaḥ daṇḍaḥ . mūtra-purīṣa-upaghāte dvi-guṇaḥ .. 03.8.22 ..
प्रणाली-मोक्षो वर्षति । अन्यथा द्वादश-पणो दण्डः ॥ ०३.८.२३ ॥
प्रणाली-मोक्षः वर्षति । अन्यथा द्वादश-पणः दण्डः ॥ ०३।८।२३ ॥
praṇālī-mokṣaḥ varṣati . anyathā dvādaśa-paṇaḥ daṇḍaḥ .. 03.8.23 ..
प्रतिषिद्धस्य च वसतः । निरस्यतश्चावक्रयिणं अन्यत्र पारुष्य-स्तेय-साहस-संग्रहण-मिथ्या-भोगेभ्यः ॥ ०३.८.२४ ॥
प्रतिषिद्धस्य च वसतः । निरस्यतः च अवक्रयिणम् अन्यत्र पारुष्य-स्तेय-साहस-संग्रहण-मिथ्या भोगेभ्यः ॥ ०३।८।२४ ॥
pratiṣiddhasya ca vasataḥ . nirasyataḥ ca avakrayiṇam anyatra pāruṣya-steya-sāhasa-saṃgrahaṇa-mithyā bhogebhyaḥ .. 03.8.24 ..
स्वयं-अभिप्रस्थितो वर्ष-अवक्रय-शेषं दद्यात् ॥ ०३.८.२५ ॥
स्वयम् अभिप्रस्थितः वर्ष-अवक्रय-शेषम् दद्यात् ॥ ०३।८।२५ ॥
svayam abhiprasthitaḥ varṣa-avakraya-śeṣam dadyāt .. 03.8.25 ..
सामान्ये वेश्मनि साहाय्यं अप्रयच्छतः । सामान्यं उपरुन्धतो भोगं च गृहे द्वादश-पणो दण्डः ॥ ०३.८.२६ ॥
सामान्ये वेश्मनि साहाय्यम् अप्रयच्छतः । सामान्यम् उपरुन्धतः भोगम् च गृहे द्वादश-पणः दण्डः ॥ ०३।८।२६ ॥
sāmānye veśmani sāhāyyam aprayacchataḥ . sāmānyam uparundhataḥ bhogam ca gṛhe dvādaśa-paṇaḥ daṇḍaḥ .. 03.8.26 ..
विनाशयतस्तद्-द्वि-गुणः ॥ ०३.८.२७ ॥
विनाशयतः तद्-द्वि-गुणः ॥ ०३।८।२७ ॥
vināśayataḥ tad-dvi-guṇaḥ .. 03.8.27 ..
कोष्ठक-अङ्गण-वर्चानां अग्नि-कुट्टन-शालयोः । ॥ ०३.८.२८अ ब ॥
कोष्ठक-अङ्गण-वर्चानाम् अग्नि-कुट्टन-शालयोः । ॥ ०३।८।२८अ ब ॥
koṣṭhaka-aṅgaṇa-varcānām agni-kuṭṭana-śālayoḥ . .. 03.8.28a ba ..
विवृतानां च सर्वेषां सामान्यो भोग इष्यते ॥ ०३.८.२८च्द् ॥
विवृतानाम् च सर्वेषाम् सामान्यः भोगः इष्यते ॥ ०३।८।२८च् ॥
vivṛtānām ca sarveṣām sāmānyaḥ bhogaḥ iṣyate .. 03.8.28c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In